ॐ नैकस्मिन् दर्शयतो हि ॐ
५. अनेकलयाधिकरणम्
सूत्रभाष्यम्
ॐ नैकस्मिन् दर्शयतो हि ॐ ।। ६ ।।
नैकस्मिन् भूते सर्वेषां देवानां लयः । ‘पृथिव्यामृभवो विलीयन्ते वरुणेऽश्विनावग्नावग्नयो वायाविन्द्रः सोम आदित्यो बृहस्पतिरित्याकाश एव साध्या विलीयन्ते । मृत्यवः पृथिव्यां वरुण आपोऽग्नयस्तेजसि मरुतो मारुत आकाशे विनायका विलीयन्त’ इति महोपनिषच्चतुर्वेद-शिखा च दर्शयतः । अतोऽग्नौ देवा विलीयन्त इति तत्र निर्दिष्टानामेव ।।
।। इति अनेकलयाधिकरणम् ।। ५ ।।
तत्त्वप्रदीपिका
नैकस्मिन् भूते सर्वेषां देवानां लय इत्यस्य भाष्यस्यार्थ उच्यते । न तावदेकैकस्मिन् भूते सर्वेषां देवानां लयः । विरोधात् । न च कदाचिदेकस्मिन् कदाचिदन्यस्मिन्नित्यविरोधः । मुक्तौ प्रवेशप्रकारस्य श्रुतिषु नियतत्वात् ।।
‘उक्तश्च बिम्बप्रतिबिम्बभावः पिङ्गश्रुतावुक्तलयानुसारतः ।
बिम्बे लयो यन्नियतश्च मुक्तौ चिदात्मनां तद्वशता च सर्वदा’ इति च ।।
नाप्येकस्मिन् भूते देवानां लयः । तस्यान्यस्मिंस्तस्यान्यस्मिन्नित्यतो भूतेष्वित्युक्तिः । प्रमाणाभावात् । किन्तु केषाञ्चिद्देवानामेकस्मिन्नन्येषामन्यस्मिन्नित्येवं प्रकारेणाङ्गीकार्यः । अग्नयोऽग्निपुत्राः, ‘‘वायाविन्द्रः सोम आदित्यो बृहस्पतिरिति’’ति बृहस्पत्यादयः सर्वेऽपि देवा यथानुकूलं वायौ विलीयन्त इत्यर्थः । इतिशब्दस्याद्यार्थत्वात् ।।
‘आकाश उर्वी च गुरुं प्रविश्य तेनैव यातः पुरुहूतदेवम् ।
सोमस्तु वारीशयुतोऽनिरुद्धं विशत्यसौ काममसौ तु वारुणीम् ।।
सा शेषदेवं स गिरं च सैव वायुं विशत्यञ्ज इतीह निर्णयः ।
सूर्योऽग्नियुक्तो गुरुमाप्य तेन शक्रं सहैतेन सुपर्णपत्नीम् ।
तया सुपर्णं सह तेन वाणीं ब्रह्माणमेतद्गत एव याति’ इति च ।।
भूतवाय्वादयो मरुत इन्द्रादिद्वारेण मारुते ।
प्रयाति धर्मं निर्ऋतिस्तु शक्रं मरुद्गणाः पारषदास्तथैव ।
सर्वेऽनिरुद्धं पृतनाधिपाद्याः तुरश्रुतिर्हीत्थमियं विमुक्तिरि’ति च ।।
न चेदं स्वमनीषितम् । ‘उक्तं समस्तं परमश्रुतौ हि’ इति ह्याह । अत एव च सर्वाण्यन्विति यथाश्रुत्यनुकूलं यथाबिम्बप्रतिबिम्बभावानुकूलं च सर्वाणि दैवानि विलीयन्त इति यः प्रतिज्ञातो लयः सः प्रणिगदितः प्राचुर्येणानुव्याख्यानिकानां श्लोकानां कियताञ्चिदुदाहरणेन । तदुपजीव-कत्वेऽप्यस्य ग्रन्थान्तरत्वात् न कृत्स्नोदाहरणम् । ग्रन्थबाहुल्यभयाच्च । अतोऽग्नौ देवा विलीयन्त इति तत्र निर्दिष्टानामेव । अयमर्थः । यत एते एवं दर्शयतः, अतो नैतदाशङ्कनीयं, ‘अग्नौ सर्वे देवा विलीयन्त’ इति वचनादेकस्मिन्नेवाग्निदेवे सर्वदेवानां लय इति । अनयोरुक्तानामग्निपुत्राणामेव तत्र लयः । विशेषश्रुतिबाहुल्यात् । सर्वशब्दस्य तदविरोधेन कृत्स्नाग्निपुत्रविषयत्वोपपत्तेः ।।
तत्त्वप्रकाशिका
अत्र पुनर्देवानां मुक्त्यर्थं सर्वभूतेषु लयसमर्थनादस्ति शास्त्रादिसङ्गतिः । अन्यथोत्तमानामधमेषु लयप्रसङ्गात्समर्थनीयमेतत् । प्रकृतदेवा एवात्र विषयः । किं सर्वभूतेषु लीयन्ते उताग्नावेवेति सन्देहः । उक्तमेव सन्देहबीजम् । अग्नावेव सर्वेषां लय इति पूर्वः पक्षः । ‘अग्नौ सर्वे देवा विलीयन्ते’ इति श्रुतेः । न च ‘भूतेषु देवा विलीयन्ते’ इति श्रुतिविरोधः । एकस्मिन्नग्नावेव सर्वदेवलयाङ्गीकारेऽपि तदुपपत्तेः । अस्ति तावद् भूतानामुत्पत्तिक्रमवैपरीत्येन लयः । उत्पत्तिश्चाकाशादिक्रमेण ‘आत्मन आकाशः’ इति श्रुतेः । मुक्तिश्च प्रलयविशेषः । तथा चाग्नावेव सर्वदेवानां लयाङ्गीकारेऽपि भूतेष्वित्युपपद्यते । अग्नेर्वायौ वायोराकाशे विलयात् । न च वाच्यं मुख्यार्थः किं न स्यादिति । ‘अग्नौ सर्वे देवा विलीयन्ते’ इत्येतच्छ्रुत्यन्यथानुपपत्तेर्निरवकाशत्वात् । न चात्र विशेषप्रमाणमस्ति । अतोऽग्नावेव सर्वदेवानां विलयादुक्तव्यवस्थानुपपत्तिरिति । सिद्धान्तयत्सूत्रं पठित्वा व्याचष्टे ।। नैकस्मिन्निति ।। नैकस्मिन्नग्नावेव भूते सर्वदेवानां लयो वाच्यः । ‘पृथिव्यामृभव’ इत्यादिश्रुतिभ्यां प्रत्येकं भूतेषु देवतालयस्योक्तत्वात् । येषां देवानां यस्मिन्भूते लय उच्यते तत्तद्देवानां तत्तद्भूतोद्भूत-त्वाच्च । न