ॐ तथा प्राणाः ॐ
अथ चतुर्थः पादः
१. अथ प्राणाधिकरणम्
सूत्रभाष्यम्
युक्तिसहितश्रुतिविरोधं श्रुतीनामपाकरोत्यनेन पादेन । ‘प्राणा एवेदमग्र आसुस्तेभ्यो भूतानि जज्ञिरे । भूतेभ्योऽण्डमण्डस्यान्तस्त्विमे लोकाः । अथ प्राणा एवानादयः प्राणा नित्या’ इति काषायणश्रुतौ प्राणानामनुत्पत्तिः प्रतीयते ।
‘नोपादानं हीन्द्रियाणामतोऽनुत्पत्तिरिष्यते ।
उपादानकृता सृष्टिः सर्वलोकेषु दृश्यत’ इति भविष्यत्पर्वणि ।।
‘एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च’ (मुं.उ.२-१-३) इति च । अत उच्यते–
।। ॐ तथा प्राणाः ॐ ।। १ ।।
यथाऽऽकाशादयः परमात्मन उत्पद्यन्ते तथा प्राणा अपि ।
तत्त्वप्रदीपिका
युक्तिसहिताभिः श्रुतिभिर्विरोधं श्रुतीनां निराकरोत्यनेन पादेन प्राणविचारात्मकेन प्रायः । तेषु युक्तेरुपजीव्यत्वेन तद्विरोधस्य परिहरणीयत्वात् । ननु यद्यपि श्रुतीनां केवलानां समबलानां मिथो विरोधो विचारणया परिहरणीय इति युज्यते, आसां मुख्यवृत्तिरासां गौणीति, आसामसौ विषय आसामयमिति वा । यत्र युक्तिसहिताभिः श्रुतिभिः श्रुतयो विरुध्यन्ते तत्र न विचारणावकाशः । बलवद्विरोधे गौणार्थत्वाश्रयणस्य प्राप्तत्वात् । अतस्सिद्धार्थत्वात्कृतमत्र मीमांसयेति ।। नायं दोषः । सयुक्तिकाभिरेव निर्णयश्रुतिभिः परिहरिष्यमाणत्वाद्विरोधस्य । विषयविवेकस्य वा प्रदर्शयिष्य-माणत्वात्तत्र तत्र । अस्मिन्पादे प्रायः प्राणाः समस्ता व्यस्ता वा विषयः । अत्र तूत्पद्यन्ते वा नवेति संशयः । श्रुतिविप्रतिपत्तिः संशयबीजम् । नोत्पद्यन्त इति पूर्वः पक्षः । अनुत्पत्तिश्रुतेः सयुक्तिकत्वा-दुत्पत्तिश्रुतेर्गौणार्थत्वयोगात् । ‘प्राणा एवेदमग्र आसुस्तेभ्यो भूतानि जज्ञिरे’ इति भूतकारणत्वश्रुतेः, ‘तमुत्क्रामन्तं प्राणोऽनूत्क्रामति प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति’ इत्यादिषु देहपाते देहिनां सहोत्क्रान्तिगत्यादिश्रुतेः प्रलये च सुषुप्त इव व्यापारस्यैवोपरमादिति । अत्र सूत्रमवतारयति । तथा प्राणाः । यथाऽऽकाशादयो जीवपर्यन्ताः परमात्मन उत्पद्यन्त उक्तन्यायेन तथा प्राणा अप्युत्पद्यन्ते परमात्मन एव । तत्रोक्तन्यायानुकर्षणार्थं तथेत्युक्तम् ।
तत्त्वप्रकाशिका
