ॐ असदिति चेन्न प्रतिषेधमात्रत्वात् ॐ

४. अथ असदधिकरणम्

सूत्रभाष्यम्

असदेवेदमग्र आसीत्’ (छां.उ.६-२-१) ‘असतः सदजायत’ (ऋ.सं.१०-७२-३) इत्यादिनाऽसतः कारणत्वोक्तेर्विरोध इत्यतो वक्ति–

।। ॐ असदिति चेन्न प्रतिषेधमात्रत्वात् ॐ ।। ८ ।।

प्रतिषेधमात्रत्वान्नासतः कारणत्वं युक्तम् । असतः कारणत्वाद्युक्तिविरुद्धं वेदवाक्य-मित्येतदत्र निषिध्यते । सर्वशब्दानां ब्रह्मणि समन्वयेऽपि ‘तदधीनत्वादर्थवत्’ इत्यादिनाऽ-मुख्यत्वेनान्यस्यापि वाच्यत्वेनाङ्गीकारादसतः प्राप्तिः । तथा च श्रुतिप्राप्तमेवासन्मतमत्र निषिध्यते । समयस्योपरि निषेधात् । अर्थाद्युक्तिविरोधोऽपि निराक्रियते ।

सत्तर्कदीपावली

असदेवेदमग्र आसीत्,’ ‘असतः सदजायत’ इत्यादिना असतो जगत्कारणत्वश्रुतेः न ब्रह्म-जगत्कारणमिति नाशङ्कनीयम् । न विद्यते सदुत्तमं यस्मात्तस्मादसदित्यसच्छब्दवाच्यस्य पुरुषोत्तम-स्यावश्याङ्गीकर्तव्यत्वेनाविरोधात् । अत्यन्तासतो जगत्कारणत्वासम्भवात् । उपरितनपादगतेन नासतो दृष्टत्वादित्यनेन गतार्थमिदमिति नाशङ्कनीयम् । ‘असतः सदजायत’ इत्यादिवाक्यस्य जगत्कर्तृपुरुषोत्तमपरत्वेन युक्तिविरुद्धार्थत्वमित्यत्र प्रतिपादनात् । उपरि युक्तिभिः शून्यवादस्य निराकरिष्यमाणत्वेनापौनरुक्त्यात् । ‘एतेन सर्वे व्याख्याता’ इत्यत्रासदादिशब्दैर्मुख्यतः परमात्मोच्यत इति प्रतिपादितत्वेऽपि तेषाममुख्यवाच्यत्वस्याप्यङ्गीकृतत्वात् । ‘असतः सदजायत’ इत्यनेन असत्कारणत्वं विश्वस्याशङ्क्य असदिति चेन्न प्रतिषेधमात्रत्वादिति परिहृतमित्यदोषः । असतः कारणत्वादिकं वक्तीत्यसतः कारणत्वाद्युक्तिविरुद्धं वेदवाक्यमित्येतदत्र निषिध्यत इत्यर्थः । तदेतदाह– असदेवेदमग्र आसीदित्यादिना ।।

तत्त्वप्रदीपिका

असदेवेदमग्र आसीत्, तत्सदासीत्’ इति ‘छान्दोग्यश्रुतिः । ‘देवानां पूर्वे युगे असतः सदजायत’ इत्यादिना वाक्यजातेनासतः कारणत्वमुच्यते । तस्मादुक्तसमन्वयस्य विरोधः । अथवा इत्यादिनाऽसत्कारणत्वादिवाक्येन सतः कारणत्वोक्तेर्विरोधः । तस्मादसत्कारणं स्यादित्यत आह– असदिति चेन्न प्रतिषेधमात्रत्वात् ।। प्रतिषेधबुद्धिविषयमात्रत्वात् । यद्यप्यभावानां भावधर्माः सन्ति, भावानां चापरे, तथाऽपि धर्मिणो भावरूपत्वं मात्रशब्देन विवक्षितम् । न ह्यभावरूपस्य धर्मिणः कारणत्वं दृश्यते भावधर्मवत्त्वेऽपि । न हि वन्ध्यासूनोः तद्भावान्यभेदादिभावधर्मवत्त्वेऽपि कार्यकरत्वं दृष्टम् ।ननु ‘नासतोऽदृष्टत्वात्’ इत्युपरिष्टादसत्कारणमतं प्रतिषेत्स्यति । तत्र कथमपुनरुक्तिरित्यत आह– असत इत्यादि ।। असत एवाग्रे स्थितिः, तस्य कारणत्वं, तच्च मनःपूर्वकमित्याद्युक्तिभिर्विरुद्धं ब्रह्मकारणवाक्यम् । अस्ति हि तदुक्तिः श्रौती– ‘इदं वा अग्रे नैव किञ्चनासीत् तदसदेव सन्मनोऽकुरुत’ इत्यादिकेति । एतन्मतमत्र निषिध्यते । उपरि तु तद्विवर्तपक्षः सामयिकः संमतः । अथवाऽसतः कारणत्वाद्युक्तिहेतोः ‘असदेवेदमग्र आसीत्’ इत्यादिवाक्यमुक्तसमन्वयविरुद्ध-मप्रामाण्यमेति इत्येतदत्र निषिध्यते । अथवाऽसतः कारणत्वोक्त्या सत्कारणत्वोक्त्या च परस्परविरुद्धं वेदवाक्यमित्येतदत्र निषिध्यते । अथवा प्रागुत्पत्तेर्विनाशादूर्ध्वं चासदात्मकत्वात्कार्यस्य कारणमप्य-सद्भवितुमर्हति वस्तुत्वात्कार्यवत् । एवमसतः कारणत्वाद्युक्तिविरुद्धं ब्रह्मवाचकं वेदवाक्यमित्येतदत्र निषिद्ध्यते न तु शून्यसमयः । तथाश्रुतिप्राप्तं मुख्यार्थस्य ब्रह्मणोऽपरित्यागेनैवासतो मुख्यत्वापरिग्रहेण श्रुतिप्राप्तम् । अतो न प्रबलेयं श्रुतिप्राप्तिः । न चात्र श्रुतीनामेव मिथो विरोधनिरासः । येनोत्तरत्र पुनरुक्तिशङ्का स्यात् । किन्तु, अर्थाद्युक्तिविरोधो निराक्रियते । अथात्र पुनरपि समापतिता पुनरुक्तिः । यतो युक्तिसहितश्रुतिविरोधोऽप्युपरि निरसिष्यते । मैवं, मुखतः श्रुतिविरोधः, अर्थाद्युक्तिविरोधो निराक्रियते । तच्चोक्तं हि– तथा श्रुतिप्राप्तमेवेत्यादि ।। अत एव चावोचन्तानुद्रवन्तो भगवन्तो वृत्तमनुव्याख्याने–

