ॐ उत्क्रान्तिगत्यागतीनाम् ॐ

१२. अथ उत्क्रान्त्यधिकरणम्

सूत्रभाष्यम्

व्याप्ता ह्यात्मानश्चेतना निर्गुणाश्च सर्वात्मनः सर्वरूपा अनन्ता’ इति काषायणश्रुतौ व्याप्तत्वं प्रतीयते । ‘अणुर्ह्येष आत्मा यं वा एते सिनीतः । पुण्यं च पापं च’ इति गौपवन श्रुतावणुत्वमित्यतो विरोध इति । अतो ब्रवीति–

।। ॐ उत्क्रान्तिगत्यागतीनाम् ॐ ।। २० ।।

हेतूनां सकाशादणुरेव । ‘सोऽस्माच्छरीरादुत्क्रम्यामुं लोकमभिगच्छत्यमुष्मादिमं लोकमागच्छति स गर्भीभवति स प्रसूयते स कर्म कुरुत’ इति पौष्यायणश्रुतेः ।।२०।।

तत्त्वप्रदीपिका

शरीरादुत्क्रान्तेः परलोकगमनादिमं लोकं प्रत्यागमनाच्चाणुरेव जीवः ।

तत्त्वप्रकाशिका

अत्र परमेश्वरे श्रुतिसमन्वयसिद्ध्यर्थं जीवपरिमाणविषयश्रुतिविरोधपरिहारादस्ति शास्त्रादिसङ्गतिः । श्रुतिसमन्वयः पूर्वं हरावुक्तः । जीवपरिमाणविषये च श्रुतीनां विरोधेनाप्रामाण्ये नासौ युक्तः स्यादिति विरोधो निराकार्य एव । प्रकृतो जीव एव विषयः । किं व्याप्तोऽणुर्वेति संशयः । संशयबीजं श्रुतिविगानं दर्शयति ।। व्याप्ता हीति ।। सर्वात्मानः सर्वस्यादानादिकर्तारः । सर्वरूपाः पूर्णाः । यं वा एत इति वाक्यशेषोद्धारो जीवत्वज्ञापनार्थः । व्याप्तत्वमणुत्वं च प्रतीयते जीवस्येति शेषः । जीवो व्याप्त एवेति पूर्वः पक्षः । ‘व्याप्ता ह्यात्मानः’ इति श्रुतेः । न चेयं श्रुतिर्न जीवविषया बहुवचनविरोधात् । न चेश्वररूपबाहुल्यार्था । बाधकं विना श्रुतेर्बाधायोगात् । न चाणुत्वश्रुतिविरोधः । व्याप्तश्रुतेर्युक्तियुक्ताया बलवत्वात् । तथा हि न तावदणुरात्मा । सर्वदेह-गतस्पर्शज्ञानात् । रूपादीनां तत्तदिन्द्रियैर्ज्ञानात् । न चेदं ज्ञानमणावात्मनि सम्भवति । न हि कश्चिदप्राप्तकरणेन क्रियां निर्वर्तयति । न चात्मा देहपरिमाणः । उक्तदोषत्वात्तत्पक्षस्य । शरीर-परिमाणत्वे चात्मनः शरीरवत्सांशत्वं स्यात् । मध्यमपरिमाणस्य तन्नियमात् । तेषां चांशानां प्रत्येकं चेतनत्वेन विरुद्धादिक्रियं शरीरमुन्मथ्येताक्रियं वापद्येत । न हि युगपदनेकेषामैकमत्यं सम्भवति । न च समुदायो नाम कश्चिद्धर्मी भवति । न चांशारब्धोंऽशी स्वीकर्तुं शक्यते । अनित्यत्वप्रसङ्गात् । अतः परिशेषादात्मनो व्याप्तत्वमेव सिध्यति । तथा च प्रयोगः । सर्वमिदं मूर्तमात्मनास्पृष्टं मूर्तत्वाच्छरीरवदिति । सयुक्तिकव्याप्तिश्रुतिविरोधादणुश्रुतेरेवाप्रामाण्यम् । तथा च न प्रागुक्त-समन्वयसिद्धिरित्येवं प्राप्ते सिद्धान्तयत्सूत्रमवतार्य तच्छेषमेव पूरयति ।। अत इति ।। जीवोऽणुरेव न व्याप्तः । उत्क्रान्तिगत्यागतिमत्त्वात् पतत्रिशरीरवत् । न हि व्याप्तद्रव्यस्य व्योमादेरुत्क्रान्त्या-द्यस्ति । अतो निराकृतमध्यमपरिमाणस्यात्मनो व्याप्त्यनुपपत्तावणुत्वमेव सिध्यतीति भावः । सतीष्वात्मन उत्क्रान्तिगत्यागतिषु भवेद्विभुत्वाभावस्ता एव कुत इत्यत आह ।। स इति ।।

गुर्वर्थदीपिका

उक्तदोषत्वादित्यस्य जैनमतनिराकरणाधिकरणे उक्तदोषत्वादित्यर्थः । विरुद्धादिक्रियमित्यत्र भोगे वैचित्र्यायांशभेदाङ्गीकारे पादस्थितांशेन कण्टकवेधाद्दुःखानुभवे करस्थितांशेन मोक्षक्षणा-त्सुखमनुभूयत इत्युक्तं स्यात् । तथा च वैषम्यमपरिहार्यम् । एवमन्यांशानामपि विषमाणां नैकप्रकारा क्रिया । अतस्त्रिभिरारूढशकटवद्विरुद्धदिक्षु क्रिययाऽप्यस्य तच्छरीरमुन्मथ्येतेत्यर्थः । शरीरान्तरेव क्रियायां सर्वथा क्रियाभावे चेतस्ततश्चलनासम्भवेनाक्रियमेव स्यादित्यर्थः ।