एतत्पादार्थं दर्शयति ।। युक्तीति ।। अत्रापि पूर्ववत् श्रुतीनां परस्परविरोधपरिहार एव पदार्थः । युक्तिसाहित्यस्य पूर्वत्रापि साम्यात् । अत्रत्ययुक्तीनां श्रुत्यादिसिद्धत्वेन प्राबल्यात्पादभेदः । अध्यात्म-विषयतया च । तत्रादावीश्वरस्य श्रुतिसमन्वयेन जगत्कारणत्वसिद्ध्यर्थमिन्द्रियोत्पत्तिविषयश्रुति-विरोधपरिहारादस्ति शास्त्रादिसङ्गतिः । जगत्कारणे ब्रह्मणि सर्वश्रुतिसमन्वयो निरूपितः । तत्र प्राणोत्पत्तिविषयश्रुतीनां विरोधेनाप्रामाण्ये तदसिद्धेः स परिहर्तव्यो भवति । सर्वजगदन्तःपातिनः प्राणा एव विषयः । किमुत्पत्तिमन्तो न वेति सन्देहः । संशयबीजं श्रुतिविगानं दर्शयन् पूर्वपक्षं सूचयति ।। प्राणा इति ।। अथ तस्मात् इति च प्राणानामुत्पत्तिः श्रूयत इति शेषः । प्राणा नोत्पत्ति-मन्तः ‘प्राणा एवानादयः’ इति श्रुतेः । न चोत्पत्तावपि श्रुतिरस्तीति वाच्यम् । अस्याः स्पष्टार्थाया निरवकाशत्वेन प्राबल्यात् । प्राणा नोत्पत्तिमन्तो निरुपादानत्वाद् व्यतिरेकेण घटवदिति युक्तियुक्तत्वेनापि प्राबल्यात् । न चात्रासिद्ध्यादिशङ्का कर्तव्या नोपादानमिति स्मृतिगृहीतत्वात् । अतः प्रबलश्रुतिविरोधादुत्पत्ति श्रुतिरप्रमाणमेवेति नेश्वरस्य श्रुतिसमन्वयेन जगत्कारणत्वसिद्धिरिति भावः । सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ।। अत इति ।। उत्पत्तिमन्त एव प्राणाः । आकाशादीना-मुत्पत्तिमत्त्वे कथितयुक्तिसमुदायादेवेत्यर्थः । अत्र पुनर्विप्रतिपत्त्यभावेन कारणस्याविचारा-त्सिद्धवत्कृत्य परमात्मन इत्युक्तम् ।
गुर्वर्थदीपिका
तथा प्राण इत्यत्र दर्शनस्पर्शनादिप्रकृष्टाप्रकृष्टचेष्टाहेतुत्वात्स्वस्वविषयं प्रतिद्रवणाख्यचेष्टाधि-करणत्वाद्वेन्द्रियाणि प्राण इत्युच्यते । पूर्वत्रापि साम्यादित्यत्र साम्येऽपीत्यर्थः । अत्र पुनर्विप्रति-पत्त्यभावेनेत्यस्य सर्वथा विप्रतिपत्त्यभावे अधिकरणान्तरारम्भासम्भवेन परमात्मरूपकारणे विप्रतिपत्त्यसम्भवादित्यर्थः । नन्वल्पाक्षरसूत्रेषु बह्वर्थसूचनापेक्षी सूत्रकारः । ‘गौण्यसम्भवात्’ इति सूत्रं वियदधिकरणे प्राणाधिकरणे च कुतो नासूत्रयदिति चेदित्थम् । वियदधिकरणे आकाशपद-वाच्ययोरव्याकृताकाशतदभिमानिनोर्भूतभूताभिमानिनोश्चोत्पत्तिश्रुतेरनुस्यूतत्वमेव मुख्यत्वम् । अनादिश्रुतेर्गौणत्वं