ॐ अनावृत्तिश्शब्दादनावृत्तिश्शब्दात् ॐ
११. अनावृत्त्यधिकरणम्
सूत्रभाष्यम्
।। ॐ अनावृत्तिश्शब्दादनावृत्तिश्शब्दात् ॐ ।। २३ ।।
‘न च पुनरावर्तते न च पुनरावर्तते,’ ‘सर्वान्कामानाप्त्वाऽमृतः समभवत्समभवत्’ इत्यादिश्रुतिभ्यः ।।
।। इति अनावृत्त्यधिकरणम् ।। ११ ।।
ज्ञानानन्दादिभिः सर्वैर्गुणैः पूर्णाय विष्णवे ।
नमोऽस्तु गुरवे नित्यं सर्वथाऽतिप्रियाय मे ।।
यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यलं
बट् तद्दर्शतमित्थमेव निहितं देवस्य भर्गो महत् ।
वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपु
र्मध्वो यत्तु तृतीयकं कृतमिदं भाष्यं हरौ तेन हि ।।
नित्यानन्दो हरिः पूर्णो नित्यदा प्रीयतां मम ।
नमस्तस्मै नमस्तस्मै नमस्तस्मै च विष्णवे ।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
श्रीमद्ब्रह्मसूत्रभाष्ये चतुर्थाध्यायस्य चतुर्थः पादः ।।
तत्त्वप्रदीपिका
स्थानान्तरेभ्य इव तस्माद्यदा कदाचिदपि नैवावृत्तिः शङ्कनीयेत्याह– अनावृत्तिः शब्दादनावृत्तिः शब्दात् ।। ‘स खल्वेवं वर्तयन्यावदायुषं ब्रह्मलोकमभिसम्पद्यते । न च पुनरावर्तते न च पुनरावर्तते,’ ‘स एवं विद्वानस्माच्छरीरभेदादूर्ध्वं उत्क्रम्यामुष्मिन्स्वर्गे लोके सर्वान्कामानाप्त्वाऽमृतः समभव-त्समभवत्’ ‘यो वा एतामेवं वेदापहत्य पाप्मानमन्ते स्वर्गे लोके ज्येये प्रतितिष्ठति प्रतितिष्ठति’ इत्यादिश्रुतिभ्यः । अत्र सम्भवो भोगः । श्रीमन्महैतरेयोपनिषद्भाष्ये च– ‘‘स्वरानन्दो विष्णुरत्रग इति स्वर्गलोको विष्णुलोकः । अमृतः सन्सर्वान्कामानाप्त्वा तानेव सर्वान्कामान्समभवत् अनुभवति । अपेक्षितवस्तुस्वीकार आप्तिः । सम्भवो भोगः । ‘तां समभवत्ततो मनुष्या अजायन्त’ इत्यादिवत् । मुक्त्यनन्तरमेव ह्यनुपचरितसर्वकामावाप्तिः । मुख्य एव चार्थः स्वीकार्यः । अमुक्तानां विष्णुलोकगमनेऽपि न सर्वकामावाप्तिः । जयविजयादीनामप्रियदर्शनात् । अतोऽमृतः सन्सर्वान्कामानाप्त्वेत्यर्थः ।
‘मुक्तः कामानवाप्नोति भुङ्क्ते चैव यथेष्टतः ।
सर्वानपि निरातङ्कः सर्वदा च हरेर्वश’ इति सत्तत्वे ।।
‘अनारब्धफलानां च प्रारब्धानां च सर्वशः ।
कर्मणां दाह एवायं मुक्तिरित्यभिधीयते ।।
स तु मुक्तस्ततो देहादुद्गच्छति परात्मना ।
प्रेरितो विष्णुलोकञ्च प्राप्य भोगानवाप्य च ।।
भुङ्क्ते विष्णुप्रसादेन न विष्णोरवशः क्वचित् ।
विष्णुतन्त्रा इमे सर्वे मुक्ता अपि यतोऽखिला’ इति ब्रह्माण्डे ।।
ऐतरेयसंहितायां च–
‘प्रकृष्टज्ञानरूपस्य प्रसादात्परमात्मनः ।
अस्माल्लोकात्समुत्क्रम्य गत्वोर्ध्वं लोकमुत्तमम् ।।
अमृतः सन्विष्णुलोके भोगन्सम्प्राप्य पुष्कलान् ।
भुङ्क्ते यथेष्टतो नित्यमिति वेदानुशासनम्’ इति ।। इत्यनावृत्त्यधिकरणम्
इदानीं परिसमापितभाष्यो भगवान्भगवत्तमवेदव्यासशिष्यप्रकरपुरस्सरः सकलसुमनो-मनोवारिजप्रबोधप्रभाकरः समस्तवेदार्थमीमांसकवरचूडामणिः प्रतिवादिवारणपतिदर्पविदारण-सिंहराजः परमात्मतत्वविज्ञानगुरुपरमाचार्य आत्मनः स्वरूपं ज्ञानाधिकारिणां विज्ञापयन् स्वकृतं च भगवति नारायणे समर्पयन्नाह–
यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यलं
बट् तद्दर्शतमित्थमेव निहितं देवस्य भर्गो महत् ।
वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपुः
मध्वो यत्तु तृतीयमेतदमुना भाष्यं कृतं केशवे ।।
तस्य वायोर्यदेतत्तृतीयं रूपं अमुना रूपेण केशवे भगवति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्राणां भाष्यं कृतम् । यस्य वेदवचने त्रीणि रूपाण्युदितानि । अलं दिव्यानि अत्यन्तं प्रकाशवन्ति स्तुत्यानि देवसेव्यानि च । बट् तद्दर्शतमित्यादिनाऽर्थसङ्ग्रहणात्मकेन तद्वेदवाक्यं लक्षयति । तत्सहसो देवस्य वायोः स्वरूपं महाबलं ज्ञानात्मकं ततम् । इत्थं वक्ष्यमाणप्रकारेण वपुषेऽवतारायाधायि भगव-दिच्छया स्वबुद्ध्या च । यतो भारतिज्ञानात्मकत्वाद्भर्गाख्यं ब्रह्माभिव्यक्तमभूत् । अथवा यतो देवात्स्वयमजनि तस्य विष्णोर्देवस्य भर्तृ गन्तृ च । तत्र प्रथममृतस्य शश्वदेकप्रकारस्य रामस्याऽज्ञा-प्रणेतृ यद्रूपं तस्य समीपमेकान्ततः प्राप्नोति साधयति च तत्कार्यम् । सदा च नित्यप्रत्यक्षस्य तस्य समीपगत एव ह्ययं मतिशब्दितो हनुमान् । अद्यापि हि सिद्धगन्धर्वपरिगीतसततरमणात्मकसकल-सज्जनमनोरमणरामाभिधेयरमारमणगुणगणामृतरसास्वादमहोत्सव समुद्भूतहर्षाश्रुगद्गदपुलकाकुलितः किम्पुरुषे खण्डे तिष्ठतीति वदन्ति ।।
तस्यैव क्षितिभारभूतप्रभूतबलदुर्दमदुष्टजनसंहरणकृतावतारस्य कृष्णस्य सहकारि पृतनाक्षयकारि पृक्षो द्वितीयं वपुः ।।
तृतीयं मध्व इत्युच्यते । ‘मध्वित्यानन्द उद्दिष्टो वेति तीर्थमुदाहृतम्’ इत्युक्तम् । अतः श्रीमदानन्दतीर्थभगवत्पादाचार्य इत्यर्थः । यस्यास्खलितानवरतवेदशास्त्रव्याख्यानश्रवणकौतुक-समुत्खातदुःखसङ्घातो निखिलपण्डितवर्गो महामृतसमुद्रावगाहीव बहुलमाह्लादमाप्नोति । एतदिति सन्निहितत्वात् । अमुनैतेन विष्ण्वाख्यपरब्रह्मप्रतिपादकं श्रीमद्भाष्यं कृतमित्यर्थः ।।
प्रारब्धशास्त्रपरिसमाप्तिस्तत्प्रसादादेवेति प्रकटयन्नन्तेऽपि देवतागुरुप्रणतिमाचरति–
ज्ञानानन्दादिभिः सर्वैर्गुणैः पूर्णाय विष्णवे ।
नमोऽस्तु गुरवे नित्यं सर्वथाऽतिप्रियाय मे ।।
ज्ञानानन्दादिभिर्भक्तप्रबोधानन्दनादिभिः ।
गुणैरगण्यैः पूर्णाय नमो नारायणाय ते ।।
दुःखाज्ञानादिरहिता सुखज्ञानादयो गुणाः ।
सदा यस्यापरिमिताः तं नतोऽस्मि गुरोर्गुरुम् ।।
