ॐ चरणादिति चेन्न तदुपलक्षणार्थेति कार्ष्णाजिनिः ॐ

१०. चरणाधिकरणम्

सूत्रभाष्यम्

।। ॐ चरणादिति चेन्न तदुपलक्षणार्थेति कार्ष्णाजिनिः ॐ ।। १० ।।

तद्य इह रमणीयचरणा रमणीयां योनिमापद्यन्ते कपूयचरणाः कपूयाम्’ (छां.उ.५-१०-७) इति श्रुतेश्चरणफलमेव गमनागमने न यज्ञादिकृतः ।

आचार इति सम्प्रोक्तः कर्माङ्गत्वेन शुद्धिदः ।

 अशुद्धिदस्त्वनाचारश्चरणं तूभयं मतम्’ ।। इति ।

स्मृतेरिति चेन्न । यज्ञाद्युपलक्षणार्था चरणादिश्रुतिरिति कार्ष्णाजिनिर्मन्यते ।

तत्त्वप्रदीपिका

न यज्ञादिकृतो यज्ञादिफलं गमनागमनम् । चरणशब्दस्य यज्ञाद्यतिरिक्तविषयत्वात् । तत्र प्रमाणमाह– आचार इत्यादि पूर्ववादी ।। उत्तरभाष्यस्यायमर्थः । यज्ञादिपुण्योपलक्षणार्था रमणीयचरणश्रुतिः । पापोपलक्षणार्था कपूयचरणश्रुतिः ।

तत्त्वप्रकाशिका

अत्रेश्वरप्राप्तिसाधनवैराग्यार्थं गतागतस्य कर्मफलत्वसाधनादस्ति शास्त्रादिसङ्गतिः । यदि गतागतक्लेशस्य न कर्मसाध्यत्वं न तर्हि काम्ये कर्मण्ययं विरज्येतातस्तत्समर्थनीयम् । प्रकृतं गतागतं विषयः । यज्ञादिकर्मफलं न वेति सन्देहः । तन्निमित्तानिमित्तयोरुभयोरपि सहभावदर्शनं सन्देहबिजम् । पूर्वपक्षस्य सूत्र एवोक्तत्वात्तदुपन्यस्य पूर्वपक्षांशं तावद् व्याचष्टे ।। चरणादिति ।। न यज्ञादिकर्मफलं गतागतम् । किं नाम चरणफलमेव । ‘तद्य इह रमणीयचरणा’ इति श्रुतेः । न च वाच्यं यज्ञादिकर्मण एव चरणत्वाच्छून्यमभिधानं चरणफलमेव गमनागमनं न यज्ञादिकृत इतीति । ‘स यथाकारी यथाचारी तथा भवति’ इति श्रुतेः ‘आचार इति कर्मणोऽन्यस्य चरणस्य प्रतीतेः । अथापि स्यात् । ‘अथ य इमे ग्रामा इष्टापूर्ते दत्तमित्युपासते ते धूममभिसम्भवन्ति’ इत्युपक्रम्य तस्मिन्यावत्सम्पातमुषित्वाथैतमेवाध्वानं पुनरावर्तन्त’ इति श्रुतेर्गतागतस्य यज्ञादिफलत्व-प्रतीतेरयुक्तं चरणफलत्वकल्पनमिति । मैवम् । तत्रापि गतागतस्य चरणफलत्वेनैवाङ्गीकारात् । न च तत्र चरणशब्दो नास्ति । ‘इष्टापूर्ते दत्तमित्युपासते’ इत्युपशब्दस्यैव तद्वाचकत्वात् । स हि समीपवर्ति वक्ति । चरणमेव यज्ञादिसमीपवर्ति । तत्र येयं गतागतस्य कर्मफलत्वप्रतीतिरुपजायते शब्दात् सा च करणचरणे सहैवोक्ता स्वर्गगतागतयोश्च सहोक्तिनिमित्ता भ्रान्तिरेव । न च मन्तव्यं कुत एतत्कल्प्यत इति चरणश्रुतेर्विषयान्तराभावेनाप्रामाण्यभयात्सावकाशश्रुतेरर्थान्तरकल्पनस्य न्यायप्राप्तत्वात् । अतो गतागतस्यान्यफलत्वात्कर्मणा पुनरावृत्तिशून्यस्वर्गासिद्धेर्न तत्र वैराग्यमापाद्यमिति भावः ।