तूक्तेषु चतुर्ष्वप्यननुस्यूतत्वमेव । अनादित्वश्रुतिस्तु न सर्वविषयेति भवति गौणी । ‘भूतेषु कथमप्यवृत्तेः’ इति वचनान्न तत्र प्राणाधिकरणवदेकैकस्य सूक्ष्मरूपेण विद्यमानत्वं स्थूलरूपेणाविद्यमानत्वं च । इह त्वनादित्वस्य गौणत्वमेकैकेन्द्रियस्य सूक्ष्मरूपेण वर्तमानत्वं स्थूलरूपेणावर्तमानत्वं च । कस्मिंश्चिद्विद्यमानत्वं च ।
ननु तत्राप्येवं कुतो गौणत्वमिति चेन्न । भूताभिमानिविनायकचैतन्येऽव्याकृताकाशे तदभिमानि- लक्ष्मीचैतन्ये च स्थूलसूक्ष्मभेदाभावात् । अस्तु तर्हि तदित्यत्राप्येकस्मिन्निन्द्रियेऽनादित्वस्य सर्वथाऽभावो गौणत्वमिति चेन्न । सर्वेन्द्रियाणामपि स्थूलसूक्ष्मरूपसहिततया सादित्वानादित्व-साम्येनैकस्मिन्सत्वस्यापरस्मिन्सर्वथाऽसत्त्वस्य चासम्भवादेव । वियदधिकरणे तु सजातीयेषु स्थूलरूपेणैवानादित्वस्य सत्त्वाद्भूताकाशे तु तत्साम्येनानादित्वस्य शतशः प्रयत्नेऽप्यसम्भवात् । सम्भवत्सूक्ष्मरूपानादित्वस्य च प्रकरणविरुद्धस्याऽऽश्रयितुमशक्यत्वात्कथमप्यवृत्तेरित्युक्तम् । तथा प्राणा इत्यत्रातिदेशे हि तत्रोक्तन्यायेनैवात्रापि गौणत्वबुद्धिस्स्यादतः प्रमेयविशेषसूचनायात्र पुनः सूत्ररचना । एवं च व्यर्थं सत्किमप्यर्थान्तरं ज्ञापयतीति न्यायेन प्रेक्षावतस्सूत्रकारस्यैकाकारद्विःप्रयोगे स्यादेवार्थान्तरबुद्धिर्विवेकिनाम् । ‘प्रतिज्ञानुपरोधात्’ इति सूत्रं तु प्रतिज्ञाहानिरिति पूर्वसूत्रोक्ता-निष्टापादनविपर्यये पर्यवसानरूपत्वान्न पुनरुक्तम् । तच्च पूर्वसूत्रे गौणीद्वैविध्यवत्प्रतिज्ञाद्वैविध्या-भावसूचनार्थम् । प्रतिज्ञाहानिरित्येव सूत्ररचनायां ह्येकाकारपूर्वसूत्रवदत्राप्यर्थद्वैविध्यशङ्का स्यादेव । उक्तविधया प्राचीनसूत्रार्थविशेषतया सूत्ररचनायां तु सुगमोऽत्रार्थद्वैविध्याभावः । एवं च द्वेधाऽपि सार्थक्यमस्य सूत्रस्य । अतोऽतीवचतुरः सूत्रकारः ।
भावबोधः
‘श्रुतिप्रायोपपत्तिभिः । अविरोधश्चतुर्थे तु पादे सम्यक् समर्थ्यते’ इत्यनुव्याख्यानं मनसि निधायाह– अत्र युक्तीनामिति ।। अनेन युक्तिसहितेति भाष्ये श्रुतिसिद्धत्वेन प्रबलेत्यादावुप-स्कर्तव्यमित्युक्तं भवति ।
‘अध्यात्मप्रवणो भूत्वा तस्य सन्निहितत्वतः’