चाश्विप्रभृतीनां वरुणाद्यनुत्पन्नत्वान्न तत्र लयोपपत्तिरिति वाच्यम् । तेषां तदुत्पन्नत्वाभावे विशेषवचनाभावे च स्वसमानाबादिदेवतालयस्थाने वरुणादौ लयोपपत्तेः । अतो यदन्यथाव्याख्यानं तदयुक्तमिति भावः । अत्र वायुमारुतपदाभ्यां हिरण्यगर्भ उच्यते । तत्रेन्द्रस्य लय उक्तक्रमेण सोमस्य चानिरुद्धकामवारुणीशेषवाणीद्वारेण सूर्यस्य बृहस्पतिशक्रसौपर्णीसुपर्णवाणीद्वारेण मरुतामपीन्द्रादि-द्वारा भूताभिमानिनां चान्योन्यलयाभावादन्यथाव्याख्यानमयुक्तम् । न चोत्पत्तिश्रुतिविरोधः । अत्र जडानां मुख्योत्पत्त्यभिधानात् । देवतानां त्वनुसर्गप्रतिपादनात् । ननु तर्हि ‘अग्नौ सर्वे देवा विलीयन्ते’ इति श्रुतेः का गतिरित्यत आह ।। अत इति ।। यत एवं पृथक् प्रत्येकं भूतेषु लयः सिद्धोऽतो ‘अग्नौ सर्वे देवा विलीयन्ते’ इति श्रुत्योदाहृतश्रुतावग्नौ विलीयमानत्वेन निर्दिष्टानामेव लयोऽभिधीयत इत्यङ्गीकार्यमिति भावः । उपलक्षणमेतत् । प्रायेणाधमानां सर्वेषां भूतान्तराप्रवेशिनां तत्रैव लयः । अतोऽग्नावेव सर्वेषां लयाभावादुक्तव्यवस्था युक्तेति सिद्धम् ।।
गुर्वर्थदीपिका
अग्नावेव सर्वदेवानां लयाङ्गीकारेऽपीत्यत्र ‘देवाः सर्वेऽग्नावेव लीयन्ते’ स त्वग्निः स्वाभि-मन्यमानजडतेजोनाशक्रमाय वायुभूते आकाशभूते प्रविश्य गच्छतीत्यर्थोपपत्तेरिति शङ्कितुर्भावः । स्वसमानाबादिदेवतालयस्थान इत्यत्र ‘वरुण आप’ इति श्रुत्युक्तानामश्विनीसमानतयोक्त-शतस्थादभिमानिदेवतानां वरुणे लयोक्त्या वरुणादनुत्पन्नयोरप्यश्विनोस्तत्र लयसम्भवादित्यर्थः । ‘विष्वक्सेनोऽश्विनौ तौ गणपतिधनपावुक्तशेषाः शतस्था देवाश्च’ इति प्राचां वचनाच्छतस्थदेवा-नामश्विनोश्च साम्यादिति भावः । देवानां त्वनुसर्गेत्यत्रानुसर्गोऽवान्तरसृष्टिः । यद्यपि ‘भूतेषु देवा विलीयन्त’ इति पूर्वाधिकरणेऽपि देवानां भूतेषु लयस्समर्थितः तथाऽप्यग्नौ सर्वदेवानां लयेऽपि तस्य वायौ वायोराकाश इत्यनेनाकारेण बहुवचनान्तभूतश्रुतेरपि सावकाशत्वात्पुनः ‘अग्नौ सर्वे देवा लीयन्त’ इत्यभ्यधिकाशङ्कयाऽधिकरणान्तरारम्भ इति ज्ञेयम् ।।
भावबोधः
अत्र पुनरिति ।। यदुक्तं पूर्वाधिकरणेऽग्नावेव सर्वदेवलयाङ्गीकारे भूतेषु इति बहुवचनविरोध इति तदयुक्तम् । अग्नावेव सर्वदेवलयाङ्गीकारेऽपि अग्नेः वायौ वायोश्चाकाशे लयेऽग्नौ लीनानां भूतेषु लयसम्भवेन बहुवचनोपपत्तिरिति आक्षेपोत्थानादन्तरसङ्गतिरिति भावः ।। किमिति ।। अत्र देवाः किमग्नावेव लीयन्ते उत पञ्चस्वपि भूतेष्विति चिन्ता । तदर्थमग्नावेव सर्वदेवलयाङ्गीकारे बाधकत्वे-नोक्तं भूतेषु इति बहुवचनं किममुख्यार्थमुत मुख्यार्थमिति चिन्ता । तदर्थं अग्नौ सर्वे देवाः इति श्रुतिः निरवकाशोत सावकाशेति । तदर्थं पञ्चस्वपि भूतेषु देवानां प्रत्येके लये विशेषप्रमाणं नास्त्युतास्तीति । भूतानामुत्पत्तिक्रमवैपरीत्येन लयोक्तेर्मुक्तिलययोर्विशेषाभावाच्चैकस्मिन् भूते सर्वलयोऽर्थतः क्लृप्त इति पूर्वपक्षयुक्तिप्रदर्शकन्यायविवरणस्याकाङ्क्षाक्रमेण अन्वयप्रदर्शनपूर्वक-मभिप्रायमाह– एकस्मिन्नग्नावेवेत्यादिना । तत्र एकस्मिन्नग्नौ इत्यनेन एकस्मिन्नेव भूते सर्वेषां लयोऽर्थतः क्लृप्त इत्यंशस्य, अस्ति तावद्भूतानामित्यनेन भूतानामुत्पत्तिक्रमवैपरीत्येन लयोक्ते-रित्यंशस्य, मुक्तिश्च प्रलयविशेष इत्यनेन मुक्तिप्रलययोर्विशेषाभावाच्चेत्यंशस्य व्याख्यानं कृतम् ।।
ननु प्रलयकालीनभूतलयस्य उत्पत्तिक्रमविपरीतक्रमकत्वेऽपि मुक्तिकालीनदेवतालय प्रतिपादक-श्रुतिगतस्य भूतेषु इति बहुवचनस्योपपत्तिः कथमित्यत आह– मुक्तिश्च प्रलयविशेष इति ।। मुख्यार्थ इति ।। भूतेषु इति श्रुतेर्देवानां साक्षादेव भूतेषु लय इत्येवंरूपमुख्यार्थ इत्यर्थः । दर्शयतो हि इति सूत्रादिनिवर्तनीयपूर्वपक्षयुक्तिमाह– न चात्र विशेषप्रमाणमस्तीति ।। पृथिव्यामृभवः इत्यादिश्रुतिभ्यामिति ।। अनेन विशेषश्रुतेश्चेति न्यायविवरणांशोऽपि व्याख्यातो भवति । तत्तद्भूतोद्भवत्वात् तत्तद्देवतानामिति न्यायविवरणं व्याचष्टे– येषां देवानामिति ।। तत्समानां च विशेषवचनाभावे स्वसमानलयस्थान एव लयोपपत्तेरिति न्यायविवरणं तन्निवर्तनीयाशङ्कानिरासपूर्वकं व्याचष्टे– न चाश्विप्रभृतीनामिति । तदनुत्पन्नत्वेऽपि स्वसमानदेवतालयस्थानत्वेन यदि तत्र देवतानां लयस्तर्हि सौपर्ण्यादीनां स्वसमानवारुण्यादिलयस्थाने शेषादौ लयः स्यादित्यत उक्तम्– विशेषवचनाभावे चेति ।। सौपर्ण्यादीनां विशिष्यलयस्योक्तत्वादिति भावः । अबादिदेवतेत्यत्र वरुणव्यतिरिक्तानां ग्रहणम् ।। अन्यथाव्याख्यानमिति ।। भूतेषु देवाः इति श्रुतेरग्नेर्वायावित्यादिना कृतमित्यर्थः ।। उक्तक्रमेणेति ।। इन्द्र उमायामित्युक्तक्रमेणेत्यर्थः ।