स्मृतियुक्तिश्रुतिगुणयुक्तयो बहुयुक्तयः ।

एवं चतुर्विधा नैव विरुध्यन्तेऽन्वयं प्रति’ इति ।।

तत्त्वप्रकाशिका

अत्र ब्रह्मणो जगत्कारणत्वे युक्तिविरोधस्य परिह्रियमाणत्वादस्ति शास्त्रादिसङ्गतिः । जगत्कारणत्वं हरेरुक्तम् । तस्य युक्तिविरुद्धत्वे लक्षणासम्भवात्स निराकर्तव्य एव । जगत्कारणत्व-मेव विषयः । तद्विष्णोर्युक्तमयुक्तं वेति सन्देहः । श्रुतिविगानं सन्देहबीजम् । तत्र पूर्वपक्षयति ।। असदेवेति ।। न विष्णोर्जगत्कारणत्वम् । प्रमाणाभावात् । न च ‘यतो वा इमानि’ इत्यादि श्रुतिः प्रमाणम् । ‘असदेवेदमग्र आसीत्’ इत्यादिश्रुत्याऽसतोऽपि कारणत्वोक्तेः । न हि श्रुतित्वा-विशेषेऽन्यया ब्रह्मणः कारणत्वं सेत्स्यत्यन्यया तु नासत इति युक्तम् । अतोऽसदेव जगत्कारणमिति न जगत्कारणत्वं ब्रह्मणः । तथा चोक्तं लक्षणं दुष्टमिति भावः । अत्र सर्वत्रासच्छब्देन प्रलयवर्ति-विश्वप्रागभावोऽभिधीयते । कारणशब्देन कर्तेत्यवधेयम् । स्यादेतत् । श्रुतिद्वयेन सन्देह एव नान्यतरपक्षावधारणमिति । न पूर्वपक्षे सयुक्तिकत्वस्य वक्ष्यमाणत्वादिति । सिद्धान्तयत्सूत्रमवतार्या-क्षेपांशस्य पूर्वमेव विवृतत्वात्परिहारांशं व्याचष्टे ।। अत इति ।। युक्तमेव विष्णोर्जगत्कारणत्वं न त्वसतः । तस्याभावधर्मात्मतामन्तरेण स्वरूपत एव प्रतिषेधबुद्धिविषयत्वात् । न हि घटप्रागभावस्य कारणत्वं सम्भवतीति भावः । न हि शशविषाणादीनां यत्किञ्चित्प्रति कारणत्वं सम्भवतीति भावः ।

नन्वेतस्मिन्नधिकरणेऽसतो जगत्कारणत्वं वदतां शून्यवादिनां समयो निराक्रियते न तु श्रुतिप्राप्तमसन्मतम् । ‘एतेन सर्वे व्याख्याताः’ इत्यसदादिशब्दानां ब्रह्मविषयत्वस्योक्तत्वेनासतः प्राप्त्यभावात् । अतोऽपव्याख्यानमेतदित्यत आह ।। असत इति ।। अत्राधिकरणेऽसतः कारणत्व-प्रलयस्थितत्वाभिधायकश्रुत्या विरुद्धं विष्णोर्जगत्कारणत्वाभिधायकं वेदवाक्यमिति श्रुतिप्राप्त-मेवासन्मतं निराक्रियते न तु समय इत्यर्थः । ननूक्तमेवासतो न श्रुतौ प्राप्तिरिति तत्राह ।। सर्वेति ।। नन्वस्त्वेवमसतः प्राप्तिस्तथापि समयोऽत्र निराक्रियत इति किं न स्यादित्यत आह ।। तथेति ।। अमुख्यतयेत्यर्थः । शून्यवादिसमयस्योपरितनपादे निराकरिष्यमाणत्वात् । अत्र श्रुतिप्राप्तमेवासन्मतं निराक्रियत इत्येवाङ्गीकार्यम् । अन्यथा पौनरुक्त्यापातादिति भावः । यद्यत्र ब्रह्मणो जगत्कारणत्व-वाचिश्रुतेः श्रुतिप्राप्तासन्मतविरोधो निराक्रियेत तर्ह्येतदधिकरणं तृतीयपादे निबन्धनीयं न तु युक्ति-विरोधपरिहारारत्मकेऽस्मिन्पाद इत्यत आह ।। अर्थादिति ।। न केवलमत्र श्रुतिविरोधः परिह्रियते येनासङ्गतिः । किं नाम कारणमभिमतं प्रलयेऽसद्भवितुमर्हति वस्तुत्वात्कार्यवदित्याद्यसतः कारणत्व-प्रतिपादकयुक्तिविरोधोऽपीति भावः । तथापि युक्तिविरोधमात्रपरिहारात्मके पादे श्रुतियुक्तिविरोध-परिहारोऽसङ्गत इत्यतोऽर्थादित्युक्तम् । नात्र श्रुतियुक्त्योः स्वतन्त्रं विरोधद्वयं परिह्रियते किं तु श्रुति-विरोधपरिहारेणाप्यन्ततो युक्तिविरोध एव । तथा हि । अत्रासतः कारणत्वप्रतिपादकयुक्तिः पूर्ववादि- नोपन्यस्यते । तस्याश्च निर्मूलाया असाधकत्वात्तन्मूलभूता च श्रुतिरुच्यते । तथा चानुपपन्न-भाषित्वेन श्रुतेरर्थान्तरे प्रामाण्याभाव इति तद्विरोधे परिहृते निर्मूलयुक्तेः स्वत एवाप्रामाण्यमिति । अतोऽत्र श्रुतिविरोधपरिहारस्य युक्तिविरोधपरिहाराङ्गत्वान्नासङ्गतिरिति युक्तमेवोक्तव्याख्यानमिति भावः ।

गुर्वर्थदीपिका

अतोऽसदेव जगत्कारणमिति वदन् पूर्वपक्षी सावधारणत्वात् प्रागभावकारणतायाः सर्वैरङ्गी-कृतत्वाच्चास्मद्वाक्यमेव प्रबलमित्यभिप्रैति । अभावधर्मात्मतामन्तरेणेत्यत्रान्योन्याभावाख्यो यो धर्मः तदात्मकतामन्तरेण विना धर्ममादायाभावात्मकताऽन्योन्याभावात्मके घटादवप्यस्ति । प्राग-भावस्तु न तथा धर्मिस्वरूपपर्यालोचनयैवाभावः । एवं च सौत्रमात्रपदव्यवच्छेद्यो धर्मरूपेणैव प्रतिषेधः । सौत्रो हेतुस्तु धर्मिस्वरूपेणैव प्रतिषेधत्वं विवक्षितम् । अतो न ब्रह्मणि व्यभिचारः । नापि प्रागभावनिष्ठप्रमेयत्वादिधर्मात्मकतामादाय हेतोरसिद्धिः । धर्मरूपेण भावात्मकत्वेऽपि धर्मिरूपेण प्रतिषेधत्वस्यैव विद्यमानत्वादिति भावः । प्रतिषेधबुद्धिविषयत्वादित्यत्र प्रतिषेधविषयकबुद्धिविषय-त्वादित्यर्थः । यद्यप्यभावे घटप्रतियोगिकनिषेधबुद्धेरनुयोगित्वेन विषयत्वम् । शशविषाणादौ तु निषेधबुद्धेः प्रतियोगित्वेनैव । तथाऽपि यथाकथञ्चित् निषेधबुद्धिविषयत्वेन शशविषाणवत्कर्तृत्वा-भाव एव तात्पर्यः टीकाकारस्य । सूत्रकारस्य तु धर्मिस्वरूपेणैव प्रतिषेधरूपत्वात् न प्रागभावः कर्ता । धर्मिस्वरूपेण भावरूपकुलालादिचेतनेष्वेव कर्तृत्वदर्शनात् जगत्यपि भावरूपः कश्चन चेतनः कर्ता भवेत् । स चेश्वर एव । महीमहीधरादिकर्तृत्वस्येश्वरं विनाऽन्यत्रासम्भवादिति तात्पर्यम् । यद्यपि ‘तदधीनत्वादर्थवत्’ इति सूत्रेऽन्यनिष्ठावरत्वादौ स्वातन्त्र्येण ब्रह्मणोऽप्यवरादि-शब्दवाच्यतैव मुखत उक्ता । तथाऽपि तद्गतत्वेनान्यस्याप्यवरादिशब्दवाच्यता सूचितेति भावेन तदधीनत्वादर्थवदित्यादिनेत्युक्तम् । आदिपदेन समाकर्षादिति सूत्रं गृह्यते । कारणत्वाभिमतं प्रलये असदित्यनुमाने असत्पदस्य सन् भावो न भवतीति व्युत्पत्त्या भावात्मकं नेत्यर्थः । वस्तुत्वात् भावत्वात् । तथा चानुपपन्नभाषित्वेन श्रुतेरित्यत्र श्रुतेः पूर्वपक्षश्रुतेरित्यर्थः ।

