ॐ भूम्नः क्रतुवज्ज्यायस्त्वं तथा च दर्शयति ॐ

३७. भूमाधिकरणम्

सूत्रभाष्यम्

।। ॐ भूम्नः क्रतुवज्ज्यायस्त्वं तथा च दर्शयति ॐ ।। ५९ ।।

सर्वगुणेषु भूमगुणस्य ज्यायस्त्वं क्रतुवत्सर्वत्र सहभावात् (दीक्षाप्रायणीयोदयनीय-सवनत्रयावभृथात्मकः क्रतुः इत्यधिकः पाठः क्वचित्) ।

भूमैव देवः परमो ह्युपास्यो नैवाभूमा फलमेषां विधत्ते ।

तस्माद्भूमा गुणतो वै विशिष्टो यथा क्रतुः कर्ममध्ये विशिष्टः ।।’

इति च गौपवनश्रुतिः ।

तत्त्वप्रदीपिका

इदमिदानीमालोच्यते । किं भूमगुणस्सर्वगुणैस्सामान्येनोपास्तौ वर्तते किं वा तेभ्यो वैशिष्ट्ये-नेति । ज्ञानादिचतुष्कोपासनादेव भूमगुणादृते मोक्षसिद्धेरुक्तत्वात्, अनुपसंहारप्रमाणे च आत्म-त्वस्यैव विशेषोदितत्वात्, भूमगुणस्य च महत्त्वपर्यायस्यावरेषामुपासितुमशक्यत्वान्न तस्य वैशिष्ट्य-मिति प्राप्त आह– ‘भूम्नः क्रतुवज्ज्यायस्त्वं तथा च दर्शयति’ ।। सर्वगुणेषु भूमगुणस्य प्राधान्यं सर्वत्र सम्बध्योपासनीयत्वेन । तमृत एकगुणस्याप्यनुपासनीयत्वात् । न च तदुपासनस्याशक्यत्वम् । प्रत्यधिकारिनानात्वस्य वक्ष्यमाणत्वात् । यथा सवनत्रयात्मकः क्रतुरहीनादिषु प्रत्यहं सम्बध्यमानो विशिष्टो भवति, तमन्तरेणैकस्याप्यह्नोऽननुष्ठेयत्वेन । ‘ध्रुवाः शास्त्राणामाताना’ इति च सत्राणि प्रकृत्य याज्ञिकोक्तिः ।। एवमिहापि ।। अतः पूर्णज्ञानः पूर्णानन्द इत्येवोपासनं कार्यमिति सिद्धम् ।

तत्त्वप्रकाशिका

अत्र ईश्वरदर्शनसाधनस्य भूमगुणोपासनस्य सर्वोपासकसाधारण्यसमर्थनादस्ति शास्त्रादि-सङ्गतिः । अन्यथा लौकिकतयोपासनप्रसङ्गात्समर्थनीयम् । प्रकृतभगवद्गुणान्तर्गतो ‘यो वै भूमा’ इत्यादौ श्रुतो भूमगुण एव विषयः । सर्वोपास्यो न वेति सन्देहः । गुणद्वैविध्यदर्शनं सन्देहबीजम् । तत्रोपासकं प्रति भूमगुणस्य सम्भृत्यादिगुणेभ्यो न विशेषः । सर्वोपास्यो न भवतीति पूर्वः पक्षः । वैय्यर्थ्यात् । आनन्दादिकं हि सर्वाधिकारिणामिष्टम् । तच्च तद्गुणोपासनेनोपपद्यते । न हि निरतिशयत्वापरपर्यायं भूमत्वं कस्यापीष्टं येन तदुपासनं सार्थकं स्यात् । न च भूमत्वस्यानन्दादि-विशेषणत्वात्सर्वोपास्यत्वम् । विशेषणत्वेऽपि प्रियशिरस्त्वादीनामिव फलानुपयोगित्वेनानुपास्य-त्वात् । अतो भूमत्वस्य सर्वोपास्यत्वाभावान्नालौकिकतयोपासनमिति । सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ।। भूम्न इति ।। सर्वैरुपास्यो भूमगुणः सर्वगुणेषु तस्य ज्यायस्त्वात् । कस्मात् । यथा खलु दीक्षाप्रायणीयोदयनीयसवनत्रयाऽवभृथात्मकस्य क्रतोः सर्वयागेष्वनुवर्तन एव साफल्यादन्यथा वैफल्याज्ज्यायस्त्वं ततश्च सर्वैः कर्तव्यत्वम् । तथा भूमत्वस्य सर्वत्रानन्दादिषु सहभावेनोपासन एवेष्टफलसिद्धेः । एतदपि कुतः । ‘भूमैव देवः’ इति श्रुतेरिति भावः । देवः सर्वैर्भूमत्वेनोपास्यः । कस्मात् । भूमा गुणो गुणराशितो यतः क्रतुवद्विशिष्टः । कथम् । यस्माद् भूमैवोपासितः फलं विधत्ते नैवाऽभूमा तस्मादित्यर्थः । अतः सर्वैरानन्दाद्याः पूर्णत्वेनोपास्या इति न लौकिक-तयोपासनमिति सिद्धम् ।