भावबोधः

अनन्तरसङ्गतिं सूचयन् विषयमाह– प्रकृतो जीव इति । धर्मेषूत्पत्तेः प्राथम्याज्जीवस्य तद्विचारानन्तरं तत्परिमाणविचारादनन्तरसङ्गतिरिति भावः ।। किमिति ।। अत्र जीवः किं व्याप्त उताणुरिति चिन्ता । तदर्थं जीवाणुत्वसाधिका‘अणुर्ह्येष आत्मा’ इति श्रुतिरुत्क्रान्त्यादियुक्तिश्च ‘व्याप्ता ह्यात्मान’ इति श्रुत्या तत्र तत्र परिज्ञानलक्षणयुक्त्या च बाधिते उत अबाधिते इति । तदर्थं व्याप्तत्वसाधकश्रुतियुक्त्योः किं निरवकाशत्वमुत श्रुतेरीश्वरविषयत्वेन युक्तेश्चांशचिद्गुण-व्याप्त्याऽन्यथासिद्धत्वेन सावकाशत्वम् । तदर्थं श्रुतेरीश्वरविषयत्वज्ञापकं प्रकरणश्रुत्यादिकं युक्तेश्चान्यथासिद्धत्वे अन्यत्रांशचिद्गुणव्याप्त्या सार्वत्रिककार्यकारणत्वे दर्शनरूपं ज्ञापकं नास्त्युता-स्तीति । आत्मन इत्यनेन पुनरुक्तिं सर्वाभेदप्रतीतिं च निवारयितुमाह– सर्वस्येति ।। सर्वस्वरूपत्वप्रतीतिमपाकर्तुमाह– सर्वरूपाः पूर्णा इति ।। ‘सर्वः पूर्णगुणत्वतः’ इत्युक्तेरिति भावः । न तावदणुरात्मेत्यनेन जीवस्यानणुत्वमिति न्यायविवरणांशो व्याख्यातः । सर्वदेहगस्य स्पर्शज्ञानाद्रसादीनां तत्र तत्र परिज्ञानादिति न्यायविवरणोक्तयुक्तिमाह– सर्वदेहेति ।। उक्तदोष-त्वादिति ।। ‘एवं चात्माकार्त्स्न्यम्’ इत्यत्रेत्यर्थः । अणुत्वस्योत्क्रान्त्यादिहेतूनां साध्यसाधनभावे पतत्रिशरीरे व्यभिचारः स्यादित्यतो भाष्ये अणुरेवेत्येवकारप्रयोगसूचितमुत्क्रान्तिगत्यागति-मत्त्वादित्यनेनोत्क्रान्तिगत्यादेरिति न्यायविवरणं व्याख्यातं भवति ।

ननु जीवस्य व्याप्तत्वाभावसाधनस्य मध्यमपरिमाणवत्त्वेनाऽपि उपपत्त्याऽर्थान्तरता स्यादित्यत आह– अत इति ।। अनेन, जीवोऽणुर्मध्यमपरिमाणानधिकरणत्वे सति व्याप्त्यनधिकरणद्रव्यत्वात्; परमाणुवत्; व्यतिरेकेण घटवदिति प्रयोगो दर्शितः । अनेनाणुरेवेति भाष्यं फलितप्रदर्शनपरमित्युक्तं भवति ।

भावदीपः

जीवपरिमाणेति ।। एतेन जीवे धर्मिव्युत्पत्त्यनुत्पत्तिचिन्तानन्तरं परिमाणरूपतद्धर्मचिन्ताऽत्रेति पूर्वसङ्गतिरपि सूचिता ।। नासौ युक्त इति ।। अभ्युपगतार्थद्वये अन्यतरार्थे अप्रामाण्य-प्राप्तावन्यार्थेऽप्यनाश्वासप्रसङ्गादिति वियन्नयोक्तरीत्येति भावः । व्याप्ता ह्यात्मान इत्येतावति वाच्ये शेषोक्तिः सिद्धान्तानुगुण्याय ब्रह्मलिङ्गानि सूचयितुमिति भावेन अपुनरुक्त्यै अर्थमाह ।। सर्वात्मना इति ।। भाष्येऽणुत्वमित्यस्य पूर्वक्रियापदेनान्वयं शेषं चाह ।। व्याप्तत्वमिति ।। भाष्यसूचितां युक्तिमाह ।। बहुवचनेति ।। एकमेवाद्वितीयमिति स्वगतभेदहीने हरौ बहुत्ववाचिबहुवचना-योगादित्यर्थः ।