देशे काले च सर्वस्मिन्सर्वावस्थासु सर्वतः ।
यः प्रियोऽभ्यधिको विष्णुर्गुरोस्तं प्रणतोऽस्म्यहम् ।।
प्रणमत पदपद्मं व्यासदेवस्य विष्णो
र्विधिमुखविबुधश्रीमौलिसङ्क्रान्तरेणुः ।
गुरुरयममितार्थं यत्प्रसादैकबन्धु
र्व्यधित परमविद्याभाष्यमीरोत्तमांशः ।। १ ।।
त्रिजगति विलसन्तस्सन्ततध्वान्तमन्त
र्द्युमणय इव दूराद्दारयन्तः समन्तात् ।
निखिलनिगमभर्तुः सूत्रकर्तुः परेशः
पदकमलपरागाः पान्तु नः पावयन्तः ।। २ ।।
यद्वाक्प्रसारपरमामृतपानतृप्ताः
सन्तः सदा सकलदुःखरुजोऽतितीर्य ।
नित्यानुभूतिमदपारसुखैकरूपाः
क्रीडन्ति तं परमकारुणिकं नताः स्मः ।। ३ ।।
श्रीमन्महागुरुपदाम्बुजरेणुपुञ्जैः
मूर्ध्नाऽभिषेकमधिगम्य धृतानुभावः ।
तत्वे सुदुर्ग इह भाष्यवरस्य टीका
माज्ञाबलादकृषि लेशत एष तेषाम् ।। ४ ।।
सद्युक्तिरत्नरुचिरामधिरुह्य भाष्य
निःश्रेणिमुल्बणतमस्तरणैकहेतुम् ।
लब्ध्वाऽनुभाष्यमणिदण्डकरावलम्बं
भाष्यानुभाष्यमुखतत्कृतिरत्नदीपैः ।। ५ ।।
प्राप्य प्रकाशितमहं परमाख्यविद्या
प्रासादवर्यसदनस्य पदारविन्दम् ।
सम्प्रीतये भगवतः परमस्य भक्त्या
सत्तत्वदीपमिममत्र समर्पयामि ।। ६ ।।
तत्वाशेषविशेषदीपकतमेष्वेतेषु दीपेष्वयं
तेभ्यः सम्भृत आत्मभातवपुषः स्यात्प्रीतयेऽप्यल्पकः ।
पूर्णानन्दभुगीश्वरः सुरगणैः सम्पद्गिराऽराधित
स्तुष्येत्तुष्यति चाल्पयोपहृतया भक्त्या पयोविप्लुषा ।। ७ ।।
निःश्रेणितां निलयतां मणिदीपतां च
दीपान्तरप्रभवकारणतां च याता ।
हस्तावलम्बपदतां च तदेवमेषा
कृत्स्ना कृतिर्गुणनिधेरिह भाष्यकर्तुः ।। ८ ।।
सर्वानुवादमिह नाकरवं प्रतीकं
नाप्यग्रहीषमलसः प्रतिभाष्यमेषः ।
तस्यापि मेऽत्र भवतश्चरणाश्रितस्य
ह्याज्ञाकृतिः सुकृतिरस्तु गुरोः कृपालोः ।। ९ ।।
नमस्तस्मै नमस्तस्मै समस्तस्वामिनेऽस्तु ते ।
नमस्तस्मै च यस्तस्मै नमस्कर्ता गुरुस्सदा ।। १० ।।
।। इति श्रीमदानन्दतीर्थभगवत्पादविरचितस्य श्रीमद्ब्रह्मसूत्रभाष्यस्य टीकायां
त्रिविक्रमार्यकृतौ तत्त्वदीपिकायां चतुर्थाध्यायस्य चतुर्थः पादः ।।
तत्त्वप्रकाशिका
अत्र ब्रह्म प्राप्य भोगान् भुञ्जानस्य मुक्तस्यापुनरावृत्तिसमर्थनादस्ति शास्त्रादिसङ्गतिः । प्रकृतो मुक्त एवात्र विषयः । किं तस्य पुनरावृत्तिरस्ति न वेति सन्देहः । उभयथा सम्भवः सन्देहबीजम् । अस्ति मुक्तस्य पुनरावृत्तिरिति पूर्वः पक्षः । स्वर्गादिगतानां पुनरावृत्तिदर्शनात् । न च स्वर्गादि-गतानां युगमन्वन्तरादिमात्रवासित्वाद्युक्ता पुनरावृत्तिर्न मुक्तस्य तस्य समस्तकालवासित्वादिति वाच्यम् । समस्तस्यापि कदाचित्समाप्तिसम्भवात् । न च कालस्यानन्तत्वात्तत्समाप्त्ययोगः । भारतयुद्धे त्रयोदश्या एव पञ्चदशीत्वदर्शनात् । तत्र तिथित्रयस्य युगपत्समाप्तिवदनन्तत्वेऽपि कालस्य समस्तस्यापि युगपत्समाप्तिसम्भवात् । अतो मुक्तौ पुनरावृत्तिसद्भावादपुरुषार्थता मुक्तेरिति । सिद्धान्तयत्सूत्रमुपन्यस्य तदुपात्तश्रुतीरेवोदाहरति ।। अनावृत्तिरिति ।। न मुक्तस्य पुनरावृत्तिः । ‘न च पुनरावर्तत’ इति श्रुतेः । किं च मुक्तस्य सर्वकामावाप्तिः श्रूयते ।। सर्वान्कामानिति ।। ततश्च न तस्य पुनरावृत्तिः । न हि कश्चित्पुमान्पुनरावृत्तिकामोऽस्तीति भावः । समस्तकाल-समाप्तिस्तु व्याहतत्वादुपेक्षणीयैव । समस्तशास्त्रावधारणार्था सूत्रस्यैव द्विरुक्तिः । अतो मुक्तानां पुनरावृत्त्यभावाद्युक्तं मुक्तेः पुरुषार्थत्वमिति सिद्धम् ।।
तदेवं विरक्तिभक्त्युपास्तिजनितभगवत्साक्षात्कारोदिततत्प्रसादादशेषपुरुषार्थप्रवरकैवल्यसिद्धे-रशेषगुणपूर्णतया निर्दोषतया च भगवान्नारायणो जिज्ञास्य इत्यशेषमतिमङ्गलम् ।
अथायं भाष्यकारो यं गुणगणार्णवतया प्रतिपादितवान्यच्छिष्यतया चैतादृशीमतिविशदां संविदं लब्धवान्यस्मिंश्चात्मनो निरुपाधिकप्रीतिस्तमेव देवतात्वेन गुरुत्वेन चान्तेऽपि नमति ।। ज्ञानेति ।।
अथ स्वभाषितभाष्यस्याप्तिमूलत्वसमर्थनाय श्रुतिप्रसिद्धं स्वस्य परमाप्तत्वं दर्शयन्नाह ।। यस्येति ।। तस्य वायोर्देवस्य बत्थिेत्यादिवेदवचने क्रीडादिगुणयुक्तानि त्रीणि रूपाण्युदितानि तस्य यत्तृतीयं रूपं तेनेदं भाष्यं हरिविषयतया कृतमित्यन्वयः । कीदृशं चास्य मूलरूपं कानि च त्रीणि रूपाणि कीदृशानीति तत्राह ।। अलमिति ।। यदस्य वायोर्मूलरूपं बट् बलात्मकं दर्शतं ज्ञानरूपं भर्गो जगद्भरणगमनगुणं महन्महनीयं तदित्थंभूतमेव रूपत्रयावताराय भगवता निहितं प्रेरितमवतीर्णं च । तत्र प्रथमं हनुमदाख्यं वपुः रामस्य वचांसि सीतां प्रति नीतवत् । रामविषयवचांसि मूलरामायण-रूपाणि शिष्येषु नीतवत् । रामवचसि यो नयो न्यायः आज्ञारूपस्तद्युक्तं वा । द्वितीयं वपुर्भीमनामकं कुरु पृतनाक्षयकरम् । तृतीयं तु वपुरानन्दरूपस्य हरेः प्रतिपादकशास्त्रनिर्मातृ-मध्वाभिधमिति । अतः परमाप्ततमप्रणीतत्वादिदं भाष्यं सकलसुजनैरादरेणाङ्गीकार्यमिति भावः ।।
उत्पत्तिस्थितिसंहृतिप्रभृतयो भावा भवन्त्याज्ञया
पद्मापद्मभवादिसर्वजगतो व्यस्तास्समस्ताः सदा ।
यस्यागण्यगुणाकरस्य करुणापीयूषवारां निधेः ।
सोऽयं दूरनिरस्तदोषनिकरः प्रीतोऽस्तु नारायणः ।। १ ।।
अगाधबोधैर्विवृतातिभावभाष्यानुवादेन न मेऽपराधः ।
न हीन्दिराराध्यपदो मुकुन्दो दूर्वाङ्कुरैर्मन्दधनैरपूज्यः ।। २ ।।
मध्वदुग्धाब्धिसम्भूतभाष्येन्दूदितकौमुदी ।
भूयात्सत्कुमुदानन्ददात्री तत्त्वप्रकाशिका ।। ३ ।।
।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्ब्रह्मसूत्रभाष्यस्य टीकायां श्रीमज्जयतीर्थमुनिविरचितायां तत्त्वप्रकाशिकायां चतुर्थाध्यायस्य चतुर्थः पादः ।।