इत्यनुव्याख्यानं मनसि निधायाह– अध्यात्मविषयतया चेति ।। तत्रादाविति ।। पूर्वाधिकरणेऽदृष्टानियमादि अनाद्यविद्याकर्मादीत्युक्त्या कर्मादिपदोक्तज्ञानकरणत्वे नोपक्षिप्ता-नामिन्द्रियाणामुत्पत्तेरत्र विचारादनन्तरसङ्गतिरिति ज्ञातव्यम् । अत्र सर्वेष्वधिकरणेषु ईश्वरस्य श्रुतिसमन्वयेनोक्तमशेषजगत्कारणत्वमयुक्तमुत युक्तमिति प्रधानचिन्तानुवृत्तिर्द्रष्टव्या । अत एवात्र प्रत्यधिकरणं श्रुतिसमन्वयेन जगत्कारणत्वसिद्ध्यर्थमित्याद्युक्तम् । तदयुक्तत्वयुक्तत्वे च ‘तथा प्राणाः’ इत्यादौ साक्षात् सर्वजगत्कारणत्वाक्षेपपरिहाराभ्यां ‘सप्तगतेर्विशेषितत्वात्’ इत्यादौ श्रुतिप्रामाण्याक्षेपपरिहाराभ्यामिति ज्ञातव्यम् । अत्र प्राणाः किमनुत्पत्तिमन्त उतोत्पत्तिमन्त इति चिन्ता । तदर्थं तदुत्पत्तिस्तदनुत्पत्तिश्रुतिविरुद्धा न वेति । तदर्थं ‘प्राणा एवेदमग्र आसुः’ इति तदनुत्पत्तिश्रुतिः किं युक्तियुक्तत्वेन निरवकाशोत सावकाशेति । तदर्थं ‘नोपादानं हीन्द्रियाणाम्’ इति स्मृत्युक्तयुक्तेर्गत्यन्तरं नास्त्युतास्तीति । तदर्थमिन्द्रियाणामुपचयादिरूपोत्पत्तौ श्रुतियुक्त्यादि-विशेषप्रमाणं नास्त्युतास्तीति । उत्पत्तावपि श्रुतिरिति ।
‘एतस्माज्जायते प्राणो मनःसर्वेन्द्रियाणि च’
इति श्रुतिरित्यर्थः । प्राणानामुत्पत्त्यङ्गीकारे ‘प्राणा एवानादय’ इत्यादिस्पष्टार्थवद्विशेषश्रुतिविरोध इति न्यायविवरणं मनसि निधायाह– अस्याः स्पष्टार्थाया इति ।।
ननूत्पत्तिश्रुतेरपि‘ इन्द्रियाणि जायन्त’ इत्युक्तत्वेन स्पष्टार्थतया निरवकाशत्वात् कथं ततोऽस्याः प्राबल्यमित्यतः ‘नोपादानं हीन्द्रियाणाम्’ इति भाष्योक्तयुक्तिमाह– प्राणा इत्यादिना ।। व्यतिरेकेणेति ।। यद्यप्यन्वयदृष्टान्तो ब्रह्मास्ति तथापि व्यतिरेकव्याप्तिं विना व्यभिचारशङ्काया अनिरासात् उपादानकृता सृष्टिरिति भाष्योदाहृतस्मृत्यनुसारेण व्यतिरेक एवोक्त इति ज्ञातव्यम् । यथा यस्माद्युक्तिसमुदायात् आकाशादयः परमात्मन उत्पद्यन्ते तथा तस्मादेव युक्तिसमुदायात् प्राणा अपि परमात्मन उत्पद्यन्त इति भाष्यार्थमभिप्रेत्याह– उत्पत्तिमन्त एवेति ।। अत्र पुनः विप्रतिपत्त्याभावेनेति । तेज आदेर्ब्रह्मान्यकार्यत्वे घर्मात् स्वेददृष्टेरितिवदत्र प्राणानां ब्रह्मान्यकार्यत्वे प्रापकाभावेन विप्रतिपत्त्यभावेनेत्यर्थः ।