सिद्धान्तांशं व्याचष्टे ।। नेति ।। न गतागतस्य कर्मफलत्वाभावः । ‘नान्यः पन्थाः’ इति श्रुत्या गतागतशून्यफलस्य कर्मसाध्यताया निषिद्धत्वात् । ‘इष्टापूर्तं मन्यमाना’ इति श्रुत्या ‘त्रैविद्या माम्’ इत्यादिस्मृत्या च गतागतस्य कर्मफलत्वोक्तेश्च । न च ‘तद्य इह रमणीयचरणाः’ इति श्रुतिविरोधः । तस्या उदाहृतश्रुत्याद्यनुरोधेनाजहल्लक्षणया यज्ञार्थत्वोपपत्तेरिति कार्ष्णाजिनिराचार्यो मन्यत इति भावः । एतेन यदेतत् श्रुत्यवष्ठम्भेनादिवाक्यस्यार्थान्तरपरिकल्पनं तदपि परास्तं भवति । अथ ये यज्ञेन दानेन तपसा लोकान् जयन्ति ते धूममभिसम्भवन्ति’ इत्यादिसमाख्याविरुद्धं च ।

गुर्वर्थदीपिका

तन्निमित्तानिमित्तयोरित्यत्र तद्यज्ञाख्यं कर्म निमित्तं यस्य तत् तन्निमित्तं पुण्यं तदनिमित्तं लिङ्गदेहादिकमित्यर्थः । न यज्ञादिकृत इत्यस्य यज्ञादिकृतः पुरुषस्येत्यर्थः । शब्दादित्यस्य साक्षात्कर्मप्रतिपादकेष्टापूर्तादिशब्दश्रवणादित्यर्थः । कर्मणा पुनरावृत्तिशून्यस्वर्गसिद्धेरित्यत्र यद्यपि स्वर्गात्पुनरावृत्तिरस्ति तथाऽपि तस्य उक्तविधयाऽऽचारफलत्वेन कर्मफलत्वाभावात्पुनरावृत्तिं विहाय केवलस्वर्गस्यैव कर्मणा सिद्धेरिति भावः । कर्मणः पुनरावृत्त्यहेतुत्वेन ज्ञानसाम्यमिति शङ्कितु-राशयः । वस्तुतस्तु ज्ञानजन्यफले मोक्षे केनापि निमित्तेन पुनरावृत्तिरेव नास्ति । कर्मफले स्वर्गे तु येन केनचित्प्रकारेणास्त्येव पुनरावृत्तिरिति न ज्ञानसाम्यम् । अतो मन्दाशङ्केयमिति ज्ञेयम् । इह लोके तं परमात्मानं एवं सहस्रशीर्षत्वाद्याकारेण विद्वानमृतो भवति पुनर्मृतिरहितो भवति । ‘जातस्य हि ध्रुवो मृत्युः’ इति वचनेन पुनर्जन्मनि पुनर्मरणस्यापि ध्रौव्यात् । पुनर्भवान्नावर्तत इति ‘तमेवं विद्वानमृत इह भवति’ इति श्रुतेरर्थभावात् ज्ञानं पुनरावृत्तिशून्यमोक्षफलकमिति ताव-त्सिद्धम् । अयनायेदृशमोक्षाय अन्यः कर्मादिरूपः पन्थाः नेति पुनरावृत्तिशून्यफलजनकत्वं ‘नान्यः पन्थाः’ इति श्रुत्यंशेन कर्मणो निषिद्ध्यत इति भावेनाऽऽह नान्यः पन्था इति ।। गतस्यैव पुनरागतमागमनं गतागतम् ।

