ॐ अतः प्रबोधोऽस्मात् ॐ

५. प्रबोधाधिकरणम्

सूत्रभाष्यम्

।। ॐ अतः प्रबोधोऽस्मात् ॐ ।। ८ ।।

यतस्तस्मिन्सुप्तिः ।

एष एव सुप्तं प्रबोधयत्येतस्माज्जीव उत्तिष्ठत्येष प्रमातैष परमः’

इति (हि) कौण्डिन्यश्रुतिः ।

तत्त्वप्रदीपिका

यतस्तस्मिन्परमात्मनि सुप्तिस्तदभिध्यानादेव च, अतस्तस्मादेव प्रबोधस्तदिच्छयैव च ।

अङ्गुष्ठमात्रे पुरुषे कर्णिकाग्रस्थिते हरौ ।

 प्रविशन्ति सुषुप्तौ तु प्रबुध्यन्ते ततस्तथा’ इति मानसंहितायाम् ।।

तत्त्वप्रकाशिका

अत्रेश्वरप्राप्तिसाधनभक्त्यर्थं तस्य सुप्तप्रबोधकत्वमहिम्नो वर्णनादस्ति शास्त्रादिसङ्गतिः । भगवतः सुप्तप्रबोधकत्वमहिमाभावे न तस्मिन्निरतिशया भक्तिरुत्पद्येताऽतोऽसौ वर्णनीयः । प्रकृतसुप्तिप्रबोधो विषयः । भगवदधीनो न वेति सन्देहः । सर्वस्य तदधीनत्वोक्तिर्विशेषानुक्तिश्च सन्देहबीजम् । नेश्वरैकाधीनः प्रबोध इति पूर्वः पक्षः । प्रबोधकारणानां भेरीताडनादीनामपि दर्शनात् । न च तेषामकारणत्वे हेतुरस्ति येन जानीमस्तत्प्रतीतिर्भ्रान्तिरिति । अतः परमात्मनः सुप्तप्रबोधकत्वा-भावान्न महैश्वर्यमिति ।

सिद्धान्तयत्सूत्रं पठित्वा व्याचष्टे ।। अत इति ।। सुप्तप्रबोधोऽप्यस्मात्परमात्मन एव भवति । जीवस्य तस्मिन्नेव सुप्तत्वस्य प्रागुक्तत्वात् । न हीश्वरेण स्वान्तर्निवेशितस्तत्प्रेरणामन्तरेणोद्बोद्धुं शक्नोतीति भावः । दृश्यते भेरीताडनादीनामपि प्रबोधहेतुत्वं तदनन्तरं प्रबोधदर्शनात् । अतः कथं भगवदेकाधीन इत्यत आह ।। एष इति ।। सावधारणश्रुतिविरोधान्निमित्तमात्रविषयं प्रत्यक्षमिति भावः । अतः सुप्तप्रबोधकत्वेनातिमाहात्म्यवतो हरेर्भक्तिर्युक्तेति सिद्धम् ।

भावबोधः

सुप्तप्रबोधकत्वेति ।। सुप्तिविचारानन्तरं तत्प्रबोधो विचार्यत इत्यनन्तरसङ्गतिरिति भावः । भगवदधीन इति ।। अत्र सुप्तप्रबोधो भगवदेकाधीनो न भवत्युत भवतीति चिन्ता । तदर्थं भेरीताडनादीनां पृथक्कारणत्वमस्ति न वेति । तदर्थं प्रबोधस्य भेरीताडनाद्यन्वय व्यतिरेकानु-विधायित्वप्रदर्शनं पृथक्त्वे प्रमारूपमुत भ्रम इति । प्रबोधस्य पृथगपि कारणदृष्टेः क्वचित्तदेवेति न्यायविवरणं मनसि निधाय पूर्वपक्षमाह– नेश्वरैकाधीनो बोध इति ।। एतेन क्वचित्तदेवेति साध्यप्रतिपादकांशो व्याख्यातः । पृथगपि कारणदृष्टेरिति हेतुवाक्यं योजयति– प्रबोधकारणा-नामिति ।।

ननु ‘देहयोगाद्वासोऽपि’ इत्यत्र कालस्याचेतनत्वेन जागरावस्थायाः कालाधीनत्वग्राहि-प्रत्यक्षस्यापि निमित्तमात्रविषयस्योक्तत्वात् तद्वदत्रापि भेरीताडनादीनामचेतनत्वेन सुप्तिप्रबोधस्य तदधीनत्वग्राहिप्रत्यक्षस्यापि निमित्तमात्रविषयत्वसम्भवात् कथं पूर्वपक्षोत्थानमिति चेत् न । तत्र जागरावस्थायाः कालमात्राधीनत्वेन पूर्वपक्षोऽत्र तु सुप्तिप्रबोधस्येश्वराधीनत्वमङ्गीकृत्यैव क्वचिद्भेरी-ताडनादीनामपि स्वातन्त्र्येण कारणत्वमिति पूर्वपक्ष इति भेदात् । अत एवोक्तं न्यायविवरणे तत्र कालापेक्षयैवेति ।। अत्र तु क्वचित्तदेवेति ।।