भावदीपः
अस्य पूर्वपादसाङ्कर्यमुद्भाव्य द्वेधा भेदमाह ।। अत्रापीति ।। तथैव प्रतिनयं दर्शितत्वात् अन्यथा तत्र पूर्वपक्षानुदयादिति भावः ।। अत्रत्येति ।। ‘श्रुतिप्रायोपपत्तिभिः । अविरोधश्चतुर्थे तु पादे सम्यक्समर्थ्यते’ इत्यसदितिनयानुव्याख्याने ‘अध्यात्मप्रवणो भूत्वा तस्य सन्निहितत्वतः’ । इत्युपासनापादीयानुभाष्ये चोक्तेरिति भावः ।। तत्रादाविति ।। अध्यात्मं विचार्यमाणेषु आदावित्यर्थः । मुख्यप्राणश्चेन्द्रियाणीति सङ्क्षेपभाष्यदिशाऽभ्यर्हितत्वेन श्रेष्ठस्यादौ विचार्यत्वेऽपि सर्वप्रेरकस्य तस्येन्द्रियविषयचिन्तानन्तरमेव चिन्तावसर इति तथालब्धात्मन एव सङ्ख्या-परिमाणादिरूपधर्मचिन्तावसर इति तथा इन्द्रियसामान्यजन्मचिन्तानन्तरमेतद्विशेषे मनःप्रभृतौ चिन्तावसर इति तच्चिन्तात आदाविन्द्रियजन्मचिन्ता अवसरप्राप्तेतिभावेनादावित्युक्तम् । अत्र सिद्ध्यर्थमित्यनेन शास्त्रे विरोधपरिहारादित्यनेनाध्याये श्रुतीत्यनेन पादे चान्तर्भावसङ्गतिरुपपादिता । एवमग्रेऽपि । प्रबलयुक्तिसहित श्रुतीत्यपि योज्यम् । सिद्ध्यर्थमित्येतद् व्यनक्ति ।। जगत्कारण इति ।। यद्वा पूर्वसङ्गतिमाह ।। जगत्कारण इति ।। एवमग्रेऽपि द्वेधा योज्यम् । जन्मादिसूत्र-सङ्गत्यर्थमाह ।। सर्वजगदन्तःपातिन इति ।। श्रुतौ प्राणा एवानादय इत्यस्य पौनरुक्त्यमाशङ्क्य निगमपरतयार्थमाह ।। अथ तस्मादिति ।। अण्डादिहेतुभूतकारणत्वात् लयवर्तित्वाद्वेत्यर्थः । एतेन भाष्ये पूर्वांशोदाहरणमनादय इत्यस्योपपादकत्वेनेति दर्शितम् । इति चेति भाष्यानुवादः ।। श्रुतिरस्तीति ।। इदं सर्वमसृजत’ इति सामान्यश्रुतिः ‘एतस्माज्जायते’ इत्यादिविशेषश्रुतिश्चा-स्तीत्यर्थः । तत्राद्यायाः सामान्यश्रुतेर्बाधाय पूर्वपक्षन्यायविवरणे स्पष्टार्थवद्विशेषश्रुतिविरोध इत्युक्तम् । तत्र सामान्यव्यवधानाभावरूपविशेष श्रुतित्वे हेतुरिति भावेनाह ।। अस्याः स्पष्टार्थाया इति ।। अनुत्पत्तिश्रुतेरित्यर्थः । द्वितीयायाः सिद्धान्तीयविशेषश्रुतेर्बाधाय नोपादानमिति भाष्योक्तयुक्तिमाह ।। प्राण इति ।। एवं च युक्तिद्वयोक्तिरपि सफलेति बोध्यम् ।। व्यतिरेकेणेति ।। अन्वयदृष्टान्तस्य ब्रह्मणः सम्भवेऽप्युपादानकृता सृष्टिरित्युत्तरार्धानुरोधादेवमुक्तम् । स्मृतावपि तथोक्तेर्बीजं चन्द्रिकायामुक्तम् ।। अत इति ।। निरवकाशत्वनिरुपादानत्वयुक्त्युपेतत्वात्प्रबलेत्यर्थः ।