सोमस्तु वारीशयुतोऽनिरुद्धं विशत्यसौ काममसौ च वारुणीम् ।
सा शेषदेवं सगिरं च सैव वायुम्.... .... ... ।।
इत्यनुव्याख्यानं मनसि निधायाह– सोमस्य चेति ।।
सूर्योऽग्नियुक्तो गुरुमाप्य तेन शक्रं सहैतेन सुपर्णपत्नीम् ।
तया सुपर्णं सह तेन वाणीं ब्रह्माणमेतद्गत एव याति ।।
इत्यनुव्याख्यानं हृदि कृत्वाऽऽह– सूर्यस्येति ।। शक्रं मरुद्गणाः इत्यनुव्याख्यानं हृदि कृत्वाऽऽह– मरुतामपीति ।। आदिपदेन सौपर्णीसुपर्णवाण्यो ग्राह्याः । भूताभिमानिनां चान्योन्यं लयाभावादिति । तेजोवाय्वभिमानिनाग्निप्रवहादीनां वाय्वाकाशाभिमानिनोः प्रवहादिविनायकयो-र्लयाभावादित्यर्थः । पूर्वमन्यथाव्याख्यानं विशेषश्रुतिबलादिहेतुना निराकृतम् । अधुना अन्योन्य-लयाभावरूपहेतुनेति भावः । अत एव अन्योन्यलयाभावाच्चेति चशब्दसम्बन्धः । उत्पत्तिश्रुतिविरोध इति ।। ‘आकाशाद्वायुः वायोरग्निः’ इति श्रुतिविरोध इत्यर्थः । विपर्ययेणोत्क्रमोऽत उपपद्यते च इत्यत्र सर्वदेवानामुत्पत्तिक्रमवैपरीत्येन लयस्य निर्णीतत्वादिति भावः । ननु ‘भूतं भूताभिमानी च’ इत्यनुव्याख्याने आकाशदिपदैर्देवानामपि गृहीतत्वात् कथमेतदित्यत आह– अनुसर्गप्रतिपाद-नादिति ।। आदिसर्गे वैपरीत्येनैव देवादीनां देहलय इति भावः । अग्नौ सर्वे देवाः इति श्रुतिगतसर्वशब्दस्य ‘विशन्ति शिष्टा अपि हव्यवाहम्’ इत्यनुव्याख्यानानुसारेण विषयान्तरमाह– उपलक्षणमेतदिति ।।
भावदीपः
पुनर्देवानामिति ।। एतेन प्रागुक्तप्रमेयस्यैतत्साधकश्रुत्यन्यथोपपत्त्याऽसिद्धिशङ्कायां विशेष-वचनबलेन समर्थनात्पूर्वसङ्गतिरपि सूचिता । प्राचीनरीत्यास्यापूर्वेणैकाधिकरण्येऽपि न्यायभेदे-नाधिकरणभेदोऽत्राश्रितः ।। भूतेषु लय इति ।। सामान्यतोऽनुक्तौ साक्षात्परम्परा-रूपविशेषचिन्तानवसरात् । अत एव प्राङ् न न्यायविवरणयोजना कृता ।। अधमेषु लय इति ।। तथा च प्राचीनाधिकरणेषूक्तस्वोत्तरेषु लयोऽयुक्तः स्यादिति भावः ।। उक्तमेवेति ।। श्रुति-रन्याधीनत्वं चेत्युक्तमेवेत्यर्थः । विशेषशङ्कोत्थापनाय प्रागुक्तहेतुमाह ।। इति श्रुतेरिति ।। पूर्वसिद्धान्तीयश्रुतिमाशङ्क्य तदन्यथासिद्धिरूपविशेषशङ्कामाह ।। न चेत्यादिना ।। कथं तदु-पपत्तिरित्यतः भूतानामुत्पत्तिवैपरीत्येन लयोक्तेर्मुक्तिलययोर्विशेषाभावाच्चेत्यन्यत्रोक्तं विवृण्वन् अन्यथोपपत्तिं व्यनक्ति ।। अस्ति तावदिति ।। विपर्ययेण तु क्रमोऽत इत्यत्र द्वितीये तथोक्तेरिति भावः ।। तथा चेति ।। उत्पत्तिक्रमवैपरीत्येन लये सति मुक्तिलययोरविशेषे च सतीत्यर्थः । कथमित्यतो व्यनक्ति ।। अग्नेरिति ।। एकस्मिन्नेव भूते सर्वेषां लयोऽर्थतः क्लृप्त इति न्याय-विवरणेऽर्थत इत्यस्यार्थापत्तितः अग्नौ सर्वे देवा इति श्रुत्यन्यथानुपपत्तित इत्यर्थमुपेत्य शङ्कानिवर्तकतया तद् व्यनक्ति ।। न चेति ।। मुख्यार्थः साक्षाल्लयरूपः ।। निरवकाशत्वादिति ।। अग्नितोऽन्यत्र लयरूपावकाशविरहादित्यर्थः ।। न चात्रेति ।। साक्षादेवाग्नौ लय इत्यर्थः । येनार्थापत्तिर्बाधिता स्यादिति भावः ।। अत इति ।। अग्नौ सर्व इति श्रुतेर्निरवकाशत्वाद्भूतेष्विति श्रुतेश्च सावकाशत्वादित्यर्थः ।। उक्तेति ।। स्वस्वोत्तमेषु लय इति व्यवस्थेत्यर्थः । भाष्यं व्याचष्टे ।। नैकस्मिन्निति ।। भूते भूतमानिनि ।