त्रैविद्या मामित्यादीत्यत्राऽऽदिपदेन ‘एवं त्रैविद्यमनुप्रपन्ना गतागतं कामकामा लभन्त’ इत्यन्तं वाक्यं गृह्यते । त्रैविद्यं त्रिविद्यासम्बन्धियज्ञादिकर्म, त्रिविद्यासम्बन्धिज्ञानव्यावर्तनाय यज्ञै-रिष्ट्वेत्यत्रोक्तयज्ञमेव परामर्ष्टुमेवमित्युक्तम् । निवृत्तिकर्मरूपयज्ञादिव्यावर्तनाय कामकामा इत्युक्तम् । त्रैविद्यमनुप्रपन्ना गतागतं लभन्त इति वचनात्फलीभूतगतागतस्य कारणान्तरानुक्तेः अकारणकार्यो-त्पत्त्ययोगाच्चाश्ववान् गच्छतीत्यादाविवाधिकारिविशेषणीभूतयज्ञादिकर्मैव साधनमिति लभ्यते । किञ्च त्रैविद्यपदोक्तयज्ञस्य स्वर्गसाधनतायाः ‘ते पुण्यमासाद्य सुरेन्द्रलोकमश्नन्ति दिव्यान्दिवि देवभोगान्’ इति पूर्वश्लोक एवोक्तत्वात्पुनरारम्भो गतागतहेतुत्वकथनायैवेति कथं न लभ्यते । निरवकाशैतत्स्मृतिसमाख्यया ‘इष्टापूर्तं मन्यमाना वरिष्ठं नान्यच्छ्रेयो वेदयन्ते प्रमूढाः । नाकस्य पृष्ठे सुकृते तेऽनुभूत्वा इमं लोकं हीनतरं वा विशन्ति’ इति प्रागुक्तश्रुतिरपि स्वर्गादर्वाग्गतेः कर्मफलतामाहेति भावः । सुष्ठुकृते नाकस्य पृष्ठेऽनुभूत्वा पुण्यफलमनुभूत्वेति श्रुतेरर्थः पराभिमतः ।

तद्यदिह रमणीयचरणा’ इत्यादिश्रुतिषूक्तविधया निरवकाशबहुतरश्रुतिस्मृत्यनुरोधायाजह-त्स्वार्थलक्षणया रमणीयचरणकपूयचरणपदाभ्यां सदाचारदुराचारसहितौ यज्ञावेव ब्रूते । तत्रापि सदसद्योगिसदाचारदुराचारफले, गतागतं तु यज्ञादिरूपकर्मण एव फलम् । न तु योनिप्राप्तिरपि । पुण्यरूपयज्ञकर्मणः तामसयोनिप्रापकत्वायोगात् । एवं च कपूययोनिप्राप्तेः दुराचारफलत्वे समान-न्यायत्वात् रमणीययोनिप्राप्तिरपि सदाचारस्यैव फलम् । न तु यज्ञस्य । अत एव स्मृतिः ‘गतागतं कामकामा लभन्ते’ इत्येवाह । सदाचारस्यापि पुण्यरूपत्वात्पुण्ययोनौ प्रवेश एव तत्फलम् । ‘गर्भवासादिदुःखं तु पुनः पापान्तरात्’ इति ज्ञेयम् । किञ्च सदसद्योनिप्रापकसदाचारदुराचार-योरागमनमात्रफलकत्वे सम्भवेऽपि स्वर्गं प्रति गमनस्य यज्ञैकफलता परेणापि वक्तव्या । तत्र चरणश्रुतेरभावात् । एवं चार्धचरतीयायोगादुक्तसयुक्तिकस्मृत्यादिबलात् ‘कृतः पुनः शश्वदभद्रमीश्वरे न चार्पितं कर्म’ इति भागवतोक्त्या काम्यकर्मरूपयज्ञस्यातिदुर्बलाश्ववद्गमनहेतुतायाः कदाचित्पतन-हेतुताया अपि न्यायप्राप्तत्वात्पतनस्यापि वाय्वादिदेवानुप्रवेशेन सुखहेतुत्वात् व्रीह्यादिभावाभावेन तच्छेदादिजनितदुःखहेतुत्वादागमनमपि यज्ञस्यैव फलमिति भावेनाह– उदाहृतेति ।। अतीताधि-करणे टीकाकृतोक्तमागमनस्य क्लेशित्वं तु परिभ्रमणादिनिमित्तमीषत्क्लेशित्वमेव । न तु मध्ये जनन-मरणादिरूपमहाक्लेशित्वम् । सुखसाधनतया वेदोपदिष्टकर्मिणां व्रीह्यादिभावेन दुःखित्वे वेदविहित-वैराग्यादावपि तच्छङ्का स्यादिति स्वयमेव वक्ष्यमाणत्वात् । तर्हि पुण्यफले गमने ईषत्क्लेशिताऽपि कथमिति चेत्सत्यम् । आत्यन्तिकदुःखनिवृत्तिसहितसुखसाधनं ज्ञानमेव । न तु दुर्बलसाधनरूपं कर्म । स्वर्गेऽपि चिन्तेर्ष्यादिजनितेषद्दुःखस्य सत्त्वात् । अत एव स्वर्गेऽपि वैराग्यं मुमुक्षूणामाह सूत्रकारः । आदिवाक्यस्येत्यस्य ‘तद्य इह’ इति वाक्यादप्यादौ विद्यमानस्य ‘अथ इमे ग्रामाः’ इति वाक्यस्येत्यर्थः ।

