ॐ प्राणस्तथाऽनुगमात् ॐ

१२. अन्तिमप्राणाधिकरणम्

सूत्रभाष्यम्

प्राणो विष्णुरित्युक्तम् । तत्र "ता वा एता शीर्षन् श्रिय श्रिताश्र्चक्षुश्श्रोत्रं मनो वाक्प्राण’ (ऐ.आ. २-१-४) इत्यत्र प्राणस्य विष्णुत्वं न युज्यते । इन्द्रियै सहाभिधानादिति । अत आह

॥ ॐ प्राणस्तथाऽनुगमात् ॐ ॥ २८ ॥

"तं देवा प्राणयन्त’ (ऐ.आ. २-१-५) "स एषोऽसु स एष प्राण’ (ऐ.आ. २-१-८) "प्राण ऋच इत्येव विद्यात्’ (ऐ.आ. २-२-२) "तदयं प्राणोऽधितिष्ठति’ (ऐ.आ. २-३-८) इत्याद्यनुगमात् । अत्रापि प्राणो विष्णुरेव ।

"विष्णुमेवानयन्देवा विष्णुं भूतिमुपासते ।

 स एव सर्ववेदोक्तस्तद्रथो देह उच्यत’ इति स्कान्दे ।

ब्रह्मशब्दानुगमाच्च ॥ २८ ॥

सत्तकदीपावली

ऐतरेये श्रूयते । ता वा एता शीर्षच्छ्रिय श्रिताश्र्चक्षु श्रोत्रं मनो वाक्प्राण इति । तत्र पूर्वं विष्णुविषयत्वेनोदित प्राणशब्द श्रूयमाणो विचार्यते किंविषयोऽयमिति । तत्र तावदयं प्राणो मुख्यप्राणो भवितुमर्हति न विष्णु इन्द्रियपङ्क्तिगणितत्वात् । यथेन्द्रियपङ्क्तिगणितं चक्षु न विष्णुरित्येतत्पक्षं प्रतिक्षिपत्सूत्रमुपन्यस्य व्याचष्टे । प्राणस्तथेत्यादिना । अयमर्थ । परमात्मासाधारणधर्मयुक्तत्वेन अभ्यस्यमानत्वादत्र प्राणो विष्णुरेव । तथाहि । तं देवा प्राणयन्तेत्यनेन तस्य प्रकृतस्य प्राणस्य सर्वब्रह्मादि-देवै सर्वलोकेष्वानीतत्वमाहात्म्यस्यानेन प्रकृतत्वमुच्यते । स एषोऽसु स एष प्राण तं भूतिरिति देवा उपासांचक्रिर इत्यन्तेन तस्यैव प्राणस्यैश्र्वर्यवत पद्मजादिदेवैरुपास्यत्वमुच्यते । स एषोऽसु स एष प्राण सर्वे वेदा सर्वे घोषा एकैव व्याहृति प्राण एव । प्राण ऋच इत्येव विद्यादित्यनेन सर्वे वेदा प्राणे प्राणस्यैव व्याहृति परस्परविरोधशून्यतया प्रतिपादका । ऋच तस्य विशेषेण प्रतिपादका इत्युच्यते । अथ देवरथस्तस्य वागुद्धि श्रोत्रे पक्षसी चक्षुषी युक्ते मन सङ्ग्रहीता तदयं प्राणोऽधितिष्ठतीत्यनेन वागादिभीरथोपकरणत्वेन कल्पितैर्युक्तस्य देहाख्यस्य शरीरस्य मुख्याधिष्ठाता प्राण इत्युच्यते । तथाच स्कान्दवचनं विष्णुमेवानयन्निति । एतद्ब्रह्मैतत्सत्यम् । अयं पुरुषो ब्रह्मणो लोक । तत्प्रपदाभ्यां प्रापद्यत ब्रह्मेममित्यादिब्रह्मशब्दाभ्यासादप्येतद्विद्याप्रतिपाद्यो विष्णुरिति ज्ञायते । तस्मादिक्ष्वाकुवंशराजावली-गणितदाशरथिरामवदिन्द्रियगणगणितोऽप्ययं प्राणो विष्णुरेवेति युक्तम् ।

तत्त्वप्रदीपिका

अतीतप्राणाधिकरणे प्रवर्तनस्वातन्त्र्यस्य प्राणशब्दप्रवृत्तिहेतोर्विष्णौ भावाद्विष्णुरेव प्राण इत्युक्तम् अत्र पुन विष्णावसम्भाव्यैर्विशेषिलङ्गै प्राणशब्दस्य मुख्यप्राणप्रसिद्धिरेव बलवती स्यादित्याशङ्क्य तेषां लिङ्गानां विष्णावेव सम्भवमुपलम्भयितुमयमारम्भ । विष्णुस्तासु श्रित इति ता श्रिय । प्राणस्तथाऽनु-गमात् । तं देवा प्राणयन्त ज्ञानसम्प्रदायप्रवर्तनेन ।

"तस्मात् श्रुत्वा परं ब्रह्म देवा नारायणाभिधम् ।

 शिष्यप्रशिष्यादिषु च तेऽनयन्वायुनोदितम्’ ॥

इत्यैतरेयसंहितायाम् । स एषोऽसुरसनशीलत्वात् ।

"असनाद्भगवान्सोऽसुस्सर्वस्यापि जनार्दन ।

 प्रकृष्टानन्दरूपत्वात्प्राण इत्यभिधीयत’ इति च ॥

प्राणऋच इत्येव विद्यात् प्राणवाचकत्वेन वर्तन्ते ऋच इत्येव विद्यात् । तदयं प्राणोऽधितिष्ठतीति ॥ तद्रथरूपं शरीरं प्राणोऽधितिष्ठतीत्यर्थ । इत्यादिषु वाक्येषु यथा प्राणो विष्णुस्स्यात्तथा प्राणशब्दानुगमा-द्विष्णुरेव प्राण । "एतद् ब्रह्मैतत्सत्यं’ "तं प्रपदाभ्यां प्रापद्यत’ "अ इति ब्रह्म’ इत्यादिब्रह्मशब्दानुगमाच्च विष्णुरेव प्राण ।

तत्त्वप्रकाशिका

अत्र लोकतोऽन्यत्र प्रसिद्धप्राणनाम्नो विष्णौ समन्वयप्रतिपादनादस्ति शास्त्रादिसङ्गति । श्रुत्यादि-सङ्गतिविषयवाक्यविषयसंशयसयुक्तिकपूर्वपक्षान् दर्शयति ॥ प्राण इति ॥ "तद्वै त्वं प्राण’ इत्युक्त प्राणो विष्णुरित्युक्तम् । ऐतरेयके च "कश्चित्ता वा एता’ इत्यारभ्य बहुषु स्थलेषु प्राण श्रूयते । तस्य विष्णोरन्यत्वे प्राचीनोऽप्यन्य इति शङ्का स्यादित्ययमवश्यं विचार्य । स प्राणोऽत्र विषय । किं विष्णु-रुतान्य इति सन्देह । पूर्वोक्तन्यायोऽन्यत्र प्रसिद्धिश्र्च सन्देहबीजम् ।