।। चतुर्थाध्यायः सम्पूर्णः ।।
गुर्वर्थदीपिका
‘चतुर्दशीं पञ्चदशीं भूतपूर्वां च षोडशीम् ।
इमां तु नाभिजानामि अमावास्यां त्रयोदशीम् ।।
इति भारतश्लोकस्यायमर्थः । तिथिक्षये पञ्चदशीं पञ्चदशदिनयोग्याममावास्यां चतुर्दशीं चतुर्दशदिनसम्बन्धिनीं भूतपूर्वां जानामि । प्रतिपदमारभ्य क्षये सति त्रयोदश्याख्यतिथेर्लोपो भवति तदा द्वादश्यनन्तरं चतुर्दश्येव भवति । चतुर्दशदिने अमावास्या भवतीति पूर्वं दृष्टमस्तीति । एवं तिथिवृद्धौ पञ्चदशीममावास्यां षोडशीं षोडशदिने जातामपि भूतपूर्वामभिजानामि । इमामवस्थां नाभिजानामि । काऽसावित्यत आह ।। अमावास्यां त्रयोदशीमिति ।। अमावास्यां त्रयोदशीं त्रयोदशदिने जातां नाभिजानामि । दुर्योधनपातसमये औत्पत्तिकातिक्षयसामर्थ्यादमावास्यां त्रयोदश्येव जातेति भारतश्लोकोक्ततात्पर्यमभिप्रेत्याह ।। भारतयुद्धेति ।। समस्तकालसमाप्तिस्तु व्याहतत्वादित्यत्र समस्तकालसमाप्तिः कदेत्युक्ते पुनः कालस्यैव वक्तव्यत्वादित्यर्थः ।
मूलरूपे देवस्येति विशेषणादित्थमेव च वपुषे धायीत्युक्त्याऽवताराणामपि देवत्वमस्तीति भावेनोक्तम् ।। भाष्ये दिव्यानि रूपाणीति ।। दिव्यानि देवपदयोग्यगुणवन्तीत्यस्य पदस्यार्थमभि-प्रेत्याह ।। क्रीडादीति ।। रामवचोनयमित्यस्य रामस्य वचांसि नयतीति रामवचोनयमित्यर्थ-मभिप्रेत्याह ।। रामस्येति ।। रामस्य वचसो नयो न्यायो यस्येति समासान्तरमभिप्रेत्याह ।। रामवचसि यो नय इति ।। पृत् पृतना‘क्षि क्षय’ इति धातोः कर्त्रर्थेऽसुन् प्रत्यये कृते क्षः क्षयकर इत्यर्थो लभ्यते । पृतनायाः क्षः पृक्षः निरुक्तत्वात्तकारलोप इत्यभिप्रेत्याह । कुरुपृतनाक्षयकरमिति । ‘मदी हर्ष’ इति धातोरुपदेशेऽजनुनासिक इदितीकारस्येत्संज्ञया लोपे सति ‘तृतीयोऽतिशय’ इति वचनाद्दकारस्य च धकारे कृते अतिशयितानन्दरूपो भगवान् मध्वित्युच्यते । ‘वा गतिगन्धनयोः’ इति धातोः आतोऽनुपसर्गे कः’ इति करणार्थे कप्रत्यये कृते गत्यर्थानां च ज्ञानार्थत्वात्तस्य वं ज्ञानसाधनं शास्त्रं यस्य स मध्व इत्यभिप्रेत्याह ।। आनन्दरूपस्येति ।। व्यस्तास्समस्तास्सदेत्यत्र व्यस्ताः विस्तारवन्तः समस्ताः संकुचिता इत्यर्थः । स्वरूपोत्पत्तिधर्मोत्पत्तिदेहोत्पत्तिपराधीन-विशेषावाप्तिरूपोत्पत्तिरिति चतुर्विधा उत्पत्तयः । स्वरूपनाशधर्मनाशदेहनाशापूर्णत्वादिरूपचतुर्विधा नाशाश्च घटादिषु व्यस्ताः । लक्ष्म्यादिषु समस्ता इति विवेकः । प्रभृतिपदगृहीतौ बन्धमोक्षौ च बन्धस्य नित्यमुक्तायां लक्ष्म्यामभावान्मोक्षस्य चायोग्येऽभावात्संकुचिताविति ज्ञेयम् ।
नमामि लक्ष्मीरमणं नमामि हयकन्धरम् ।
नमामि वेदव्यासं च नमामि सुखसन्मुनिम् ।। १ ।।
सूत्रे भाष्ये च टीकायां सूत्रोक्तश्रौतवाचि च ।
यथाशक्तिविमर्शेन प्रीयतां मे रमापतिः ।। २ ।।
एवं गुरूणां सर्वेषां भावस्यैवं प्रकाशिका ।
वादिराजाख्ययतिना कृता गुर्वर्थदीपिका ।। ३ ।।
।। इति श्रीमत्कविकुलतिलकश्रीवादिराजतीर्थपूज्यचरणविरचितायां
तत्वप्रकाशिका टिप्पण्यां गुर्वर्थदीपिकायां चतुर्थाध्यायस्य चतुर्थः पादः ।।
भावबोधः
भोगान् भुञ्जानस्येति ।। ‘भोगमात्रसाम्यलिङ्गाच्च’ इत्यन्तेन सर्वानुपपत्तिपरिहारेण समर्थितान् भोगान् भुञ्जानस्यात्रापुनरावृत्तिसमर्थनादनन्तरसङ्गतिरिति भावः ।। किमिति ।। अत्र मुक्तस्य पुनरावृत्तिरस्त्युत नास्तीति चिन्ता । तदर्थं मुक्तस्य स्वर्गादिगतसमानयोगक्षेमत्वमस्त्युत नास्तीति । तदर्थं युगमन्वन्तराद्यवच्छिन्नकालस्येव समस्तकालस्यापि समाप्तिरस्त्युत नास्तीति । तदर्थं भारतयुद्धे युगपत्तिथित्रयक्षयवत् समस्तकालसमाप्तिः किं सम्भावितोतासम्भावितेति । अनन्तत्वेऽपि कालस्य त्रयोदशीपञ्चदशीत्ववत् कदाचित् समस्तस्यापि समाप्तिसम्भवान्मुक्तस्यापि पुनरावृत्त्या-शङ्केति न्यायविवरणं मनसि निधाय पूर्वपक्षमाह– अस्ति मुक्तस्येत्यादिना ।। ‘सर्वान् कामान्’ इति श्रुतेरपुनरावृत्त्यप्रतिपादकत्वात्तदुदाहरणमसङ्गतमित्यतः सत्यकामादिमाहात्म्यात्,
‘अशेषकामसत्यत्वान्मुक्तानां न पुनर्भवः
यस्मात् स कामयेदेव नित्यमात्मा पुनर्भवम् ।।’
इति च श्रुतिरिति न्यायविवरणानुसारेण तात्पर्यमाह– किं च मुक्तस्येति ।। व्याहत-त्वादिति ।। समस्तकालसमाप्तेः क्वचित् काल एव वक्तव्यत्वेन व्याहतत्वादित्यर्थः । गुरव इत्यस्य तात्पर्यं यच्छिष्यतयेत्यादि ।। ज्ञानदातुरेव गुरुत्वमिति सुप्रसिद्धमिति भावः । ‘सर्वथा’ इत्यस्य तात्पर्यं निरुपाधिकेति ।। स्वस्य परमाप्तत्वं दर्शयन्निति ।। ‘दर्शतम्’ इत्यनेन वाक्यार्थयथार्थ-ज्ञानस्य, विप्रलम्भकत्वे ज्ञानोपदेशाय प्रेरणायोगात् ‘निहितम्’ इत्यनेनाविप्रलम्भकत्वस्य, ‘कृतमिदं भाष्यम्’ इत्यनेन विवक्षाकरणपाटवयोरुक्तत्वादिति भावः । ‘दिव्यानि’ इत्यस्यार्थमाह– क्रीडादिगुणयुक्तानीति ।। हरिविषयतयेति ।। अनेन ‘हरौ’ इति विषयसप्तमीत्युक्तं भवति ।
‘रामस्य स्वृतरूपस्य वाचस्तेनानयन्त हि’ इति प्रमाणानुसारेण ‘रामवचो नयम्’ इत्येतत् द्वेधा व्याचष्टे– रामवचांसीत्यादिना ।। अत्राद्ये– कर्तरि षष्ठी । दितीये– कर्मणि षष्ठी । अत एव रामविषयवचांसीत्युक्तम् । अनेन वचांसि नयतीति वचोनयमिति व्युत्पत्तिर्दर्शिता भवति । ‘साधको रामवाक्यानाम्’ इति अर्थत्रयानुगुणप्रमाणानुसारेण प्रकारान्तरेण व्याचष्टे– रामवचसि यो नय इति ।। अनेन रामवचसि नयो यस्येति बहुव्रीहिरित्युक्तं भवति । ‘भीमस्तु बहुभुक् पृक्षो’ ‘पृतनाक्षयकारी च द्वितीयस्तु’ इति प्रमाणानुसारेण ‘पृक्षो द्वितीयं वपुः’ इत्येतद्व्याचष्टे । द्वितीयं वपुरित्यादिना । ‘मध्वित्यानन्द उद्दिष्टो वेति तीर्थमुदाहृतम्’ ।। इति प्रमाणानुसारेण मध्वशब्दार्थ-माह– आनन्दरूपस्य हरेरिति ।।
