ॐ अविभागेन दृष्टत्वात् ॐ

४. अविभागाधिकरणम्

सूत्रभाष्यम्

।। ॐ अविभागेन दृष्टत्वात् ॐ ।। ४ ।।

ये भोगाः परमात्मना भुज्यन्ते त एव मुक्तैर्भुज्यन्ते ।

यानेवाहं शृृणोमि यान् पश्यामि याञ्जिघ्रामि तानेवैत इदं शरीरं विमुच्यानुभवन्ति’ इति दृष्टत्वाच्चतुर्वेदशिखायाम् ।

भविष्यत्पुराणे च–

मुक्ताः प्राप्य परं विष्णुं तद्भोगाल्लेशतः क्वचित् ।

 बहिष्ठान्भुञ्जते नित्यं नानन्दादीन्कथञ्चन’ इति ।।

।। इति अविभागाधिकरणम् ।। ४ ।।

तत्त्वप्रदीपिका

स्वरूपानन्दव्यतिरेकेण बहिर्भोगाश्च सन्ति मुक्तानामित्युक्तम् । के पुनस्त इत्याकाङ्क्षायां प्राप्तं ये परमेश्वरस्य भोगा न ते मुक्तानां भोग्याः, तदन्य एव, तस्य परमैश्वर्यवतो भोगानामत्युच्चत्वात्, ततो निकृष्टानां तत्तन्त्राणां तदनधिकारात्, ‘न चाऽधिकारिकमपि’ इत्युक्तन्यायाच्चेत्यत आह– अविभागेन दृष्टत्वात् ।। ये परमात्मभोग्या न तेभ्योऽन्ये मुक्तभोग्याः । सर्वभोगवत्वात्तस्य । किन्तु अविभागेन तेषामेव केचिदत्यल्पा मुक्तैर्भुज्यन्ते । तथा दृष्टत्वात्स्मृतत्वाच्च । यथा राजादिषु मन्त्र्यादयः सामान्यभोगान्गीतलास्यादीननुभवन्ति । न त्वसाधारणानन्तः पुरादिगोचरान् । विभक्तभोग्याङ्गीकारे परमात्मनस्तद्भोगाभावात्सुखापरिपूर्तिप्रसङ्गः ।।

तत्त्वप्रकाशिका

अत्र सायुज्यभाजां भगवद्भुक्तभोगभोक्तृत्वसाधनादस्ति शास्त्रादिसङ्गतिः । अन्यथेश्वरस्य सर्वभोक्तृत्वासिद्धेः समर्थनीयमेतत् । परमात्मानं प्राप्य मुक्तो भोगान् भुङ्क्त इत्युक्तम् । प्राप्तिश्च सायुज्यादिरूपा । तत्र ते भोगा एव विषयः । किं परमात्मभुक्ता एव सायुज्यभाग्भिर्भुज्यन्ते उतान्य इति सन्देहः । उभयथापि सम्भवः सन्देहबजीजम् । परमात्माभुक्ता इति पूर्वः पक्षः । मोक्षस्य परमपुरुषार्थत्वेन परमात्माभुक्तभोगानामपि सौलभ्यात् । परमात्मभुक्ता एवेति नियमे कदाचित् सञ्जातभोगेच्छानामपि मुक्तानां भोगाभावप्रसङ्गात् । ईश्वरस्य नित्यपूर्णानन्दत्वेन कदाचिदभोगस्यापि सम्भवात् । ततश्च मोक्षस्यापुरुषार्थत्वापत्तिः स्यात् । अतो भगवदभुक्तभोगभोक्तृत्वान्मुक्तानां न तस्य सर्वभोक्तृत्वमिति । सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ।। अविभागेनेति ।। ये भोगाः परमात्मना भुज्यन्ते त एव मुक्तैर्भुज्यन्ते न तु तदभुक्ताः । तथा श्रुतेरित्यर्थः । न च परमगतित्वादे-तत्कल्प्यम् । मुक्तानां परमात्मभुक्तभोगाङ्गीकारेऽपि तदुपपत्तेः । न च कदाचिदुक्तरीत्या भोगाभावः । ‘पूर्णानन्दः पूर्णभुक् पूर्णकर्ता’ इतीश्वरस्य पूर्णानन्दत्वेऽपि पूर्णभोगश्रवणात् । ननु भगवद्भुक्ताशेष-भोगा मुक्तैर्भुज्यन्ते केचिद्वा । आद्ये तत्साम्यापातः । न द्वितीयः । ‘यानेव’ इति सामान्यतः सर्वभोगश्रवणादित्यत आह ।। भविष्यदिति ।। विशेषस्मृत्या सामान्यश्रुतेः सङ्कोच इति भावः । अतो मुक्तानां भगवद्भुक्तभोगभोक्तृत्वाद्युक्तं तस्य सर्वभोक्तृत्वमिति सिद्धम् ।।