ननु ‘गुहां प्रविष्टावात्मनौ’ इत्यत्रोक्तन्यायेन न सङ्ख्योपसङ्ग्रहादपि नानाभावादित्यत्रोक्तन्यायेन वा ‘ऋतं पिबन्तौ’ ‘यस्मिन्पञ्च पञ्चजना’ इत्यादौ द्विवचनबहुवचनयोरिवेदमपि बहुवचनं युक्तमिति शङ्कते ।। न चेश्वरेति ।। बाधकं विनेति ।। बहुत्वादिसङ्ख्या स्वाश्रयगतभेदव्याप्तेत्य-स्यौत्सर्गिकत्वेन तत्र ब्रह्मश्रुतिगुहास्थत्वप्राणप्राणदत्वादिलिङ्गादिना बाधकेन तथात्वेऽपि इह तादृशबाधकाभावादित्यर्थः । नामानि सर्वाणि’ इत्यादीनि तु सामान्यानि न त्वसाधारणानि । स आत्मेदं सृजति’ इति विष्णुप्रकरणं तु न बहुवचनश्रुतिबाधायालमिति भावः । पृथिव्यधिकारेत्यत्र प्रकरणेनान्नश्रुतिबाधस्तु निरवकाशरूपादिसाहित्यात् । स्वशब्दोन्मानत्वे चात्र व्याप्ते जीवेऽपि कथंचिद्युक्ते इति भावः । न च ‘गौणश्चेन्नात्मशब्दात्’ ‘साधारणशब्दविशेषात्’ स्वशब्दा-दित्युक्तदिशा विष्ण्वेकनिष्ठात्मपदप्रातिपदिकस्वारस्यानुरोधेन प्रत्ययबाधो युक्त इति शङ्क्यम् । असदिति चेत् एतेन शिष्टेत्यादौ भाष्योक्तदिशाऽन्यवाचकस्यापि सत्त्वेन तत्परिग्रहे प्रत्ययस्वारस्य-स्यापि भावादिति तात्पर्यात् । अत एवोक्तं श्रुतेर्बाधायोगादिति ।। अन्यत्रोक्तयुक्तिमत्र योजयितुं व्यावर्त्यशङ्कामाह ।। न चेति ।। विरोध इति ।। बाधक इत्यनुषङ्गः । तथा च बाधकाभावोऽसिद्ध इति भावः । सर्वदेहस्पर्शज्ञानाद्रसादीनां तत्र तत्र परिज्ञानात् जीवस्यानणुत्वमिति न्यायविवरणे जीवस्य व्याप्तत्वमिति वाच्येऽनणुत्वमित्युक्तेर्भावं वदन् युक्तिं व्यनक्ति ।। तथा हि न तावदित्यादिना ।। सर्वेति ।। कमनीयतनयालिङ्गनेन सर्वाङ्गीणसुखानुभवस्य विश्वजनीनत्वादस्ति सर्वदेहगतस्पर्शज्ञानमिति भावः ।। रूपादीनां चेति ।। शष्कुलीं भक्षयतो रूपरसगन्धस्पर्शशब्दानां युगपदेव चक्षुरादिभिरिन्द्रियैर्ज्ञानस्यानुभवसिद्धत्वादित्यर्थः । न चेत्युक्तं व्यनक्ति ।। न हीति ।। चक्षुरादिकरणैरात्मनो युगपत्प्राप्तिश्चाणुत्वे न युक्तेति भावः । ननूक्तयुक्तेरणुत्वाभावसाधक-त्वेऽप्यात्मनो मध्यमपरिमाणत्वेनाप्युपपत्त्या श्रुत्युक्तव्याप्तत्वासाधकत्वेन न श्रुतिप्राबल्यापादकत्वं युक्तेरित्यतः परिशेषसहकृतायास्तत्साधकत्वमिति भावेनाह ।। न चात्मेति ।। उक्तेति ।। एवं चात्माकार्त्स्न्यं न च पर्यायादप्यविरोधो विकारादिभ्य इति समयपादोक्तदोषत्वादित्यर्थः । स्वयं दोषान्तरमाह ।। शरीरपरिमाणत्वे चेति ।। शरीरवदिति ।। यथा शरीरं परस्परं भिन्नैरात्मना प्रत्येकं भिन्नाभिन्नैः कृत्स्नैश्चाभिन्नैरंशैरुपेतं तथाऽत्मापि तादृशैरंशैरुपेतः स्यादित्यर्थः ।। तन्नियमादिति ।। घटादौ दर्शनादिति भावः । एतत्प्रपञ्चनं च सिद्धान्तेऽप्यविरोधश्चन्दन-वदित्यात्मनोऽभिप्रेतं सांशत्वमात्मना परस्परं च सविशेषाभिन्नैरंशैरुपेतत्वमिति वैलक्षण्यं द्योत-यितुमित्याहुः । शरीरोन्मथनादिदोषनिरासाय शङ्कते ।। न च समुदाय इति । यथा नानावृक्षसमुदायो वृक्षेभ्योऽन्यो नास्ति तथेत्यर्थः । तन्तुपटयोरिव स्यादित्यत आह ।। न चेति ।। अत इति ।। अणुत्वमध्यमपरिमाणत्वयोरयोगादित्यर्थः । जीवस्याणुत्वेऽपि इन्द्रियाणां व्याप्तत्वेन रूपादिज्ञानं युक्तमिति तु अणवश्चेति वक्ष्यमाणदिशेन्द्रियाणामप्यणुत्वान्निरस्तप्रायं मत्वाऽऽह ।। परिशेषादिति ।। तथा चेति ।। एवमनुकूलतर्के सतीत्यर्थः । मध्यमपरिमाणत्वेऽप्युपपत्त्याऽ-प्रयोजका हेतव इत्यतः शेषपूर्त्या तात्पर्यतो भाष्यसूत्रयोरर्थमाह ।। जीवोऽणुरेवेति ।। ज्ञइत्यापादसमाप्त्यनुवर्तत इति भावः । हेतोरप्रयोजकत्वादिनिराह ।। न हीति ।। पूर्वोत्तरदेशे विभागजनकक्रियावत्त्वरूपमुत्क्रमणादिकं सर्वदा सर्वदेशविभागरहिते व्योमादौ न युक्तमित्यर्थः ।