रघुवर्यगुरुप्रोक्तो भावो जयमुनेर्मया ।
लिखितो मन्दबोधार्थं प्रीयतां श्रीपतिस्ततः ।।
।। इति श्री रघूत्तमतीर्थकृत तत्वप्रकाशिकाव्याख्याने भावबोधे
चतुर्थाध्यायस्य चतुर्थः पादः ।। ४ ।।
भावदीपः
अपुनरावृत्तीति ।। गर्भप्रवेशजन्ममृत्याद्यभावेत्यर्थः । वैकुण्ठादिस्थानात्स्वच्छन्देन सर्वत्र स्वयोग्यस्थलसञ्चारस्याप्रतिहतेः । यं यमन्तमभिकामो भवतीत्यादेः । एतेन या पूर्वत्र मुक्तानामेकरूपा स्थितिरुक्ता सात्र शाश्वतीत्युच्यत इति पूर्वसङ्गतिरपि सूचिता । अन्यथा संसारसमानधर्मतापत्तेरिति फलस्य पूर्वत्रेव स्फुटत्वादुपसंहारे कीर्तनाच्चात्रानुक्तिः ।। उभयथा सम्भव इति ।। लोकदृष्टिरलौकिकत्वमिति भावः । मुक्तस्यापि पुनरावृत्त्याशङ्केत्यन्यत्रोक्त-प्रतिज्ञामाह ।। अस्तीति ।। स्वयं हेतुमाह ।। स्वर्गेति ।। हेतोरप्रयोजकत्वमाशङ्कते ।। न चेति ।। कदाचित्समस्तस्यापि सम्भवादित्यन्यत्रोक्तहेतुं शेषोक्त्यात्र योजयति ।। समस्तस्यापीति ।। अनन्तत्वात्कालस्य त्रयोदशी पञ्चदशीवदित्यन्यत्रोक्तशङ्कागर्भदृष्टान्तांशं व्यनक्ति ।। न चेति ।। भारतेति ।।
चतुर्दशीं पञ्चदशीं भूतपूर्वां च षोडशीम् ।
इमां तु नाभिजानामि अमावास्यां त्रयोदशीम् ।।
इत्यादिना कदाप्यननुभूतापि त्रयोदशी पञ्चदशीत्वेनाद्य दुर्योधनपातसमये महोत्पातसूचिका जातेति श्रवणादिति भावः ।। अत इति ।। समस्तस्यापि कालस्य समाप्तिसम्भवादित्यर्थः ।। सूत्रार्थमाह ।। न मुक्तस्येति ।। स खल्वेवं वर्तयन्यावदायुषं ब्रह्मलोकमभिसम्पद्यते । न च पुनरिति पूर्वत्र मुक्तस्य प्रकृतत्वादिति भावः । सत्यकामत्वादिमाहात्म्यादित्यन्यत्रोक्त्यनुरोधेनोत्तरश्रुत्युक्ते-रुपयोगमाह ।। किं चेति ।। एतेन सूत्रे शब्दादित्यस्य न केवलमनावृत्तिबोधकशब्दादित्यर्थः । किं तु सर्वकामावाप्तिशब्दादित्यप्यर्थः सूचितो भवति ।। व्याहतत्वादिति ।। कदा समाप्तिरित्युक्ते कदाचिदित्यादेर्वाच्यत्वादिति भावः ।। अत इति ।। शब्दादित्यर्थः । युक्तं मुक्तेः पुरुषार्थत्वमिति फलोक्तिः ।
फलोक्त्या समस्तशास्त्रार्थमुपसंहरति ।। तदिति ।। विरक्तीत्याद्युक्त्या ह्युपासनाध्यायार्थः । कैवल्यसिद्धेरिति चतुर्थाध्यायार्थः । अशेषेत्यादिस्तु पूर्वाध्यायद्वयार्थः । भगवान्नारायणो जिज्ञास्य इति फलोक्तिः । एतेनाद्यसूत्रार्थ एव शास्त्रेण समर्थित इत्युक्तं भवति । एतेनैव निर्विशेषं चैतन्यं जिज्ञास्यमित्यस्मिन् शास्त्रे निरूप्यत इत्यादिवचनं नादरणीयमिति सूचितम् । इतिशब्दो हेत्वर्थः । इति कृत्वा निरूपितमखिलमपि प्रमेयमत्यन्तमङ्गलम् । वक्तृश्रोतॄणां कामिताशेषयोग्यपुरुषार्थ-प्रदमिति ।।
भाष्योक्तविशेषणत्रयस्य कृत्यं सूचयन्नवतारयति ।। अथेति ।। भाष्यसमाप्त्यनन्तरमित्यर्थः । अनेन नमनस्यावसरप्राप्तिमाह ।। गुणेति ।। अत्र गुणपदेन विधिमुखवेद्यनिषेधमुखवेद्याः सर्वेऽपि कल्याणधर्माः गृह्यन्ते । न त्वाद्यपद्य इव विधिमुखमात्रवेद्या इति भावेन गुणार्णवतयेत्येवोक्तम् । न तु निर्दोषतयेत्यपि । एतादृशीं भाष्यकरणसमर्थाम् । यस्येत्यादिपद्यं भगवता स्वयमेवान्यत्र बहुषु स्थलेषु प्रमाणोक्त्या विवृतत्वात्तदनुरोधेन व्याचष्टे ।। यस्येति ।। पद्यतात्पर्यार्थं वदन्नधिकारि-फलयोरुक्त्योपसंहरति ।। अत इति ।। वाय्ववतारस्य श्रुतिसिद्धत्वादित्यर्थः । भाष्योक्तगुण-पूर्णत्वस्यासम्भावितत्व शङ्कानिरासाय तदुपपादकतया जन्मादिसूत्रोक्तजगज्जन्मादिकर्तृत्वेनोप-श्लोकयन् जन्मादिकृतौ दयैव हेतुः न तु फलान्तरं येन पूर्णता न स्यादित्यपि सूचयन् गुणपदेन भाष्यश्लोके दोषाभावा अपि ग्राह्या इत्यपि दर्शयन् तत्प्रीतिमाशास्ते ।। उत्पत्तीति ।। भावाः धर्माः । जन्मादिसूत्रे अस्येति पदमसङ्कुचितसर्वपरं वियदधिकरणन्यायादिति भावेनोक्तम् ।। पद्मेति ।।
भाष्यं चात्यर्थविस्तरमित्युक्तेरिह चाशेषार्थानां टीकायामनुक्तेर्लेशेनार्थोक्त्या प्राप्तापराधशङ्कां भाष्ये गाम्भीर्याभावशङ्कां च निरस्यति ।। अगाधबोधेति ।। लेशेनार्थोक्तावपि नात्र ग्रन्थे अनादरो युक्तः ।। २ ।। मदीयव्याख्या चन्द्रिका चन्द्रेणेव भाष्यपदवाक्यशक्तितात्पर्यार्थवर्णनरूपतया भाष्येणैकग्रन्थतामापन्नेवात्यन्तसंश्लिष्टा । अतः सर्वैरादरणीयेति भावेनाह ।। मध्वेति ।। अत एव सर्वसंश्लेषः ।।
सर्वेन्द्रियप्रेरकेण श्रीप्राणपतिनेरितः ।
यदवोचमहं तेन प्रीणातु करुणाकरः ।। १ ।।
।। इति श्रीमद्भाष्यटीकाभावदीपे सुधीन्द्रगुरुपादशिष्यराघवेन्द्रयतिकृते
चतुर्थाध्यायस्य चतुर्थः पादः ।। ४ ।।
अभिनवचन्द्रिका
पूर्वपक्षस्तु मुक्तः पुनरावृत्तिमान् । स्वस्थानं विहायाऽन्यत्र गतत्वात् । स्वर्गादिगतत्ववत् । न च स्वर्गं गतस्य युगमन्वन्तरादिमात्रवासित्वात् युक्ता पुनरावृत्तिः । न तु मुक्तस्य । तस्याऽनन्त-कालवासित्वादिति वाच्यम् । अनन्तस्यापि कालस्य भारतयुद्धे त्रयोदश्याः पञ्चदशीत्ववत् एकैकस्याः तिथेः अनेकतिथ्यात्मकत्वेन समाप्तिसम्भवात् । अतः पुनरावृत्तिसद्भावात् न पुरुषार्थता मुक्तेरिति ।