भावबोधः

अनन्तरसङ्गतिमाह– परमात्मानं प्राप्येति ।। पूर्वाधिकरणे ‘स तत्र पर्येति’ इति वाक्योक्त-दिव्यभोगभोक्तृमुक्तप्राप्यस्य परञ्ज्योतिःशब्दवाच्यस्य विष्णुत्वसमर्थनेनास्य निष्टङ्कितत्वादिति भावः ।। किमिति ।। अत्र ‘रममाणः’ इत्यादिवाक्योक्ता रमणादिदिव्यभोगा मुक्तैः परमात्मभुक्ता एव भुज्यन्ते उत परमात्माभुक्ता एवेति चिन्ता । तदर्थं नियमपक्षे मुक्तैः परमपुरुषार्थत्वं न सम्भवत्युत सम्भवतीति । तदर्थं मुक्तानां कदाचित् कामिताप्राप्तिरुत सर्वदा कामिताप्राप्तिरेवेति । तदर्थं पूर्णानन्दस्यापि परमात्मनो भोगः किं कादाचित्कः उत सार्वकालिक इति । तदर्थं तद्भोगस्य सार्वकालिकत्वे प्रमाणं नास्त्युतास्तीति । परमगतित्वादीश्वराभुक्ता अपि भोगा मुक्तौ भवन्तीति न्यायविवरणानुसारेण पूर्वपक्षमाह– परमात्माभुक्ता इति ।। अनेनेश्वरेत्यादिप्रतिज्ञांशो व्याख्यातः । परमगतित्वस्य हेतुत्वं घटयति– मोक्षस्येति ।। ईश्वरस्य स्वत एव पूर्णानन्दत्वादभोगस्यापि सम्भवादिति न्यायविवरणं विपक्षबाधकप्रदर्शनपरत्वेन व्याचष्टे – परमात्मभुक्ता एवेति नियम इति ।। परमगतित्वहेतोरप्रयोजकत्वमाह– मुक्तानामिति । उक्ततर्कदूषणपरत्वेन

पूर्णानन्दः पूर्णभुक् पूर्णकर्ता पूर्णज्ञानः पूर्णभाः पूर्णशक्तिः ।

 आश्चर्यत्वाद्भगवान् वासुदेवो विरुद्धशक्तिर्न च दोषस्पृगीशः ।।’

इति आश्चर्यतयैव ब्रह्मण उभयोक्तेरिति न्यायविवरणं व्याचष्टे– पूर्णानन्द इति । न्यायविवरणगतस्योभयोक्तेरित्यस्य व्याख्यानं पूर्णानन्दत्वेऽपि पूर्णभोगश्रवणादिति ।।

ननूपपत्तित्वाविशेषात् परमगतित्वस्य कथमाश्चर्यत्वेन बाध इत्यत उक्तं न्यायविवरणे सावकाशोपपत्तिमात्रान्निरवकाशश्रुतियुक्तोपपत्तेरेव प्रबलत्वादिति । अत्र श्रुतिशब्देन ‘पूर्णानन्दः पूर्णभुक्’ इत्युदाहृतश्रुतिरेव ग्राह्या न तु श्रुतिलिङ्गमित्युक्तश्रुतिरिति ज्ञातव्यम् ।।