अत्र यथा यैर्न्यायैस्तथा तैरेव न्यायैरिति भाष्यार्थं मत्त्वा सूत्रे तथाशब्दस्तथान्यत्प्रतिषेधा-दित्यत्रेव प्रागुक्तयुक्तिपरामर्शी साध्यपरामर्शी चेति भावेन सूत्रभाष्ययोरर्थमाह ।। उत्पत्तिमन्त एवेति ।। पराधीनविशेषावाप्तिरूपोत्पत्तिमन्त एवेत्यर्थः । तत्रोक्तन्यायानुकर्षार्थं तथेत्युक्तमिति तत्वप्रदीपोक्तेः ।। कथितेति ।। अश्रुतेः । उत्पत्तिश्रुतिबाहुल्यादल्पशक्तित्वादेकस्याप्यनुत्पत्तिशब्दस्य ब्रह्मशब्दवन्मुख्यामुख्यत्वसम्भवादित्युक्तयुक्तिसमुदायादित्यर्थः ।। विप्रतिपत्तीति ।। अन्यजातत्व-विवादाभावेनेत्यर्थः ।। अविचारादिति ।। तेजोऽत इत्यादिवद्ब्रह्मजातत्वोक्त्यर्थं सूत्रान्तरा-करणादित्यर्थः ।
अभिनवचन्द्रिका
एतत्पादार्थमिति ।। ‘अध्यायस्य एकार्थत्वात् पादभेदः किं निबन्धन इत्यतो विरोधेऽप्य-वान्तरभेदेनेति भावेन’ इति वर्तते । तस्य एतत्पादप्रतिपाद्यं दर्शयतीत्यनेन सम्बन्धः । ननु भाष्यकारीयं पादप्रतिपाद्यकथनमयुक्तम् । अस्यार्थस्य पूर्वपादार्थाऽभिन्नत्वेन पादभेदाभाव-प्रसङ्गादित्याशङ्कामनूद्य समाधत्ते – अत्रापीत्यादिना ।। अत्रापीति निपातसमुदायो यद्यपीत्यर्थे । ‘अत्रत्ययुक्तीनाम्’ इति वाक्यस्योपक्रमे ‘तथापि’ इति ग्राह्यम् ।। पूर्वपक्षं च सूचयतीति ।। ‘नोपादानं हीन्द्रियाणाम्’ इति स्मृत्युदाहरणेन सूचयतीत्यर्थः ।। अत्र पुनर्विप्रतिपत्त्यभावेनेति ।। अत्र विप्रतिपत्तिशब्देन ब्रह्मकारणकत्वविरुद्धार्थप्रतिपादकं वाक्यमुच्यते । अन्यकारण-कत्वप्रापकाभावात् कारणमविचारयित्वैव सिद्धवत्कृत्य ‘परमात्मन’ इत्युक्तमित्यर्थः ।
वाक्यार्थमुक्तावली
एतत्पादार्थमिति ।। अध्यायस्यैकार्थत्वात् पादभेदः किं निबन्धनः इत्यत अविरोधेऽप्य-वान्तरभेदेनेति वर्तते ।। तस्यैतत्पादप्रतिपाद्यं दर्शयतीत्यनेन सम्बन्धः । श्रुति प्रायोपपत्तिभिः । ‘अविरोधश्चतुर्थे तु पादे सम्यक् समर्थ्यते’ इत्यनुव्याख्यानानुसारेण युक्तिसहितेति भाष्यस्य श्रुति-सिद्धत्वेनैव प्रबलयुक्तिसहितेत्यर्थं हृदि कृत्वा तद्व्यावृत्याशङ्कामनूद्य व्याचष्टे ।। अत्रापीत्या-दीनाम् ।। अत्रापीति