ननु व्याप्तस्यापीश्वरस्य भूमा सम्प्रसादादित्यत्रोत्क्रमणमुक्तम् । यथोक्तं भाष्ये तमुत्क्रामन्तं प्राणोऽनूत्क्रामतीत्यादिना नोत्क्रमणलिङ्गविरोधोऽपीति । तथा ज्योतिर्दर्शनादित्यत्र गत्यागती चोक्ते । स समानः सन्नभौ लोकावनुसंचरतीति ज्योतिः प्रकरणस्थवाक्ये तयोः प्रतीतेः । उक्तं च तत्र भाष्ये । प्राज्ञेनात्मनान्वारूढ उत्सर्जद्यातीति वचनात्तस्यापि लोकसंचरणमस्त्येवेति । न च हृत्स्थरूपापेक्षयोत्क्रांत्यादयो न व्याप्तरूपापेक्षयेति शङ्क्यम् । दहरनये अल्पश्रुतेरिति चेत्तदुक्तमिति सूत्रे ‘एष म आत्मान्तरहृदये ज्यायान्’ इति श्रुत्या हृत्स्थरूपस्यापि व्याप्तत्वस्य तत्र भाष्य एवोक्तेः । तथा च कथं न हि व्याप्तस्य ते युक्ता इत्युक्तिरिति चेत् उच्यते । व्याप्तस्येत्यस्य केवलमपरिच्छिन्नस्येत्यर्थः । अणुत्वासमानाधिकरणदेशापरिच्छेदयुक्तस्येति यावत् । अत एव व्याप्तस्येत्येवानुक्त्वा व्योमादेरित्यप्युक्तम् । हरे रूपं तु न स्थानत इति वक्ष्यमाणन्यायेन ‘तानि ह वा एतानि सर्वाणि पूर्णानि’ इति असन्ततेश्चेत्यादौ वक्ष्यमाणश्रुत्या ‘व्याप्तत्वं देशतोऽप्यस्ति सर्वरूपेषु यद्यपि । न च भेदः क्वचित्तेषामणुमात्रोऽपि विद्यते । तथापि विद्यतेऽणुत्वं यस्मादैश्वर्ययोगतः । तस्माद्बुध्यवतारार्थमव्याप्तत्वं च भण्यते’ । इति तृतीयस्कन्धतात्पर्योक्त्या च सर्वं व्याप्तमपि अक्षरनये अन्यभावव्यावृत्तेरित्यत्रोक्तदिशाऽणुपरिमाणं च भवतीति न दोष इति ।

ननु च महतोऽल्पत्वमपि हि व्योमवत्प्राह वेदविदित्यादिना वैशेषिकनयानुभाष्ये व्योमादाव-प्यणुत्वमहत्त्वयोः समावेशो व्युत्पादित इति चेदेवं तर्हि व्याप्तस्येत्यस्य शक्त्यात्मकतारूप-विशेषशून्यव्याप्तिमत इत्यर्थः । हरे रूपे तु अणुत्वमहत्त्वयोः सदासत्त्वेऽपि यदा महत्त्वस्य शक्त्यात्मकताऽणुत्वस्य व्यक्त्यात्मकता तदैवोत्क्रान्त्यादिक्रियावत्त्वाभिव्यक्तिरन्यदा तु नेत्युत्क्रान्त्यादिमद्भगवतो रूपं शक्त्यात्मकव्याप्तिमदिति न दोष इति भावः । यद्वा भगवद्रूपविशेषे महत्त्वस्य शक्त्यात्मकतादशायां व्याप्तत्वेनाव्यवहारादणुत्वेनैव व्यवहाराद् व्याप्तस्य व्याप्तत्वेनैव प्रसिद्धस्य व्योमादेरित्यर्थः । उक्तं चात्राधिकरणसुधायां सविशेषोऽपि क्रियाशक्त्यात्मना स्थिर इत्याद्यनुभाष्यव्याख्यावसरे व्यक्तिरूपेणैव व्यवहारालम्बनत्वादिति । अत एवोक्तं टीकायां हृद्यपेक्षयेत्यत्र भगवन्मूर्तिविशेषस्य व्यक्त्या तन्मात्रपरिमाणत्वादिति । विवृतमेतदसम्भवस्त्विति सूत्रे तत्वप्रदीपे । प्रपञ्चितं च चन्द्रिकायां भूमादिनये तथाप्युत्क्रान्त्यादेर्मध्यमपरिमाणेऽप्युपपत्त्याऽ-प्रयोजकत्वमित्यतः पूर्ववत्परिशेषसहितस्याणुत्वप्रयोजकत्वमिति भावेनाह ।। अत इति ।। उक्तहेतूनां सकाशादित्यर्थः । उपपादितं चोत्क्रांत्यादीनां बुद्धिधर्मत्वादिचोद्यनिरासेन जीवाणुत्ववादे न्यायामृतेऽणुत्वं जीवस्य ।