गुर्वर्थदीपिका

अत्रेश्वरदर्शनसाधनस्य भूमगुणोपासनस्येत्यत्र भूमगुणोपासनं नाम परमात्मन्यानन्दज्ञानादयो ये गुणा उपास्यन्ते तेषां सर्वेषां गुणानां भूमत्वापरपर्यायपूर्णत्वविशिष्टतयोपासनम् । अतश्चतुर्गुणो-पासकेष्वपि लौकिकानन्दादिगुणेभ्योऽप्यतिशयाय पूर्णानन्दः परमात्मा पूर्णज्ञानः परमात्मेत्यादि-रूपेणैवोपासनस्याभिप्रेतत्वेन पृथगुपासनाभावान्न चतुर्गुणोपासकत्वभङ्गः । न हि कुण्डलिनश्चत्वारः पुरुषा इत्युक्ते विशेषणीभूतकुण्डलैस्तच्चतुष्ट्वस्यासम्भव इति भावः । क्रतुवदित्यत्र क्रतुपदेन सकल-प्रधानयागाङ्गभूता अत एव सर्वत्र कर्तुं योग्यत्वात्क्रतुपदवाच्याः दीक्षाप्रायणीयोदयनीयाख्य-कर्मत्रयसवनत्रये क्रियमाणकर्मत्रयावभृथस्नानाख्याः कर्मविशेषाः कथ्यन्ते ।

भावबोधः

सर्वोपासकसाधारण्येति ।। अतीताधिकरणेऽन्यदेवतोपासनस्य कर्तव्यत्वमुक्त्वा प्रसङ्गा-द्भूमगुणोपासनस्यापि सर्वोपासकसाधारण्यमत्र समर्थ्यत इत्यनन्तरसङ्गतिरिति भावः ।। अन्यथेति ।। अन्यथाऽऽनन्दादीनां अपूर्णत्वेन उपासनाप्राप्तौ लौकिकतया उपासनप्रसङ्गात् ‘कार्याख्यानादपूर्वं’ इत्युक्तमयुक्तं स्यादिति भावः ।। सर्वेति ।। अत्र भूमगुणः सर्वोपास्यो न भवत्युत भवतीति चिन्ता । तदर्थं भूमगुणस्य सर्वत्रानन्दादिषु सहभावेनोपासनाभावेऽपि इष्टसिद्धिर्न भवत्युत भवतीति । भूमगुणस्योपासकं प्रति विशेषाभावेऽपीति पूर्ववाक्यानुसारेण विशेष इति न्यायविवरण-गतपूर्वपक्षप्रतिज्ञाभागं व्याचष्टे– तत्रोपासकं प्रतीति ।। अनेन सम्भृत्यादिगुणेभ्य इति विशेष इत्युक्तं भवति । तस्य तात्पर्यमाह– सर्वोपास्यो नेति ।। तत्तदिष्टगुणानुसारेण फलोपपत्तिरिति न्यायविवरणांशं व्याचष्टे– आनन्दादिकं हीति ।।