भावबोधः

प्रकृतं गतागतं विषय इति ।। तथा च ‘यथेतमनेवं च’ इत्युक्तगतागतस्य कर्मफलत्व-समर्थनादनन्तरसङ्गतिरिति भावः । यज्ञादिफलं न वेति । अत्र गतागतं यज्ञादिकर्मफलं न भवत्युत भवतीति चिन्ता । तदर्थं ‘रमणीयचरणा’ इति श्रुतिगतश्चरणशब्दः कर्मपरो न भवत्युत भवतीति । तदर्थम् ‘अथ य इमे ग्रामाः’ इत्यादिवाक्यजन्या गतागतस्य यज्ञादिकर्मफलत्वप्रतीतिः करण-चरणस्वर्गगतागतरूपसाधनफलसहोक्तिनिमित्ता भ्रान्तिरुत प्रमेति । तदर्थं ‘रमणीयचरणा’ इति श्रुतेर्निर्विषयत्वरूपं बाधकमस्त्युत लक्षणादिना कर्मपरत्वेन सविषयत्वाद्बाधकं नास्तीति । तदर्थमुपलक्षकत्वे चरणशब्दस्य वैयर्थ्यं प्राप्नोत्युत नेति । तथा च रमणीयचरणशब्दस्य यज्ञाद्युपलक्षकत्वे रमणीया इत्येतावता पूर्तौ चरणशब्दस्य वैयर्थ्यप्रसङ्गेनोपलक्षणासम्भवेन चरण-श्रुतेर्निर्विषयत्वरूपबाधकात्; गतागतस्य कर्मफलत्वप्रतीतेः सहोक्तिनिबन्धनभ्रमत्वात् चरणशब्दस्य कर्मपरत्वाभावेन गतागतस्य कर्मफलत्वमिति पूर्वपक्षे यज्ञादिकारिणामपि रमणीयकपूयचरणाभ्यामेव रमणीयत्वादिति ज्ञापकतया चरणशब्दस्य सप्रयोजनत्वेनोपलक्षणत्वसम्भवात् चरणश्रुतेः सविषयत्वेन बाधकाभावात् गतागतस्य कर्मजन्यत्वप्रतीतेः प्रमात्वसम्भवात् चरणशब्दस्य कर्म-परत्वेन गतागतस्य कर्मफलत्वमेवेति सिद्धान्ते च फलफलिभावो ज्ञातव्यः ।। तन्निमित्ता-निमित्तयोरपीति ।। न केवलमेकस्य निमित्तस्यैवेत्यपेरर्थः । एकस्मिन् देशे काले च पटादिना कार्येण तन्निमित्तानिमित्तयोस्तन्त्वादिरासभादिकयोः सहभावदर्शनमित्यर्थः ।