अभिनवचन्द्रिका

व्याप्तत्वमणुत्वं चेति ।। श्रुतिद्वयपर्यालोचनया जीवस्य व्याप्तत्वमणुत्वं च प्रतीयत इति हेतोः, भाष्ये – यथायोगं शेषो दृष्टव्य इत्यर्थः । अत्रायं विवेकः । काषायणश्रुतौ ‘प्रतीयत’ इत्यतः परं ‘जीवस्य’ इति शेषः । गौपवनश्रुतौ ‘अणुत्वम्’ इत्यतः परं ‘जीवस्य प्रतीयत’ इति शेष इति ।। उक्तदोषत्वादिति ।। पिपीलिकादेहगतस्य  गजादिशरीरप्राप्तावपूर्तिः स्यात् । गजादिदेहगतस्यापि पिपीलिकादिशरीरप्राप्तावतिरेकः स्यादित्युक्तदोषत्वादित्यर्थः । दोषान्तरमाह– शरीरपरिमाणत्वे चेति ।। आपादकस्य आपाद्येन व्याप्तिमाह– मध्यमपरिमाणस्येति ।। आपाद्यस्यानिष्टत्वमाह– तेषां चांशानामिति ।। ऐकमत्या न्नायं दोष इत्यत आह– न हि युगपदिति ।। भवेदयं दोषः यदि जीवो नाम चेतनारब्धद्रव्यं स्यात्, न चैवं किं नाम अचेतनानां समुदाय इत्यभ्युपगम्यत इत्यत आह– न चेति ।। समुदायत्वे ज्ञानादिधर्मयोगित्वं न स्यादिति भावः ।। विपर्यये पर्यवसानमाह – न चांशारब्ध इति ।। कुत इत्यत आह– अनित्यत्वेति ।।  यद्यपि आत्मनः सांशत्वे शरीरमुन्मथ्येत् । अविक्रियं वाऽऽपद्येतेति दूषणमुक्तं तथापि घटांशानामघटत्वेऽपि घटस्य घटत्ववत् समुद्रांशानामसमुद्रत्वेऽपि समुद्रस्य समुद्रत्ववत् चेतनांशानामचेतनत्वेऽपि चेतनस्य चेतनत्वसम्भवादिति नोक्तदोष इति परः परिहर्तुमुत्सहेतापीति अनित्यत्वप्रसङ्ग उक्तः । परिशेषेण विभुत्वं साधयित्वा अनुमानेनापि साधयति – तथा च प्रयोग इति ।। एतेन परिशेषानुमानप्रयोगप्रदर्शनाय आत्मा महत्परिमाणाश्रयः अणुमध्यम-परिमाणानाश्रयत्वे सति द्रव्यत्वादिति वक्तव्यत्वेन सर्वमिदं मूर्तमित्याद्युक्त्ययोग इति परास्तम् ।

वाक्यार्थमुक्तावली

प्रकृतो जीव इति धर्मेषूत्पत्तेः प्राथम्यात् । जीवस्य तद्विचारानन्तरं तत्परिणामविचारा-दनन्तरसङ्गतिः ।। किं व्याप्त इति ।। देहसम्बन्धस्पर्शादिज्ञानरूपयुक्त्यनुगृहीतया, व्याप्त्यात्मान, इति व्याप्तिश्रुत्या किं जीवो व्याप्तः ।। उतोक्त्रमणादिलिङ्गसहितया अणुर्ह्येष आत्मायं वा एते सिनीत इति श्रुत्या अणुरिति चिन्ता । तदर्थं किं जीवादन्यत्र निरवकाशात्सर्वदेहपरिज्ञानं चाणुत्वेनोपपद्यते उत व्याप्तश्रुतिरीश्वरविषया, सर्वदेहपरिज्ञानं च जीवस्यांशव्याप्त्यादिनोपपद्यत इति संक्षेपः । सर्वात्मानः सर्वरूपा इत्यनयोर्भेदमाह सर्वात्मान इति ।। ‘सर्वःपूर्णगुणत्वत’ इति प्रमाणं हृदि निधायोक्तं पूर्णा इति ।। व्याप्तत्वमणुत्वं च प्रतीयते । जीवस्येतिशेषः । अणुत्वमित्यत्र प्रतीयते जीवस्येति पदद्वयशेष इति विवेकः । इतराधिकारादिति, सूत्रव्यावर्त्यं पूर्वपक्षं व्याप्ताह्येतेचिदात्मान इति श्रौतबहुवचनेनोज्जीवयति ।। न चेयमिति ।। न च जीवपरत्वे, सर्वात्तृत्व, पूर्णगुणत्व, निर्गुणत्वायोगः । मिलित्वा सर्वेषां सर्वात्तृत्वस्य यथायोग्यं पूर्णत्वस्य स्वरूपतः सत्वादिगुणराहित्यस्योपपत्तेरिति भावः । गुहांप्रविष्टौ, न सङ्ख्योपसङ्ग्रहादपीत्यधि-करणद्वये ‘ऋतं पिबन्तौ सुकृतस्य लोके छायां (गुहां) प्रविष्टौ परमे परार्धे । यस्मिन् पञ्चजना’ इति द्विवचनबहुवचनयोः सावकाशितत्वात् । तन्न्यायेनेदमपि बहुवचनं युक्तमित्याशङ्क्य परिहरति ।। न चेश्वरेति ।। तत्र गुहास्थत्व, ब्रह्मशब्द, प्राणप्राणदत्वादिबाधकेन द्विवचनादिश्रुतेः द्वित्वादिसङ्ख्या स्वाश्रयभेदव्याप्त्येत्यौत्सर्गिकन्यायमपहाय तत्प्रतिनिधिविशेषव्याप्तत्वं स्वीकृत्या-मुख्यार्थग्रहणेऽपीह बाधकाभावेन श्रुतिमुख्यार्थबाधायोगात् । आत्मशब्दस्य विष्णौ मुख्यत्वेऽपि, स आत्मेदं सृजतीति विष्णुप्रकरणत्वेऽपि बहुवचनश्रुत्या प्रतिरुद्धत्वेन तद्बाधकत्वमिति भावः । इति च काषायणश्रुतिरिति चशब्दाद्युक्तितोऽपि प्रतीयत इत्यर्थमभिप्रेत्य तत्र तत्र परिज्ञानमित्युक्तन्यायं सङ्गमयितुं तत्प्रतिपक्षश्रुतिविरोधमाशङ्क्य परिहरति ।। न चाणुत्वेत्यादिना ।। सर्वदेहेति ।। कमनीयकान्तालिङ्गनेन सर्वाङ्गीणसुखानुभवस्य सार्वजनीनत्वादिति भावः ।। रूपादीनामिति ।। शष्कुलीं भक्षयतो रूपरसगन्धस्पर्शशब्दानां युगपदेव चक्षुरादीन्द्रियैर्ज्ञानस्यानुभवसिद्धत्वादिति भावः । चक्षुरादिकरणैरात्मनो युगपत् प्राप्तिश्चाणुत्वेन युक्तेति भावः ।