ननु भूमत्वस्यापीष्टत्वेन तदुपासनमपि सार्थकमेवेत्यत आह– न हीति ।। ‘भूमैव देवः’ इति श्रुतेरिति । इयमेव च श्रुतिः न्यायविवरणोदाहृतेति ज्ञातव्यम् ।

भावदीपः

सर्वेति ।। एतेन पूर्वत्राङ्गदेवतोपासनस्य सर्वसाधारण्योक्तिप्रस्तावादिहापि तदुच्यत इति पूर्वसङ्गतिरपि सूचिता ।। लौकिकतयेति ।। परमतः सेतून्मानेत्यत्र पूर्णत्वाख्योन्मानत्वादिनैवा-लौकिकत्वोक्तेरिह सर्वोपास्यानन्दादिगुणानां भूमशब्दितपूर्णत्वानुक्तौ हेत्वसिध्या परमित्युक्ता-लौकिकत्वायोगेन लौकिकत्त्वस्य प्राप्तेः । तथा च कार्याख्यानादपूर्वमित्युक्तालौकिकमोक्षाभावः स्यादिति भावः ।। इत्यादौ श्रुत इति ।। भूमा सम्प्रसादादित्यत्र भावभवित्रोरभेदविवक्षया भूमा विष्णुरित्युक्तावपि आध्यात्मसम्बन्धभूमेत्यादाविवात्र भूमशब्दो बहुत्वरूपपूर्णत्ववाची । बहुः पूर्णतायामित्युक्तेरिति भावेन इत्यादौ श्रुतो भूमगुण इत्युक्तं पूर्णगुणत्व इत्यर्थः । भूमगुणस्योपासकं प्रति विशेषाभावेऽपि तत्तदिष्टगुणानुसारेण फलोपपत्तिरित्यविशेष इति न्यायविवरणं विवृण्वन् प्रतिज्ञात्वेनान्वयपूर्वं तदेकदेशमुपादत्ते ।। तत्रेति ।। एवं सन्देहे सतीत्यर्थः । सम्भृत्यादिभ्य इति शेषोक्तिः । किमुक्तं भवतीत्यतः यथा सम्भृतिद्युव्याप्तिप्रियशिरस्त्वादिगुणा न सर्वोपास्यास्तथा भूमगुणोऽपीत्युक्तं भवतीति भावेन तद्वाक्यस्य फलितार्थमाह ।। सर्वोपास्यो न भवतीति ।। कुत इत्यतः सम्भृत्यादिभ्यो न विशेष इत्युक्त्यैव सम्भृत्याद्यनुपासनेऽप्यानन्दादय इत्युक्तगुणोपासने-नैवानन्दानुभवरूपमोक्षसिद्धिवत् भूमगुणानुपासनेऽपीति भूमोपासनस्य वैयर्थ्यरूपहेतुरपि लब्ध इति भावेनाह ।। वैयर्थ्यादिति ।। भूमगुणोपासनस्येति योज्यम् । तत्तदिष्टगुणानुसारेण फलोपपत्ति-रित्यंशवैयर्थ्योपपादकत्वेन व्याचष्टे ।। आनन्दादिकमिति ।। विशेषभावेऽपीत्यंशमपि पदसूचितशङ्कां दर्शयन् तत्तदिष्टगुणोक्त्यैव निरस्तेत्याह ।। न च भूमत्वस्येति ।। एके तु विशेषाभावेऽपीति पाठमुपेत्य व्याकुर्वते ।। अत इति ।। वैयर्थ्यादित्यर्थः ।। नालौकिकतयोपासनमिति ।। कार्याख्या-नादपूर्वमित्यत्रोक्तमिति भावः ।। ज्यायस्त्वोक्तेरसाङ्गत्यनिरासाय साध्यमध्याहृत्य तत्र हेतुत्वेन भाष्यं व्याचष्टे ।। सर्वैरिति ।। कस्मादिति ।। ज्यायस्त्वं तेनोपास्यत्वं च कुत इत्यर्थः । सिद्धेरित्यन्तेन समाधिः । दीक्षा यजमानसंस्कारकर्म । प्रायणीयोदयनीयौ क्रतोरादावन्ते क्रमेण कर्तव्याविष्टिविशेषौ । प्रातःसवनमाध्यन्दिनसवनतृतीयसवनभेदेन सोमाभिषवरूपसवनत्रयेत्यर्थः । अवभृथो नाम अप्स्ववभृथेन चरन्तीत्युक्तेष्टिविशेषः । क्रतोरग्निष्टोमस्य सर्वयागेषु द्वादशाहाद्यह-र्गणेष्वित्यर्थः ।। अत इति ।। भूमत्वसहभावेनैवानन्दाद्युपासनस्येष्टफलहेतुतायाः श्रुत्युक्तत्वादित्यर्थः ।