भावबोधः

अत्र पूर्वाधिकरणे दृढयुक्तिविरोधपरिहारेण जगज्जन्मादिकारणत्वप्रतिपादकवेदप्रामाण्ये समर्थिते न्यायविवरणोक्तरीत्या यदि ‘यतो वा’ इत्यादि वेद प्रामाण्याद् ब्रह्मणो जगत्कारणत्वं तर्हि ‘असदेवेदमग्र आसीत्’ इत्यादिवेदस्यापि प्रामाण्यात्तदुक्तयुक्त्याऽपि जगत्कारणत्वं स्यादित्याक्षेपोत्थानात् अनन्तरसङ्गतिरिति ज्ञेयम् ।

यद्वा प्रबलयुक्तिविरुद्धायाश्च श्रुतेः स्वार्थपरित्यागस्यातीताधिकरणे व्यवस्थितत्वात् प्राग-भावस्यापि स्वरूपसत्त्वादिनाऽसदेवेत्यादिप्रयोगविषयत्वोपपत्तेरिति सुधोक्तरीत्या यदि प्रबलयुक्ति-विरोधेन ‘मृदब्रवीत्’ इत्यादिश्रुतेरन्यार्थत्वकल्पना तर्हि श्रुतिसंवादिप्रबलयुक्तिविरोधेन ‘सदेव सोम्य’ ‘यतो वा’ इत्यादि श्रुतीनामप्यन्यार्थकत्वकल्पनेन ब्रह्मणो जगत्कारणत्वासिद्धिरित्या-क्षेपोत्थानाद्वा अनन्तरसङ्गतिरिति ज्ञातव्या ।। तद्विष्णोरिति ।। अत्र विष्णोर्जगत्कारणत्वं न युक्तमुत युक्तमिति चिन्ता । तदर्थं यतो वेत्यादिश्रुतिः कारणं प्रलयेऽसद्भवितुमर्हतीत्यादि-युक्तिबाधिता उत नेति । तदर्थं युक्तिरसद्वेत्यादिश्रुतिसंवादित्वेन यतो वेत्यादिश्रुतेः प्रबलोत नेति । तदर्थमसद्वेत्यादिश्रुतिरसत्कारणत्वपरोत नेति । तदर्थमसतः कारणत्वाङ्गीकारे प्रलयेऽ-सन्मात्रावशेषः किमापादयितुमशक्य उत शक्य इति । तदर्थमसन्मात्रावशेष्याप्रामाणिकत्व-प्रमाणविरुद्धत्वे न स्त उत स्त इति । तदर्थं तर्क किं साधनबाधनक्षमो न भवत्युत भवतीति । एवं प्रधानादिपक्षेऽपि चिन्ता ऊह्या । ‘असदेवेदमग्र आसीत्’ इत्यादिश्रुत्या असतोऽपि कारणत्वोक्तेरिति । अनेनासतोऽपि स्रष्टृत्वं श्रूयत इति न्यायविवरणमपि व्याख्यातम् । अत्र भाष्यन्यायविवरणटीकाश्रुतिसूत्रगतासच्छब्धार्थतया शून्यमभिप्रेतं, न तु प्रागभावः । भाष्ये श्रुतिप्राप्तमेवासन्मतमत्र निषिध्यते । समयस्योपरि निषेधादित्युक्तेः । न हि प्रागभावकर्तृत्वप्रापकः समयोऽस्ति । टीकायामपि न हि शशविषाणादीनां किञ्चित्प्रति कारणत्वं सम्भवतीत्याद्युक्तेश्च । सुधायां तु ।

अभावस्य च भावोऽपि धर्मोऽथापि हि धर्मिणः’

इत्याद्यनुव्याख्यानानुसारेण श्रुतिसूत्रगताऽसच्छब्दस्य प्रागभावपरत्वमभ्युपेत्य महाप्रलये उत्पत्स्यमानः प्रागभावोऽवश्यमङ्गीकरणीय इत्याद्युक्तम् । एवञ्च श्रुतिसूत्रयोरनेकार्थत्वादेकैकार्थ मभ्युपेत्य प्रवृत्तयोर्भाष्यानुव्याख्यानयोस्तट्टीकयोश्च न विरोधः ।

नन्वेवमेतेनेति सूत्रस्याकस्मादिति श्रुतिप्राप्तासन्मतनिराकरणपरत्वेन पौनरुक्त्यादिप्राप्तिरिति चेत्, ; अकस्मादिति श्रुतेर्निष्कारणकत्वाङ्गीकारात् । भाष्ये अकर्तृत्वेत्युक्तेः टीकायां निष्कारणत्वादित्युक्तेश्च । अत एव सुधायां भाष्यदिशा निष्कारणैव जगन्निराशङ्कितेति न पौनरुक्त्यमित्युक्तम् । न चैवम्

तन्मनोऽकुरुतेत्यादेरसतो मनसो जनिः ।

निवारिता तु पूर्वत्र ह्यकस्मादिति तद्विना ।।

इत्यनुव्याख्यानेन पूर्वमभावस्य जगत्कारणत्वं निराकृतमिदानीं तु शून्यस्येति सुधया च विरोधः । तयोरकस्मादिति श्रुतेः शून्यकारणत्वपरत्वेन प्रवृत्तेरिति वाच्यम् । अकस्मादिति श्रुतेरपि नानार्थत्वेन भाष्यानुव्याख्यानयोर्विरोधाभावादिति ।। तस्येति ।। नास्तीति प्रतिषेध-बुद्धिविषयत्वस्य प्रतियोगित्वादिना घटादावपि सत्त्वेऽपि कारणत्वराहित्याभावाद्व्यभिचारः स्यादित्यत उक्तं स्वरूपत एवेति ।। देशकालाद्यसम्बन्धत्वेनेत्यर्थः । न ह्यत्यन्तासच्छ-शविषाणादिकं प्रामाणिकघटपटादिदेशकालादिसम्बन्धेन प्रतियोगितया प्रतिषेधबुद्धिविषयो भवतीति भावः । स्वरूपत एव प्रतिषेधबुद्धिविषयत्वं प्रागभावादावप्यस्तीति व्यभिचारः स्यादित्यत उक्तम् अभावधर्मात्मतामन्तरेणेति ।। अभावस्तु अभावत्वादिधर्मात्मकत्वेनैव प्रतिषेधबुद्धिविषयो न तदन्तरेण, शशविषाणादिकं तु नाभावादिवत्तया तादृशबुद्धिविषय इत्यर्थः । एवञ्च प्रतिषेधमात्रत्वादित्येतत्केवलः प्रतिषेधो यस्य न तु घटादिवत् केनापि रूपेण सत्त्वं तत्प्रतिषेधमात्रम् । तस्य भावः प्रतिषेधमात्रत्वं तत्त्वादिति व्याख्यातं भवतीति भावः । भाष्येऽसतः कारणत्वादेरुक्त्येति विग्रहमभिप्रेत्याह– कारणत्वप्रलयस्थितत्वाभिधायकश्रुत्येति ।। कारणं प्रलयेऽसद्भवितुमर्हतीति उभयसम्प्रतिपन्ने जगत्कारणेऽसत्त्वब्रह्मत्वाभ्यां विप्रतिपत्तौ पूर्वपक्षिणा असत्त्वं साधयतीयमित्येवं प्रयोगः प्रदर्शितः । अनेन ।