सिद्धान्तस्तु न मुक्तः पुनरावृत्तिमान् । ‘न च पुनरावर्तते न च पुनरावर्तते’ इति शब्दात् । किञ्च सत्यकामस्य मुक्तस्य न मुक्तेः परावृत्तिः युक्ता । कामनाविरहात् अनन्तकालस्थायित्वाच्च न परावृत्तिः । न च अनन्तस्यापि कालस्य समाप्त्यनन्तरं परावृत्तिरस्त्विति वाच्यम् । अनन्तकालस्य समाप्तिमभिधाय अनन्तरमिति पुनः कालसद्भावोक्तेर्व्याहतत्वात् । अतो मुक्तानां पुनरावृत्त्यभावात् युक्तं मुक्तेः पुरुषार्थत्वमिति सिद्धम् । इत्यशेषमतिमङ्गलम् ।
बलित्थेत्यादिवेदवचन इति ।। अयमत्र सूक्तार्थः ‘बत्थिा तद्वपुषे धायि दर्शतं देवस्य भर्गः सहसो यतोऽजनि’ । सहसः सहोरूपस्य देवस्य कीडादिगुणसंपन्नस्य वायोः मूलरूपं बट् बलात्मकं, दर्शतं ज्ञानरूपं, भर्गः भरणगमनगुणं, तत् मूलरूपम्, इत्था इत्थंभूतमेव मूलरूपवदेव वपुषे रूपत्रयावताराय यतः यस्मात् भगवता, धायि निहितं भागवता प्रेरितमित्यर्थः, तस्मात् अजनि । (१)
प्रथमावतारस्वरूपमाह – यदीमुपह्वरते साधते मति ऋतस्य धेना अनयन्तसस्रुतः’, यदीम् यदेव, मतिः हनुमदाख्यप्रथमरूपम् । उपह्वरते रामस्य समीपे तिष्ठति, साधते रामस्य कार्याणि साधयति । तेन हनुमता, ऋतस्य सत्यरूपस्य रामस्य सस्रुतः अमृतस्नावयुक्ताः, धेना वाचः, अनयन्त सीतां प्रतीति शेषः । (२)
द्वितीयावतारस्वरूपमाह – ‘पृक्षो वपुःपितुमान्नित्य आशये द्वितीय मा सप्तशिवासु मातृषु’ । द्वितीयं वपुः भीमाख्यं, पृक्षः पृतनाक्षयकरि, पृतनायाः पृत् क्षि क्षये इत्यस्मात् डसूप्रत्यये पृक्ष इति रूपम् । पितुमान् अन्नवान्, बहुभुगिति भावः । नित्यः नित्यम्, सप्तशिवासु परममङ्गलरूपासु । सप्तसु मात्रृषु प्रमाणभूतासु, ऋगादिषु । आशये शेते, तद्विचारयतीति भावः । अनेन द्वितीयावतारवाचकभीमशब्दार्थ उक्तो भवति । (३)
तृतीयावतारस्वरूपमाह – ‘तृतीयमस्य वृषभस्य दोहसे दशप्रमतिं जनयन्त योषणः’ । अस्य वृषभस्य श्रेष्ठस्य वायोः तृतीयं वपुः, दोहसे ज्ञानदोहाय, दशप्रमतिम् पूर्णप्रज्ञानामकम्, योषणः नार्यः, गुरुत्वाद्बहुवचनम्, जनयन्त अजनयन्त । (४)
‘निर्यदीं बुध्नान्महिषस्य वर्पस ईशानासः शवसा क्रन्त सूरयः’ बुध्नात् ज्ञानरूपात्, यदीम् यस्मादेव । महिषस्य महितषड्गुणस्य हरेः, वर्पसः वरणीयत्वात्, पालकत्वात् वपोर्नामकान् गुणान् । ईशानासः रुद्राद्या देवाः । अन्ये सूरयः ज्ञानिनश्च, शवसा सुखेन, निर् क्रन्त ज्ञातवन्तः । एतत् तृतीयं वपुरिति पूर्वेण सम्बन्धः । (५)
‘यदी मनु प्रदिवो मध्व आधवे गुहासन्तं मातरिश्वामथायति । य एव प्रदिवा = प्रकृष्टप्रकाशरूपः, मध्व आनन्दतीर्थाख्यः । मातरिश्वा वायुः । गुहासन्तम् जीवेश्वरैक्यं वदद्भिः गूहितं भगवन्तम् । आधवे आसमन्तात् पतित्वविषये, मथायति मथ्नाति । शास्त्रेण विचार्य पतित्वं निश्चाययतीति भावः । (६)
‘प्रयत्पितुः परमान्नीयते पर्या पृक्षुधो । वीरुधो दंसु रोहति । यत् रूपत्रयम्, पितुः परमात् उत्तमाद्विष्णोः प्रणीयते प्रकर्षेण प्रेर्यते, पृक्षुधः प्रश्नरूपान्, वीरुधः स्तम्बादीन्, दंसु दन्तेषु, पर्यारोहति चर्वितवत् । शकलीकरोतीत्यर्थः । (७)
‘उभायदस्य जनुषं यदिन्वत आदिद्यविष्ठोऽभवद्धृणाशुचिः । यत् यस्मात्, जनुषं जन्म, अवतारम्, उभा उभौ लक्ष्मीनारायणौ । इन्वतः प्रेरयतः । तस्मात्, घृणाशुचिः कृपयाशुद्धः, सआदित् आभ्यांलक्ष्मीनारायणाभ्यामेव, यविष्ठः अवरः, अभवदित्यर्थः । (८)
गर्भसंबन्धनिमित्तदुःखलेशोऽपि नास्तीत्याह – ‘आदिन्मातॄराविश द्यास्वाशुचि रहिंस्यमान उर्विया विवावृधे’ । यतो वायुः, आदित् प्रकृतलक्ष्मीनारायणप्रेरणयैव (णादेव) मातॄः आविशत् न पुनरस्य गर्भवासादिनिमित्तं (किं) कर्माऽस्तीति भावः । यासु मातृषु, आ समन्तात्, शुचिः, शुचित्वमेवाह – उर्वियेति ।। उर्विया उत्कृष्टया गर्भवासपीडया, अहिंस्यमानः विवावृधे विशेषेणाऽभि वृद्धोऽभूदित्यर्थः । (९)
‘सप्तशिवासु मातृ’ष्वित्युक्तं तत्र विशेषमाह – ‘अनुयत्पूर्वा अरूहत्सनाजुवो निनव्यसी ष्ववरासु धावते’ । सनाजुवः सनातनं जुषन्ते प्रतिपादयन्तीति सनाजुवः । पूर्वा ऋगाद्याः । आरुहदिति यत् तत् अनु क्रमादेव, उपक्रमाद्यनुसारेणैवेत्यर्थः । नव्यसीषु पौरुषेयत्वेन नूतनासु, अवरासु तिसृषु इतिहासपुराणपञ्चरात्राख्यासु मातृषु निधावते उपक्रमादिपर्यालोचनां विनैव शीघ्रमेव अर्थं विचारयतीत्यर्थ इति । (१०)
स्वप्रतिपादितगुणादिविशिष्टतया सङ्कीर्तनपूर्वकं तत्प्रीत्ति प्रार्थयते – उत्पत्तीति ।। ननु – सर्वज्ञकल्पपद्मनाभतीर्थादिभिर्व्याख्यातभाष्यव्याख्यानाय स्वप्रवृत्तिरपहासहेतुरित्याशङ्कामपाकरोति – अगाधबोधैरिति ।। स्वग्रन्थस्य प्रचयं प्रार्थयते – मध्वेति ।।
सद्यो मोक्षं सतां रामचन्द्रोऽभिनवचन्द्रिका ।
हस्तप्राप्तमिवाऽऽतेने चतुर्थाध्यायसङ्गता ।। १ ।।
।। इति श्रीसत्यनिधितीर्थ श्रीचरणचरणाराधक श्रीमत्सत्यनाथयतिविरचितायां श्रीमत्तत्त्वप्रकाशिकाव्याख्याऽभिनवचन्द्रिकायां चतुर्थाध्यायः ।।
।। समाप्तश्चायं ग्रन्थः ।।
वाक्यार्थमुक्तावली