अभिनवचन्द्रिका

अन्यथेति ।। भूमगुणोपासनस्य सर्वसाधारण्यसमर्थनाभावे, चतुर्गुणोपासकानां प्रियशिर-स्त्वादीनामिव भूमत्वोपासनेऽप्यनर्थशङ्कया, लौकिकतयोपासनप्रसङ्गात् । भूमत्वपरित्यागेनाऽऽ-नन्दादिमात्रोपासनप्रसङ्गादित्यर्थः । अत्र टीकायाम् ‘सन्देहबीजम्’ इत्यतःपरं श्रूयमाणं ‘तत्रोपासकं प्रति भूमगुणस्य सम्भृत्यादिगुणेभ्यो न विशेष’ इति वाक््यं प्रक्षिप्तं, न टीकावाक््यम् । अनन्वितत्वादनावश्यकत्वाच्चेति द्रष्टव्यम् । भगवद्गुणेषु स्वतः तारतम्याभावात्केनहेतुना ज्यायस्त्वमुक्तमिति पृच्छति– कस्मादिति ।। दीक्षाद्यात्मकस्य क्रतो राजसूयाद्यपकृष्टस्यापि सर्वयागोपकारित्वेनोपाधिना प्राधान्यवत्, भूमगुणस्य साम्याविरोधेनैव सर्वोपासनाफलहेतुत्वेन प्राधान्यवत्, भूमगुणस्य साम्याविरोधेनैव सर्वोपासनाफलहेतुत्वेन ज्यायस्त्वमिति समाधानमाह– यथाखल्विति ।। अत्र टीकायां ‘अन्यथा वैफल्यात् ज्यायस्त्वम्’ इत्यतः परं ‘ततश्च सर्वैः कर्तव्यत्वम्’ इति वाक््यं प्रक्षिप्तम् । अवश्यं चैददेवं विज्ञेयम् । सूत्रभाष्ययोः भूमगुणस्य ज्यायस्त्वमात्रे क्रतोर्दृष्टान्तत्वेनोपादानात् ‘क्रतोर्यथा सर्वयागेष्वनुवर्तन एव साफल्यादन्यथा वैफल्यात् ज्यायस्त्वम्, तथा भूमत्वस्याऽऽनंदादिषु सहभावेनोपासन एवेष्टसिद्धेः’ इत्येव वक्तव्यत्वेन ‘ततश्च सर्वैः कर्तव्यत्वम्’ इति वाक््यस्यासङ्गतत्वात् ।