ननु सजातीयात्मविशेषगुणानां युगपदनुत्पत्तेः कथं युगपत् तत्र तत्र परिज्ञानम् । कालभेदेन चेदणोरात्मनस्तत्र क्रमेण गमनेनोपपद्यत इति कथं व्याप्तत्वमिति चेन्न । आत्माणुत्वपक्षे युगपद्रूपादिज्ञानाभावेऽपि व्याप्तत्वपक्षे तदुपपत्तेः । न च मनसोऽणुत्वाद्युगपत्समनस्केन्द्रिय-सन्निकर्षायोगाद्युगपद्ज्ञानायोगः । मनसाणुत्वेऽपि रश्मिद्वारा युगपदुपपत्तेः सर्वाङ्गीणस्पर्शज्ञानस्या-वर्जनीयत्वाच्चेति । यद्वा रूपादीनामित्यत्र न युगपज्ज्ञाने तात्पर्यम् । हृदिस्थाण्वात्मना चक्षुरादीनां गोलकवर्तिनां सन्निकर्षायोगाद्रूपादिज्ञानमेव दुर्लभं स्यात् । गत्वासन्निकर्षस्यानङ्गीकृतत्वादिति भावः । अविरोधश्चन्दनवदित्यत्रांशतः शरीरव्याप्तेरुपपादयिष्यमाणत्वात् तन्निरसनीयं पूर्वपक्षं परिशेषेण व्याप्तत्वमुपपादयितुमाह ।। न चात्मेति ।। एवं चात्मा कार्त्स्न्यमित्यत्रोक्तदोषत्वादित्यर्थः ।। शरीरवदिति ।। यथाशरीरं परस्परभिन्नैः अंशेन प्रत्येकं भिन्नाभिन्नैः कृत्स्नैश्चाभिन्नैः अंशैरुपेतं तथाऽत्मापि तादृशैरंशैरुपेतः स्यादित्यर्थः ।। प्रत्येकमिति ।। भेदादिति भावः ।। उन्मथ्येति ।। सर्वत आकृष्यमाणं जीर्णं स्यात् । विरुद्धविक्रियमागामिनं दृष्ट्वा तैरंशैरप्रवर्तते क्रियाशून्यं वापद्येतेत्यर्थः ।

ननु समुदायिष्वैकमत्याभावेऽपि अंशसमुदाये तत्सम्भवतीत्याशंक्याह ।। न चेति ।। यथा नानावृक्षसमुदायाख्यो वृक्षेभ्योऽन्यो धर्मी नास्ति तथेत्यर्थः । न तु नानावृक्षा एव वनप्रत्ययविषयः एकं वनमिति प्रत्ययात् । किं तु वृक्षारब्धः समुदायाख्योऽवयवी तथा प्रकृते किं नस्यादित्यत आह ।। न च समुदायाख्य इति ।। भवति उत्पद्यत इत्यर्थः । एकं वनमितिप्रत्ययस्तु एकदेश-स्थत्वोपाधिनेति भावः । तन्तुपटयोरिव स्यादित्यत आह ।। न चेति ।। तच्छेषमिति ।। ज्ञइत्यनु-वृत्तेः सिद्धत्वान्नाणुरिति सूत्रादाकर्षेणात्राध्याहार्य भागमाहेत्यर्थः । पतत्रि शरीरे अणुत्वाभावा-त्साध्यवैकल्यमित्यतो भाष्ये अणुरेवेति एवकारसूचितं साध्यमाह न व्याप्त इति ।। व्याप्तस्येति ।। केवलमपरिच्छिन्नस्येत्यर्थः । अणुत्वासमानाधिकरणदेशापरिच्छेदयुक्तस्येत्यर्थः । एवं चेश्वरस्य व्याप्तस्याप्युत्क्रमणादिसम्भवतीति न कश्चिद्दोषः इति ज्ञेयम् । ननु जीवस्योत्क्रान्त्यादिना व्याप्तत्वाभावेऽपि मध्यमपरिमाणत्वमस्तु । नाणुत्वसिद्धिरित्यत आह ।। अत इति ।। अनेन जीवः अणुः मध्यमपरिमाणशून्यत्वे सति, अव्याप्तद्रव्यत्वात्, परमाणुवत्, व्यतिरेकेण घटादिवदिति प्रयोगो दर्शितः । अनेनाणुरेवेति भाष्यं फलितप्रदर्शनपरमित्युक्तं भवति ।