अपुनरावृत्तिसमर्थनादिति ।। असमर्थने स्थितिमाहेत्यव्यवहितनये न जायते न म्रीयत इत्युक्तं जननादिराहित्यं न स्यादिति समर्थनीय एव । असावित्यध्याहार्यम् अन्यथा श्रुत्यादिसङ्गतेरवर्णनेन न्यूनत्वप्रसङ्गात् । प्रत्यधिकरणं शास्त्रादिसङ्गतिरित्यनन्तरमन्यथेत्यादिना तत्प्रदर्शनात् । एतेनानन्तरसङ्गतिरपि द्रष्टव्या ।। किं तस्येति ।। मुक्तस्य स्वर्गतस्येव पुनरावृत्तिरस्ति न वेति चिन्ता । तदर्थं स्वर्गादिगतस्येव पुनरावृत्तौ बीजमस्ति न वेति । तदर्थं बीजाभिमतं समस्त-कालव्यापनमव्याहतमुत व्याहतमिति । सिद्धान्ते ब्रह्मलोकमभिसंपद्य न च पुनरावर्तत इति ब्रह्मलोकत्वरूपस्य स्वर्गवैलक्षण्योक्त्या व्यवच्छेद्यां युक्तिमाह ।। स्वर्गादीति ।। तद्दर्शनादित्यतः परं तद्दृष्टान्तेन ब्रह्मलोकत्वेन हेतुना विप्रतिपन्नवैकुण्ठादेरपि पुनरावृत्तित्वसाधनसम्भवादिति द्रष्टव्यम् । स य एवं विद्वानस्माच्छरीरभेदादूर्ध्वमुषिरं स्वर्गे सर्वान्कामानिति भाष्योपात्तश्रुतिपूर्वशेषे शरीर-साहित्यस्योक्तत्वात् । इत्यादिश्रुतिभ्य इत्यादिपदविवक्षिततया तत्वप्रदीपोपात्तायां यो वा एतामेवं वेदापहत्य पाप्मानमनन्ते स्वर्गे लोके ज्येये प्रतितिष्ठतीति श्रुतावपहत्य पाप्मानमिति पापा-भावस्यानन्ते स्वर्ग इति मुक्तिकालस्य पर्यवसानाभावस्य चोक्तत्वात्तद्व्यवच्छेद्यं विश्वसम्भावनेति पूर्वपक्षन्यायं व्यनक्ति ।। न चेत्यादिना ।। सबीजत्वादिति ।। पुनरावृत्तौ बीजभूतस्य लिङ्गशरीरस्य पुण्यादिकर्मणो युगमन्वंतरादिरूपस्वर्गकालपर्यवसानस्य सत्वादिति भावः ।। निर्बीजत्वेनेति ।। लिङ्गशरीराभावात् कर्मसम्बन्धाभावान्मुक्तिकालपर्यवसानस्याभावादित्यर्थः । कुतो न वाच्यमित्यत आह ।। अनन्तत्वादिति ।। कालस्य तत्र समस्तस्याप्यघटितस्य कदाचित्सम्भवाद्भारतयुद्धे त्रयोदश्या एव पञ्चदशीत्वस्य कदाप्यनुपलब्धस्य दर्शनादिति । अस्यार्थः । कालस्यानन्तत्वा-त्तत्रानन्तकालमध्ये अघटितस्यापि समस्तस्य निर्बीजत्वेऽपि पुनरावृत्तिरूपकार्योत्पादस्य सम्भवात् । यद्वा मुक्तस्याघटितस्याशरीरसम्बन्धस्य कर्मसम्बन्धस्य च सम्भवात् । यद्वा समस्तस्याप्यनन्तस्यापि समापयितुमघटितस्यापि कालस्य कदाचिदपि समाप्तिसम्भवादित्यर्थः । कालोऽनन्त इत्येतावता कथमघटितसम्भावनेत्यत उक्तं ।। भारतयुद्धेति ।। भारतयुद्धे कदाप्यनुपलब्धस्य त्रयोदश्या एव पञ्चदशीत्वस्य दर्शनात् । तद्वत्प्रकृतेऽप्युक्तस्य सर्वस्योपपत्तेरिति भावः । यद्वा
चतुर्दशीं पञ्चदशीं भूतपूर्वां त्रयोदशीम् ।
इमां तु नाभिजानामि अमावास्यां त्रयोदशीम् ।।
इति गदापर्वोक्तरीत्या भारतयुद्धे तिथित्रयस्य युगपत्समाप्तिवदनंतत्वेऽपि कालस्य युगपत्समापनसम्भवादित्यर्थः । अत्र टीकाकोशेषु क्वचिद्दर्शनादित्यनन्तरं तत्र तिथित्रयस्य युगपत्समाप्तिवदनंतत्वेऽपि कालस्यापि युगपत्समाप्तिसम्भवादिति पाठः । ननु स्वर्गादिगतानां शरीरित्वाद्युक्ता पुनरावृत्तिः न मुक्तस्य समस्तकालवासित्वादिति न वाच्यम् । समस्तस्यापि कदाचित्समाप्तिसम्भवात् । न च कालस्यानन्तत्वात्समाप्त्ययोगः । भारतयुद्धे त्रयोदश्या एव पञ्चदशीत्वस्य दर्शनात् । तत्र तिथित्रयस्य युगपत्समाप्तिवदनंतत्वेऽपि कालस्य युगपत्समाप्ति सम्भवादित्यपि क्वचित्पाठः । सूत्रे प्रकृतत्वान्मुक्तस्येत्यन्वेति । तथा च मुक्तस्यानावृत्तिर्न पुनस्संसारं प्रत्यावृत्तिः ।। न च पुनरावर्तत इति (श्रुतेरिति) ।। सूत्रार्थमाह ।। न मुक्तस्येति ।। एवं श्रुत्याऽपुनरावृत्तिं प्रसाध्य माहात्म्यमित्युक्तसिद्धान्तन्यायेनापि साधयितुं सत्यकामादिमाहात्म्यस्या-सिद्धिं परिहर्तुं शब्दादित्यंशं प्रकारान्तरेण व्याकुर्वत्सर्वान् कामानिति भाष्यं व्याचष्टे ।। किञ्चेति ।। अपि च मुक्तस्य निर्बीजत्वान्न पुनरावृत्तिः । न च निर्बीजं कार्यमुत्पद्यते । व्याहतत्वात् । नापि शरीरं कर्मसम्बन्धो वा पुनस्सम्भाव्यते मुक्तत्वव्याहतेः । मुक्तिकालपर्यवसानाभावाच्च न पुनरावृत्तिः अनन्तत्वात् । अनन्तस्यापि कालस्य समाप्तिस्तु विशेषाकारेण व्याहतैव । समस्तस्यापि कालस्य कदा समाप्तिरिति पृष्टे क्वचित्काल इति व्याहतेः स्फुटप्रतिभासत्वादिति । तदेतत्सर्वं हृदि निधायाह ।। समस्तेति ।। सूत्रस्यैवेति ।। न पुनः पूर्वाध्यायेष्विव पदानामित्यर्थः । सूत्रद्विरुक्तिमनुरुध्य समस्तशास्त्रार्थमवधारयन्नुपसंहरति ।। तदेवमिति ।। अशेषमतिमङ्गलमिति ।। जिज्ञासायाः कर्तव्यत्वात्तन्निबन्धनात्मकमिदमशेषं चतुरध्यायात्मकं शास्त्रमतिमङ्गलं प्रशस्ततरमुपादेयतर-मित्यर्थः । इत्यस्मत्कृतं भाष्यप्रकरणं अशेषमोक्षयोग्यमतीनां मङ्गलमुद्दिश्य भूयादित्याशीर्वादो वा । आशीर्वादस्यापि मङ्गलत्वात् । अधिकृतत्वोपपादनाय ज्ञानानन्दायेत्यस्य तात्पर्यमाह ।। यं गुणेति ।। विशिष्टत्वोपपादनाय गुरव इत्यस्य तात्पर्यमाह ।। यच्छिष्यतयेति ।। इष्टत्वोपपाद-नायातिप्रियायेत्यस्य तात्पर्यमाह ।। यस्मिन्निति ।। आप्तिमूलत्वेति ।। विवक्षितार्थतत्वज्ञानं विप्रलिप्सा । करणपाटवं अविप्रलिप्सा चेतीयमाप्तिर्नाम । तत्र दर्शतमित्यनेन तत्वज्ञानस्य । मध्व इति शास्त्रनिर्माणेन विवक्षाकरणपाटवयोः । भगवता योग्यजनतत्त्वज्ञानायेत्थमेव निहित-मित्यनेनाविप्रलिप्सायाश्चोक्तत्वादिति भावः । दिव्यानीत्यस्यार्थमाह ।। क्रीडादीति ।। हरिविषयतयेति ।। अनेन हराविति विषयसप्तमीत्युक्तं भवति ।