पुर्वपक्षस्तु– न भूमगुणः सर्वोपास्यः । वैयर्थ्यात् । न हि कस्यापि निरतिशयापरपर्यायं भूमत्वमिष्टम् । न चाऽऽनन्दविशेषणत्वादुपास्यत्वम् । प्रियशिरस्त्वादौ व्यभिचारात् । अतो भूमत्वस्य सर्वोपास्यत्वाभावात् लौकिकतयोपासनमिति ।

सिद्धान्तस्तु– सर्वैरपि उपास्यो भूमगुणः । यथा खलु दीक्षाप्रायणीयोदयनीयसवनत्रयाव-भृथात्मकस्य क्रतोः सर्वयागेष्वनुवर्तन एव साफल्यात्, अन्यथा वैफल्याज्ज्यायस्त्वम्, तथा भूमत्वस्य सर्वत्राऽऽनन्दादिषु सहभावेनोपासन एवेष्टसिद्धेर्ज्यायस्त्वात् । तदुक्तम् ‘भूमैव देवपरमो ह्युपास्यो नैवाभूमा फलमेषां विधत्ते । तस्माद्भूमा गुणतो वै विशिष्टो यथा क्रतुः सर्वमध्ये विशिष्ट’ इति । अतः सर्वैरानन्दाद्याः पूर्णगुणत्वेनोपास्या इति न लौकिकतयोपासनमिति सिद्धम् ।

वाक्यार्थमुक्तावली

अत्र यथा देवेषु गुणोपसंहारः सर्वाधिकारिको न भवति तत्साध्यफलातिशयस्य सर्वेषा-मनपेक्षितत्वादित्युच्यत एवमेव भूमत्वमपि न सर्वैरुपास्यम् । तत्साध्यनिरतिशयपूर्तेः सर्वेषामनिष्ट-त्वादिति न्यायसाम्येनाक्षेपोत्थानादनन्तरसङ्गतिः ।। अन्यथेति ।। आनन्दादेः भूमत्वानुपासन इत्यर्थः । तथा च कार्याख्यानादपूर्वमित्युक्तमयुक्तं स्यादिति भावः । यो वै भूमा तत्सुखमित्यादौ श्रुतो भूमगुण इति । यद्यपि भूमा सम्प्रसादादित्यत्र भूमशब्दः पूर्वपक्षे सिद्धान्ते च गुणिपरत्वे-नोक्तस्तथापि तत्र भावभवितृभेदेन धर्मिपरत्वेन स्वीकारेऽपि वस्तुतो भाववाचकशब्दत्वाद्गुण इति साधूक्तम् ।। सर्वेति ।। अत्र भूमगुणः सर्वोपास्यो न भवत्युत भवतीति चिन्ता । तदर्थं तदुपासनं व्यर्थमुतानन्दाद्युपासनस्य फलवत्त्वात्सार्थकमिति । अत्र सूत्रे भूम्नो ज्यायस्त्वमिति सम्भृत्यादि-गुणेभ्य उपासकं प्रति भूमगुणस्य वैशेष्योक्त्या निरसनीयं पूर्वपक्षमाह ।। अत्रेति ।। तदुक्तं न्यायविवरणे । भूमगुणस्योपासकं प्रत्यविशेष इति । ततश्च किमित्यत आह ।। सर्वोपास्य इति ।। कथमविशेषो येनोपास्यत्वाभाव इत्यतः तद्वत्फलानुपयोगित्वेन व्यर्थत्वादित्याह ।। वैय्यर्थ्यादिति ।। वैय्यर्थ्यमेवेष्टं फलमिति न्यायप्रदर्शनपूर्वकमाह ।। आनन्दादिकमिति ।। भूमत्वस्यापि सर्वाधि-कारिणामिष्टत्वे तदप्युपास्यमेवेत्यत आह ।। न हीति ।। अधिकारिवर्गे निरतिशयतत्वस्य हिरण्यगर्भस्येष्टत्वेऽपि तदितरस्य कस्यापीत्यर्थः ।। विशेषणत्वेऽपीति ।।