असत्कार्यं यथादृष्टं वस्तुत्वात्कारणं तथा ।’

इत्यनुव्याख्यानं कारणस्य शून्यत्वसाधकप्रयोगदर्शनपरतया व्याख्यातं भवति । सुधायां तु परिशेषेण प्रागभावस्याकर्तृत्वसिध्यर्थं कारणतया सिद्धान्त्यभिमतेश्वरादीनां प्रलये सत्त्वसाधक-प्रयोगप्रदर्शनपरतया व्याख्यातमिति बोद्धव्यम् ।। अर्थान्तर इति ।। शून्यस्य कारणत्वादा-वित्यर्थः ।

भावदीपः

युक्तिविरोधो निराक्रियत इत्यादि भाष्यदिशाऽस्यान्तर्भावसङ्गतिमाह ।। अत्र ब्रह्मण इति ।। युक्तीति ।। श्रुत्युपसर्जनप्रागभावकर्तृत्त्वसाधकयुक्तीत्यर्थः । सा चाग्रे व्यक्ता । उक्तं चानुभाष्ये । अल्पवाक्ययुता युक्तिर्बहुलैव विरोधिनीति । अत्राल्पत्वबहुत्वे गुणत्वप्रधानत्वे इति सुधायामेवोक्तम् । पूर्वसङ्गतिमाह ।। जगदिति ।। उक्तं जन्मादिसूत्र इत्यर्थः ।। श्रुतीति ।। ‘यतो वा’ इति ‘असदेवेदमग्र’ इत्यादिश्रुतिविरोध इत्यर्थः । भाष्ये विरोध इत्यत्र ‘यतो वा’ इत्यादिश्रुतेरिति शेषं मत्वा साध्योक्तिपूर्वमित्युक्तेरित्यन्तं तावद् व्याचष्टे ।। न विष्णोरिति ।। अप्रयोजको हेतुरित्यतः ईश्वरस्य स्रष्टृत्ववदसतोऽपि स्रष्टृत्वं श्रूयत इति न्यायविवरणप्रयुक्तवति प्रत्ययोक्तसाम्यं व्यनक्ति ।। न हीति ।। अस्त्वसतोऽपि कारणत्वोक्तिस्तावता कथं यतो वा इत्यादि श्रुतिर्न प्रमाणं येन विष्णुकारणत्वं न युक्तमित्यतः विरोध इति भाष्यांशं फलोक्त्या विवृण्वन् उपसंहरति ।। अत इति ।। यतो वा इत्यादिश्रुतेरसद्वा इत्यादि श्रुतिविरोधेनाप्रामाण्यादित्यर्थः ।

ननु निःस्वरूपस्यासतो नियतप्राक्सत्त्वरूपहेतुत्वायोगवदासीदिति सत्त्वोक्तिविरोधाच्च कथम- सतः कारणत्वशङ्का असच्छब्दस्य प्रागभावार्थत्वेऽपि तत्कारणत्वमात्रस्य विष्णुकर्तृत्वाविरोधा-च्चेत्यत आह ।। अत्र सर्वत्रासच्छब्देन प्रलयवर्तिविश्वप्रागभावोऽभिधीयते कारणशब्देन च कर्तेत्यवधेयमिति ।। अचेतनस्यापि कर्तृत्वं वृक्षेण स्थीयत इत्यादौ कर्त्रर्थकतृतीयाविभक्ति-दर्शनाद्युज्यत इति भावः । असदेवेति प्रागुक्तावधारणमाक्षिप्य समाधत्ते ।। स्यादेतदिति ।। सयुक्तिकत्वस्येति ।। तथा च भाष्ये उक्तेरित्यनन्तरं युक्त्या चेत्यपि ध्येयमिति भावः । युक्तिश्च कारणं प्रलयेऽसद्भवितुमर्हति । वस्तुत्वादित्यग्रे व्यक्ता । असतः कारणत्वं न चेदकर्तृकं जगत्स्यादित्यतो भाष्ये साध्यभागस्यार्थमाह ।। युक्तमेवेति ।। कारणत्वं कर्तृत्वमित्यर्थः ।। न त्वसत इति ।। न विश्वप्रागभावस्येत्यर्थः । इति चेन्न निषेधैकस्वरूपस्य न कर्तृतेत्यनुभाष्योक्तेः । ‘प्रतिषेधात्मकत्वं तु भावस्याभावधर्मतः । धर्मधर्म्यैक्यतश्चैव न तु तन्मात्रता भवेत् । अभावस्य च भावोऽपि धर्मोऽथापि हि धर्मिणः’ । तादृक्त्वं मात्रतेहोक्तेत्यनुभाष्यदिशा भाष्यस्थहेत्वंशं मात्रपदार्थं वदन्व्याचष्टे ।। तस्येति ।। तात्पर्यार्थः ।। स्वरूपत एवेति ।। घटाभावादिवदिति भावः । सर्वभावानामभावधर्मात्मना प्रतिषेधबुद्धिविषयत्वमस्तीति कुलालादौ व्यभिचारनिरासाय अभावधर्मात्मतामन्तरेणेति मात्रपदार्थो विवृतः । न हि तादृशेऽभावे बुद्धिपूर्वककृति (प्रवृति) मत्त्वरूपमीश्वरगतत्वेनास्मदभिमतं कर्तृत्वं युज्यते घटाभावादावदर्शनादित्याह ।। न हीति ।। न हि शशविषाणादीनामिति पाठपक्षे तु यथा निःस्वरूपाणां शशविषाणादीनां नियतपूर्वक्षण-सत्त्वस्वरूपं कारणत्वं शङ्कार्हं न भवति तथा बुद्धिहीने विश्वप्रागभावे बुद्धिपूर्वककृतिमत्त्व-रूपकर्तृत्वं न सम्भवतीत्यर्थः । कारणत्वाद्युक्तिविरुद्धमिति भाष्ये कारणत्वादेरुक्तिः श्रुतिः तद्विरुद्धमिति विग्रहः । न तु कारणत्वाद्धेतोर्युक्तिविरुद्धमिति भिन्नं पदमुत्तरभाष्यविरोधादिति भावेनाह ।। कारणत्वप्रलयस्थितत्वेति ।। असन्मतमिति ।। प्रलयवृत्तिविश्वप्रागभाव एव विश्वस्योपादानं कर्ता चेत्यभावोपादानकर्तृत्वमतमित्यर्थः । असतः प्राप्तिः कर्तृत्वेनाभावस्य प्राप्तिरित्यर्थः ।। उपरितनेति ।। नासतो दृष्टत्वादित्यत्रेत्यर्थः । असन्मतमभावकर्तृत्वमतं निषिध्यत इत्यर्थः ।। अन्यथेति ।। अत्रापि समयप्राप्तस्य निषेधे प्रागभावकर्तृत्वप्रापकसमयाभावेन शून्यकारणतानिषेधस्यैव प्रसङ्गादिति भावः । असत्कार्यं यथादृष्टं वस्तुत्वात्कारणं तथेत्यनु-भाष्योक्तदिशा असदिति चेदिति सूत्रांशसूचितां युक्तिमाह ।। कारणमिति ।। निमित्तकारण-त्वेनोपादानकारणत्वेन च सिद्धान्त्यभिमतमीश्वरादृष्टप्रधानादिकं प्रलयेऽसत् अविद्यमानं वस्तुत्वा-त्कार्यवदित्यर्थः । एवं चानया युक्त्या ईश्वरप्रभृतिभावकारणमात्रस्य प्रलयेऽभावसिद्धौ कार्यत्वस्य सोपादानत्वसकर्तृकत्वनियमात् परिशेषादभावस्यैव विश्वकर्तृत्वं विश्वोपादानत्वं च सेत्स्यतीति भावेनोक्तमित्याद्यसतः कारणत्वेत्यादिपदम् । अर्थान्तरे प्रागभावकर्तृत्वादौ ।