भावदीपः

भगवद्भुक्तभोगभोक्तृत्वेति ।। एतेन ब्रह्म प्राप्य भोगान् भुङ्क्ते मुक्त इति पूर्वनयैः सिद्धे सत्यत्र ते भोगाः कीदृशा इति जिज्ञासायां भगवद्भुक्तशेषा इति साधनात्पूर्वसङ्गतिः सूचिता । ब्रह्मप्राप्तेः सायुज्यादिरूपत्वात्सायुज्यभाजां प्राथमिकत्वात्तद्भोगविशेष आदौ चिंत्यत इति भावेन सायुज्यभाजामित्युक्तम् ।। अन्यथेति ।। भुक्तभोगाभोक्तृत्वे गुहां प्रविष्टावित्यत्र उक्तसर्वशुभ-भोक्तृत्वासिद्धेरित्यर्थः । एतद्विचारस्याप्रकृतत्वं निराह ।। परमात्मानमिति ।। सायुज्यादीति ।। सालोक्यं च समीपत्वं सारूप्यं योग एव चेति वक्ष्यमाणदिशा सालोक्यादिरादिपदार्थः । अतः सायुज्यभाजां भोगचिन्ताप्रकृतैवेति भावः ।। उभयथापीति ।। तस्य सर्वभोक्तृत्वान्मुक्तेः परम-पुमर्थत्वेन तदभुक्तभोगसौलभ्याच्चोभयथा सम्भव इति भावः । परमगतित्वादीश्वराभुक्ता अपि भोगा मुक्तौ भवन्तीत्यन्यत्रोक्तप्रतिज्ञाहेतू व्यनक्ति ।। परमेति ।। परमगतित्वं विषयसौलभ्ये हेतुर्न साक्षादिति भावः । हेतोरप्रयोजकत्वमाशङ्क्याह ।। परमात्मेति ।। सञ्जातेति ।। ननु मुक्तः किमर्थं विषयभोगानिच्छेत् । न तावत्सुखार्थम् । ज्ञानेनावरणभूताविद्यानिवृत्तावात्मस्वरूपसुखस्य व्यक्तत्वात् । नापि दुःखनिवृत्त्यर्थम् । अविद्यानिवृत्त्यैव तत्सिद्धेरिति चेन्मैवम् । नाविद्यैवात्म-स्वरूपस्यावरणम् । किं तु ईश्वरेच्छापि । तथा च ज्ञानेनाविद्यायां निवृत्तायामशेषानिष्टनिवृत्ति-र्भवति । स्वरूपसुखं च बहुतरं व्यज्यते । न तु सर्वम् । ज्ञानोत्तरानुष्ठितनिवृत्तकर्मणा प्रसन्नः परमेश्वरो मुक्तौ विषयानुत्पाद्य तद्भोगेन ज्ञानानभिव्यक्तमपि स्वरूपसुखं व्यक्तीकरोतीति प्रमेयदीपिकायामेवोक्तत्वात्सञ्जातभोगेच्छानामित्युक्तिर्युक्तैवेति ज्ञेयम् ।

नन्वविभागो वचनादित्यत्र भगवत्कामानुसारिकामवतां कुतो भोगाभावप्रसङ्गः । तथात्वे वा किमनिष्टमित्यत ईश्वरस्य स्वत एव पूर्णानन्दत्वात् । अभोगस्यापि सम्भवादित्यन्यत्रोक्तं व्यनक्ति ।। ईश्वरस्येति ।। अत इति ।। परमपुमर्थत्वान्मुक्तेर्विवक्षितहानिप्रसङ्गाच्चेत्यर्थः ।। य इत्यादिभाष्यं व्याचष्टे ।। य इति ।। भगवन्मात्रयोग्यभोगभोक्तृत्वभ्रान्तिं निरस्यन्नेवकारव्यावर्त्यमाह ।। न त्विति ।। एतेन श्रुतिगतैवकारोऽपि व्याख्यातः । भोगो नाम विषयदर्शनादिनिमित्त स्वरूपानन्द-विशेषाभिव्यक्त्यर्थविषयदर्शनादिरेव मुक्तानामिति ज्ञेयम् । प्रागुक्तयुक्तिं निराह ।। न चेति ।। उक्तबाधकनिरासकहेतुत्वेन पूर्णानन्द इत्याद्यन्यत्रोक्तमेवाह ।। पूर्णेति ।। स्मृत्युक्तेरुपयोगमाह ।। नन्विति ।। तत्साम्येति ।। तथा च प्रतिषेधादिति चेन्न शारीरादित्युक्तव्याहतिरिति भावः । ननु तावता सावधारणश्रुतेः का गतिरित्यतः सावकाशोपपत्तिमात्रान्निरवकाशश्रुतियुक्तोपपत्तेरेव बलवत्त्वादित्यन्यत्रोक्तिं सावकाशश्रुतितो निरवकाशस्मृतेरित्यस्योपलक्षणं मत्वा तात्पर्यमाह ।। विशेषेति ।। अत इति ।। श्रुतिस्मृतिबलादित्यर्थः ।।