ननु प्रियशिरस्त्वादीनामानन्दविशेषत्वादिति सामान्यविशेषभावः प्रागुक्तः । इह तु पूर्ववत्तद्विशेषणमुच्यते । कथमविरोध इति चेन्न । प्रियशिरस्त्वं हि प्रियशिरसो भावः । तच्च शिरोरूपमुपकारजं सुखम् । तस्यानन्दविशेषवत्वेऽप्युपकारजत्वनारायणात्मकशिरोरूपत्वादिकं सुखस्य विशेषणमेवेति तद्विवक्षयाऽयं ग्रन्थः प्रवृत्त इत्यविरोधोपपत्तेः सूत्रोक्तं ज्यायस्त्वं हेतुरिति भावेन साध्यमध्याहरति ।। सर्वैरिति ।। यद्वा ज्यायस्त्वमित्यस्यैव सर्वोपास्यत्वमित्यर्थं मत्वोक्तं सर्वैरिति । तद्धेतुतया प्रकारान्तरेण व्याचष्टे ।। सर्वगुणेष्विति ।। कस्माद्धेतोर्ज्यायस्त्वं भगव-द्गुणत्वाविशेषादिति भावः । क्रतुवदिति दृष्टान्तबलाल्लब्धं क्रतुवत्सर्वत्र सहभावादित्युक्तं हेतुं विशदयति ।। यथेति ।।

ननु क्रतुशब्दस्य दीक्षाद्यङ्गकलापविशिष्टज्योतिष्टोमवाचित्वात्कथं तस्य विश्वजिदादियागेषु अनुवर्तनीयत्वमित्यत उक्तं भाष्ये । दीक्षाप्रायणीयोदयनीयसवनत्रयावभृथात्मकः क्रतुरिति । नात्र क्रतुपदेनाङ्गकलापविशिष्टो ज्योतिष्टोम उच्यते । किं नाम दीक्षाद्यात्मकः दीक्षादिरूपाङ्गकलाप एव क्रतुपदेन विवक्षित इति । तदेतदज्ञात्वा यत्केनचित्प्रलपितम् । दीक्षादिविशिष्टक्रतोः सर्वत्र सहभावप्रतिपादनं भाष्यकारीयं मीमांसाज्ञानमूलमिति तदपास्तं वेदितव्यम् । शिष्टिरित्युक्त-न्यायप्रदर्शकं तथा च दर्शयतीति सूत्रखण्डमवतार्य व्याचष्टे ।। एतदपीति ।। क्रत्वङ्गानां सर्वेष्व-न्वयेनैव फलहेतुत्वं तद्दृष्टान्तेन भूमत्वस्य सर्वत्रानन्दादिषु सहभावेनैवानन्दादिगुणानां फलहेतुत्वेन ज्यायस्त्वम् । अत एवोपास्यत्वमित्येतदेवेत्यर्थः । अभूमा भूमत्वेनानुपासितः । यद्यपि मायावादखण्डने भूम्नो ज्यायस्त्वमित्युक्तं सूत्रेष्विति । महाभारततात्पर्यनिर्णये च भूम्नो भूमगुणस्य ज्यायस्त्वं मुख्यतः सर्ववेदादिप्रतिपाद्यत्वमित्यर्थ उक्तः । तथापि बह्वर्थत्वादविरोधः । तथा चायं सूत्रार्थः । भूम्नो भूमस्य सर्वोपास्यत्वम् । कुतः । च यस्मात् सर्वेषु ज्यायस्त्वम् । तदपि कुतः । क्रतुवत् दीक्षाद्यङ्गकलापस्य सर्वयागेष्विव भूमत्वस्य पूर्णानन्दः पूर्णज्ञान इत्यादिप्रकारेण सर्वगुणेषु विशेषणतः सहोपास्त्यैव फलप्रापकत्वात् । न चेदमप्रामाणिकम् । च यस्माद्दर्शयति तथा श्रुतिरिति ।