निपातसमुदायो यद्यपीत्यर्थे । अत्र युक्तीनामित्यतः पूर्वं तथापीत्युपस्कर्तव्यम् । अन्यथाऽनन्वयात् । अत्रापीत्यस्यास्मिन् पादेऽपीत्यर्थोक्तौ अर्थ इत्येव पूर्णत्वात् पादार्थ इति पादपदवैयर्थ्यं च । ‘अध्यात्मप्रवणो भूत्वा तस्य सन्निहितत्वतः’ इत्यनुव्याख्यानं मनसि निधायाह ।। अध्यात्मविषयतया चेति ।। अध्यात्मपदेनात्मानं शरीरमधिकृत्य वर्तमानानीन्द्रियाण्युच्यन्ते । पादस्य प्रायिकत्वादन्तिमोपान्त्याधिकरणयोः शरीरविचारेऽपि नासङ्गतिः । यद्वक्ष्यति ‘इन्द्रियादीनामाश्रयं शरीरं तत्प्रसंगनिधापितं विषयः’ इति । तत्त्वप्रदीपे च ‘‘युक्तिसहिताभिः श्रुतिभिर्विरोधं श्रुतीनामपाकरोत्यनेन पादेन प्राणविचारात्मकेन प्रायेण’’ इति । विस्तरस्तु प्रमेयमुक्तावल्याम् ।
तत्रादाविति ।। तत्र विचार्यतया बुद्धिसन्निहितेषु प्राणोत्पत्तिसङ्ख्यापरिमाणादिषु आदा-वित्युत्पत्तेः प्राथमिकत्वात् । एकैकदेशमनआदिविचारापेक्षया समुदायविचारस्य प्रथमप्राप्तत्वादादौ प्रथमेऽस्मिन्नधिकरणे इन्द्रियोत्पत्तिविषयश्रुतिविरोधपरिहारादित्यर्थः । जीवस्वरूपविचारानन्तरं तदिन्द्रियविचारादिति वा जीवस्याप्रतिबिम्बत्वश्रुतिर्बाह्योपाध्यधीनप्रतिबिम्बत्वाभिप्रायेणेति पूर्वत्र निर्णीते बाह्योपाधिरूपमनआदीन्द्रियविचारादिति वानन्तरसङ्गतिः ।। किमिति ।। अत्र सर्वेष्व-प्यधिकरणेष्वीश्वस्य श्रुतिसमन्वयेनोक्तमशेषजगत्कारणत्वमयुक्तमुत युक्तमिति प्रधानचिन्ताऽनुवृत्ति-र्दृष्टव्येति दर्शयितुं प्रत्यधिकरणं श्रुतिसमन्वयेन जगत्कारणसिध्यर्थमित्युक्तम् । अत्र किं प्राणा अनादय उतोत्पद्यन्त इति चिन्ता । तदर्थं प्राणादित्वश्रुतिर्निरवकाशत्वेन स्मृतिगृहीतनिरूपा-दानत्वयुक्तिसाहित्येन च प्रबलौ तत्सावकाशात् स्मृतेश्च विषयान्तरमस्तीति । पूर्वपक्षं सूचयतीति । प्राणा एवानादयः नोपादानमिति श्रुतिस्मृत्युदाहरणादिति भावः । न वियदश्रुतेरित्युक्तन्यायमुद्धरति प्राणा इति ।। अस्तित्वित्युक्तन्यायसाम्यमपाकरोति । न चोत्पत्तावपीति ।। कुतो न वाच्य-मित्यतस्तत्र स्पष्टार्थवत् श्रुतिरित्युक्तन्यायं प्राणा एवेदमग्र आसुरिति भाष्ये श्रुत्युदाहरणसूचितमाह ।। अस्या इति ।। एतेन वियदधिकरणे गौण्यसम्भवादित्यनादित्वश्रुतेर्गौणानादित्वपरत्वेनोक्तत्वा-त्तन्न्यायेन