तत्र न प्राणो विष्णु किन्तु वाय्वादिरेवेति पूर्व पक्ष । एतत्प्राणस्येन्द्रियगणे गणितत्वात् । न चैतल्लिङ्गं विष्णाववकाशं लभते । उपपद्यते च मुख्यप्राणादिषु अतस्तेषामन्यतमस्यैतत्प्राणत्वात् । प्राचीनप्राण आनन्दमयोऽप्यन्य एवेति भाव । सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ॥ अत इति ॥ तद्वै त्वं प्राण इति श्रुताविवात्रापि श्रुत प्राणो विष्णुरेव । विष्णुलिङ्गानां देवतोपास्यत्वादीनामस्मिन्प्राणेऽनुगमादनु-वृत्तेरभ्यासादित्यर्थ । तथाशब्द समुच्चयार्थोऽतोऽत्रापीत्याह ॥ तं देवा प्राणयन्तेति ॥ तं प्राणं देवा शिष्यादिषु सम्यक् नीतवन्त । "स एषोऽसु स एष प्राण स एष भूतिश्चाभूतिश्च तं भूतिरिति देवा उपासाञ्चक्रिरे’ इति प्राणस्य भूतित्वेन देवोपास्यत्वमुच्यते । "ता वा एता सर्वा ऋच सर्वे वेदा सर्वे घोषा एकैव व्याहृति प्राण एव प्राणऋच इत्येव विद्यात्’ इति तस्य सर्ववेदोक्तत्वमुच्यते । "अथ देवरथस्तस्य वागुद्धि श्रोत्रे पक्षसी चक्षुषी युक्ते मन सङ्गृहीता तदयं प्राणोऽधितिष्ठति’ इति तस्य देहरथत्वमुच्यते । स चासावयं चेति तदयम् । तदिति रथतयोक्तं शरीरं वा । लिङ्गव्यत्ययो वा । लिङ्गेन पूर्वपक्षिते कथं तेनैव सिद्धान्त इत्याशङ्कानुदयाय लिङ्गबाहुल्योक्ति । बाहुल्यस्यापि प्राबल्यहेतुत्वात् । यदाहु "द्विविधं बलवत्त्वं च बहुत्वाच्च स्वभावत’ इति । ननु सैद्धान्तिकिलङ्गतोऽपि पूर्वपक्षिलङ्गमेव बलवत् । निरवकाशत्वात् । बाहुल्येन बलवतोऽपि स्वभावबिलन प्राबल्यात् । यत आहु । "तयो स्वभावो बलवान् उपजीव्यादिकश्च स’ इति । अत कथं तैर्विष्णुत्वनिश्चय इत्यतो लिङ्गानामनन्यथासिद्धतां च स्मृत्या साधयति ॥ विष्णुमेवेति ॥ एकप्रकारेण प्रबलात्प्रकारद्वयेनापि प्रबलस्याधिक्येन निर्णयोपपत्तिरिति भाव । अभ्युपेत्य चेदमुदितम् । यावता प्राणै सह गतिणत्वस्यान्तर्यामिनिष्ठता सेत्स्यति । यदा प्रकारद्वयेनापि दुर्बलिलङ्गस्योभयथा प्रबलिलङ्गतो बाधसम्भवेन प्राणस्य विष्णुत्वसिद्धिस्तदा किं वाच्यमेतद्ब्रह्म "ब्रह्मणो लोको’ "ब्रह्मेमं पुरुषम्’ "उदरं ब्रह्म’ इत्यादिनिरवकाशब्रह्मशब्दाभ्यासादिति भावेनानुगमपदं प्रकारान्तरेण व्याचष्टे ॥ ब्रह्मेति ॥ २८ ॥

गुर्वर्थदीपिका

प्राचीनप्राणाधिकरणे विष्णावत्यन्तानुपपद्यमानिलङ्गरहितस्थलीयनानाशाखास्थप्राणाद्याध्यात्मिकशब्दानां हरौ समन्वय उक्त । अस्मिन्प्राणाधिकरणे तु विष्णावत्यन्तानुपपद्यमानिलङ्गस्थानीयप्राणादिशब्दानामपि हरौ समन्वयस्साधनीय इति दर्शनाय पुनरारम्भ इति भावेनोक्तम् इन्द्रियगणे गणितत्वादिति । "भूतिश्र्चाभूतिश्र्च’ इत्यत्र भूतिर्भक्तानामैश्र्वर्यदायक । अभूतिरभक्तनामनैश्र्वर्यदायक इत्यर्थ । तत्र देवा भूतिशब्दार्थं ज्ञात्वोपासां चक्रिरे । ते ह पराबभूवुरित्यर्थ । "ता वा एतास्सर्वा ऋच’ इत्यत्रैकार्थप्रतिपाद-कत्वादेकैव व्याहृतिरित्युक्त्वा तमेवार्थं दर्शयितुं प्राण एव प्राणाख्यविषय एवेत्युक्तम् । तत्रापि विशिष्य ऋच प्राणविषया इति प्रदर्शनाय प्राणऋच इत्युक्तम् । ऋच प्राण एव विद्यादिति योजना । "तस्य वागुद्धि’ इत्यत्रोद्धिपदेनाश्र्वबन्धनाय रथाग्रे रचितदारुविशेष कथ्यते । पक्षसी पार्श्र्वद्वयस्थे रथचक्रे । युक्ते रथाग्रे बद्धावश्र्वौ । इन्द्रियाभिमानिदेवानामपि देहैकदेशस्थत्वेऽपि रथमध्ये रथिकवद्देहान्तर्हृत्पुण्डरीके प्राणोऽधिकृतत्वेन तिष्ठतीत्यर्थ । "अथ देवरथ’ इति पुल्लिङ्गेन प्रस्तावात्तदिति परामर्शो न घटत इत्यत स चासावयं चेत्युक्तम् । स प्रसिद्धोऽयं प्राण इत्यर्थ ।

भावबोध

॥ ॐ प्राणस्तथाऽनुगमात् ॐ ॥ श्रुत्यादिसङ्गतिमिति । अव्यवहितपूर्वाधिकरणसङ्गतिस्तु निरन्तराधिकरणसिद्धान्तन्यायमुपजीव्याभ्यधिकाशङ्कया पूर्वपक्षोत्थानादिति सुधायामेवोक्ता । प्राचीनोऽप्यन्य इति शङ्का स्यादिति ।

नन्वत्र मुख्यप्राणेन्द्रजीविलङ्गशब्दरूपविशेषप्रापकसद्भावेनाभ्यधिकाशङ्कया प्राणशब्दस्यान्यपरत्वाक्षेप क्रियते । तथा चैतै विशेषप्रापकै ""ता वा एता’’ इत्यत्र वाक्ये प्राणस्याविष्णुत्वेऽपि ""तद्वै त्वम्’’ इत्यत्र वाक्ये एतादृशहेत्वभावात् तत्रत्यप्राणो विष्णुर्भवत्विति वक्तुं शक्यत्वान्न तदाक्षेप सम्भवतीति चेत्, ; अत्रेन्द्रादिशब्दात् प्राणशब्दस्येन्द्राद्यर्थत्वे निश्र्चिते ""तद्वै त्वं प्राण’’ इत्यत्रापि तदर्थत्वशङ्कामात्रस्य क्रियमाणत्वात् । अत एव निरवधारणान्यपदशङ्कापदप्रयोग । अन्यथा अन्य एव स्यादित्यवक्ष्यत् ॥ किं विष्णुरिति ॥ अत्र प्राण किं वाय्वादिरुत विष्णुरिति चिन्ता । तदर्थं वाय्विन्द्रजीवप्रापकश्रुतिलिङ्गवाक्यानि विष्णुप्रापकश्रुतिलिङ्गबाधकानि, उत तद्बाध्यानीति । तदर्थं तानि निरवकाशानि उत वाय्वाद्यन्तर्यामिनिष्ठत्वेन सावकाशानीति । इन्द्रियगणे गणितत्वादिति । उपलक्षण-मेतत् । प्राणसंवादादिवृत्रहन्तृत्वशतायुष्ट्वादिप्राणेन्द्रजीविलङ्गानां प्राणेन्द्रपुरुषश्रुतीनां प्राणो वा इति वाक्यस्यापि पूर्वपक्षप्रापकत्वं द्रष्टव्यम् । अत एवानुव्याख्याने "बाहुल्ये श्रुतिलिङ्गयोरन्यस्य मुख्यवाच्यत्वम्’ इत्युक्तम् । न चैतल्लिङ्गं विष्णाववकाशं लभत इति ।