नन्वेवं स्वस्वजनके लयस्यासिद्धिप्रसङ्ग इत्यतस्तद्भूतोद्भवत्वात्तत्तद्देवानामित्यन्यत्रोक्तहेतुं चाह ।। येषामिति ।। तत्समानानां च विशेषवचनाभावे स्वसमानलयस्थान एव लयोपपत्तेरित्यन्यत्रोक्त-युक्तिं हेत्वसिद्धिनिरासकतया योजयति ।। न चेत्यादिना ।। इन्द्रादावप्येवं स्यादित्यत आह ।। विशेषेति ।। इन्द्र उमायामुमा रुद्र इत्यादिविशेषवचनाभाव इत्यर्थः ।। अत इति ।। विशेष-प्रमाणाभावादित्यर्थः ।। अन्यथाव्याख्यानमिति ।। अग्नेर्वायौ वायोराकाशे इत्युक्तं भूतेष्विति श्रुतेरन्यथाव्याख्यानमित्यर्थः । सर्ववेदान्तनयन्यायेन श्रुत्यन्तरोक्तक्रमोऽत्र ग्राह्य इति भावेनाह ।। इन्द्रस्येति ।। इन्द्र उमायामित्यादिश्रुत्युक्तक्रमेणेत्यर्थः । सोमस्तु वारीशयुत इत्याद्यनुभाष्य-दिशाऽऽह ।। सोमस्येत्यादि ।। इन्द्रादीत्यादिपदेन प्रागुक्तसौपर्णीसुपर्णवाणीग्रहः । एवं देवा-नामन्योन्यद्वारा लयोक्तौ प्रकृते किमायातमित्यतो भावमाह ।। भूतेति ।। अन्यथेति ।। अग्नेर्वायावित्यादिनोक्तेत्यर्थः । अस्ति तावदित्यादिनोक्तचोद्यमनूद्य निराह ।। न चोत्पत्तीति ।। जडानामिति ।। तेषां च वारिणा हृतगन्धा भूः सलिलत्वाय कल्पत इत्याद्येकादशस्कन्धो-क्त्योत्पत्तिक्रमवैपरीत्येनैव लयोपगमादिति भावः । वियत्पादे आकाशादेरभिमानिदेवतापरत्व-मप्यङ्गीकृतत्वादाह ।। देवानां त्विति ।। आदिसर्गोऽत्र नोच्यते किंत्वनुसर्गः । आदिसृष्टौ तु येन क्रमेणोत्पत्तिस्तद्वैपरीत्यक्रमेणैव देवानां लयोंऽगीक्रियत एव । अत आत्मन आकाश इति श्रौत-क्रमवैपरीत्येन लयाङ्गीकारेऽपि न दोष इति भावः ।। सिद्ध इति ।। उदाहृतश्रुतिभ्यामित्यर्थः । तत्रेत्यस्यार्थः उदाहृतश्रुताविति । अग्नावग्नय इति श्रुतौ निर्दिष्टानां कृत्स्नाग्निपुत्राणामेवेत्यर्थः ।। एतदिति ।। तत्र निर्दिष्टानामेवेत्यर्थः । विशंति शिष्टा अपि हव्यवाहम्’ इत्यनुभाष्योक्त्याऽग्नि-पुत्रेभ्योऽन्येषामपि सर्वे देवा इत्यत्र सर्वशब्देन ग्राह्यत्वादिति भावः ।। अत इति ।। प्रत्येकं भूतेषु लयकथनादित्यर्थः ।। उक्तेति ।। स्वस्वनियामके लय इत्युक्तव्यवस्थेत्यर्थः ।
अभिनवचन्द्रिका
अत्र पुनरिति ।। भवेदेवाग्नावेव सर्वदेवानां लयः । अग्नेर्भूतवायौ, भूतवायोश्चाकाशे लयाङ्गीकारात् इत्यभ्यधिकाशङ्कापरिहाराय पुनः समर्थ्यत इति भावः । न चाऽश्विप्रभृतीनामिति ।। ‘वरुणेऽश्विनौ’ इत्युक्तावपि नाऽश्विप्रभृतीनां वरुणादौ लयः । तेषां वरुणाद्युत्पन्नत्वाभावात् । किन्तु वरुणादिशब्द एव तदुत्पत्तिस्थानस्य लक्षक इति न वाच्यमित्यर्थः ।। तेषामिति ।। अश्विप्रभृतीनां वरुणाद्युत्पन्नत्वाभावेऽपि वरुणादीनां स्वसमानाबादिदेवतालयस्थानत्वादुत्तमत्वेन लयाऽसम्भवाभावात् । ‘वरुणेऽश्विनौ’ इत्यादिविशेषश्रुतेश्च विशेषवचनाभावेऽपवादकाभावे यथाश्रुतस्यैव ग्राह्यत्वेन लक्षणास्वीकारायोगादिति भावः । एतेन ‘वरुणेऽश्विनौ’ इति विशेषवचन-बलादेवाऽश्विप्रभृतीनां स्वसमानाबादिलयस्थाने वरुणादौ लय इति वक्तव्यत्वेन विशेषवचनाभावे लय इति कथनमयुक्तमिति परास्तम् । विशेषवचनाऽभाव इत्यनेनाऽपवादाऽभावे श्रौतार्थो न त्याज्य इत्यर्थस्य विवक्षितत्वात् ।। अन्यथाव्याख्यानमिति ।। ‘भूतेषु देवा विलीयन्त’ इति श्रुतेः । ‘अग्नेर्वायौ’ इत्यादिना कृतमित्यर्थः । मुक्तिप्रकरणत्वात्पूर्वश्रुतौ वायुग्रहणम्, उत्तरश्रुतौ मारुतग्रहणं चाऽयुक्तमित्यत आह ।। अत्र वायुमारुतपदाभ्यामिति ।। उक्तक्रमेणेति ।। ‘इन्द्रस्य सौपर्ण्यां, सौपर्ण्याः सुपर्णे, सुपर्णस्य वाण्यां, वाण्या ब्रह्मणि, इत्युक्तक्रमेणेत्यर्थः । अत्र श्रुतौ सोम आदित्ये, बृहस्पतिर्वायौ, लीयत इत्यर्थोऽभिमतः । तद्धटनाय सोमस्य शेषमार्गस्थत्वात्सोमस्य वायौ लये द्वाराण्याह – सोमस्येति ।। सूर्यस्य गरुडमार्गस्थत्वात् द्वाराण्याह – सूर्यस्येति ।। ‘मरुतो मारुत’ इत्येतद्धटयति ।। मरुतामिति ।। इन्द्रसौपर्णी सुपर्णवाणीद्वारेत्यर्थः । अनुसर्गप्रतिपादनादिति ।। ‘अनन्तरभाविसर्गोऽनुसर्गः । स एव ‘आकाशाद्वायुः’ इत्यत्र देवानामुच्यते न तु प्राथमिको मुख्यसर्गः । स एव लयप्रयोजको नाऽनुसर्ग इति भावः । निर्दिष्टानामेवेति ।। ‘अग्नावग्नय’ इत्यत्र निर्दिष्टानामग्नीनामेवेत्यर्थः ।