गतार्थतेति निरस्तम् । प्राणा एवेदमग्र आसुस्तेभ्यो भूतानीति प्रलये प्राणानाम-वस्थानमुक्त्वा तेभ्यो भूतानीति भूतोत्पत्तिमभिधायाथ प्रलयावस्थितत्वात्प्राणा एवानादयः प्राणा नित्या इति सयुक्तिकसावधारणमुक्तानादित्वसेश्वरवन्मुख्यत्वे गौणत्वेन सावकाशत्वाद्बलवद्विरोध एव गौणार्थस्याश्रयणीयत्वादुत्पत्तिश्रुतेः प्राबल्यायोगादिति भावः ।
प्रकारान्तरेण प्राबल्यमाह प्राणा इति ।। असिध्यादीत्यादिपदेन बाधव्यभिचारौ गृह्येते । इष्यत इति साध्यस्य प्रामाणिकस्य उपादानकृता सृष्टिरिति व्यतिरेकव्याप्तेश्चोक्तेः । एतेन ब्रह्मणोऽन्वय-दृष्टान्तत्वसम्भवाद्व्यतिरेकाश्रयणमयुक्तमिति निरस्तम् । ननु भाष्ये आकाशदृष्टान्तेन प्राणोत्पत्ति-कथनमयुक्तम् । ईशदृष्टान्तेन तदभावोक्तिसम्भवादित्यतो भाष्यार्थमाह ।। उत्पत्तिमन्त एवेति ।। एतेन यथा येन प्रकारेण यया युक्त्याऽकाशदय उत्पद्यन्ते तथा तेन प्रकारेण तयैव युक्त्या प्राणा उत्पद्यन्त इति सूत्रार्थ उक्तो भवति । अत्र पुनर्विप्रतिपत्त्यभावेनेति ।। तेजआदेर्ब्रह्मान्यकार्यत्वे धर्मात्स्वेदादिदृष्टेरितिवदत्र प्राणानां ब्रह्मान्यकार्यत्वे प्रापकाभावेन विप्रतिपत्त्यभावेनेत्यर्थः ।
वाक्यार्थविवरणम्
ननु तर्हि पादभेदानुपपत्तिः । न चात्र युक्तिसहितश्रुतिविरोधपरिहारः क्रियते । तत्र नेति पादभेद इति वाच्यम् । कुतः इति चेत्तत्राह ।। युक्तिसाहित्यस्येति ।। तर्हि कथं पादभेद इत्यतस्तं दर्शयति ।। अत्रत्येति ।। तत्रादाविति ।। अध्यात्मं विचार्यमाणेष्वित्यर्थः । श्रुतीति ।। प्रबलयुक्तिसहितश्रुतीति सर्वत्र योज्यम् । अन्यथा पादासङ्गतिः स्यादिति ध्येयम् । जन्मादिसूत्र-सङ्गत्यर्थमाह ।। सर्वजगदन्तःपातिन इति ।। तस्मादिति ।। प्रलये सत्त्वादेवेत्यर्थः ।। अस्याः स्पष्टार्थाया इति ।। अनुत्पत्तिश्रुतेरित्यर्थः ।। कथितेति ।। अश्रुतेरुत्पत्तिश्रुतिबाहुल्याच्चेत्याद्युक्त-युक्तियुक्तत्वादित्यर्थः ।
वाक्यार्थमञ्जरी
यथा वियदादयो जातास्तथा प्राणा इन्द्रियाण्यपि जायन्त इत्यर्थः ।। विप्रतिपत्त्यभावेनेति ।। तेजआदेर्ब्रह्मान्यकार्यत्वे धर्मात्स्वेदादिदृष्टिवदत्र प्राणानां ब्रह्मान्यकार्यत्वे प्रापकाभावेन विप्रतिपत्त्य-भावेनेत्यर्थः ।