ननु "चेतोऽर्पणनिगदात्’ इत्युक्तन्यायेनान्तराधिकरणोक्तप्रकारेण चान्नेतृत्वादिवरुणादिलिङ्गा-नामिवेन्द्रियगणगणितत्वादिलिङ्गस्यापि विष्णाववकाशानुपपत्ते । सर्वोत्तमस्य विष्णोरपकृष्टचक्षुरादिभि सह पाठायोगात् । "उदासीनौ च तावास्तां केशवश्र्चाब्जसम्भव’ इत्युक्तत्वेन प्राणसंवादस्याप्यवकाशा-भावात् । वृत्रहन्तृत्वमहाव्रतयजमानत्वरूपेन्द्रिलङ्गस्यापि प्रसिद्धबाधेन तत्रानुपपत्ते । शश्र्वदेकप्रकारस्य विष्णो शतवर्षायुष्ट्वरूपजीविलङ्गानुपपत्तेश्र्च । निरवकाशैतल्लिङ्गसमभिव्याहृतप्राणादिश्रुतिवाक्यानामप्यव-काशाभावात् । अत एवोक्तमवकाशं न लभत इति । अवकाशार्थं विचारितमपीति भाव । अन्यथा सावकाशमित्येव ब्रूयात् । स चासावयं चेतीति । अनेन तदिदं भिन्नं पदं सत् न रथपरामर्शकमित्युक्तं भवति । तथात्वे तमिति भवेदिति भाव । अनन्यथासिद्धताञ्च स्मृत्येति । स्मृतौ विष्णुमेवेत्याद्यवधारण-बलेन लिङ्गानां विष्णुमात्रनिष्ठत्वप्रतिपादनादिति भाव ।

ननु पूर्वपक्षीयिलङ्गस्यापि निरवकाशत्वात् कथं निरवकाशेनैव निरवकाशबाध इत्यत आह एकप्रकारेण प्रबलादिति । पूर्वप्रापकश्रुत्यादीनामपि बाहुल्यात्तेषामपि प्रकारद्वयेन प्राबल्यमित्यत आह । अभ्युपेत्येति । इदं निरवकाशत्वम् । यद्वा उभयोर्निरवकाशत्वं विरुद्धमित्यत आह अभ्युपेत्येति । अन्यगतिलङ्गादीनामपि तद्गतभगवदपेक्षया युक्तेरिति न्यायविवरणं मनसि निधाय तस्य सावकाशत्वमाह ॥ प्राणै सहेति ॥

भावदीप

॥ ॐ प्राणस्तथाऽनुगमात् ॐ ॥ अन्यत्र प्रसिद्धेति ॥ यद्यप्याकाशोऽर्थान्तरत्वादित्यत्राकाशशब्दस्येव प्राणशब्दस्याप्यत एव प्राण इत्यत्रोक्तन्यायेन विष्णावपि प्रयोगादुभयत्र प्रसिद्धता भाति । तथापि प्राचीनप्राणस्याप्यत्र पूर्वपक्षे विष्णुत्वाक्षेपेण तत्र विष्णौ प्रयोगस्यासम्प्रतिपत्ते लोकतोऽन्यत्र प्रसिद्धे-त्युक्तम् । शेषं पूर्ववत् । सङ्गतीत्युक्त्यैव फलमपि लब्धमिति पूर्वपक्षतत्फलानीत्यनुक्त्वा पूर्वपक्षानित्ये-वोक्तम् । इत्यन्तभाष्यं सङ्गतिपरत्वेन तावदाकांक्षितपूर्त्या व्याचष्टे ॥ तद्वै त्वमिति ॥ इत्यत्रेत्यस्यार्थो बहुस्थलेष्विति । भाष्ये ता इति प्रतीकग्रहणमिति भावेनारभ्येत्युक्तम् । प्राण श्रूयत इत्युक्त्या भाष्ये श्रुतस्य प्राणस्येति श्रुतपदशेष सूचित । प्राणस्येत्यादेरर्थस्तस्येति ॥ अन्यत्व इति ॥ वक्ष्यमाणयुक्त्या वाय्वादित्व इत्यर्थ । उक्तमित्यन्तस्य तात्पर्यं प्राचीनोऽपीति ॥ शङ्केति ॥ अत्र प्रबलानेकान्यप्रापकसत्त्वेन प्राणस्यान्यत्वनिश्चयेऽपि न प्राचीनस्य स युक्त । तत्र प्रबलान्यिलङ्गानामभावात् प्रत्युत श्रीपतित्वादि-विपरीतिलङ्गमेव अस्तीति शङ्केत्येवोक्तम् । तावता प्राचीननिर्णयाक्षेपमात्रेण फलवत्वसम्भवात् ॥ इत्ययमिति ॥ इति सङ्गतिसम्भवादित्यर्थ ॥ पूर्वोक्तन्याय इति ॥ महायोगविद्वद्रूढिसत्वाद्विष्णुवाची प्राणशब्द इत्युक्तन्याय इत्यर्थ । तदेव भाष्यं पूर्वपक्षादिपरतयापि व्यनक्ति ॥ तत्रेत्यादिना ॥ प्राणस्य विष्णुत्वं न युज्यत इत्यस्यार्थ तत्र न प्राणो विष्णुरिति । एवं सन्देहे सतीत्यर्थ । विष्णुर्न चेन्निरर्थक प्राणशब्द स्यादित्यत उक्तं किन्तु वाय्वादिरेवेति । वाय्विन्द्रजीवा इत्यर्थ । इन्द्रियैरित्यादि-भाष्यार्थमाह एतदिति । अत एव भाष्ये चक्षु श्रोत्रं मनो वागित्यंश उदाहृत ॥ न चैतदिति ॥ नीचै चक्षुरादिभि सह गणितत्वस्य सर्वोत्तमेऽनुपपत्तेरिति भाव ॥ उपपद्यत इति ॥ मुख्यस्य सर्वेन्द्रियस्वामित्वादिन्द्रस्य हस्ताधिष्ठातुरिन्द्रियत्वाज्जीवस्य च इन्द्रियजन्यफलाश्रयत्वादिति सुधोक्तदिशेति भाव । एतेन सिद्धान्ते श्रुतिलिङ्गबाहुल्येऽपि तेषामेकेनापि निरवकाशेन वाय्वादावेव सावकाशयितव्यत्वं तयो स्वभावो बलवानित्युक्तेरिति सूचितम् । एवं सिद्धेऽपि पूर्वपक्षेऽनुभाष्यादौ श्रुतिलिङ्गबाहुल्योक्ति पूर्वपक्षदाढर्यायेति भाष्याभिप्राय इति भाव ॥ अत इति ॥ निरवकाशिलङ्गादित्यर्थ । यद्वा अत इत्यस्य व्याख्या तेषामित्यादि । प्राणो विष्णुरित्युक्तमित्यस्य तात्पर्यं प्राचीनप्राण इति । अन्य इत्यन्वय । सन्देहे उपसंहारे चान्य इत्युक्त्या तेषामन्यतमोऽयमेवेत्यनिर्णयेऽप्यन्यत्वेनावधारणं सम्भवतीति न सन्देहात्पूर्वपक्षस्याविशेष इति भाव । अन्य एवेत्यवधारणं तु प्रकृतप्राणबुध्या न तु प्राचीनप्राणबुध्या । तस्य विष्ण्वेकनिष्ठश्रीपतित्वादिलिङ्गेनान्य एवेति निर्णयायोगात् । प्रागुक्तशङ्कापदविरोधाच्च । यद्वा वक्ष्यमाणदिशा प्राणसंवादोत्क्रमणप्रवेशादीनां बहुत्वात् श्रुत्यनुगृहीतत्वात्साक्षात्प्राणविशेषणत्वाच्च । श्रीपतित्वादिलिङ्गानां तु वैपरीत्यात् तत्राप्यन्य एवेति निर्धारणं युक्तम् । पूर्वं शङ्केत्युक्ति अभ्युपगमवादेन इति भाव ॥ अत इतीति ॥ अतोऽन्यप्राप्तिसद्भावादाह प्राणस्य विष्णुत्वं सूत्रकार इत्यर्थो भाष्यस्य प्रागुक्तदिशा सुज्ञान इति नोक्त । एवमग्रेऽपि । सौत्रप्रतिज्ञाहेत्वोरर्थोक्तिपरभाष्यं व्युत्क्रमेण व्याख्याति ॥ तद्वै त्वमिति ॥ अपिपदार्थव्यक्तिरियम् । विष्णुमेवेत्यादिवक्ष्यमाणस्मृत्यनुरोधेन लिङ्गानि निष्कर्षयति ॥ तं देवा इति ॥ लिङ्गस्य प्राणस्थताभिव्यक्त्यैतं प्राणमिति व्याख्या