ननु अत्र निर्दिष्टानामेव ‘अग्नौ सर्वे देवा विलीयन्त’ इत्यनेन लय उच्यत इत्यनुपपन्नं, तथात्वे विशिष्याऽनुक्तानां लयाऽभावेन मोक्षो न स्यादित्यत आह ।। उपलक्षणमेतदिति ।। ‘अग्नावग्नय’ इति श्रुतिगतमग्नय इति पदं देवान्तरोपलक्षणमित्यर्थः । ‘अग्नावग्नय’ इति श्रुतेरुपलक्षणतया सर्वसङ्ग्राहकत्वेन एतच्छ्रुत्युक्तानामेव ‘अग्नौ सर्वे देवा विलीयन्त’ इत्यत्र लयः प्रतिपाद्यत इत्युक्तिरुपपन्नेति भावः ।
पूर्वपक्षस्तु अग्नावेव सर्वेषां देवानां लयः ‘अग्नौ सर्वे देवा विलीयन्त’ इति श्रुतेः । न च भूतेषु देवा विलीयन्त’ इति श्रुतिविरोधः । सर्वेषां देवानामग्नौ, अग्नेर्वायौ, वायोराकाशे लयाङ्गी-कारेण भूतेषु लयस्याङ्गीकृतत्वात् अतोऽग्नावेव सर्वेषां देवानां लय इति अधमानामुत्तमेषु लय इत्युक्तव्यवस्थानुपपत्तिरिति ।।
सिद्धान्तस्तु एकस्मिन्नग्नावेव भूते सर्वदेवानां लयो न वाच्यः । ‘पृथिव्यामृभवो विलीयन्ते, आकाश एव साध्या विलीयन्त’ इति श्रुतिभ्यां पञ्चस्वपि भूतेषु लयाभिधानात्, का तर्हि ‘अग्नौ सर्वे देवा विलीयन्त’ इति श्रुतेर्गतिरिति चेत् एतच्छ्रुतिबलेन सर्वशब्दं सङ्कुच्य अग्नौ लययोग्यानामेव देवानां लयपरत्वमिति ब्रूमः । अतोऽग्नावेव सर्वेषां लयाभावादुक्तव्यवस्था युक्तेति सिद्धम् ।।
वाक्यार्थमुक्तावली
अत्र पुनरिति ।। यदुक्तं भूतेषु देवा लीयन्त इति बहुवचनश्रुतेर्नाग्नौ देवतालय इति तन्न । सर्वदेवानां साक्षादग्निप्रवेशेऽप्यग्नेर्वायौ वायोराकाशे प्रवेशेन भूतेष्विति बहुवचनसम्भवादित्य-भ्यधिकाशङ्कया प्रवृत्तेरनन्तरसङ्गतिरिति भावः । नन्वेवं पूर्वसूत्रोपात्तश्रुतेस्सावकाशत्वाशङ्कया प्रवृत्तमुत्तरं गुणसूत्रमेव स्यान्नाधिकरणान्तरम् । तथात्वे गुणसूत्रमात्रोच्छेदप्रसङ्गः । विषयसंशय-पूर्वपक्षादिभेदाभावात् । पूर्वसूत्रप्रकृतशङ्कापरिहारस्य गुणसूत्रेषु सर्वत्र नियतत्वात् । न्यायविवरणे अधिकरणभेदज्ञापकाभावात् । प्रत्युत सन्न्यायरत्नावल्यामेकाधिकरणत्वेन व्याख्यातत्वात् । प्राचीनैरेवं कृतायामुपन्यासमुखभाष्यतात्पर्यप्रकाशिकायां न्यायरत्नावल्यामेकाधिकरणत्वेन व्याख्या-तत्वादिति चेन्न । अर्थक्लृप्तिसमानलोपन्याययोः शब्दसाम्येऽप्यर्थभेदेन न्यायान्तरत्वमापन्नयोः शङ्कराचार्यैः तदधिकरणेऽपि योजितत्वेन पृथगधिकरणत्वस्योपपादित्वात् । अन्तर्भेदाधिकरणत्व-विवक्षया टीकाप्रवृत्त्युपपत्तेरिति ज्ञेयम् । अत एव सर्वाण्यन्विति प्रतिज्ञातस्य प्रपन्नमिति न गतार्थता । तदुक्तं तत्वप्रदीपे । अत एव च सर्वाणीति यथाश्रुतानुकूलं यथाबिम्बं प्रतिबिम्ब-भावानुकूलं च सर्वे देवा विलीयन्त इति यः प्रतिज्ञातो लयः सः प्रणिगदित इति ।। किमिति ।। अत्र देवाः किमग्नावेव लीयन्त उत पञ्चस्वपि भूतेष्विति चिन्ता । तदर्थमग्नावेव लयाङ्गीकारे बाधकत्वेनोक्तं भूतेष्विति बहुवचनं किं पारम्पर्यविवक्षयाऽमुख्यार्थतया सावकाशमुत साक्षाद्विवक्षया मुख्यार्थतया निरवकाशमिति गतार्थतामाशङ्क्य निषेधति ।। न चेति ।।
कुतो न वाच्यमित्यतो नैकस्मिन्निति सूत्रखण्डव्यवच्छेद्यमर्थक्लृप्तिरित्युक्तपूर्वपक्षन्यायं व्यनक्ति ।। एकस्मिन्निति ।। तदुपपत्तेरिति ।। भूतेष्विति बहुवचनोपपत्तिरित्यर्थः । कथमुपपत्तिरित्यत आह ।। अस्तीति ।। एतच्च वायाविन्द्रस्सोम आदित्यो बृहस्पतिरित्यत्र वारीशलयाधिकरणसोमस्य अग्निलयाधिकरणेन्द्रस्य आकाशोर्वीलयाधिकरणस्य बृहस्पतेश्च वायावेव लयोक्त्या मुक्त्यर्थं लये आदिसृष्टौ चाकाशादिक्रमेणोत्पत्तेस्तद्वैपरीत्येन लयस्य निषेधितत्वात्तद्व्यवच्छेद्यमिति ज्ञेयम् ।
ननु प्रलयकालीनभूतलयस्योत्पत्तिक्रमविपरीतक्रमत्वेऽपि मुक्तिकालीनदेवतालयप्रतिपादक-श्रुतिगतस्य भूतेष्विति बहुवचनस्य कथमुपपत्तिरित्यत आह ।। मुक्तिश्च प्रलयविशेष इति ।। मुख्यार्थ इति ।। अग्नौ देहक्षयेऽप्यग्निद्वारा भूतेषु प्रवेशमात्रमित्यनुव्याख्यानार्थमपहाय साक्षादेव भूतेषु देहलय इति मुख्यार्थः किं न स्यादित्यर्थः ।। अग्नौ लीयन्त इति ।। तत्र निर्दिष्टानामे-वेत्युत्तरभाष्ये सर्वशब्दस्य सावकाशत्वोक्तेस्तद्व्यवच्छेद्यं मुख्यार्थानुपपत्तावमुख्यार्थक्लृप्तौ च बीजमर्थापत्तेर्निरवकाशत्वमाह ।। अग्नाविति ।। अग्नौ सर्व इति सर्वशब्दः सङ्कोच्यतामित्यतो दर्शयत इति