अभिनवचन्द्रिका

अत्र सायुज्यभाजामिति ।। अत्र यद्यपि सूत्रभाष्याभ्यां मुक्तमात्रस्य विषयत्वं प्रतीयते, तथापि यस्मिन्नधिकरणे विषयत्वेन यदुदाह्रियते तदेव विषय इति न मन्तव्यम् । किन्नाम, यावान् तन्न्यायगोचरः स सर्वोऽपि विषयः । विषयाद्युक्तिस्तु उदाहरणमात्रमिति ज्ञापनाय सायुज्यभाजामित्युक्तम् । अत एव ये भोगाः परमात्मना भुज्यंते त एव मुक्तैर्भुज्यन्त इति सिद्धन्ते सामान्येन मुक्तग्रहणम् ।

पूर्वपक्षस्तु मुक्ताः परमात्माऽभुक्तभोगान्भुञ्जते । अवाप्तमहापुरुषार्थत्वात् । अन्यथा कदाचित् मुक्तानां भोगेच्छायामपि अवाप्तकामत्वेन परमात्मनस्तदनिच्छायां मुक्तानां भोगो न स्यात् । परमात्मभोगं विना तेषां भोगायोगात् । ततश्च भगवद्भुक्तभोगभोक्तृत्वात् युक्तं तस्य सर्वभोक्तृत्वमिति सिद्धम् ।।

(सिद्धान्तभागः नास्ति)

वाक्यार्थमुक्तावली

अनन्तरसङ्गतिमाह ।। परमात्मानमिति ।। पूर्वाधिकरणे ज्योतिश्शब्दवाच्यं परमात्मानं प्राप्य मुक्तो भोगान् भुङ्क्त इत्युक्तम् । प्राप्तिश्च सायुज्यादिरूपा न तु तद्गतिरूपा । तस्याः पूर्वपादे विचारितत्वात् । तथा च सायुज्यादिकं प्राप्य भोगरूपमोक्षे भोगोऽत्र विचार्यत इत्यनन्तरसङ्गतिरिति भावः ।। किमिति ।। सायुज्यभाग्भिः किं परमात्माभुक्ता अपि भोगा भुज्यन्त उत भुक्ता एवेति चिन्ता । तदर्थमभुक्तभोगभोक्तृत्वे साधकं परमगतित्वम् भुक्ता एवेति नियमे बाधकं, कदाचि-त्सञ्जातभोगेच्छूनामपि तदभावप्रसञ्जनं च निरवकाशमुत सावकाशमिति । अविभागेनेति सौत्र-प्रतिज्ञाभागेन त एव मुक्तैर्भुज्यन्त इति भाष्येण च व्यवच्छेद्यं प्रतिज्ञांशमाह ।। परमात्मेति ।। दृष्टत्वादिति सूत्रखण्डोपात्तश्रुतौ तानेवैत इदं शरीरं विमुच्यानुभवन्तीति मुक्तत्वेऽपि परमात्मभुक्त-भोगैकनियमोक्त्याऽप्रयोजकत्वेन व्यवच्छेद्यं परा गतिरित्युक्तन्यायं व्यनक्ति ।। मोक्षस्येति ।। त एव मुक्तैर्भुज्यन्त इति भाष्ये भोगा मुक्तैर्भुज्यन्त एवेत्यप्यन्वयमभिप्रेत्य तद्व्यवच्छेद्यं बाधकमप्याह ।। परमात्मभुक्ता एवेति ।। यदि मुक्तानां परमात्मभुक्तभोगः स्यात्तर्हि कदाचिद्भोगः स्यादिति तर्कस्याप्रयोजकत्वं परिहरति । तर्कस्यानिष्टत्वमुपपादयति ।। ततश्चेति ।। केचित्तु परमात्मना भुक्तास्तदभुक्ता मुक्तैरिति विभागमन्तरेणैव मुक्ता भोगान् भुंजते तथा दृष्टत्वाच्छ्रुतेरिति सूत्रार्थ-मभिप्रेत्य व्याचष्टे ।। ये भोगा इति ।। इदं शरीरं विमुच्यानुभवन्तीति श्रुतिमनुसृत्य परमात्म-गतित्वहेतोरप्रयोजकत्वमाह ।। परमात्मेति ।। तदुपपत्तेः परमात्मगतित्वोपपत्तेरित्यर्थः । त एव मुक्तैरिति भाष्यस्य भोगा मुक्तैर्भुज्यन्त एव न तु कदाचिद्भुंजते । कुतः यानेवाहमिति सामान्यतः परमात्मनः सर्वभोगश्रवणात् । इदं शरीरं विमुच्य ताननुभवन्त्येवेति मुक्तानामभोगव्यावृत्तेश्चेति न्यायविवरणे स्पष्टं परमात्मनः पूर्णानन्दतोऽपि पूर्णभोगोऽस्तीत्यत्र श्रुत्युदाहरणाच्च परमात्मभुक्त-भोक्तृत्वेऽपि जीवानां स्वापेक्षितभोगसम्भवात्तर्कस्याप्रयोजकत्वमिति भावेनाह ।। न चेत्यादिना ।।