तत्त्वसुबोधिनी

अनन्तरसङ्गतिं सूचयन् विषयमाह ।। प्रकृतो जीव इति ।। धर्मेषूत्पत्तेः प्राथम्यात् जीवस्य तद्विचारानन्तरं तत्परिमाणविचारादनन्तरसङ्गतिरिति भावः । आत्मन इत्यनेन पुनरुक्तिं सर्वाभेदप्रतीतिं च निवारयितुमाह ।। सर्वस्येति ।। सर्वरूपत्वप्रतीतिमपाकर्तुमाह ।। सर्वरूपाः पूर्णा इति ।। सर्वः पूर्णगुणत्वत इत्युक्तेरिति भावः । अणुर्ह्येष आत्मा इत्येतावत एव प्रकृतोपयोगात् तावदेवोदाहर्तव्यम् । इत्यादेरुदाहरणमयुक्तमित्यत आह ।। यं वा इति न चेदमिति ।। अणुत्वेन करणसम्प्राप्त्यभावात् ज्ञानमेव न स्यादिति भावः । ननु करणप्राप्त्यभावेऽपि अस्तु ज्ञानरूपक्रियेत्यत आह ।। न हि कश्चिदिति ।। तथा भित्त्यादिव्यवधाने सत्यपि चक्षुषा घटादिज्ञानप्रसङ्ग इति भावः । नन्वात्मनो देहपरिमाणत्वाङ्गीकारात् सर्वशरीरगतज्ञानमुपपन्नमित्यत आह ।। न चेति ।। उक्तदोषत्वादिति ।। एवं चात्माकार्त्स्न्यमित्यत्रेत्यर्थः । दूषणान्तरं चाह ।। शरीरेति ।। कुत इत्यत आह ।। मध्यमेति ।। अस्तु सांशत्वं ततः किमित्यत आह ।। तेषां चेति ।। किं चेतना उताचेतनाः । नान्त्यः अचेतनस्य चेतनांशत्वायोगात् । आद्यं प्रत्याह ।। प्रत्येकं चेतनत्वेनेति ।। विरुद्धा दिक्षुक्रिया यस्य तत् तथोक्तम् । ननु भूतानामप्यंशानामेकमत्यान्न शरीरोन्मथनादीत्यत आह ।। न हीति ।। ननु न तेषां प्रत्येकं धर्मित्वं किन्तु तत्समुदायस्य धर्मित्वं तथा च नैष दोष इत्यत आह ।। न चेति ।। अणुत्वस्योत्क्रान्त्यादीनां च साध्यसाधनभावे पतत्रिशरीरे व्यभिचारः स्यादित्यतो भाष्ये अणुरेवेति एवकारप्रयोगसूचितं साध्यमाह ।। न व्याप्त इति ।। नन्वस्तु व्याप्तस्योत्युत्क्रान्त्यादीत्यत आह ।। न हीति ।।

वाक्यार्थविवरणम्

नन्वणुर्ह्येष आत्मा’ इत्यस्य वोपयुक्तत्वेन ‘यं वा’ इत्यादिवाक्यशेषोद्धारो व्यर्थ इत्यत आह ।। यं वा इति ।। जीवत्वेति ।। ‘अणुर्ह्येष’ इति वाक्यस्य जीवपरत्वज्ञापनार्थ इत्यर्थः । व्याप्तत्वं प्रतीयत इत्यत्र जीवस्येत्येव शेषः । अणुत्वं चेत्यनन्तरं प्रतीयते जीवस्येति पदद्वयशेष इति ज्ञातव्यम् ।। न जीवेति ।। किन्त्वीश्वरविषयमिति भावः ।। बह्विति ।। ईश्वरस्यैकत्वात् जीवानां बहुत्वेन तत्सम्भवादिति भावः ।। बाधेति ।। बहुवचनश्रुतेः बहुत्वोपेतजीवस्वरूपपरत्वेन मुख्यार्थोपपत्ता-वीश्वररूपबाहुल्यरूपामुख्यार्थग्रहणायोगादिति भावः । ज्ञानात् । युगपदिति शेषः । इदं च दीर्घशष्कुलीभक्षणे द्रष्टव्यम् । अन्यथा युगपदित्यव्याख्यानेऽणोरपि जीवस्य क्रमेण तत्तदिन्द्रियं प्राप्य रूपादिज्ञानजनकत्वोपपत्तौ न व्याप्तत्वसिद्धिरिति ध्येयम् । उक्तं हेतुद्वयम् अणुत्वपक्षे न सम्भवतीत्यत आह ।। न चेदमिति ।। इदं सर्वदेहगतस्पर्शज्ञानम् । अणुत्वपक्षे देहैकदेशस्थत्वेन न सर्वदेहगतस्पर्शज्ञानं सम्भवतीति भावः ।। अप्राप्तेति ।। स्वेनाप्राप्तं यत्करणम् इन्द्रियादि तेनेत्यर्थः । निवर्तयति न हि । न जनयतीत्यर्थः । तथा चाणुत्वेन देहैकदेश एवावस्थितस्यात्मन इन्द्रियादिकं प्राप्य ज्ञानजनकत्वायोगात् । तस्मात् तत्तदिन्द्रियं प्राप्य युगपद् ज्ञानजनकत्वं वाच्यम् । तद् व्याप्तत्वं विना न सम्भवतीति भावः ।

ननु तर्हि सर्वदेहगतस्पर्शज्ञानाद्यन्यथानुपपत्त्या आत्मा देहपरिमाण एवास्तु न व्याप्त इत्या-शङ्क्याह ।। न चेति ।। उक्तदोषत्वादिति ।। हस्त्यादिशरीरस्थस्य पिपीलिकादिदेहप्राप्तावतिरेकः स्यादित्युक्तेत्यर्थः । दूषणान्तरं चाह ।। शरीरेति ।। शरीरवदिति ।। शरीरे हस्तपादाद्यंशव-दित्यर्थः । शरीरपरिमाणत्वेऽपि कुतः सांशत्वमित्यत आह ।। मध्यमेति ।। तथा च शरीर-परिमाणत्वे मध्यमपरिमाणप्राप्त्या मध्यमपरिमाणवतश्च शरीरादेः सांशत्वदर्शनेन तद्वदात्मनोऽपि सांशत्वं स्यादित्यापादनं द्रष्टव्यम् । अस्तु सांशत्वं ततः को दोष इत्यत आह ।। तेषां चेति ।। विरुद्धादिक्रियम् । विरुद्धासु दिक्षु क्रिया यस्य तत्तथोक्तम् । ऐकमत्याभावादिति भावः ।