सूत्रखण्डनिवर्तनीययुक्तिमाह ।। न चात्रेति ।। भूतेष्वित्यतो वचनव्यत्ययेन भूते इत्यनुवर्तते । देवानां लय इति लभ्यते । हि यस्मात्तथा महोपनिषच्चतुर्वेदशिखे दर्शयत इति सूत्रार्थं स्पष्टयति ।। नैकस्मिन्निति ।। दर्शयतीत्यनेनोक्तं समानलोप इति न्यायं भूतेषु देवानां देहलोपः समानो, मानाभ्यां सहित इत्यर्थत्वेन विवृणोति ।। पृथिव्यामृभव इत्यादिश्रुतिभ्यामिति ।। उक्तं च न्यायविवरणे विशेषश्रुतेश्चेति । तदनुत्पन्नानां कथं तत्र लय इत्यत आह ।। येषामिति ।। साक्षात्परंपरया वा तत्तद्भूतोत्पन्नत्वादित्यर्थः । तत्र वायाविन्द्र इत्यादीनां मरुतां च परम्परयेति वक्ष्यति । साक्षादुत्पन्नतयोक्तेष्वग्निवरुणाकाशपुत्रेषु न विवादः पुत्रत्वादेव । तज्जन्यत्वाश्विनोः साध्यादीनां च कथं वरुणाकाशादिजन्यत्वं विशेषप्रमाणाभावादित्याशङ्क्य वरुणेऽश्विनौ वरुणे आपः आकाशे साध्याः आकाशे विनायका इति समानलोपश्रुतिसूचितं समानलोप इत्युक्तन्यायं व्यञ्जयन् प्रतिक्षिपति ।। न चेति ।। विशेषवचनाभावेऽत एव तदुत्पन्नत्वाभावे चाश्विन्यादि-समानाबाह्यावान्तराभिमानिलयस्थाने वरुणादौ लयोपपत्तेरित्यर्थः । ननु तदुत्पन्नत्वेऽपि स्वसमान-देवतालयस्थाने लयाङ्गीकारे सौपर्ण्यादीनां शेषादौ लयः स्यादित्यतो वोक्तम् ।। विशेषवचनाभावे चेति ।। तत्र सुपर्णादौ लये विशेषवचनमस्तीति भावः ।
यद्वा यथाश्विप्रभृतीनां वरुणाद्युत्पन्नत्वे लयवाक्यातिरिक्तं विशेषप्रमाणं नास्ति तथा तेषां तदुत्पन्नत्वाभावेऽपि विशेषप्रमाणाभावे स्वसमानोत्पत्तिस्थानमेव स्वोत्पत्तिस्थानमिति समानाबादि-देवतालयस्थाने वरुणादौ लयस्योत्पत्तेरित्यर्थः । न च न सोश्च नासत्यदस्रौ क्रमशः प्रसूता इत्यादिकमेतदुत्पन्नत्वाभावे विशेषप्रमाणमिति वाच्यम् । तत्र वरुणादुत्पत्त्यनिषेधात् । ‘स्रष्टुस्तु ग्रासभूतस्तु देहस्तत्र लयं व्रजेत्’ इति स्रष्ट्रर्येव देहलय इति नियमग्राहकप्रमाणेन वरुणेऽश्विना-वित्यनेनैव तस्मादुत्पत्तिसिद्धश्चेति स्वरसोऽयमर्थः । तदुक्तं न्यायविवरणे तत्तद्भूतोत्पन्नत्वात्तत्तद्देवानां तत्तत्समानानां च विशेषवचनाभावे स्वसमानलयस्थान एव लयोत्पत्तेरिति । अत्र तत्समानां चेति देहिलीदीपन्यायेनोभयत्र सम्बध्यते ।। अन्यथाव्याख्यानमिति ।। भूतेषु देवा इति श्रुतेः अग्नेर्वाया-वित्यादिनाग्नावेव देहलयस्सर्वेषां भूतेषु तु तद्द्वारा प्रवेशमात्रमित्यन्यथाव्याख्यानमित्यर्थः ।। उक्त-क्रमेणेति ।। इन्द्र उमायामिति श्रुत्युक्तक्रमेणेत्यर्थः । ‘सोमस्तु वारीशयुतोऽनिरुद्धं विशत्यसौ
काममसौ सुपर्णम् । सा शेषदेवं सगिरं च सैव वायु’ इत्यनुव्याख्यां मनसि निधायाह ।। सोमस्येति ।।
सूर्योऽग्नियुक्तो गुरुमाप्य तेन शक्रं सहैतेन सुपर्णपत्नीम् ।
तया सुपर्णं सह तेन वाणीं ब्रह्माणमेतद्गत एव याति ।।
इत्यनुव्याख्यां मनसि निधायाह ।। सूर्यस्येति ।। शक्रं मरुद्गण इत्येतत् हृदि कृत्वाऽऽह ।। मरुतामपीति ।। एवमग्नौ सर्वदेवतालयः अग्न्यादिभूतानां चोत्तरोत्तरं देहलय इति व्याख्यानमयुक्तं महोपनिषच्चतुर्वेदशिखाविरोधादिति विशेषप्रमाणेन निराकृत्य प्रमाणाभावेन च निराकरोति ।। भूताभिमानिनामिति ।। न चोत्पत्तीति ।। आकाशाद्वायुरिति श्रुतौ अन्योन्योत्पत्तिश्रवणाद्विपर्ययेण तु क्रम इति सूत्रे तद्विपर्ययेण लयोक्तेश्च तद्विरोध इत्यर्थः ।। तत्र जडानामिति ।। आकाशादीनां प्रधानोत्पत्त्यभिधानादित्यर्थः । ननु भूतं भूताभिमानी चेति देवानां च गृहीतत्वादित्यत आह ।। देवानामिति ।। यद्यपि ‘महदाद्यण्डपर्यन्तं सवर्गोऽण्डे ब्रह्मणस्तु यः । अनुसर्ग इति प्रोक्तः’ इति वचनादयं सर्ग एव नानुसर्गः । तथापि जडविवक्षया सर्गत्वं, देवताविवक्षयाऽनुसर्गत्वमेव । सूक्ष्म-सृष्टेरेवादिसर्गत्वात् । तद्वैपरीत्येनैव देवतालयस्वीकारात् । अत एव जडानां मुख्योत्पत्त्यभिधाना-दित्युक्तमिति भावः । निर्दिष्टानामेव । अग्नावग्नय इति निर्दिष्टानामेवेत्यर्थः । तदुक्तं तत्वप्रदीपे । सर्वशब्दस्य कृत्स्नाग्निपुत्रविषयत्वोपपत्तेरिति भाव इति । ‘विशन्ति शिष्टा अपि हव्यवाहम्’ इत्यनुव्याख्यानं मनसि निधाय सर्वशब्दस्यार्थान्तरमाह ।। उपलक्षणमिति ।। अनुव्याख्याने वर्णाश्रमाचारयुता मनुष्या धर्ममिति शिष्टा इत्युक्तनियमन्यायोदितत्वात् प्रायेणेत्युक्तम् ।