ननु भेरीताडनादीनामचेतनत्वेनास्वातन्त्र्यात् कथं क्वचिदपि सुप्तप्रबोधस्य तन्मात्राधीनत्वेन पूर्वपक्ष इति चेत्; न । तेषामपि कारणत्वस्य प्रत्यक्षत एवोपलब्धेः । न चेयं भ्रान्तिः जागराव-स्थायाः कालाधीनत्वग्राहकप्रत्यक्षस्य भ्रमत्वे स एव जागरिते स्थापयतीति विशेषश्रुतिरूप-बाधकवदत्र तदभावात् । तदिदमाह– न च तेषामकारणत्वे हेतुरस्ति ।। येन जानीमः सा प्रतीतिर्भ्रान्तिरिति ।। ननु जीवस्य तस्मिन्नेव सुप्तत्वेऽपि सुप्तप्रबोधस्येश्वराधीनत्वं कुत इत्यत आह– सावधारणश्रुतिविरोधादिति ।। अनेन ‘न ऋते त्वत्क्रियते किञ्चनार’ इति श्रुतेस्तत्रापि ईशकृतत्वे सम्यग्ज्ञानादिति न्यायविवरणमप्युक्ततात्पर्यकम् । तत्रापि ‘त्वदृते’ इत्यवधारणार्थ-स्योक्तेरिति ।

भावदीपः

सुप्तप्रबोधकत्वेति ।। निर्बाधाक्षसिद्धान्याधीनत्वशङ्कायाः प्रागुक्तसुप्तप्राप्यत्वहेतुनैव निरासेनेति योज्यम् । तेन प्रबोधस्य जागरणैकदेशतया तस्येवास्यापीशाधीनत्वं सिद्धमिति निरस्तम् । एतेन प्रागुक्तमुपजीव्यास्य प्रवर्तनात्सङ्गतिर्ध्येया । प्रकृतेति सुप्तिविशेषणम् । यद्वा सुप्त्युक्त्या तत्प्रबोधो बुद्धिस्थ इति प्रबोधविशेषणम् ।। भगवदिति ।। भगवदेकाधीनो न वेत्यर्थः । प्रबोधस्य पृथगपि कारणदृष्टेः क्वचित्तदेवेति न्यायविवरणे क्वचिदित्युक्त्याऽन्यत्रेश्वरोऽपि कारणमिति सूचितम् । तदनुरोधेन श्रौतावधारणव्यावर्त्यं व्यंजयन् साध्यमाह ।। नेश्वरैकेति ।। किंतु क्वचिदीश्वराधीनः क्वचित्कारणान्तराधीन इत्यर्थः । पृथगपीत्यादिहेत्वर्थमाह ।। प्रबोधेति ।। देहयोगादित्यत्र कालाधीनत्वप्रत्यक्षवन्निमित्तत्वमात्रपरं प्रत्यक्षं किं नेत्यतो वैषम्यमाह ।। न चेति ।। तत्र स एव जागरित इति श्रुतिविरोध एव हेतुरिति भावः ।। अत इति ।। निर्बाधान्याधीनत्वग्राहि-प्रत्यक्ष-बलादित्यर्थः ।। परमात्मन इति ।। परमात्मन एवेत्यर्थः । यद्वा क्वचित्तदेवेत्यन्यत्रोक्त्या यत्र भेरीताडनादिरेव हेतुः नेश्वर इत्यभिमानः तदभिप्रायेण यथान्यासमेवास्तु । अतः सन्देहोऽपि यथान्यास एव उक्तः । नेश्वरैकेति पूर्वपक्षकोट्युक्तिस्तु सार्वत्रिकबोधाभिप्राया । सूत्रार्थमाह ।। सुप्तेति ।। यतस्तस्मिन् सुप्तिरिति भाष्यदिशाऽतःशब्दार्थमाह ।। जीवस्येति ।। तस्मिन्नेव नाडीस्थपरमात्मन्येवेत्यर्थः । तस्य हेतुत्वं व्यनक्ति ।। न हीति ।। ‘अङ्गुष्ठमात्रे पुरुषे कर्णिकाग्र-स्थिते हरौ । प्रविशंति सुषुप्तौ तु प्रबुध्यन्ते ततस्तथा’ इति स्मृत्यनुरोधात्स्वान्तर्निवेशित इत्युक्तम् । निवेशश्च प्राणद्वारा ज्ञेयः । ‘देहाद्देहान्तरगतौ प्रविशेत्प्राणमेव तु । जीवः प्राणः परात्मानमेवं सुप्तावपि स्फुटम्’ इति स्मृतेः । श्रौतावधारणव्यावर्त्यप्रदर्शनायोक्तं भगवदेकाधीन इति ।। अत इति ।। परमात्मन एव स्वापकत्वादित्यर्थः ।