रामस्य स्वृतरूपस्य वाचस्तेनानयन्त हीति प्रमाणानुसारेण रामवचोनयमित्येतद्व्याचष्टे ।। रामस्य वचांसीत्यादिना ।। आद्ये कर्तरि षष्टी । द्वितीये कर्मणि षष्टी । साधको रामवाक्याना-मित्यर्थत्रयानुगुणप्रमाणानुसारेण व्याचष्टे ।। रामवचसि यो नय आज्ञारूपस्तद्युक्तमिति ।। भगवदाज्ञाधुरंधरमित्यर्थः । पृशब्दो पृतनावाची तस्याः क्षयकारी पृक्षः । पृतना क्षयकारी चेति वचनादिति भावेनाह ।। कुरुपृतनेति ।। मधु सुखप्रदं तीर्थं शास्त्रं येन स मध्व इति मनसि निधाय मध्वित्यानंद उद्दिष्टो वेति तीर्थमुदाहृतमिति प्रमाणानुसारेण व्याचष्टे ।। तृतीयं त्वित्यादिना ।। यद्यपि तत्वप्रदीपिकाचार्यैर्यस्य त्रीणीति श्लोकावानन्दायेति श्लोकः पठित्वा व्याख्यातस्तथापि टीकाकारैः स्वाचार्योपदेशानुसारेणैव पाठमनुसृत्य व्याख्यातं बोध्यम् । अथ भगवान् टीकाकृन्मुनि-र्भगवत्तमवेदव्यासशिष्यप्रकरपुरःसरेण सकलसुमनोमनोवारिजप्रबोधदिवाकरेणानन्ताम्नायार्थ-मीमांसकवरचूडामणिना परमात्मतत्वविज्ञानगुरुपरंपराचार्यवर्येण फणिपतीशद्विजनाय केन्द्रगुर्वादि-सुरकरलालितचरणयुगलेन पूर्णप्रमतिगुरुराजेन प्रणीतमनन्तार्थं भाष्यवरं यथाचार्याभिप्रायं व्याख्यायान्तेऽपि भाष्योक्तगुणविशिष्टतया स्तुवन् ग्रन्थप्रणयनफलवत्वेन तत्प्रीतिमेवाशास्ते ।। उत्पत्तीति ।। व्यस्ताः पद्मायां विशकलिताः तस्याः स्थितिनियमनज्ञानमात्रभाक्त्वात् । पद्मभवादिसर्वजीवेषु समस्ताः तेषां सृष्टाद्यष्टकभाक्त्वादित्यादि द्रष्टव्यम् । अगाधबोधैः श्रीमत्पद्मनाभतीर्थश्रीपादप्रमुखैः विततो विस्तारितोऽतिभावो यस्य तद्विततातिभावम् । तच्च तद्भाष्यं च तदनुवादेनेत्यर्थः । विवृतातिभावमिति क्वचित्पाठः । तत्र विवृतातिभावं यत्तद्भाष्यानुवादे-नेत्यर्थः । प्रदानवदेव हीति सूत्रे गुरुप्रदानपूर्विकैव विद्याफलाय भवतीत्युक्तेस्तदनुसारेण प्रश्नं कुर्वन् तेषां फलं प्रार्थयते ।। मध्वेति ।। तत्वप्रकाशिका सत्कुमुदानन्ददात्री भूयादित्यशेषमतिमङ्गलम् ।।
श्रीमध्वहृत्पङ्कजकीर्णकास्य कृष्णे रमालालितपादपद्मे ।
स्वानन्दसान्द्रे रचितां मयेमां मुक्तावलीं मे गुरवोऽर्पयन्तु ।। १ ।।
श्रीविठ्ठलार्यपुत्रेण श्रीमत्तीर्थार्यसेविना ।
श्रीनिवासेन वाक्यार्थमुक्तावलिरियं कृता ।। २ ।।
।। इति श्रीमद्विठ्ठलाचार्यतनूजेन श्रीमत्तीर्थाचार्यचरणसेविना श्रीनिवासेन रचितायां श्रीमत्तत्वप्रकाशिकावाक्यार्थमुक्तावल्यां चतुर्थाध्यायस्य चतुर्थः पादः ।।
तत्त्वसुबोधिनी
भोगान् भुंजानस्येति ।। भोगमात्रसाम्यलिङ्गाच्च इत्यनेन सर्वानुपपत्तिपरिहारेण समर्थितान् भोगान् भुञ्जानस्यात्र पुनः आवृत्तिसमर्थनादनन्तरसङ्गतिरिति भावः । त्रयोदश्या एव पञ्चदशी-त्वस्येति । तिथित्रयपक्षेण त्रयोदश्या एव पञ्चदशीत्वमिति भावः । सर्वान् कामान् आप्त्वा इति श्रुतेः अपुनरावृत्त्यप्रतिपादकत्वात् तदुदाहरणमसङ्गतमित्यतः तात्पर्यमाह ।। किं च मुक्तस्येति ।। व्याहतत्वादिति ।। समस्तकालसमाप्तेः क्वचित्काल एव वक्तव्यत्वेन व्याहतत्वादित्यर्थः । गुरव इत्यस्य तात्पर्यं यच्छिष्यतयेत्यादि । ज्ञानदातुरेव गुरुत्वमिति सुप्रसिद्धमिति भावः । सर्वथेत्यस्य तात्पर्यं निरुपाधिकेति स्वस्य परमाप्तत्वमिति । दर्शतमित्यनेन वाक्यार्थयथार्थज्ञानस्य विप्रलंभकत्वे ज्ञानोपदेशाय प्रेरणयायोगान्निहितमित्यनेनाविप्रलंभत्वस्य कृतमिदं भाष्यं इत्यनेन विवक्षाकरण-पाटवयोरुक्तत्वादिति भावः । दिव्यानीत्यस्यार्थमाह ।। क्रीडादिगुणफलानीति ।। हरिविषयतयेति ।। अनेन हराविति विषयसप्तमीत्युक्तं भवति । रामस्य स्वृतरूपस्य वा चस्तेनानयन्त हीति प्रमाणानुसारेण रामवचोनयं इत्येतत् द्वेधा व्याचष्टे । द्वितीये कर्मणि षष्टी । अत एव रामविषय-वचांसि इत्युक्तम् । अनेन वचांसि नयतीति वचोनयमिति व्युत्पत्तिदर्शिता । साधकोरामवाक्यानाम् इति अर्थत्रयानुगुणप्रमाणानुसारेण प्रकारान्तरेण व्याचष्टे रामवचसि यो नय इति ।। अनेन रामवचसि नयो यस्येति बहव्रीहिरित्युक्तं भवति । ‘भीमस्तु बहुभुक् पृक्षो पृतनाक्षयकरी च ‘द्वितीयस्तु’ इति प्रमाणानुसारेण पृक्षो द्वितीयं वपुः इत्येतत् व्याचष्टे ।। द्वितीयं वपुरित्यादिना ।। मध्वित्यानन्द उद्दिष्टो वेति तीर्थमुदाहृतमिति प्रमाणानुसारेण मध्वशब्दार्थमाह ।। आनन्दरूपस्य हरेरिति ।। ग्रन्थप्रतिपादितगुणत्वेन भगवन्तं स्तुवन्नेव भगवत्प्रीतिं प्रार्थयते । उत्पत्तीति इति अशेषमतिमङ्गलम् ।
नरसिंहपदद्वन्द्वं सम्प्रणम्य गुरूनपि ।
तत्प्रसादबलेनैव भावोऽयं वर्णितो मया ।। १ ।।
तेन प्रसन्नो भवतु भक्ताभीष्टप्रदो हरिः ।
अवद्यगंधविधुरः पूर्णो निजसुखादिभिः ।। २ ।।
आनन्दाचार्यपितृभ्यः दत्वा तत्वप्रकाशिकाम् ।
श्रीनिवासोऽकरोत् टीकां नाम्ना तत्वसुबोधिनीम् ।।
।। इति श्रीमद्रघूत्तमतीर्थपूज्यपादशिष्यानन्दाचार्यसूनुश्रीनिवासाचार्यकृतौ
तत्वसुबोधिन्यां चतुर्थाध्यायस्य चतुर्थः पादः ।।
।। समाप्तश्चायं चतुर्थाध्यायः ।।
वाक्यार्थविवरणम्
व्याहतत्वादिति ।। समस्तकालसमाप्तिः कदेति पृष्टे क्वचित्कालविशेषे समाप्तिरिति समस्तकालसमाप्त्यधिकरणतया कालस्यैव वक्तव्यत्वात् व्याहतिरित्यर्थः ।।
गुरव इत्युक्तत्वात् तत्तात्पर्यमाह ।। यच्छिष्यतयेति ।। सर्वथा इत्यस्य तात्पर्यम् ।। निरुपाधिकेति ।। परमाप्तत्वं दर्शयन्निति ।। दर्शतमित्यनेन विवक्षितार्थतत्त्वज्ञानमुक्तम् । महनीयं पूज्यम् । निहितमित्यनेन भगवत्प्रेरणया अवतीर्णत्वोक्त्याऽविप्रलम्भकत्वम् । कृतमिदं भाष्यमित्यनेन विवक्षाकरणपाटवे उक्ते इति ज्ञातव्यम् । हराविति विषयसप्तमीत्यभिप्रेत्य हरिविषयतयेत्युक्तम् । रामस्येति कर्तरि षष्टी । रामकर्तृकाणि वचांसि तदुक्तवचनानीत्यर्थः । तथा च रामवचांसि नयतीति योजनाद्वयेऽपि व्युत्पत्तिर्द्रष्टव्या ।। आज्ञारूपा इति ।। इदं कुर्विति श्रीरामेण विनियुक्ते सति इयं रामाज्ञेति स्वीकरोतीत्यर्थः । तथा च रामवचसि नयो यस्येति बहुव्रीहिरिति द्रष्टव्यम् ।।
‘मध्वित्यानन्द उद्दिष्टो वेति तीर्थमुदाहृतम् ।
मध्व आनन्दतीर्थस्स्यात्तृतीया मारुतीतनुः’ ।।