तस्माच्छ्रुत्वा परं ब्रह्म देवा नारायणाभिधम् ।

शिष्यप्रशिष्यादिषु च तेऽनयन्वायुनोदितम् ।

इति तद्भाष्योक्तेराह ॥ शिष्येति ॥ प्रेत्यस्यार्थस्सम्यगिति ॥ प्राणस्य भूतित्वेनेति ॥ भाष्ये तं भूतिरिति देवा इत्येव वाच्ये स एषोऽसु स प्राण इति पूर्वांशोक्ति तमिति परामृश्यमानं दर्शयितुमिति सूचितम् । ता वा एता इति श्रुत्यर्थं तु ज्योतिरुपक्रमादित्यत्र वक्ष्यति । भाष्ये प्राणऋच इत्येव विद्यादित्यंशोक्तिरपि ऋचस्तु विशेषत इन्द्रादिनामवतो विष्णोर्गुणानल्पज्ञानिनामपि प्रकाशयन्तीति प्राणो नारायण एवेति विद्यादिति तद्भाष्योक्तदिशा ऋचां तन्निष्ठत्वात्तदारण्यकस्यापि तन्निष्ठत्वस्य द्योतनाये-त्याहु । तदयमिति तच्छब्दपरामृष्टं दर्शयितुं पूर्वांशमाह ॥ अथ देवरथ इति ॥ देवस्य विष्णो रथ देवरथ वाग्देवतोमोद्धरणहेतुरज्जु । श्रोत्रदेवते चन्द्ररोहिण्यौ पार्श्वस्थाश्वौ चक्षुर्देवते सूर्यतद्भार्ये युगवाहकपुरस्थितावश्वौ । मनो रुद्र । सङ्गृहीता प्रागुक्ताया उद्धेरित्यर्थ ॥ स चासाविति ॥ सुप्सुपेति समास । तेन लिङ्गोपपत्तिरिति भाव । कर्मकारकलाभाय भिन्नं पदं मत्त्वाऽऽह ॥ तदितीति ॥ विष्णुर्वायुश्च तं रथं प्रकृष्टानन्दरूपत्वात्प्राणाख्यावधितिष्ठत इत्यैतरेयभाष्योक्तेस्तदित्यस्य तमित्यर्थं मत्त्वाह ॥ लिङ्गव्यत्ययो वेति ॥ बाहुल्ये श्रुतिलिङ्गयो । अन्यस्य मुख्यवाच्यत्वं नेत्यनुव्याख्यानुरोधेन तात्पर्यमाह ॥ लिङ्गेनेति ॥ इन्द्रियै सहाभिधानादित्युक्तिलङ्गेनेत्यर्थ ॥ लिङ्गबाहुल्येति ॥ एतल्लिङ्गानामेवोक्तिस्तु वक्ष्यमाणस्मृतिगृहीतत्वादिति भाव ॥ यदाहुरिति ॥ विष्णुतत्वनिर्णयोक्तब्रह्मतकवचनकर्तार इत्यर्थ ॥ तयोरिति ॥ पूर्वोक्तस्य उत्तरार्धमेतत् । आदिपदेन निरवकाशत्वग्रह ॥ अनन्यथासिद्धतां चेति ॥ न केवलं बाहुल्यमिति चार्थ । स्मृताववधारणोक्त्यै-तल्लाभ इति भावेन विष्णुमेवेत्यन्तप्रतीकोक्ति । कथं तावतोक्तशङ्कानिरास इत्यतस्तात्पर्यमाह ॥ एकेति ॥ निरवकाशत्वप्रकारेणेत्यर्थ ॥ प्रकारद्वयेनेति ॥ बहुत्वनिरवकाशत्वरूपप्रकारद्वयेनेत्यर्थ । ""अत्रगस्य हि । विष्णोरेव तु लिङ्गानि प्राणस्थानि तु सर्वश’’ इत्याद्यनुभाष्ये ""न च अनन्यथा-सिद्धत्वमन्यत्र श्रुतिलिङ्गादे’’ इत्यादिन्यायविवरणे च शास्त्रदृष्टिसूत्रदिशा सावकाशत्वोक्ते तदनुरोधेन भाष्यभावमाह ॥ अभ्युपेत्य चेति ॥ इन्दियै सह गणितत्वरूपपूर्वपक्षिलङ्गस्य निरवकाशत्वमभ्युपेत्येदं विष्णुलिङ्गानां बाहुल्यं निरवकाशत्वं चेत्यर्थ । अन्यथा एकस्य निरवकाशत्वोक्तौ वा तदनुक्तावपि सावकाशिलङ्गबाहुल्येन वा सावकाशैकिलङ्गबाधकसम्भवात् तद्बाहुल्यं तन्निरवकाशत्वं च न वाच्यमिति भाव । यावता यत इत्यर्थ । भाष्ये पूर्वमेवेत्यादिश्रुतिलिङ्गानुगमादित्यनुक्त्वा पृथग्ब्रह्मशब्दानुगमा-च्चेत्युक्तिरभ्युच्चयत्वाभिप्रायेणेति मत्त्वाऽऽह ॥ यदा प्रकारद्वयेनेति ॥ एकत्वसावकाशत्वरूपप्रकारद्वये-नेत्यर्थ । एतेनान्यत्रोक्तदिशा पूर्वपक्षे श्रुत्यादिबाहुल्येऽपि तेषां सावकाशत्वात् निरवकाशानेकश्रुत्यादिभि बाध इत्यपि सूचितं ध्येयम् । तेषां सावकाशत्वं चाग्रे व्यक्तम् ॥ २८ ॥