तत्त्वसुबोधिनी

सर्वोपासकसाधारण्येति ।। अतीताधिकरणेऽन्यदेवतोपासनस्य सर्वैः कर्तव्यत्वमुक्त्वा प्रसङ्गात् भूमगुणोपासनस्यापि सर्वोपासकसाधारण्यमत्र समर्थ्यत इत्यनन्तरसङ्गतिरिति भावः ।। अन्यथेति ।। अन्यथा आनन्दादीनामपूर्णत्वेन उपासनाप्राप्तौ लौकिकतया उपासनप्रसङ्गात् कार्याख्यानाद-पूर्वमित्युक्तमयुक्तं स्यादिति भावः । पूर्वपक्षमाह ।। तत्रोपासकं प्रतीति ।। तस्य तात्पर्यमाह ।। सर्वोपास्यमिति ।। ननु भूमत्वस्यापीष्टत्वेन तदुपासनमपि सममेवेत्यत आह ।। न हीति ।। दीक्षेत्यादिभाष्यस्यायं भावः । यथा सवनत्रयात्मकः क्रतुरहितादिषु प्रत्यक्षसम्बध्यमानविशिष्टो भवति । तमन्तरेण कस्याप्ययं हेतुत्वे न त्वत एकगुणस्यामनुष्टेयत्वं न ध्रवाः शस्त्रायातामताना इति सूत्राणि प्रकृत्यपातिकोक्तिरेवमिहापि सर्वगुणेषु भूमगुणस्य प्राधान्ये सर्वत्रसम्बध्य उपासनावत्वेन तत एकगुणस्याप्यनुपासनीयत्वादिति । अप्रतीतार्थत्वात्  श्रुतिं व्याचष्टे ।। देव इति ।।

वाक्यार्थविवरणम्

अन्यथा ।। पूर्णज्ञानेत्यादिरूपेण ज्ञानादिविशेषणतया पूर्णत्वापरपर्यायभूमगुणस्यानुपास्यत्वे भगवद्ज्ञानादिगुणानां लौकिकत्वेन उपास्यत्वप्राप्त्या कार्याख्यानादित्युक्तालौकिकतयोपासनं अयुक्तं स्यादिति भावः । भूमगुणस्योपासकं प्रति विशेषाभाव इति पूर्वपक्षकथनपरन्यायविवरणमपेक्षिता-ध्याहारेण व्याकुर्वन्नेव तदनुसारेण पूर्वपक्षमाह ।। तत्रोपासकं प्रतीति ।। तस्याभिप्रायमाह ।। सर्वोपास्य इति ।। यथा सम्भृत्यादिगुणानां न सर्वोपास्यत्वं तथा भूमगुणस्यापीत्यर्थः ।। वैय्यर्थ्यादिति ।। भूमगुणोपासनस्येत्यर्थः ।। तद्गुणेति ।। स चासौ गुणश्चेति विग्रहः । आनन्दादिगुणेत्यर्थः ।। फलानुपयोगित्वेनेति ।। तदुपासनस्यायोग्यतयेत्यर्थः ।। नालौकिकत-येति ।। आनन्दादेः पूर्णत्वेनोपासने खलु अलौकिकतयोपासनं भवति । भूमत्वस्य सर्वोपास्य-त्वाभावे आनन्दादीनां लौकिकत्वेन उपासनमेव प्राप्तमिति भावः । यथा खलु दीक्षाप्रायणीयो-दयनीयेत्यादि । प्रायणीयोदयनीयनामकमिष्टिद्वयम् ।