इति प्रमाणानुसारेण मध्वशब्दार्थमाह ।। आनन्दरूपस्येति ।। तथा च मधु– आनन्द-रूपहरिप्रतिपादकं, वशब्दोक्तं तीर्थं निर्मातृतया यस्येति मध्व इत्यर्थः । अत्र मधुव इति भाव्ये उकारलोपश्छन्दसो द्रष्टव्यः ।। भूर्भुवसुवरिति यजुश्शाखिनः पठन्ति । ऋक्शाखिनस्तु स्वरिति पठन्ति ।। तत्र उकारलोपश्छान्दसः । तद्वदिति द्रष्टव्यम् । व्यस्ताः विस्तृताः । समस्ताः संकुचिताः ।। करुणापीयूषवारां निधेरिति ।। करुणामृतसमुद्रस्येत्यर्थः । स्वकृतग्रन्थस्य नाम प्रदर्शयन्नाह ।। मध्वेति ।। इन्दुकौमुदी ज्योत्स्ना यथा तत्त्वानां घटादिपदार्थानां प्रकाशिका, इयमपि भाष्येन्दूदितकौमुदी परापरतत्त्वप्रकाशिका भूयादित्यशेषमतिमङ्गलम् ।
यादवाचार्यशिष्येण श्रीनिवासेन धीमता ।
तत्त्वप्रकाशिकादुत्थवाक्यभावः प्रकाशितः ।।
।। इति श्रीमद्यदुपत्याचार्यपूज्यपादाराधकेन श्रीनिवासेन विरचिते
तत्वप्रकाशिकावाक्यार्थविवरणे चतुर्थाध्यास्य चतुर्थः पादः ।।
वाक्यार्थमञ्जरी
मुक्तानामनावृत्तिः न तु स्वर्गिवत्पुनरावृत्तिः । कुतः न च पुनरावर्तत इति शब्दात् श्रुतेरित्यर्थः ।। सर्वान् कामानित्यस्याः श्रुतेरपुनरावृत्तिप्रतिपादकत्वाभावात्तदुदाहरणमसङ्गतमित्यतस्तात्पर्यमाह ।। किं चेति ।। व्याहतत्वादिति ।। समस्तकालसमाप्तेः क्वचित्काल एव वक्तव्यत्वेन व्याहतत्वादित्यर्थः ।। सूत्रस्यैवेति ।। न त्वध्यायमात्रावधारणायैते सर्वे व्याख्याता व्याख्याता इत्यादिवत्सूत्रावयवस्येत्यर्थः ।। शास्त्रार्थमुपसंहरति ।। तदेवमिति ।। अत्र साक्षात्कारेत्यने न तृतीयस्य, सिद्धिरित्यनेन चतुर्थाध्यायस्य, गुणपूर्णतयेति प्रथमस्य निर्दोषतयेति द्वितीयस्य चार्थ उपसंहृतः । तत्र विरक्तीत्यथशब्दस्य सिद्धेरित्यन्तेनातः शब्दस्याशेषगुणेति नारायण इति च ब्रह्मशब्दस्य चार्थोपसंहार इति विवेकः । अशेषमिति स्वरवर्णपदाद्यात्मकं सर्वमपि शास्त्रं भक्त्या पठतामत्यन्तं मङ्गलं मोक्षादिसाधनं भवतीत्यर्थः । विशेषणत्रयतात्पर्यं वदन्नेवाह ।। अथेति ।। गुरव इत्यस्य तात्पर्यं यच्छिष्यतयेत्यादि । ज्ञानदातुरेव गुरुत्वं सुप्रसिद्धमिति भावः । सर्वथेत्यस्य तात्पर्यं निरुपाधिकेति ।। परमाप्तत्वं दर्शयन्निति ।। दर्शितमित्यनेन वाक्यार्थतात्पर्यज्ञानस्य विप्रलंभकत्वे ज्ञानोपदेशाय प्रेरणायोगो, निहितमित्यनेन विप्रलंभकत्वस्य, कृतमिदं भाष्यमित्यनेन विवक्षाकरण-पाटवयोरुक्तत्वादिति भावः । व्यवहितत्वादन्वयप्रदर्शनपूर्वकं व्याचष्टे ।। यस्येत्यादिना ।। दिव्यानीत्यस्यार्थः क्रीडादिगुणयुक्तानीति । हराविति सप्तमीत्याशयेनोक्तं हरिविषयतयेति । तच्छब्दार्थो मूलरूपमिति । बडित्यस्यार्थो बलात्मकमिति । इत्थंभूतमेव बलाद्यात्मकमेव रूप-त्रयावतारप्रेरितमित्यनेनावतारणामपि बलाद्यात्मकत्वमभिप्रेति । रामवच इत्यत्र कर्तरि षष्टीमभि-प्रेत्याह ।। रामस्य वचांसीति ।। कर्मणि षष्टीमभिप्रेत्याह ।। रामविषयकवचांसीति ।। पक्षद्वये वचांसि नयतीति वचोनयमिति व्युत्पत्तिर्दर्शिता । रामवचांसि यो नयति । अनेन रामवचांसि नयो यस्य तदिति बहुव्रीहिरित्युक्तम् । साधको रामावाक्यानामित्यर्थत्रयानुगुणप्रमाणसद्भावात् रामस्या-मृतस्वरूपस्य वचस्तेनानयंत हीत्याद्यद्वितीययोर्विशेषप्रमाणप्रमितत्वाच्चेति भावः । पृक्षशब्दार्थमाह ।। कुरुपृतनेति ।। कुरुसैन्येत्यर्थः । पृतनाक्षयकारित्वात्पृक्ष इत्युच्यते बुधैरिति प्रमाणादिति भावः । ‘मध्वित्यानन्द उद्दिष्टो वेति ज्ञानमुदाहृतम्’ इति प्रमाणानुसारेण मध्वशब्दार्थमाह ।। आनन्द-रूपस्येति ।। मधुव इति वक्तव्ये उकारलोपान्मध्व इति साधु । यथा ॐ सुवरिति वक्तव्ये स्वरिति ऋग्वेदिनां पाठः । अथायं समापितव्याख्यानो जयतीर्थमुनिर्मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि शास्त्राण्यायुष्मत्पुरुषकाणि भवन्तीत्युक्त्या अन्तेऽपि मङ्गलमाचरन् स्वीकृतमुख्यफलत्वेन भगव-त्प्रीतिमाशास्ते ।। उत्पत्तीति ।। यस्य गुणगणाकरस्य करुणाख्यपीयूषेण वारां निधेः समुद्रस्याज्ञया रमाब्रह्मादिसर्वजगत उत्पत्तिस्थितिसंहृतिमुखाः अष्टभावा धर्माः क्वचिद्व्यस्ताः विस्तृताः क्वचि-त्समस्ताः । निरस्ताशेषदोषनिकरो येनासौ नारायणः अनेन भाष्यव्याख्यानेन प्रीतः सन्तुष्टोऽ-स्त्वित्यर्थः । नन्वानन्दतीर्थभगवद्वचसां विशिष्टव्याख्यानकर्मणि सुरा ह्यधिकारिणोऽत्रेति तत्वनिर्णयांते स्वेनोक्तत्वात्कथमिदं भाष्यव्याख्यानमित्याशङ्कां परिहरन् व्याख्यानप्रसक्तिं स्वाहंकारं प्रशमयति ।। अगाधबोधैरिति ।। देवादिभिर्विवृतोऽत्यन्तभावो यस्य तस्य । भाष्यानुवादे-नानुसृत्यवादेन व्याख्यानेनेति यावत् । अत्र दृष्टान्तमाह ।। न हीति ।। मन्दधनैः दरिद्रैः स्वकृतग्रन्थस्य तत्वप्रकाशिकानामकरणे प्राप्तकौमुदीसाम्यमुपपादयन्नवान्तरप्रयोजनं चाह ।। मध्वेति ।। विष्ण्वाद्यखिलतत्वप्रकाशकरी मध्वाख्यदुग्धाब्धिव्याख्येंदूदिता ग्रन्थाख्यकौमुदी सज्जनाख्यकुमुदानामानन्ददायिनी भूयादित्यशेषमतिमङ्गलम् ।।
सम्पूर्णगुणनिर्दोषरूपिणे मुक्तिदायिने ।
वेदगम्याय रामाय नमः श्रीपतये सदा ।। १ ।।
तत्वप्रकाशिकासंस्थवाक्यार्थमणिमञ्जरी ।
प्रियतां हृदये धृत्वा सदये मध्ववल्लभः ।। २ ।।
तत्वप्रकाशिकाव्याख्यालब्धपुण्यमनुत्तमम् ।
प्राप्यास्मद्गुरवः प्रीताः क्रियासुः करुणां मयि ।। ३ ।।
इति श्रीमत्तत्वप्रकाशिकावाक्यार्थमञ्जर्यां शर्कराश्रीनिवासविरचितायां
चतुर्थाध्यायस्य चतुर्थः पादः समाप्तः ।।
।। इति चतुर्थाध्यायस्य चतुर्थः पादः ।।
।। इति चतुर्थाध्यायः समाप्तः ।।