अभिनवचन्द्रिका

अयं योग शक्योऽवक्तुम् । "अत एव प्राण’ (ब्र.सू.१-१-२३) इत्यत्रैव प्राणशब्दसमन्वयस्योक्त-त्वात् । न च  तत्र "तद्वै त्वं प्राणोऽभव’ (तै.आ.४) इति तैत्तिरीयगतप्राणशब्दसमन्वय उक्त । इह तु "ता वा एता’ (ऐ.आ.२-१-४) इति ऐतरयगतप्राणशब्दसमन्वयाभिधानात् नाऽस्य योगस्य वैयर्थ्यमिति वाच्यम् । विषयवाक्यभेदेनाऽधिकरणभेदे शास्त्राऽऽनन्त्यप्रसङ्गात् । न च  "अत एव प्राण’ इत्यस्य "तद्वै त्वं प्राण’ इतिवत् "ता वा एता’ इत्यस्यापि विषयवाक्यत्वेन तत्रैव समन्वयसिद्धावपि अस्य प्राणस्य इन्द्रियगणे गणितत्वात् "वाय्वादि’रिति वा इन्द्रेणात्मतयोपदेशात् इन्द्र एवायं प्राण इति वा "ता अहिंसते’(ऐ.अ.२)ति मुख्यप्राणिलङ्गात् मुख्यप्राण एवाऽयं प्राण इति वा’ऽऽभ्याधिका-शङ्कासद्भावात् तन्निरासायेदमधिकरणमिति वाच्यम्  तथा सति "अत एव प्राण’ इत्यनन्तरमेव "न वक्तुरात्मोपदेशादिति चेदध्यात्मसम्बन्धभूमा ह्यस्मिन्, शास्त्रदृष्ट्या तूपदेशो वामदेववत्, जीवमुख्यप्राण-लिङ्गान्नेति चेन्नोपासात्रैविध्यादाश्रितत्वादिह तद्योगा’दिति सूत्रत्रयं प्रणेतव्यं स्यात् । लाघवं चैवं सति सूत्रकारस्य भवति "प्राणस्तथाऽनुगमा’दिति सूत्रस्याऽप्रणेतव्यत्वात् । इन्द्रियगणे गणितत्वशङ्काया "अत एव प्राण’ इति सूत्रोक्तिलङ्गेनैव परिहारसम्भवादिति चेत्, सत्यम् "अत एव प्राण’ इत्यस्य आध्यात्मिकशब्दविचाररूपत्वादस्य तत्रैव समन्वयो भवति । अभ्यधिकाशङ्कानिरासकानि "न वक्तु’रित्यादिसूत्राणि लाघवात्तत्रैव कर्तव्यानीति, तथापि श्रोतॄणां पुनस्मरणेन फलाधिक्यं भवतीत्याशयेनाऽभ्यधिकाशङ्कानिरासाय पृथगधिकरणारम्भ कृत । तदुक्तम्

""संक्षेपविस्तराभ्यां च प्रवदन्ति मनीषिण ।

बहुवारं स्मृतेस्तस्य फलबाहुल्यकारणात्’’

इति द्रष्टव्यम् । भाष्ये "प्राणो विष्णुरित्युक्त’मित्युक्ते पूर्वाधिकरणसङ्गतिरेव विवक्षिता, न श्रुतिसङ्गतिरिति भ्रमं निवारयितुमाह  तद्वैत्वमिति ॥ एतेन "प्राणो विष्णुरित्युक्तमिती’ति भाष्यस्य सङ्गतिप्रतिपादनाक्षमत्वात् "तद्वै त्वं प्राण’ इत्युक्तप्राण इति प्राणविशेषणाऽभिधानमयुक्तमिति परास्तम् । ऐतरेयके चेति ॥ तत्रेत्यस्य व्याख्यानम् ऐतरेयके चेति । भाष्ये "मनो वाक्प्राण’ इतीत्यत-परमध्याहार्यवाक्यमाह आरभ्य बहुषु स्थलेषु श्रूयत इति ॥ ततश्र्चैवं भाष्यवाक्यपाठ "प्राणो विष्णुरित्युक्तं "तत्र तावा एता शीर्षंछ्रिय श्रिता चक्षु श्रोत्रं मनो वाक्प्राण इत्यारभ्य बहुषु स्थलेषु प्राण श्रूयत’ इति । अनेन पूर्वाधिकरणैतदधिकरणप्रतिपाद्ययो प्राणशब्दवाच्यत्वं सङ्गतिरित्युक्तं भवति । पूर्वोक्तन्याय इति ॥ "अत एव प्राण’ इति पूर्वसूत्रम् अन्यत्र प्रसिद्धिश्र्च । उपलक्षणमेतत् अभ्याधिकाशङ्काप्रापकम् अन्यत्रप्रसिद्धिश्र्च प्राबल्याद्यविवेकदशायां सन्देहबीजमित्यर्थ । तत्र न प्राण इति ॥ अत्र प्राणस्य विष्णुत्वं न विद्यत इति भाष्यस्थाऽत्रेत्यस्य व्याख्यानं तत्रेति । "वायुरेवायं प्राण, इन्द्र एवायं प्राण, जीव एवायं प्राण, मुख्यप्राण एवायं प्राण इति पूर्वपक्षान्संकलय्याह वादिभेदेति ॥ सर्वपक्षेष्वनुगतहेतुमाह इन्द्रियगणे गणितत्वादिति ॥ अस्य लिङ्गस्य विष्णावनवकाशमाह न चैतदिति ॥ सर्वोत्तमस्य इन्द्रियगणेषु पाठो न युक्त इति भाव । यथा विष्णावनवकाशं लिङ्गं तथा वाय्वादिष्वनवकाशमित्यत आह उपपद्यते चेति ॥ तथा च विष्णुवत् वाय्वादीनां सर्वोत्तमत्वाभावात् लिङ्गमुपपद्यत इति भाव । वाय्वादि प्राण इति एक एव पूर्वपक्ष इति न मन्तव्यमित्याह तेषामन्यतमस्यैवेति ॥ "इन्द्र एवायं प्राण, जीव एवायं प्राण मुख्यप्राण एवायं प्राण’ इति पूर्वपक्षेषु विशेषहेतु सूत्रकृतैवोक्त इति अत्र नोक्त । अथ देवरथ इति ॥ तस्य देवरथस्य देहस्य । वाक् तदभिमानिनी उमा । ऋद्धि उद्धरणरज्जु । श्रोत्रे तदभिमानिचन्द्रचन्द्रभार्ये । पक्षसी पार्श्र्वतो नियुक्ताश्र्वौ । चक्षुषी तदभिमानिसूर्यसूर्यभार्ये युक्ते अग्रतो नियुक्ताऽश्र्वौ । मन=मनोभिमानी रुद्र । सङ्ग्रहीता रथयन्तेत्यर्थ । ननु श्रुतौ "तदयं प्राण’ इत्यनुपपन्नं स इति पुल्लिङ्गेन भाव्यत्वादित्यत तदयमित्येकं पदमिति भावेनाह स चासावयं चेति ॥ तच्छब्दस्य भिन्नपदत्वमङ्गीकृत्य तदुपपत्तये तदर्थमाह तदितीति ॥ तच्छब्दस्य प्राणपरत्वेऽपि भिन्नपदत्वं घटयितुमाह लिङ्गव्यत्ययो वेति ॥