अभिनवचन्द्रिका

अत्र द्वे दर्शने श्रुतिप्राप्तं शून्यस्य जगत्कारणत्वमत्र निषिध्यत इत्येकम् । अपरन्तु प्रागभावस्य जगत्कारणत्वं निराक्रियत इति । तत्राद्यं टीकाकृतो दर्शनम् । अत्र ‘तथा श्रुतिप्राप्तमसन्मतमत्र निराक्रियते समयस्योपरि निषेधात्’ इति भाष्यं लिङ्गम् । अन्यथा ‘नासतो दृष्टत्वात्’ इत्यनेनैकार्थत्वप्रसक्त्यभावात् प्रापकभेदेन भेदाभिधानं न स्यात् । द्वितीयं सुधाकृतो दर्शनम् । अत्रानुव्याख्याने ‘इति चेन्न, निषेधैकस्वरूपस्य न कर्तृता’ इति निषेधस्वरूपाभिधानं लिङ्गम् । निषेधस्वरूपत्वस्याभावलक्षणत्वात् । तस्य च वर्णकान्तरत्वेन न परस्परं विरोधोऽपीति ध्येयम् । असिद्धिमाशङ्क्य निषेधति ।। न च यतो वेति ।। ‘यतो वा’ इत्यादिवाक्यस्य श्रुतिमूलकयुक्तिविरोधं वक्तुं श्रुतिं तावदाह ।। असदेव इदमग्र इत्यादिना ।। शून्यस्य सिद्धे ।। श्रुतिवेद्यत्वे युक्तेरपि भावेन शून्यस्य जगत्कारणत्वं न ब्रह्मण इति गूढाभिसन्धिराह ।। अतोऽ-सदेवेति ।। आशयमविद्वाञ्छङ्कते स्यादेतदिति ।। एतदित्येतत् विवृणोति श्रुतिद्वयेनेति ।। ततश्च सन्देह एव स्यात् न अन्यतरपक्षावधारणमित्येतद्दूषणं स्यादिति योजना । स्वाशय-मुद्धाटयति ।। पूर्वपक्ष इति ।।

ननु प्रतिषेधमात्रत्वादित्ययुक्तं शून्यस्य अभावविलक्षणत्वाङ्गीकारेण प्रतिषेधमात्रत्वा-सिद्धिरित्यतः सौत्रं हेतुं व्याचष्टे ।। तस्य अभावधर्मात्मतामन्तरेणेति ।। शून्यं न जगत्कारणं, नेदं जगत्कारणमिति तत्प्रतिषेधबुद्धिविषयत्वात् । यो यत्प्रतिषेधबुद्धिविषयः नासौ तद्वान् शशविषाणवदिति प्रयोगोऽत्र विवक्षितः । न च असिद्धो हेतुः । शून्यं न जगत्कारणमिति सार्वजनीनानुभवसिद्धत्वात् संयोगेन घटवदित्यपि समवायेन घटनिषेधात् प्रतिषेधबुद्धिविषयत्वं व्यभिचारीत्यत उक्तम् ।। अभावधर्मात्मतामन्तरेणेति ।। अभावशब्दोऽत्र अविद्यमानपरः । तदात्मत्वं तदवच्छिन्नत्वम् । अविद्यमानधर्मावच्छेदमन्तरेण स्वरूपतयैव यो यत्प्रतिषेधबुद्धिविषयः, नासौ तद्वानिति व्यप्तिर्विवक्षिता । संयोगेन घटवतो भूतलस्य न स्वरूपेण घटप्रतिषेध-बुद्धिगोचरता । किन्तु व्यधिकरणसम्बन्धेन तत्प्रतिषेधबुद्धिगोचरतेति न तत्र व्यभिचार इति भावः । एतेन सूत्रभाष्ययोः प्रतिषेधमात्रत्वस्य हेतूकृतत्वेन धीपर्यन्तधावनमनुपपन्नमिति परास्तम् । शून्यस्य प्रतिषेधात्मकत्वाभावेन धीपर्यन्तधावनस्य उचितत्वात् ।। प्रलयस्थितत्वाभिधायकश्रुत्या विरुद्धमिति ।। अत्र यद्यपि विष्णोर्जगत्कारणत्वस्य असतः प्रलये स्थितिमात्रेण न विरोधः, तथापि ‘असदेवेदमग्र आसीत्’ इति श्रुतेः सावधारणत्वात् तया च विष्णोः प्रलये स्थित्य-भावापत्त्या विरोध इति द्रष्टव्यम् ।। अत्र भाष्ये सर्वशब्दानामिति ।। सर्वशब्दानां ब्रह्मणि समन्वये विद्यमानेऽपि जगति व्यवहारविलोपप्रसङ्गभिया ‘तदधीनत्वादर्थवत्’ इत्यादिना अन्यस्यापि मुख्यतया वाच्यत्वस्य सूत्रकृतैव अङ्गीकृतत्वात् । शून्यस्य जगत्कारणत्वसाधक-प्रबलयुक्त्यनुसरणाय ‘असदेवेदमग्र आसीत्’ इत्यादिश्रुतीनामसन्मात्रप्रतिपादकत्वमभ्युपेत्य प्रमाणसंवादार्थानङ्गीकारानौचित्यादिति मन्यमानस्य अस्त्येव असतः प्राप्तिरित्यर्थः । एतेन ‘असदेवेदमग्र आसीत्’ इत्यत्र सिद्धान्तिना असच्छब्दस्य अमुख्यवृत्त्यापि असत्परत्वा-नङ्गीकारादमुख्यत्वेन अन्यस्यापि वाचकत्वेनाङ्गीकारादित्युक्तमयुक्तमिति परास्तम् अमुख्यतयेत्यर्थ इति ।। श्रुत्यर्थाऽपरिज्ञानेनेत्यर्थः । विमर्शतः प्राप्तं मुख्यतः श्रुतिप्राप्तम्, आपाततस्तु प्राप्तं न मुख्यतः श्रुतिप्राप्तमिति भावेनाऽमुख्यतयेत्युक्तम् । एतेन श्रुतिमुख्यार्थस्येव तदमुख्यार्थस्यापि ग्राह्यत्वात् तन्निराकरणानुपपत्तिरिति परास्तम् ।। किं नामकारणमिति ।। असत्त्वं तावदविद्यमान-शून्ययोरनुगतम् । तत्र नेदमविद्यमानम्, ‘असदेवेदमग्र आसीत्’ इति प्रलयकाले सत्त्वेन प्रमाणसिद्धत्वादिति अविद्यामानत्वे दूषिते शून्यत्वमेव सिध्यतीति भावः । एतेन किं शून्यत्वं साध्यते, उत तदानीन्तनाभावप्रतियोगित्वम् । आद्ये दृष्टान्तः साध्यविकलः । द्वितीये त्वर्थान्तरता । कारणस्य प्रलयकालीनाभावप्रतियोगित्वसिद्धावपि असतः कारणत्वासिद्धेः प्रलय-कालीनाभावानां वस्तुत्वेऽपि तदानीन्तनाऽभावप्रतियोगित्वाभावात् व्यभिचारश्चेति परास्तम् । शून्यस्य तदानीन्तनाऽभावप्रतियोग्यनुगतस्याऽसत्त्वसामान्यस्य साधनात् । वस्तुत्वादित्यनेन अभावविलक्षणत्वस्यैव विवक्षितत्वात् ।