अभिनवचन्द्रिका

नेश्वरैकाधीन इति ।। न सर्वोऽपि प्रबोध ईश्वराऽधीनः । किं नाम अकस्माज्जात एवेश्वराधीनः । अन्यस्तु भेरीताडनादिकारणान्तरजन्य इत्यर्थः ।। प्रबोधकत्वाभावादिति ।। सर्वसुप्तप्रबोधकत्वा-भावादित्यर्थः ।। निमित्तमात्राविषयमिति ।। या तु भेरीताडनादीनां स्वतन्त्रकारणत्वावगाहिनी प्रतीतिरुत्पद्यते सा भ्रमः । सावधारणश्रुतिविरुद्धत्वात् । या तु निमित्तत्वमात्राऽवगाहिनी सा प्रमेति भावः । एतेन प्रतीतेर्व्याख्यानाऽनर्हत्वात् निमित्तमात्रविषयतया व्याख्यानमयुक्तमिति परास्तम् ।

पूर्वपक्षस्तु न सर्वोऽपि सुप्तप्रबोधः ईश्वराधीनः । क्कचित् भेरीताडनादीनां कारणत्व-दर्शनात् । अतः सर्वप्रबोधकत्वाभावात् न महैश्वर्यमिति ।

सिद्धान्तस्तु ईश्वराधीन एव सर्वसुप्तप्रबोधः । तत्रैव जीवानां सुप्तत्वेन तदाज्ञया विना प्रबोधायोगात् । भेरीताडनादीनां स्वतन्त्रकारणताग्राहिप्रतीतेः ‘एष एव सुप्तं प्रबोधयतीति श्रुतिविरुद्वत्वेनाऽप्रमाणत्वात् । अतः तस्यैव सर्वप्रबोधहेतुत्वात् महामहिमि्न युक्ता निरतिशया भक्तिरिति सिद्धम् ।

वाक्यार्थमुक्तावली

प्रकृतसुप्तीति ।। सुप्तिविचारानन्तरं तत्प्रबोधविचार इत्यनन्तरसङ्गतिरिति भावः । सुप्तिप्रबोधो भगवदधीनो न भवत्युत भवतीति चिन्ता । तदर्थं प्रबोधस्य भेरीताडनाद्यन्वयव्यतिरेकानु-विधायित्वदर्शनं तेषां नियममात्रत्वेन नोपपद्यत उतोपपद्यत इति । नेश्वरैकाधीन इति । न सर्वोऽपि प्रबोध ईश्वराधीनः, किन्नामाकस्माज्जात एवेश्वराधीनः । अन्यस्तु भेरीताडनादिकारणान्तरजन्य इत्यर्थः । एतेन सुप्तेरीश्वराधीनत्वे प्रातिस्विकवचनसद्भावेऽपि न विरोधः । तस्य भाक्तत्व-सम्भवादित्युक्तं भवति । यद्वोभयोरपि साम्येन प्रबोधकत्वान्नेश्वरैकाधीनत्वमित्यर्थः । कुत इत्यत एष एव सुप्तं प्रबोधयतीति श्रुताववधारणेन निरस्यं पृथग्भव इत्युक्तन्यायं प्रबोधस्येश्वरमन्तरेण पृथगपि कारणादृष्टेरित्यर्थतया दर्शयति ।। प्रबोधेति ।। ननु भेरीताडनादीनां कारणत्वदर्शनं स्वातन्त्र्येण कारणत्वविषयं चेत् भ्रान्तम् । कारणत्वमात्रविषयं चेत् निमित्तमात्रविषयतया सावकाशं कालादेरिव भेरीताडनादेरचेतनत्वेन स्वातन्त्र्येण प्रबोधाकारणत्वस्य द्वितीयतृतीयाधिकरणन्यायेन सिद्धत्वात् इत्यत आह । जाग्रदादेः स्वातन्त्र्येण कालाद्यधीनत्वे बाधकस्य स एव जागरिते स्थापयतीत्यादि-विशेषप्रमाणस्य सत्त्ववत् भेरीताडनादीनां स्वातन्त्र्येण प्रबोधकारणत्वे बाधकं विशेषप्रमाणं नास्ति ।। येन जानीमः तत्प्रतीतिर्भ्रान्तिरिति ।। अथवा निमित्तमात्रविषयेति । ‘न ऋते त्वत्क्रियते’ इत्यादिवाक्यं तु सामान्यवाक्यं भेरीताडनादेः कारणत्वग्राह्यन्वयव्यतिरेकिदर्शनबाध्यमिति न गतार्थतेति भावः । अत एव सर्वस्य तदधीनत्वोक्तिर्विशेषानुक्तिश्च सन्देहबीजमित्युक्तं ज्ञेयम् । सूत्रे अस्येत्यस्ति । अत इति आत्मनि तदभाव इत्युक्तस्य भगवति सुप्तत्वस्य हेतुतया प्रदर्शकः । अस्मादित्यात्मनीति प्रकृतात्मपरामर्श इति भावेन यतस्तस्मिन् सुप्तिरिति भाष्येऽतःशब्दा-पेक्षितहेतुप्रदर्शकतया व्याचष्टे ।। सुप्तप्रबोध इति ।। ननु जीवस्य तस्मिन्नेव सुप्तत्वेऽपि सुप्ति-प्रबोधस्येश्वराधीनत्वं कुत इत्यत आह ।। न हीश्वरेणेति ।। एतेन सुप्तिप्रबोधस्य क्वचिदीशाधीनत्वं क्वचिदन्याधीनत्वमिति निरस्तम् । सर्वेषामपि सुप्तावीशेनान्तर्निविष्टत्वेन न्यायसाम्यात् । तच्छ्रुतेरिति श्रुतेः प्रकृतत्वात् तत्परामर्शकतयाप्यतःशब्दं व्याकुर्वद्भाष्यमवतारयति ।। दृश्यत इति ।। सावधारणश्रुतिविरोधादिति ।। एतेन समानेति न्यायोऽपि प्रदर्शितो भवति । निमित्तमात्रमिति ।। एतानेवापेक्ष्यैव फलं ददानीति स्वतन्त्रेणापीशेन सङ्कल्पितत्वादीशक्लृप्तिनिमित्तमात्रविषयमित्यर्थः । ननु प्रबोधे सति शब्दश्रवणं तस्मिन् सति प्रबोध इत्यन्योन्याश्रयत्वमिति चेन्न । भेर्यादिशब्दे-नान्तर्यामिस्तुतिरूपेण प्रसन्नस्येश्वरस्य प्रबोधकत्वेन तावन्मात्रेण शब्दस्य निमित्तमात्रत्वोपपत्तेः । स्पष्टं चैतदन्यत्रेति ।