वाक्यार्थमुक्तावली

ॐ प्राणस्तथाऽनुगमात् ॐ । नन्वत एव प्राण इत्येतद्गतार्थम् । ता वा एता इत्यादिवाक्यान्तर-विषयत्वान्नेति चेन्न । तथात्वे तदनन्तरमेवारम्भणीयत्वेन गायत्र्यधिकरणानन्तर्ये नियामकाभावादिति चेन्न । निरन्तराधिकरणसिद्धान्तन्यायोपजीव्याऽभ्यधिकाशङ्क्याऽत्र पूर्वपक्षोत्थानेन तदानन्तर्योपपत्ते । पूर्वाधिकरणे ह्यनन्यथासिद्धश्रुतिलिङ्गबाहुल्येन गायत्री परमात्मेति निर्णीतम् । अस्ति चात्रापि परकीयानन्यथासिद्धश्रुतिलिङ्गबाहुल्यमिति पूर्वपक्षस्य सुधायां दर्शितत्वात् ॥ श्रुत्यादिसङ्गतिमिति ॥ अव्यवहितसङ्गतिस्तूक्तैवेति ॥ प्राचीनप्राण इति ॥ तद्यथा शालावंशे सर्वेऽन्ये वंशा समाहिता स्युरेवमस्मिन्प्राणे चक्षु श्रोत्रं मनो वागिन्द्रियाणीतीन्द्रियनियामकतयोक्तप्राणस्यान्यत्वे यद्देवान्प्राणयो न वेत्युक्तोऽप्यन्य स्यादित्यर्थ । नन्विदमधिकरणमभ्यधिकाशङ्कया प्रवृत्तम् । सा हि भवत् "तद्वै त्वम्’ इत्युक्तप्राणस्य विष्णुत्वं श्रीलक्ष्मीपतित्वादिलिङ्गात् । "ता वा एता’ इत्यैतरेयप्राणस्तु न विष्णु । तादृशिलङ्गाभावात् । इन्द्रजीवमुख्यप्राणप्रापकश्रुतिलिङ्गबाहुल्याच्चेत्येवंरूपा । तथा चाभ्यधिकाशङ्कयास्य प्राणस्यान्यत्वे शङ्किते प्राचीनप्राणोऽप्यन्य एवेति तदाक्षेपो न युज्यत इति चेन्न । इन्द्रादिलिङ्गात्प्राणशब्दस्येन्द्राद्यर्थत्वे निश्र्चिते "तद्वै त्वं प्राण’ इत्यत्रापि तदर्थत्वशङ्कामात्रस्य क्रियमाणत्वात् । अत एव टीकायामन्य एव स्यादित्य-नुक्त्वा स्यादित्युक्तम् । यद्वाऽभ्यधिकाशङ्कयाऽत्र विष्णुप्रापकमप्युपमा प्रमाणशब्दस्य विष्ण्वन्यपरत्वे तन्न्यायेन पश्र्चात् । "तद्वै त्वं’ इत्यत्रापि विष्णुप्रापकश्रीपतित्वादिकं श्रीशब्दस्य वायुभार्यापरत्वेन सावकाशत्वमङ्गीकृत्य तत्रोक्तविष्णुत्वाक्षेप उपपद्यत एव । अत एवात्र टीकायां लोकतोऽन्यत्र प्रसिद्ध-प्राणनाम्न इत्युक्तमन्यथा तत्र प्राणस्य विष्णुत्वसिद्धौ उभयत्र प्रसिद्धत्वप्रसङ्गेनान्यत्र प्रसिद्धेत्युक्त्य-योगादिति ॥ किं विष्णुरिति ॥ अत्र प्राण किं मुख्यवाय्वादिरुत विष्णुरिति चिन्ता । तदर्थं वाय्विन्द्रजीवप्रापकश्रुतिलिङ्गवाक्यानि विष्णुप्रापकश्रुतिलिङ्गबाधकान्युत तद्बाध्यानीति । तदर्थं तानि किं निरवकाशान्युत वाय्वाद्यन्तर्यामिनिष्ठत्वेन सावकाशानीति । तदर्थं प्राणादिश्रुत्यादीनां सावकाशत्वेन तत्तुल्यविष्णुप्रापकब्रह्मशब्दादीनां निरवकाशत्वे च प्रमाणं नास्त्युतास्तीति ॥ इन्द्रियगणेति ॥ इन्द्रियगणे तदभिमानिनां गणनं युक्तम् । विष्णोस्त्विन्द्रियस्वामित्वेन भृत्यगणे गणनं न युज्यत इति भाव । उपलक्षणमेतत् । प्राणसम्पदादिवृत्रहन्तुत्वादिशतायुष्ट्वादिप्राणेन्द्रियजीविलङ्गानां प्राणेन्द्रपुरुषश्रुतीनां प्राणो वा इति वाक्यस्यापि पूर्वपक्षप्रापकत्वं बोध्यम् । अत एवानुव्याख्याने "बाहुल्ये श्रुतिलिङ्गयो । अन्यस्य मुख्यवाच्यत्वम्’ इत्युक्तम् । भाष्यटीकयोर्मुखतोऽनुक्तिस्तु जीवमुख्यप्राणिलङ्गादिति सूत्रकृतैवाशङ्क्यमानत्वादिति ज्ञेयम् ।

ननु चेतोऽर्पणनिगदादित्युक्तन्यायेनान्तराधिकरणोक्तदिशा वृष्ट्यादिवरुणिलङ्गानामिवेन्द्रियगण-गणितत्वादिलिङ्गस्यापि विष्णाववकाशसम्भवेन कथं पूर्वपक्षोदयो गतार्थत्वादित्याशङ्क्य परिहरति ॥ न चैतल्लिङ्गमिति ॥ गानत्राणकर्तृत्वानेतृत्वादीनां विष्णावुपासने बाधकाभावात्सावकाशत्वं सम्भवति । सर्वोत्कृष्टस्य विष्णोरपकृष्टैश्र्चक्षुरादिभि सह परिगणनस्य तथोपासनार्थत्वेनोक्तौ तस्याप्यपकृष्ट-तयोपासनप्राप्त्या विष्णाववकाशाभावात् । अवकाशार्थं विचारितमप्यवकाशं न लभत इत्यर्थ । अन्यथा न चैतल्लिङ्गं विष्णौ सावकाशमित्येव ब्रूयात् । सूत्रे तथाशब्द उपमायां समुच्चये चेत्यभिप्रेत्य भाष्यार्थमाह । तद्वै त्वमित्यादिना । भाष्ये नापीत्यत्रत्यायमंश उत्सूत्रित इत्यत आह तथाशब्द इति ॥ समुच्चायकतथाशब्दमहिम्नाऽत्रापीति लभ्यत इत्यर्थ ।

ननु रथशब्दस्य पुल्लिङ्गत्वात् कथं तदिति नपुंसकिलङ्गनिर्देश इत्यत आह स चासाविति ॥ एकप्रकारेण प्रबलादिति । यद्यपि पूर्वपक्षे श्रुतिलिङ्गबाहुल्यमस्ति । तथापि जीवमुख्यप्राणिलङ्गादिति सूत्रकृतैवाशङ्क्यमानत्वात्तदुत्थापनायैवमुक्तं ज्ञेयम् ॥ अभ्युपेत्यैवमिति ॥ निरवकाशत्वमभ्युपेत्येत्यर्थ । यावतेति यस्मादित्यर्थ । अनुगमपदं प्रकारान्तरेणेति । यद्यपि श्रुतिलिङ्गयोर्मध्ये श्रुते प्रबलत्वात् श्रुत्यभ्यासपरतया प्रथमं व्याख्येयम् । तथापि लिङ्गे उपपादनबाहुल्यात्प्रथमतो व्याख्यानमिति । सूत्रार्थस्तु तत्त्वित्यनुवृत्ति सर्वत्र सिद्धा । तथा "तद्वै त्वं प्राण’ इत्यत्रेवात्रापि प्राणो विष्णुरेव । अनुगमादनुवृत्ते लिङ्गाभ्यासाद् ब्रह्मशब्दाभ्यासाच्चेति ।