तत्त्वसुबोधिनी
अत्र पुनरिति ।। यदुक्तं पूर्वाधिकरणे अग्नावेव सर्वदेवलयाङ्गीकारे भूतेष्विति बहुवचनविरोध इति तदग्नावेव सर्वदेवलयाङ्गीकारेऽपि अग्नेः वायौ वायोश्चाकाशे लये अग्नौ लीनानां तेषु लय-सम्भवेन बहुवचनोपपत्तेरित्याक्षेपोत्थानादनन्तरसङ्गतिरिति भावः ।। उक्तमेवेति ।। श्रुतिः अन्याधीनत्वं चेत्यर्थः । बहुवचननोपपत्तिमेव दर्शयति ।। अस्ति तावदिति ।। ‘विपर्ययेण तु क्रमोऽत उपपद्यते च’ इत्युक्तेरिति भावः । ननु प्रलयकालीनभूतलयस्योत्पत्तिक्रमविपरीतक्रमत्वेऽपि मुक्तिकालीनदेवतालयप्रतिपादकश्रुतिगस्येति भूतेष्विति बहुवचनस्योपपत्तिः कथमित्यत आह ।। मुक्तिश्च प्रलयविशेष इति । तावता बहुवचनोपपत्तिः कथमितित्यत आह ।। अग्नेरिति ।। मुख्यार्थ इति ।। भूतेष्विति श्रुतेः देवानां साक्षादेव भूतेषु लय इत्येवंरूपमुख्यार्थ इत्यर्थः । दर्शयतो हि इत्यनेन निवर्तनीयपूर्वपक्षमाह ।। न चात्रेति ।। द्रष्टव्यः ।। तेषामिति ।। तदनुत्पन्नत्वे समान-देवतापरस्वतत्वेन यदि तत्र देवतानां लयः तर्हि सौपर्ण्यादीनां स्वसमानवारुण्यादिलयस्थाने शेषादौ लयः स्यादित्यतः उक्तं विशेषवचनाभावेऽपीति । सौपर्ण्यादीनां विशिष्य गरुडादौ लयस्य उक्त-त्वादिति भावः । अबादिदेवतेत्यत्र वरुणव्यतिरिक्तानां ग्रहणम् ।। अन्यथाव्याख्यानमिति ।। भूतेषु देवा इति श्रुतेः अग्निः वायौ इत्यादिना कृतमित्यर्थः ।। उक्तक्रमेणेति ।। इन्द्र उमायामिति श्रुत्युक्तक्रमेणेत्यर्थः । अग्नावग्नय इति भाष्ये सोमस्य चेति अग्नय इत्यग्निपुत्रा इत्यस्तु वारीशयुतोऽनिरुद्धमित्यनुव्याख्यानोक्तेरिति भावः ।। सूर्यस्येति ।। सूर्योऽग्नियुक्तो गुरुमित्यन्यत्रोक्तेः इति भावः । अत्रादिपदेन सौपर्णीसुपर्णवाण्यो ग्राह्याः ।। भूताभिमानिनां चेति ।। तेजोवाय्वाभिमानिनामग्निप्रवहादीनां वाय्वाद्याकाशमानिनोः प्रवहादिविनायकयोः लयाभावादित्यर्थः ।। उत्पत्तिश्रुतिविरोध इति ।। आकाशाद्वायुः वायोरग्निरिति श्रुतिविरोध इत्यर्थः । विपर्ययेण तु इत्यत्र सर्वदेवानामुक्तोत्पत्तिक्रमवैपरीत्येन लयस्य निर्णीतत्वादिति भावः । ननु भूताभिमानीत्यत्रा-काशादिपदैः देवानामपि गृहीतत्वात् कथमेतत् इत्यत आह ।। अनुसर्गप्रतिपादनादिति ।। विशन्ति शिष्टा अपि हव्यवाहमित्यन्यत्रोक्तेरिति भावः ।
वाक्यार्थविवरणम्
मुख्यार्थ इति ।। भूतेषु देवा इति श्रुतेः देवानां भूतेषु लयरूपमुख्यार्थ इत्यर्थः ।। एतच्छ्रुत्यन्यथानुपपत्तेरिति ।। अग्नौ सर्वदेवलयानङ्गीकारे ‘अग्नौ सर्वे देवा’ इति श्रुतिरनुपपन्ना स्यादित्यर्थः ।। अत्रेति ।। अग्नौ सर्वदेवानां लयो नास्तीत्यत्र विशेषप्रमाणं नास्तीत्यर्थः ।। उक्तव्यवस्थेति ।। ‘वाङ्मनसि, तन्मनः प्राणे, सोऽध्यक्ष’ इत्युक्तव्यवस्थेत्यर्थः ।। अत्रेति ।। ‘पृथिव्यामृभवो विलीयन्त ऋभवः पृथिव्यामिति श्रुतिद्वय इत्यर्थः । अश्विप्रभृतीनामित्यत्र प्रभृतिशब्देनोक्तशेषशतस्थदेवान्तर्गतानां केषाञ्चिद्ग्रहणम् ।। न तत्रेति ।। तथा च वरुणेऽश्विनाविति उक्तमनुपपन्नमित्यर्थः ।। स्वसमानाबादिदेवतेति ।।
ननु अब्देवताया वरुणस्याश्विनोः सकाशादत्युत्तमत्वेन कथमश्विसमानत्वमिति चेन्न । अतद्गुणसंविज्ञानबहुव्रीहिणा अब्देवतां वरुणं विहायाकाशाभिमानिगणपतेर्विष्वक्सेनस्य वा कुबेरस्य वा ग्रहणम् । ‘विष्वक्सेनोऽश्विनौ तौ गणपतिधनपा’ इत्युक्तत्वेन गणपत्यादीनामश्विसमानत्वात् । तथा चायं विवेकः । ‘आकाशमुर्वीं च गुरुं प्रविश्य’ इत्युक्तत्वादश्विनोः समानाकाशाभिमानिगण-पतिलयस्थाने बृहस्पतौ लयोपपत्तेरित्यर्थः । अथवा अनिरुद्धं पृतनाधिपाद्या इत्युक्तत्वादश्विनोः स्वसमानपृतनाधिपशब्दवाच्यविष्वक्सेनलयस्थाने अनिरुद्धे लयोपपत्तेरिति । यद्वा । ‘सुरानुगाः सर्वे कुबेरं स च सोममेव’ इत्युक्तत्वादश्विनोः स्वसमानकुबेरस्थाने सोमे लयोपपत्तेरित्यर्थः । तथा च वरुणादावित्यत्र वरुणेऽश्विनावित्यत्र वरुणशब्देन जहत्स्वार्थलक्षणया