वाक्यार्थमुक्तावली

युक्तिविरोधश्चेति ।। श्रुत्युपसर्जनयुक्तिविरोधश्चेत्यर्थः । पूर्वाधिकरणे दृढयुक्तिविरोधे निरस्ते । इह तु युक्तिमात्रेण पूर्वपक्षानुदयात्तदुक्तमनुव्याख्याने ‘अल्पवाक्यगता युक्तिर्बहुलैव विरोधिनीति’ । अत्राल्पबहुत्वे गुणप्रधानत्व इति सुधायामेवोक्तम् । अत्राधिकरणे सूत्रभाष्ययोरसच्छब्देन शून्यं प्रागभावश्चोच्यते । अत एव टीकायां पाठद्वयम् । तत्प्रदर्शयिष्यामः । न चासतो नियतपूर्ववृत्तित्व-रूपकारणत्वायोगात्तत्पाठो नादरणीय इति वाच्यम् । असच्छब्देन शून्यस्य ग्रहणात्तस्य च परेण तत्वताङ्गीकारात् । अन्यथा समयचरणेऽपि पूर्वपक्षानुदयप्रसङ्गात् । अस्मिन्नेवाधिकरणे सुधाया-मकस्मादिति श्रुत्यर्थतया शून्यकारणतामाशङ्क्य चरमसूत्रेण तन्निरासोक्त्ययोगाच्च । प्रागभाव-कारणत्वमात्रस्यात्र निराकरणात्तद्विरोध इति निरस्तम् । अनुव्याख्याने एतेन शिष्टा इति चरमसूत्र-निषेध्यतया सदा शङ्कते न पुनरुक्तिभिया प्रथमसूत्रेण प्रागभावमात्रपूर्वपक्षाङ्गीकारेऽपीह चरमसूत्रेऽ-कस्मादिति श्रुत्यर्थतया शून्यग्रहणात्पौनरुक्त्यभावेन प्रथमसूत्रे सतोऽपि पूर्वपक्षकरणोपपत्तेः ।

ननु निषेधत्वमभावतेति वचनादसतः कथञ्चिदप्रतिषेधमात्रत्वमिति तत्रैव निरसिष्यते । न चात्रासच्छब्दार्थतयाऽभावस्य ग्रहे श्रुतिप्राप्तमसन्मतमत्र निराक्रियते । समयस्योपरि निषेधादिति समयपादीयासदधिकरणेन पौनरुक्त्यमाशङ्क्य तत्र समयप्राप्तस्य श्रुतिप्राप्तस्येति परिहारो युक्तः । प्रागभावकर्तृत्वपरसमयस्यैवाभावादिति वाच्यम् । अत्र शून्यस्यापि निषेधेन तद्विवक्षया गतार्थतामाशङ्क्य निषेधोपपत्तेः । न चासच्छब्दस्य शत्रन्तत्वात्कथमभावपरतेति वाच्यम् । अनुव्याख्याने शतृप्रत्यस्यासदभावनमिति छान्दसेनाभावसाधनत्वेन वाऽसत् असत्वमिति भावप्रधानत्वेन वाऽभावार्थत्वस्वीकारेणानुपपत्यभावादित्यलं विस्तरेण ।

भावबोधे तु सत्परपाठमेवावलम्ब्य चन्द्रिकायामभावपरपाठमेवावलम्ब्य टीकार्थ उक्तो ज्ञेयः । अत्र यदि प्रबलयुक्तिविरोधेन मृदब्रवीदित्यादेरन्यार्थकल्पना तर्हि श्रुतिसंवादियुक्तिविरोधेन ‘सदेव सौम्येदमग्र आसीत्’ ‘यतो वा इमानि भूतानि जायन्त’ इत्यादि श्रुतीनामन्यार्थकल्पने न तया ब्रह्मणो जगत्कारणत्वसिद्धिरित्याक्षेपेणोत्थानादनन्तरसङ्गतिरिति ज्ञेयम् ।। युक्तमयुक्तं चेति ।। अत्र विष्णोर्जगत्कारणत्वं कारणाभिमतं प्रलये सद्भवितुमर्हतीत्यादिकया युक्त्या विरुद्धम् । उत युक्तेः प्रतिषेधमात्रत्वे युक्तिविरोधादविरुद्धमिति चिन्ता । तदर्थं श्रुतिबलात्कस्यचिदसतः कारणत्वं युक्ति-विरुद्धमपि सम्भवति । उत युक्तिबलादसतः कारणत्वे सन्मात्रावशेषानिष्ठप्रसङ्गाच्छ्रुतेरन्यार्थत्वं युक्तेराभासत्वमिति । तदर्थमसन्मात्रावशेष्याप्रामाणिकत्वप्रमाणविरुद्धत्वे न स्त उत स्त इति । तदर्थं तर्कः किं साधनबाधनक्षमो न भवत्युत भवतीति । एवं जीवप्रधानादिविपक्षेऽपि चिन्त्याः ऊह्याः । श्रुतिसाम्यमित्युक्तन्यायं विवृणोति ।। न हीति ।। अत्र स्यादेतदित्यतः पूर्वमत्रेति सर्वत्रा-सच्छब्देन प्रलयवतः विश्वप्रागभावोऽभिधीयते कारणशब्देन कर्तोच्यत इति केषुचित्कोशेषु पाठो दृश्यते । तस्यार्थः ।