तत्त्वसुबोधिनी

सुप्तप्रबोधकत्वेति ।। सुप्तिविचारानन्तरं तत्प्रबोधो विचार्यत इत्यनन्तरसङ्गतिरिति भावः । प्रबोधेति ।। ननु देहयोगादित्यत्र कालस्याचेतनत्वेनास्वातन्त्र्याज्जागरावस्थायाः कालानधीनत्ववत् भेरीताडनादीनामप्यचेतनत्वेन सुप्तिप्रबोधस्य तदनधीनत्वस्य पूर्वाधिकरणन्यायेन सिद्धत्वात्कथं पूर्वपक्ष इति चेन्न तत्र जागरावस्थायाः कालमात्राधीनत्वे पूर्वपक्षः । अत्र तु सुप्तिप्रबोधस्येश्वरा-धीनत्वमङ्गीकृत्यैव क्वचित् भेरीताडनादीनामपि स्वातन्त्र्येण कारणत्वमिति पूर्वपक्ष इति भेदात् । न च तथापि भेरीताडनादीनामचेतनत्वेनास्वातन्त्र्यात्कथं पूर्वपक्षोत्थानमिति वाच्यम् । तेषामपि कारणत्वस्य प्रत्यक्षत एवोपलब्धेः । न चेयं भ्रान्तिः । जागरावस्थायाः कालाधीनत्वग्राहक-प्रत्यक्षस्य भ्रमत्वे स एव जागरिते स्थापयतीति विशेषश्रुतिरूपबाधकवदत्र बाधकाभावादिति भावः । ननु जीवस्य तस्मिन्नेव सुप्तत्वेऽपि सुप्तिप्रबोधस्येश्वराधीनत्वं कुत इत्यत आह ।। न हीति ।। सावधारणेति ।। एष एवेति सावधारणश्रुतिविरोधादित्यर्थः ।

वाक्यार्थविवरणम्

प्रत्यक्षमिति ।। भेरीताडनादीनां प्रबोधहेतुत्वावगाहिप्रत्यक्षमित्यर्थः ।

वाक्यार्थमञ्जरी

सुप्तजीवस्य प्रबोधोऽस्मात्परमात्मन एव भवति । कुतः ? अतः जीवस्य परमात्मन्येव सुप्तत्वा-दित्यर्थः । ननु जीवस्य तस्मिन्नेव सुप्तत्वेऽपि सुप्तप्रबोधस्येश्वराधीनत्वं कुत इत्यत आह ।। न हीति ।।

।। इति प्रबोधाधिकरणम् ।। ५ ।।