तत्त्वसुबोधिनी

॥ ॐ प्राणस्तथाऽनुगमात् ॐ ॥ श्रुत्यादिसङ्गतिमिति ॥ निरन्तराधिकरणसिद्धान्तन्यायमुपजीव्य अभ्यधिकाशङ्कया पूर्वपक्षोत्थानादनन्तरसङ्गतिरिति भाव । नन्वन्तराधिकरणाद्युक्तन्यायेन इन्द्रियगणे गणितत्वादिरूपिलङ्गानां विष्णौ सावकाशत्वात् प्राणो विष्णुरेवेत्यत आह ॥ न चैतदिति ॥ स एषोऽसुरिति ॥ स एष भगवान् दैत्यनिरसनादसुनामा स एष प्रकृष्टानन्दरूपत्वात् प्राण सतां ज्ञानैश्र्वर्यादिभूतिदातृत्वात् भूति । असतां अज्ञानाद्यभूतिप्रदातृत्वात् अभूति । तं भगवन्तम् । बभूवु ज्ञानैश्र्वर्यादिमन्तो बभूवु । तस्माद्ध तस्मादेव । एतर्हि इदानीमपि । सुप्त सुप्तेषु स्थित मुख्यवायु भूर्भूरित्येव भूति भूतिरित्येव प्रश्र्वसिति श्र्वासै स्तौतीत्यर्थ । एकैव व्याहृति । एकप्रकारत्वं नाम सर्वेषां नाम्नां निर्दोषगुणपूर्तिवाचित्वात् एकप्रकारत्वं सर्वशब्दानाम् । कुत्रैकव्याहृतित्वं तदाह । प्राण एव प्राणनाम्नि नारायण एव ऋच ऋमात्रा प्राण एव विशेषत प्राणवाचका इति विद्यात् जानीयादित्यर्थ । अथ देवरथ ॥ देवस्य विष्णो वायोश्र्चाध्यात्ममधिदैवं च रथ उच्यते इति विशेष । तस्मादध्यात्मदेहाख्यस्य रथस्य वाक् वागाख्या उमा उद्धि उद्धारणरज्जुरूपा अधिदैव-विष्णुरथस्य उमा नागाकारा उद्धि । श्रोत्रे दक्षवामश्रोत्रगतचन्द्रतद्भार्ये पक्षसी पार्श्र्वागयुक्ताश्र्वौ अन्यत्र चन्द्रस्तद्भार्या चाश्र्वरूपौ पार्श्र्वयो युक्तौ चक्षुषी सूर्य तद्भार्या च चक्षुर्गतौ प्रेरकौ च युक्तौ अग्रतो वियुक्ताश्र्वौ । अन्यत्र सूर्य तद्भार्या च अग्रतो नियुक्ताश्र्वौ । मन मनोभिमानी रुद्र मनोगत सङ्गृहीता सारथि । उभयत्राप्येवम् । तद्देहाख्यं स्यन्दनम् अधिदैवस्यन्दनम् । अयं प्राण प्राणशब्दवाच्यो विष्णु वायुश्र्चाधितिष्ठतीत्यर्थ । स चासावयं चेति । अनेन तदिति भिन्नं पदं सत् रथपरामर्शकमित्युक्तं भवति । तथात्वे तमिति भवेदिति भाव । यद्वा तदिति भिन्नं पदं तर्हि पुल्लिङ्गस्य रथशब्दस्य नपुंसकेन परामर्श कथमित्यत आह ॥ तदिति रथतयोक्तं शरीरं वेति ॥ तथापि न परामर्श-स्वारस्यमित्यत आह ॥ लिङ्गव्यत्ययो वेति ॥ व्यत्ययो बहुलमिति सूत्रादिति भाव । अनन्यथासिद्धतां च स्मृत्येति । स्मृतौ विष्णुमेवेत्यवधारणबलेन लिङ्गानां विष्णुमात्रनिष्ठत्वप्रतिपादनादिति भाव । चशब्देन पूर्वपक्ष्युक्तिलङ्गानां सावकाशत्वस्य समुच्चय । ननु पूर्वपक्षीयिलङ्गस्यापि निरवकाशत्वात् कथं निरवकाशेनैव निरवकाशबाध इत्यत आह ॥ एकप्रकारेणेति ॥ ननु पूर्वपक्षप्रापकश्रुत्यादीनामपि

बाहुल्यात् तेषामपि प्रकारद्वयेन प्राबल्यमित्यत आह ॥ अभ्युपेत्येति ॥ इदं निरवकाशत्वम् । यद्वा उभयो निरवकाशत्वं विरुद्धमित्यत आह ॥ अभ्युपेत्येति ॥ प्रकारद्वयेनापीति ॥ बहुत्वनिरवकाशत्वरूप-प्रकारद्वयेनापीत्यर्थ ।

वाक्यार्थमञ्जरी

तावा एता इति ॥ ता एता श्रिय शीर्षं शिर श्रिता आश्रिता । कास्ता श्रिय इत्यत उक्तं चक्षुरित्यादि ॥ प्राचीनप्राण इति ॥ ननु श्रीपतित्वादिना तत्रत्यप्राणस्य विष्णुत्वात्कथमेतदिति चेत् । अत्रत्यिलङ्गानां वक्ष्यमाणरीत्या बलवत्वेन तद्विरुद्धश्रीपतित्वादीनामन्यथा योज्यत्वान्न तैर्विष्णुत्वनिश्र्चय इति भाव । पूर्वोक्तन्याय महायोगविद्वद्रूढिसत्वात्प्राणशब्दो विष्णुवाचक इति न्याय । वाय्वादिरेवेत्यादिशब्देनेन्द्रजीवयोर्ग्रहणम् ॥ न चैतदिति ॥ सर्वोत्तमस्य चक्षुरादिभि सह पाठायोगादिति भाव ॥ उपपद्यते चेति ॥ मुख्यप्राणस्येन्द्रियस्वामित्वादिन्द्रस्य हस्तेन्द्रियाधिष्ठितत्वाज्जीवस्येन्द्रिय-फलभोक्तृत्वादिति भाव ॥