ननु अत्र श्रुतिसूत्रभाष्यगतासच्छब्दार्थतया शून्यस्यैव स्वीकारो अभावस्य च भावो हि धर्मोऽथापि हि धर्मिण इत्याद्यनुव्याख्यानानुगुणं यत इदं वाक्यमतस्तदनुसारेण प्रागभावार्थकत्व-स्यापि स्वीकारे प्रागभावकारणत्वमात्रस्य विष्णुकर्तृताविरोधान्न निषिध्यते ।। प्रागभावोऽभि-धीयत इति ।। प्रागभावोऽप्यभिधीयते ।। न केवलं शून्यमित्यर्थः ।। अभावधर्मात्मतामन्त-रेणेति ।। बुद्धिविषयत्वादित्युक्ते घटोऽस्तीति बुद्धिविषये घटादौ व्यभिचारः । अतः स्वरूपः एव प्रतिषेधेत्युक्तम् । स्वरूपत एवासतः प्रतिषेधस्वरूपतः प्रतिषेधोऽत्यन्ताभावः तद्विषयिणी बुद्धिः स्वरूपत एव प्रतिषेधबुद्धिस्तद्विषयादित्यर्थः । प्रागभावो हि देशविशेषे कालविशेषे चासतो देशान्तरे कालान्तरे च सतो घटादेः प्रामाणिकस्य प्रतिषेधो न तु स्वरूपत एवासत्प्रमाण-प्रतियोगिको निषेध इति न तस्य स्वरूपत एवासत्प्रतियोगिकप्रतिषेधबुद्धिविषयत्वमिति न व्यभिचारः । स्वरूपतः प्रतिषेधबुद्धिविषयत्वादित्युक्ते उक्तरीत्यात्यन्ताभावे व्यभिचारः । तस्य व्यवहारं प्रति कारणत्वात् । अतोऽभावधर्मात्मतामन्तरेणेत्युक्तम् । अभावधर्मोऽभावत्वं तदात्मतामन्तरेण न तदवच्छेदमन्तरेणेत्यर्थः । अत्यन्ताभावो हि अभावत्वधर्मावच्छेदेनैव स्वबुद्धौ भासते न तु तमन्तरेणेति व्यभिचारः । अभावत्वरूपधर्मावच्छेदमन्तरेण प्रतिषेधबुद्धि-विषयत्वादित्युक्ते घटे व्यभिचारः । तस्यापि प्रतिषेधबुद्धौ प्रतियोगितया विषयत्वात् । अतः स्वरूपत एव प्रतिषेधेति । स हि प्रागभावादिबुद्धावेव प्रतियोगितया भासते नत्वन्त्याभावबुद्धौ । प्रामाणिकप्रतियोगिकात्यन्ताभावास्यानङ्गीकारात् । तथा च सर्वं सुस्थम् । पक्षीकृतेऽपि स्वरूप एवासत् अत्यन्तासच्च । प्रतियोगिकाप्रतिषेधबुद्धौ अभावत्वरूपधर्मावच्छेदमन्तरेण प्रतियोगितया विषयत्वसत्वान्नासिद्धिः ।। न हि शशविषाणादीनामिति ।। यद्यपि शून्यं नासदित्युपेतं माध्यमिकैः । तथापि सर्वधर्मशून्यत्वादसत्वपर्यवसानाच्छशविषाणदृष्टान्तः । क्वचित् न हि घट-प्रागभावस्य घटं प्रतीति पाठः । तत्रायमर्थः । प्रतिषेधबुद्धिविषयत्वादित्युक्तेऽन्योन्याभावलक्षण-धर्मात्मना प्रतिषेधबुद्धिविषये कुलालादौ व्यभिचार इत्यत उक्तम् ।। स्वरूपत एवेति ।। तस्यैव विवरणम् अभावधर्मेति ।। प्रतिषेधात्मकत्वादित्यपि क्वचित्पाठः । कारणत्वाद्युक्तिविरुद्धमिति भाष्ये कारणत्वादेरुक्तिः श्रुतिस्तद्विरुद्धमिति विग्रहमभिप्रेत्याह ।। कारणत्वप्रलयस्थितत्वेति ।। अङ्गीकारादसतः प्राप्तिरिति भाष्यसिद्धान्तिना व्यवहारसिद्धयेऽन्यत्र तथात्वाङ्गीकारात्तन्न्याये-नात्राप्यसतः प्राप्तिरिति चोच्यत इत्यर्थः । अमुख्यतयेत्यर्थ इति श्रुत्यर्थापरिज्ञानेन प्राप्तमर्थ-मित्यर्थः । विमर्शप्राप्तस्यैव मुख्यत्वात् ।। कारणाभिमतमिति ।। सिद्धान्तिना कारणत्वेनाभिमतं ईश्वरादिकमित्यर्थः । इत्यादीत्यादिपदेन एतत्सजातीयाः सर्वे भावाः प्रलये सन्तः भावत्वा-त्कार्यवदिति । परम्परया प्रलये कारणतया सन्मात्रावशेषसाधकम् । प्रलयः असन्मात्रावशेषवान् प्रलयकालत्वादिति साक्षाद्विवक्षितमनुमानं च गृह्यते । आद्यानुमानद्वये प्रलये सिद्धान्त्यभिमत कारणमात्रस्य भावमात्रस्य वा सत्वसिद्धौ कार्यस्य च सकर्तृकत्वनियमात् परिशेषाच्छून्य-कारणत्वमभावकारणत्वं सिध्यतीति ज्ञेयम् । भावबोधे तु कारणाभिमतमित्यस्योभयसम्पन्ने जगत्कारणे सत्वब्रह्मत्वाभ्यां विप्रतिपत्तौ पूर्वपक्षिणा सत्वं साध्यते इत्युक्तम् । तत्रासत्वं शून्यत्वमभावत्वं वा । नाद्यः । दृष्टान्तानुपपत्तेः । न द्वितीयः । परेण शून्यभावप्रतियोगित्वा-नङ्गीकारादिति । चोद्यस्यासत्वं नाम शून्ये तदानीन्तनाभावप्रतियोगिनि च साधारणं घटादि-सद्वैलक्ष्यण्यं च विवक्षितम् । वस्तुत्वं चाभावविलक्षणत्वमिति समाधानं बोध्यम् ।। श्रुतिविरोध-परिहारेणापीति ।। उपोद्घातविधयेति शेषः ।। मूलभूतेति ।। न चैवं सति युक्तेः प्राधान्योक्ति-विरोधः । राज्ञः सेनावच्छ्रुतेर्मूलत्वेन वस्तुतः प्राधान्येऽपि ब्रह्मणः कर्तृत्वनिषेधे आभीरसेनाव-द्युक्तेरेवाग्रेसरत्वेन कार्यतः प्राधान्यात् । अत एव वक्ष्यति श्रुतिविरोधपरिहारस्य युक्तिविरोध-परिहाराङ्गत्वादिति । सूत्रे सदिति श्रुतिप्रतीकस्य युक्तौ असद्भवितुमर्हतीति साध्यस्य असदेव जगत्कारणमिति फलितस्य ग्रहणम् । ततश्च असद्वा इदमिति श्रुतेः कारणाभिमतं प्रलयेऽसत् वस्तुत्वादित्यनुमानादसदेव जगत्कारणं न विष्णुरिति चेत् प्रतिषेधमात्रत्वादिति सूत्रार्थः । हेत्वंशः प्रागेव विवक्षितः ।