ननु दीक्षा प्रायणीयोदयनीयसवनत्रयावभृथात्मकस्य क्रतोः सर्वत्र यज्ञेषु सहभावाज्ज्यायस्त्वमुक्तं तत्रेदं शङ्क्यते । एतादृशक्रतोः कथं सर्वत्र सहभावः । दीक्षावभृथयोः सर्वत्र सहभावेऽपि प्रायणीयोदयनीयेष्टयोः सर्वत्र कथं सहभावः । सवनत्रयस्य तु सहभावः सर्वथा असम्भावित एव । सुत्यासवनशब्दौ तु पर्यायत्वेन सम्मतावित्युक्तेः । यस्मिन् अह्नि सोमः कण्ड््यते स कालः सुत्येति व्याख्यानाच्च । सवनत्रयस्य सोमयागसाधारणधर्मतया तदितराश्वमेधादिसर्वयज्ञेषु सोमकण्डनाभावेन सवनत्रयस्याप्रामाणिकत्वादिति । तत्रेदमुत्तरम् । सर्वत्रेत्यनेन न सर्वयज्ञा विवक्षिताः । किन्तु सोमयागप्रभेदरूपा या अग्निष्टोमात्यग्निष्टोमातिरात्रषोडश्युक्थवाजपेयात्पुर्यामसंज्ञकाः सप्त संस्थाः एव विवक्षिताः । तासु च सर्वत्र प्रायणीयोदयनीयसवनत्रयाणामस्त्येव सहभावः । तदभिप्रायेणैव सर्वत्रेत्युक्तम् । न च प्रधानयाग एव सवनत्रयम् । न तदङ्गभूतसप्तसंस्थास्त्विति वाच्यम् । य षोडशीरूपसंस्थायां तावत्सवनत्रस्य सद्भावः । ‘पीतवद्वै प्रातःसवनम्’ इत्यादिना महानाम्नीना-मित्यादिखण्डे स्पष्टं प्रतिपादितः । तद्वदग्निष्टोमादिषट्कसंस्थास्वपि सवनत्रयमस्तीति न कोऽपि दोष इति ध्येयमित्याहुः ।

वाक्यार्थमञ्जरी

अन्यथेति ।। पूर्णत्वस्यानुपास्यत्वे आनन्दादीनामपूर्णत्वेनोपासनाप्राप्तौ लौकिक तयोपासन-प्रसङ्गादित्यर्थः । तथा च कार्याख्यानादपूर्वमित्युक्तालौकिकत्वानुपपत्तिरिति भावः । ततः किमित्यत आह ।। सर्वोपास्यो नेति ।। सम्भृत्याद्यविशेषेऽपि कुतो न सर्वोपास्यत्वमत आह ।। वैय्यर्थ्यादिति ।। तदेव व्यनक्ति ।। आनन्दादिकं हीति ।। ननु भूमत्वस्यापीष्टत्वेन तदुपासनमपि सार्थकमेवेत्यत आह ।। न हीति ।। ॐ भूम्नः क्रतुवज्जायस्त्त्वं तथा च दर्शयति ॐ ।। भूम्नः भूमगुणस्य सर्वगुणेषु जायस्त्वं प्राधान्यं कथं क्रतुवत् यथा दीक्षाद्यङ्गकलापस्य विश्वजिदादि-सर्वयागेष्वनुवृत्तावेव तद्योग्यानुष्ठानफलहेतुत्वेन प्राधान्यं तथा तद्वद्भूमगुणस्य सर्वगुणानुवृत्तत्वेन फलहेतुत्वं कुत इत्यत उक्तम् ।। तथा च दर्शयतीति ।। च यस्माद्भूमैव देव इति श्रुतिः तथा उक्तार्थं दर्शयत्यत इत्यर्थः । यद्यपि क्रतुशब्दो दीक्षाद्यङ्गविशिष्टयागवाचकत्वेन मीमांसकप्रकरण-सिद्धः तथाप्यत्र तदङ्गकलापमात्रपरो ग्राह्यः सहभावेन तद्विशेषणत्वेन ।

।। इति भूमाधिकरणम् ।। ३७ ।।