ॐ प्राणस्तथाऽनुगमात् ॐ ॥ यथा तद्वै त्वं प्राण इत्ययं प्राणो विष्णु तथैतरेये श्रुत प्राणोऽपि विष्णुरेव । ब्रह्मशब्दादेवोपास्यत्वादितच्छ्रुतिलिङ्गानामस्मिन्प्रकरणेऽनुगमादनुवृत्तेरभ्यासादित्यर्थ । नीतवन्त उपदिदिशुरिति यावत् । स एष भगवान् दैत्यनिरसनादसुनामा स एष प्रकृष्टानन्दत्वात्प्राण सतां ज्ञानैश्वर्यादिभूतिदातृत्वाद्भूति असतामज्ञानाद्यनैश्वर्यदातृत्वादभूति तं भगवन्तं देवा भूतित्वेनोपासनां चक्रिर इत्यर्थ ॥ ता वा इति ॥ ऋगादय सर्वस्मिन् प्राणे परमात्मविषये एकैव व्याहृतिर्व्याहरणम् । एकमेव नाम निर्दोषगुणपूर्तिवाचित्वादेकप्रकारत्वम् । ऋच विशेषेण प्राणपरा इति विजानीयादित्यैतरेय-भाष्योक्तदिशार्थ । टीकाकारास्तु । प्राण एवेत्यत्र प्राणशब्दस्य प्रथमान्तत्वमङ्गीकृत्य यास्ता एता सर्वा ऋचस्तासामेकैव व्याहृतिरेकमेव व्याहरणं तच्च प्रतिपाद्यं प्राण एव । किं च ये सर्वे वेदास्तेषामपीश्र्वर एव प्रतिपाद्य किमु ऋचाम् । अपि च ये समुद्रादिघोषास्तेषामपीश्वर एव प्रतिपाद्य किमु वेदानाम् । ऋचस्तु विशेषेण प्राणप्रतिपादका इति जानीयादिति ज्योतिरुपक्रमादित्युत्तरत्र व्याकरिष्यन्ति ॥ अथ देवरथ इति ॥ देवाधीनो देहाख्यरथ उच्यते । तस्य देवरथस्य वाक् तदभिमानिनी उमा उद्धि उद्धारणरज्जु । श्रोत्रे तदभिमानिचन्द्रतद्भार्ये पक्षसी पार्श्वनियुक्ताश्वौ । चक्षुषी तदभिमानिसूर्यतद्भार्ये युक्ते अग्रतो नियुक्ताश्वौ । मन मनोभिमानी रुद्र सङ्गृहीता रथयन्ता प्राणस्तादृशं रथमधितिष्ठतीत्यर्थ । रथप्राणशब्दयो पुंल्लिङ्गत्वात्तदिति परामर्शानुपपत्तिरित्यत आह ॥ स चासाविति ॥ आहु ब्रह्मतर्के । तयो बहुत्वस्वभावाभ्यां बलवतोर्मध्ये कोऽयं स्वभाव इत्यत उक्तम् ॥ उपजीव्येति ॥ स स्वभाव उपजीव्यत्वनिरवकाशत्वादिरूप इत्यर्थ । अनन्यथासिद्धतां निरवकाशत्वम् अभ्युपेत्य पूर्वपक्षिलङ्गस्य निरवकाशत्वम् ॥ अन्तर्यामीति ॥ वाय्वादीनामिन्द्रियै सह गणितत्वे तदन्तर्यामिणोऽपि तै सह गणितत्वमिति भाव ॥ प्रकारद्वयेन ॥ एकत्वसावकाशत्वाभ्याम् ॥

विवृति

श्रुत्यादिसङ्गतिमिति ॥ निरन्तराधिकरणसिद्धान्तन्यायमुपजीव्याभ्यधिकाशङ्कया पूर्वपक्षोत्थानादनन्तर-सङ्गतिरिति भाव ॥ नन्वन्तराधिकरणाद्युक्तन्यायेन इन्द्रियगणगणितत्वादिरूपिलङ्गानां विष्णौ सावकाशत्वात्प्राणो विष्णुरेवेत्यत आह ॥ न चैतदिति ॥ तथा च निरवकाशप्राणादिलिङ्गानां विद्यमान-त्वात् प्राणो विष्णुरिति भाव ॥ स एषोसुरिति ॥ स एष भगवान् दैत्यनिरसनादसुनामा स एष प्रकृष्टानन्दरूपत्वात्प्राण ॥ ज्ञानैश्र्वर्यादिभूतिदातृत्वाद्भूति ॥ अज्ञानाद्यभूतिदातृत्वादभूति ॥ तं भगवन्तम् । बभूवु ज्ञानैश्र्वर्यादिमन्तो बभूवु ॥ तस्माद्ध तस्मादेव एतर्हि इदानीमपि सुप्त सुप्तेषु स्थितो मुख्यवायुर्भूर्भूरित्येव प्रश्र्वसिति श्र्वासै स्तौतीत्यर्थ ॥ एकैव व्याहृति ॥ एकप्रकारत्वं सर्वेषां नाम्नां निर्दोषगुणपूर्णत्वरूपैकार्थवाचित्वात् ॥ कुत्रैकव्याहृतित्वं सर्वशब्दानां तदाह, प्राण एव, प्राणनाम्नि नारायण एव ऋच ऋमन्त्रा प्राण एव विशेषत प्राणवाचका इति विद्याज्जानीयादित्यर्थ ॥ अथ देवरथ देवस्य विष्णो वायोश्र्चाध्यात्ममधिदैवं च रथ उच्यत इति शेष ॥ तस्याध्यात्मदेहाख्य-रथस्य वाक् वागाख्या उमा उद्धि उद्धारणरज्जुरूपा ॥ अधिदैवं विष्णुरथस्य उमा नागाकारा उद्धि श्रोत्रे दक्षवामश्रोत्रगतचन्द्रतद्भार्ये, पक्षसी पार्श्र्वनियुक्ताश्र्वौ अन्यत्र चन्द्र तद्भार्या चाश्र्वरूपौ पार्श्र्वयोर्युक्तौ चक्षुषी सूर्यस्तद्भार्या च, चक्षुर्गतौ प्रेरकौ च युक्तौ अग्रतो नियुक्ताश्र्वौ, अन्यत्र सूर्य सूर्यभार्या च अग्रतो नियुक्ताश्र्वौ, मन मनोभिमानीरुद्र मनोगत सङ्गृहीता सारथि ॥ उभयत्राप्येवं तद्देख्यं स्यन्दनम् अधिदैवस्यन्दनम् । अयं प्राण प्राणशब्दवाच्यो विष्णु वायुश्र्चाधितिष्टतीत्यर्थ ॥ स चासावयञ्चेति ॥ अनेन तदिति भिन्नं पदं सत् रथपरामर्शकमित्युक्तं भवति तथात्वे तमिति भवेदिति भाव ॥ यद्वा तदिति भिन्नं पदम् ॥ तर्हि नपुंसकिलङ्गे कथं पुल्लिङ्गप्रकृतरथपरामर्श इत्यत आह ॥ तदिति रथतयोक्तं शरीरं चेति ॥ तथापि न परामर्शस्वारस्यमित्यत आह ॥ लिङ्गव्यत्ययो वेति ॥ व्यत्ययो बहुलमिति सूत्रादिति भाव ॥ अनन्यथासिद्धतां च स्मृत्येति ॥ स्मृतौ विष्णुमेवेत्यवधारणबलेन लिङ्गानां विष्णुमात्रनिष्ठत्वप्रतिपादनादिति भाव । चशब्देन पूर्वपक्षयुक्तिलङ्गानां सावकाशत्वस्य समुच्चय । ननु पूर्वपक्षीयिलङ्गस्यापि निरवकाशत्वात्कथं निरवकाशेनैव निरवकाशबाध इत्यत आह ॥ एकप्रकारेणेति ॥ ननु पूर्वपक्षप्रापकश्रुत्यादीनामपि बाहुल्यात्तेषामपि प्रकारद्वयेन प्राबल्यमित्यत आह ॥ अभ्युपेत्येति ॥ इदं निरवकाशत्वम् ॥ यद्वा उभयोर्निरवकाशत्वं विरुद्धमित्यत आह ॥ अभ्युपेत्येति ॥ प्रकारद्वयेपीति ॥ बहुत्वनिरवकाशत्वरूपप्रकारद्वयेनापीत्यर्थ ॥

Load More