तत्त्वसुबोधिनी

अत्र पूर्वाधिकरणे दृढयुक्तिविरोधपरिहारेण जगज्जन्मादिकरणत्वप्रतिपादकवेदप्रामाण्ये समर्थिते यदि यतो वेत्यादि वेदप्रामाण्यं तर्हि उक्तयुक्त्या सतोऽपि जगत्कारणत्वं स्यादिति आक्षेपोत्थानादनन्तरसङ्गतिः ।। श्रुतिविगानमिति ।। असत्कर्तृत्वप्रापकविष्णुकर्तृत्वप्रापकश्रुत्यो-र्विगानमित्यर्थः । तथापि ‘यतो वा’ इत्यादि श्रुतिबलाद् विष्णोरेव जगज्जन्मादिकारणत्वं सिद्ध्यतीत्यतः आह ।। न हीति ।। भाष्यसूत्रस्थो सच्छब्दः प्रागभावपरो वा, असत्परो वेति संशयं निरसितुमाह अत्र सर्वत्रेति ।। एवं च न हि घटप्रागभावस्य कारणत्वं क्लृप्तम् । तथा च कर्तृत्वमात्रकल्पने शतृप्रत्ययस्य सदसद्भवनमिति छान्दसेन भावसाधनत्वम् । न वा असदसत्त्वं भावप्रधानेन प्रागभावपर इति भावः । सयुक्तिकत्वस्य इति ।। कारणं प्रलये सद्भवितुमर्हति वस्तुत्वात् घटवत् इति सयुक्तिकत्वस्येत्यर्थः । प्रतिषेधमात्रत्वादिति सौत्रं हेतुं व्याचष्टे ।। तस्येति ।। अत्र प्रतिषेधात्मकत्वादित्युक्ते भावेष्वपि अन्योन्याभावादिधर्मात्मना प्रतिषेधत्व-मस्तीति व्यभिचारः स्यात् । अतः सूत्रे मात्रशब्दः । तथाप्यसिद्धिः प्रागभावस्यापि अभिधेय-त्वादिधर्मात्मना भावत्वेन प्रतिषेधमात्रत्वाभावादतो मात्रशब्दाभिप्रायमाह ।। स्वरूपत एवेति ।। अनेनासिद्ध्यादिपरिहारो न ज्ञायते इत्यतः स्वरूपत एवेति स्वपदं विवृणोति ।। अभावो धर्मात्मतामन्तरेणेति । अभावरूपो यः धर्मः तदात्मकतां विनेत्यर्थः । न हि प्रागभावे कथना-भावरूपो धर्मो वर्तते इति कारणात्तस्य प्रतिषेधरूपत्वं, किन्तु तं विनैव तस्य प्रतिषेधरूपत्वम् । अतो नासिद्धिरिति भावः । भावेषु व्यभिचारोऽपि न, तेषु अन्योन्याभावरूपधर्मवत्त्वेनैव प्रति-षेधात्मकत्वं न तु तद्विनेति भावः । अस्तु प्रतिषेधात्मकत्वं प्रागभावस्य, तथापि कर्तृत्त्वं कुतो न इत्यत आह ।। न हीति ।। कारणत्वं कर्तृत्वमदृष्टत्वादिति भावः । प्रसक्तेरभावादित्याह ।। एतेनेति ।। कारणत्वाद्युक्तिविरुद्धमिति । भाष्ये कारणत्वादेरुक्तिं श्रुतिः, तद्विरुद्धमिति विग्रहः ।

ननु कारणत्वादिहेतोः युक्तिविरुद्धमिति भिन्नपदं अनन्तरभाष्यविरोधादित्याह ।। कारणत्व- प्रलयस्थितत्वेति ।। तथेत्यस्यान्यत्वमर्थ इति प्रतीतिं निवारयितुमाह ।। अमुख्यतयेति ।। अन्यथा पौनरुक्त्यापातादिति । अथापि समयप्राप्ते निषेधप्रागभावकर्तृत्वप्रापकसमयाभावेन शून्यकारणतानिषेधस्यैव प्रसङ्गादिति भावः । अर्थादित्यनेन कथमसङ्गतिः परिहृतेत्यत आह ।। नात्रेति ।। अत्रान्तरे इति प्रागभावकारणत्वादौ इत्यर्थः । असतः कारणत्वाभ्युपगम इति प्रागभावस्य कर्तृत्वाभ्युपगम इत्यर्थः ।

वाक्यार्थविवरणम्

अन्योन्याभावधर्मात्मकद्वारा स्वरूपतः प्रतिषेधबुद्धिविषये कुलालादौ व्यभिचारवारणाय ‘अभावधर्मात्मकतामन्तरेण’ इत्युक्तम् । अभावधर्मात्मकद्वारमन्तरेणेत्यर्थ इति सुधोक्तरीत्या ध्येयम् । ‘प्रतिषेधात्मकत्वं तु भावस्याभावधर्मतः । धर्मधर्म्यैक्यतश्चैव’ इत्यनुव्याख्यान-व्याख्यावसरे तथा उपपादितत्वादिति गुरुचरणाः । भावबोधोक्तं तु रीत्यन्तरमित्यदोषः । कुतो न त्वित्यत आह ।। एतेनेति ।। श्रुतियुक्तिविरोधेति ।। जगत्कारणत्वश्रुतेरसत्कारणत्वाभि-धायकश्रुतियुक्तिभ्यां विरोधेत्यर्थः । मतमिति सप्रयोजनत्वं सूचितम् ।। श्रुतियुक्त्योः स्वतन्त्र-मिति ।। पञ्चमीयम् । जगत्कारणत्वश्रुतेरसत्कारणत्ववाचिश्रुत्या असत्कारणत्वसाधकयुक्त्या च पृथग्विरोधद्वयं न परिह्रियत इत्यर्थः । प्रयोजनान्तरस्य धान्यादेः ।

वाक्यार्थमञ्जरी

नन्वत्र शून्यस्य कारणत्वनिषेधपरतया श्रुतिसूत्रव्याख्यानमभावस्य च भावोऽपि धर्मोऽथापि हि धर्मिण इत्यनुव्याख्यानविरुद्धम् । तत्र विश्वप्रागभावस्यैव कारणत्वनिषेधपरतया व्याख्या-नादिति चेन्न । श्रुतिसूत्रयोरनेकार्थत्वेनैकार्थमभ्युपेत्य प्रवृत्तग्रन्थयोर्विरोधाभावात् वक्ष्यमाण-त्वादर्थाद्युक्तिविरोध इति भाष्यव्याख्यानावसरे । असद्वेति श्रुतावसच्छून्यं कारणत्वेनोच्यत इति चेन्न । तस्य केवलप्रतिषेधप्रतीतिविषयत्वेन शशविषाणवत्कारणत्वानुपपत्तेरित्यर्थः ।। तस्येति ।। घटादौ नास्तीति बुद्धिविषयत्वसत्वेऽपि कारणत्वस्यैव सत्वाद्व्यभिचार इत्युक्तम् ।। स्वरूपत एवेति ।। भावधर्मात्मकतामन्तरेणेत्यर्थः । घटादेश्च प्रतियोगित्वरूपभावाधर्मात्मकत्वेनैव तथात्व-मिति न दोषः । स्वरूपत एव प्रतिषेधबुद्धिविषयत्वं प्रागभावे वर्तते तत्र कारणत्वमेवास्तीति व्यभिचार इत्यत उक्तम् । अभावधर्मात्मकतामन्तरेणेति ।। प्रागभावत्वरूपाभावधर्मात्मकत्वेनैव प्रतिषेधबुद्धिविषयो न तदन्तरेणेति न दोषः । तथेत्यनन्तरं सिद्धान्तिनेति शेषः ।। अर्थान्तर इति ।। शून्यकारणत्वविषयत्व इत्यर्थः ।

 

 

Load More