ननु नोन्मथनं, तूष्णीमेव तेषां देहेऽवस्थानादित्यत आह ।। अक्रियं वेति ।। ननु नैष दोषः । तेषां चेतनभूतानामंशानामैकमत्येन प्रवृत्त्यभ्युपगमादित्यत आह ।। न हीति ।। ननु तेषामंशानां समुदायो नाम कश्चिद्धर्मोऽस्ति । स एव जीवस्तस्य चैकत्वेन विरुद्धादिक्रियाभावेन नोन्मथना-दित्यत आह ।। न चेति ।। समुदायस्य समुदाय्यभिन्नत्वेन तेषां चानेकत्वाद्विरुद्धादिक्रियस्य देहस्योन्मथनादि स्यादेवेति भावः । नन्वथापि तैः सर्वैरंशैरारब्धोंऽशी कश्चनास्ति, स जीवस्तस्य चैकत्वान्न विरुद्धादिक्रियत्वेनोन्मथनादीत्यत आह ।। न चेति ।। अनित्यत्वेति ।। उत्पत्तिमतो भावस्य विनाशनियमादिति भावः । मूर्तमिति ।। सर्वमूर्तद्रव्यसंयोगित्वमेव व्याप्तत्वमित्यर्थः । मध्यमपरिमाणोपेते पतत्रिशरीररूपे दृष्टान्ते साध्यवैकल्यपरिहारायाणुरेवेत्यस्याभिप्रायमाह ।। न व्याप्त इति ।। तथा च व्याप्तत्वाभावः साध्य इति नोक्तदोष इति भावः । उत्क्रान्त्यादिसत्त्वेऽपि व्याप्तत्वमेवास्त्वित्यप्रयोजकतायां यदि जीवो व्याप्तः स्यात्तर्हि उत्क्रान्त्यादिमान् न स्यादित्यभि-प्रेततर्कमूलभूतव्याप्तौ दृष्टान्तमाह ।। न हीति ।। व्याप्त्यनुपपत्तौ नाणुत्वसिद्धिर्मध्यमपरिमाणस्यापि सम्भवादित्यतो निराकृतेत्युक्तम् । एवं चात्मेत्युक्तरीत्येति शेषः ।। कुत इति ।। तथा चासिद्धिरिति भावः ।

वाक्यार्थमञ्जरी

आत्मन इत्यनेन पुनरुक्तिं सर्वाभेदप्रतीतिं च निवारयितुमाह ।। सर्वस्येति ।। सर्वस्वरूपत्व प्रतीतिमपाकर्तुमाह ।। पूर्णा इति ।। सर्वः पूर्णगुणत्वत इत्युक्तेरिति भावः । भाष्ये शिनीतः बन्धयतः ।। व्याप्तत्वमणुत्वं चेति ।। व्याप्तत्वं प्रतीयत इत्यनन्तरं जीवस्येति शेषः । अणुत्वमित्यनन्तरं जीवस्य प्रतीयत इति शेष इति विवेकः । जीवविषयेत्यनन्तरं किंत्वीश्वरविषयेति शेषः परिशेष-रूपयुक्तिं वक्तुं प्रसक्तं प्रतिक्षिपति ।। न तावदित्यादिना ।। नन्वात्मेन्द्रियसन्निकर्षस्या-प्रयोजकत्वादणोरात्मनो युगपत्सर्वेन्द्रिय जन्यज्ञानमस्त्वित्यत आह ।। न हीति ।। अप्राप्तेति ।। असम्बन्धेत्यर्थः । निर्वर्तयति निष्पादयति ।। उक्तदोषत्वादिति ।। एवं चात्माकार्त्स्न्यमित्यत्र पिपीलिकादेहगतस्य गजादिदेहप्राप्तौ अपूर्तिः स्यादित्यादि दोषोक्तेरित्यर्थः । ततः किमिति चेदत्र प्रष्टव्यं किमंशा एव गमनादिक्रियां कुर्वन्ति उत तत्समुदायः अथ तदारब्धोऽवयवी आद्ये आह ।। तेषां चेति ।। अंशानां प्रत्येकं गमनसामर्थ्यमस्ति न वा आद्ये कश्चिदेकां दिशं गच्छेदपरस्त्वन्यां शरीरैकदेशगमनं भागांतरस्यान्यत्र गमनमतः शरीरविनाशः स्यात् द्वितीये शरीरक्रिया न स्यात् न हि यदैकांशो गच्छति तदान्यांशेनापि गन्तव्यमिति नियमोऽस्तीत्यर्थः । ऐकमत्यात्पक्षद्वयेऽप्यदोष इत्यत आह ।। न हीति ।। द्वितीयं दूषयति ।। न चेति ।। समुदायिभिन्नसमुदायाभावादिति भावः । तृतीयं व्याचष्टे ।। न चांशेति ।। एवं परिशेषमुक्तानुमानं चाह ।। तथा चेति ।। सर्वभूत-संयोगित्वमेव व्याप्यत्वमिति भावः ।। ॐ उत्क्रान्तिगत्यागतीनां ॐ । अणुरेव जीवः कुतः उत्क्रान्तिगत्यागतीनां हेतूनां सकाशादुत्क्रान्त्यादिमत्वादिति यावत् ।

Load More