बृहस्पतेरनिरुद्धस्य सोमस्य वा ग्रहणं इति ज्ञातव्यमिति महान् सम्प्रदायः ।। उक्तक्रमेणेति ।। सौपर्णी सुपर्णवाणी-द्वारा हिरण्यगर्भे विलीयत इत्यर्थः । शक्रं मरुद्गणा इत्युक्तत्वादाह ।। मरुतामपीति ।। इन्द्रादि-द्वारेति ।। इन्द्रसौपर्णीसुपर्णवाणीद्वारा हिरण्यगर्भे लय इत्यर्थः । ‘भूतेषु देवा लीयन्त’ इति श्रुतिरुपपद्यते । ‘अग्नेर्वायौ वायोरकाशे विलयात्’ इत्यन्यथाव्याख्यानं विशेषश्रुतिद्वयबलहेतुना निराकृत्याधुनाऽ-न्योऽन्यलयाभावरूपहेतुना पराचष्टे ।। भूताभिमानी चेति ।। तेजोऽभिमानिनोऽग्नेर्भूतवाय्वभिमानिनि प्रवहे वाय्वभिमानिनः प्रवहस्याकाशाभिमानिन विनायके लयाभावादिति भावः ।
उत्पत्तिश्रुतिविरोध इति ।। आकाशाद्वायुरित्यादि, उत्पत्तिश्रुतिस्तावदस्ति । तथा च तद्विपरीतक्रमेणैव लयो वक्तव्यः । अन्यथोत्पत्तिश्रुतिवैय्यर्थ्यापत्तेरिति भावः ।। अत्रेति ।। आकाशाद्वायुरित्यादिश्रुतौ ।। अनुसर्गेति ।। ब्रह्माण्डान्तरुत्पत्तिरित्यर्थः । तथा चादिसृष्टि-वैपरीत्येनैव देवानां देहलयः । आदिसृष्टिस्तु नैवमिति भावः इति श्रुत्या लयोऽभिधीयत इति । सम्बन्धः केषामित्यत उक्तम् ।। उदाहृतश्रुताविति ।। ‘पृथिव्यामृभव’ इत्यादिश्रुतावित्यर्थः ।। निर्दिष्टानाम् ।। ‘आग्नावग्नयो,’ ‘अग्नयस्तेजसि’ इति निर्दिष्टानाम् । तथा च ‘अग्नौ सर्वे देवा’ इत्यत्र सर्वदेवशब्देन ‘अग्नावग्नयोऽग्नयस्तेजसि’ इति प्रधानाग्नौ लीयमानत्वेन निर्दिष्टाः । ये एकोन-चत्वारिंशदग्नयः त एव ग्राह्या इत्यर्थः । अत एव प्रधानाग्नेरनलकुलेन्द्रत्वप्रसिद्धिरित्यवगन्तव्यम् । ‘अग्नौ सर्वे देवा इत्यस्य ‘विशन्ति शिष्टा अपि हव्यवाहम्’ इत्यनुव्याख्यानानुसारेण विषयान्तरमाह ।। उपलक्षणमेतदिति ।। अनुव्याख्यानोक्तशिष्टपदार्थमाह ।। प्रायेणाधमानामिति ।। व्यवस्थेति ।। ‘वाङ्मनसि, तन्मनः प्राण’ इत्यादिनोक्ता व्यवस्थेत्यर्थः । श्रुतौ ‘आकाशे विनायका विलीयन्त’ इत्यत्र पूर्वश्रुत्यनुसारेण विनायका इत्यस्य साध्या इत्यर्थो ज्ञातव्यः । अथवा एतच्छ्रुत्यनुसारेण ‘साध्या’ इत्यस्य ‘विनायका’ इत्यर्थो द्रष्टव्यः । तथा च विनायकाः क्षुद्रविघ्नाभिमानिनो देवाः आकाशे विघ्नेशे विलीयन्त इत्यर्थो द्रष्टव्यः ।
वाक्यार्थमञ्जरी
तदेवोपपादयति ।। अस्तीत्यादिना ।। ननु प्रलयकालीनभूतलयस्योत्पत्तिक्रम विपरीत-क्रमवत्त्वेऽपि मुक्तिकालीनदेवतालयप्रतिपादकश्रुतिगतस्य भूतेषु देवा इति बहुवचनस्योपपत्तिः कथमित्यत आह ।। मुक्तिश्चेति ।। मुख्यार्थ इति ।। भूतेष्विति श्रुतेर्देवानां साक्षादेव भूतेषु लय इत्येवंरूपं मुख्यार्थ इत्यर्थः । अत्र उक्तमुख्यार्थे ।। ॐ नैकस्मिन् दर्शयतो हि ॐ ।। एकस्मिन्नग्नावेव सर्वदेवानां लयः कुतो हि यस्मात्पृथिव्यामृभव इति ऋभवः पृथिव्यामिति श्रुती प्रत्येकं भूतेषु दर्शयतो इत्यर्थः । युक्तिं चाह ।। येषामिति ।। ननु यदि तदनुत्पन्नत्वेऽपि स्वसमानदेवतालयस्थानत्वेन तत्र देवानां लयस्तर्हि सौपर्ण्यादीनां स्वसमानवारुण्यादिलयस्थाने शेषादौ लयः स्यादित्यत उक्तम् ।। विशेषवचनाभावे चेति ।। सौपर्ण्यादीनां तु विशिष्य गरुडादौ लयस्योक्तत्वादिति भावः ।। अन्यथाव्याख्यानमिति ।। भूतेषु देवा इति श्रुतेरग्नेर्वायावित्यादिना कृतमित्यर्थः ।। उक्तक्रमेणेति ।। इन्द्र उमायामिति श्रुत्युक्तक्रमेणेत्यर्थः । युक्त्यन्तरेणा-न्यथाव्याख्यानं निराकरोति ।। भूताभिमानिनामिति ।। तेजोवाय्वभिमानिनामग्निप्रवहादीनां वाय्वाकाशाभिमानिनोः प्रवहविनायकयोर्लयाभावादित्यर्थः । लयाभावाच्चेति सम्बन्धः ।। उत्पत्तिश्रुतिविरोध इति ।। आकाशाद्वायुर्वायोरग्निरिति श्रुतिविरोध इत्यर्थः । विपर्ययेण तु क्रमोऽत उपपद्यते चेत्यत्र सर्वदेवानामुत्पत्तिक्रमवैपरीत्येन लयस्य निर्णीतत्वादिति भावः । ननु भूतं भूताभि-मानी च तद्देहोऽन्तर्नियामकः । हरिश्चाकाशशब्दोक्त इत्यनुव्याख्याने आकाशादिशब्दैर्देवानामपि गृहीतत्वात्कथं जडमात्रग्रहणमित्यत आह ।। देवानां त्विति ।। आदिसर्गान्तर्भावी अनुसर्गः आदिसर्गवैपरित्येनैव देवानां लय इति भावः ।।
।। इति अनेकलयाधिकरणम् ।। ५ ।।