ननु पूर्णस्य भोगो विरुद्धः लोके बुभुत्सावत एव भोगशक्तिदर्शनादित्युक्तं पूर्णानन्दत्वेऽपीति ।। एवं च तयोः श्रुत्या सह दृष्टत्वान्न विरोधः । विरोधाविरोधयोर्दर्शनमूलकत्वात् । नन्वस्तु प्रामाणिकत्वादङ्गीकार्यत्वं, घटकं तु किमित्यत उक्तम् ।। ईश्वरस्येति ।। अचिन्त्यशक्त्यैवेतदुपपद्यत इति भावः । एतेनाश्चर्यतेत्युक्तन्यायोऽपि स्पष्टितो भवति ।

तत्त्वसुबोधिनी

पूर्वाधिकरणे स तत्र पर्येतीतिवाक्योक्तमित्यागमोक्तप्राप्यस्य परञ्ज्योतिःशब्दावाच्यस्य विष्णुत्वसमर्थनेन अस्य निष्टंकितत्वादिति भावः ।

वाक्यार्थविवरणम्

अन्यथेति ।। सायुज्यभाजां भगवद्भुक्तभोगभोक्तृत्वाभावे भगवतो मुक्तभोग्यभोक्तृत्वाभावप्राप्त्या सर्वभोक्तृत्वासिद्धेरिति भावः । अत्र सर्वत्रापि भुज्यत इति भोग इति व्युत्पत्त्या भोगशब्देन विषयो ग्राह्यः । कुतो भोगाभावसङ्ग इत्यत आह ।। ईश्वरस्येति ।। अत इत्यनन्तरं मुक्तानामिति योज्यम् । तस्य ईश्वरस्य ।। परमगतित्वादिति ।। परमपुरुषार्थत्वादित्यर्थः ।। एतत् परमात्म-भुक्तभोगभोक्तृत्वम् ।। उक्तरीत्येति ।। ईश्वरस्य नित्यपूर्णानन्दत्त्वेनेत्युक्तरीत्येत्यर्थः ।। पूर्णभोगेति ।। तथा च कदाचिदपि तस्य भोगो नास्त्येवेति भावः ।

वाक्यार्थमञ्जरी

असिद्धेरिति ।। सायुज्यभाग्भोग्यभोक्तृत्वादिति भावः । सायुज्यस्यैवाप्रसक्तत्वात् सायुज्य-भाग्भिर्भुज्यन्तेति संशयानुपपत्तिरित्यत आह ।। प्राप्तिश्चेति ।। ॐ अविभागेन दृष्टत्वात् ॐ ।। मुक्ता अविभागेन परमात्मभोगापरित्यागेन तद्भक्तानेवेति यावत् । भोगान् भुञ्जते कुतः यानेवेति श्रुतौ तथा दृष्टत्वादित्यर्थः ।

।। इति अविभागाधिकरणम् ।। ४ ।।