ननु निमित्तानिमित्तयोः सहभावदर्शनस्य सन्देहबीजत्वे साधारणधर्म इत्युक्तं स्यात् । तथा च कर्म गतागतफलकं न वेति सन्देहः स्यान्न तु गतागतं यज्ञादिकर्मफलं न वेति चेत्, ; निमित्तानिमित्तयोः कार्येण सहभावदर्शनोक्त्या कार्यस्यापि निमित्तानिमित्ताभ्यां सहभावदर्शन-लाभात् । तथा च फलस्य निमित्तानिमित्तोभयसहभूतत्वदर्शनाद्गतागतरूपं फलं यद्यपि यज्ञादि-सहभूतं तथापि तत्फलं न वेति सन्देहो भवतीति भावः । ‘सुकृतदुष्कृते एवेति तु बादरिः’ इति सूत्रनिवर्तनीयाशङ्काप्रदर्शनार्थं भाष्ये ‘आचार इति स प्रोक्तः’ इति स्मृतिरुदाहृतेत्यभिप्रेत्य तदुदाहरणनिवर्तनीयाशङ्काप्रतिषेधपूर्वकं तदभिप्रायमाह– न च वाच्यमित्यादिना ।। इष्टापूर्ते दत्तमित्युपासत इत्युपशब्देनेष्टादिभिराचारस्य सहपाठाच्चरणफलं पुनरावृत्तिं करणफलत्वेन भ्रमाद्वदन्तीति न्यायविवरणं संयोजयितुं तदुपयोगिशङ्कामाह– अथापि स्यादित्यादिना ।। ‘उपशब्दस्यैव’ इत्यादिना ‘चरणमेव यज्ञादिसमीपवर्ति’ इत्यन्तेनेष्टापूर्ते दत्तमित्युपासत इत्युपशब्देनेत्येतदुक्ततात्पर्यं भवति । तत्र येयमित्यादिना चरणफलं पुनरावृत्तिं कर्मकरणफलत्वेन भ्रमाद्वदन्तीत्येतदुक्ततात्पर्यम् ।। सा चेति ।। अनेनेष्टादिभिराचारस्य सहपाठात् भ्रमाद्वदन्तीत्ये-तदन्वयप्रदर्शनपूर्वकमुक्ततात्पर्यकं भवति । स्वर्गगतागतयोरित्यनेनेष्टादिभिराचारस्य सहपाठा-दित्युक्तस्य साधनसहोक्तिमात्रस्य गतागतस्य कर्मफलत्वभ्रमजनकत्वायोगात् साधनसहपाठेन यावत्संपातमुषित्वाथैतमेवाध्वानं पुनरावर्तन्त इति स्वर्गेण गतागतस्यापि सहपाठाच्चेति फलसह-पाठोऽप्युपलक्षणीय इत्युक्तं भवति । चरणश्रुतेः सविषयत्वं प्रतिपादयता तदुपलक्षणार्थेत्यनेन सूचितम् । भ्रमत्वकल्पकं निर्विषयत्वरूपं बाधकमाह– चरणश्रुतेरिति ।। ‘नान्यः पन्था’ इति न्यायविवरणांशनिरसनीयमाह– कर्मणा पुनरावृत्तिशून्यस्वर्गसिद्धेरिति ।।

चरणशब्दस्याचारमात्रार्थत्वरूपमुख्यार्थानुपपत्तिप्रदर्शनपरत्वेन ‘नान्यः पन्थाः’ इत्यादिवचना-देवेति न्यायविवरणं योजयति– नान्यः पन्था इतीत्यादिना ।। गतागतशून्यफलस्य कर्मसाध्यताया निषिद्धत्वादिति । कर्मणो गतागतफलकत्वाभावे विहितस्य निष्फलत्वायोगात् परिशेषेण गतागतशून्यफलकत्वाभावे विहितस्य निष्फलत्वायोगात् परिशेषेण गतागतशून्यफलकत्वमेव सिद्ध्यतीत्यभिप्रेत्यैवमुक्तमिति । नन्वनया श्रुत्या कर्मणो गतागतशून्यफल कत्वाभावसिद्धावपि गतागतफलकत्वं कुत इत्यतो न्यायविवरणगतादिपदोपात्ते श्रुतिस्मृती आह– इष्टापूर्तमिति ।। तस्या उदाहृतश्रुतिविरोधेनेति । यज्ञाद्युपलक्षणार्थेति भाष्यव्याख्यानपरेणानेनोभयोरपि चरणशब्दे-नैवोक्तेर्योग्यत्वादिति न्यायविवरणमप्युक्ततात्पर्यकं भवति । ‘तदपेक्षत्वात्’ इत्युत्तरसूत्रांशानुसारेणा-जहल्लक्षणयेत्युक्तम्– एतेनेति ।। ‘नान्यः पन्थाः’ इत्यादिश्रुतिस्मृत्यनुसारेण चरणशब्दस्य कर्मोपलक्षकतया ‘रमणीयचरणा’ इति श्रुतेः कर्मणो गतागतफलकत्वप्रतिपादकतया सविषयत्व-प्रतिपादनेन निर्विषयत्वाभावादेतत् श्रुत्यवष्टम्भेन ‘अथ य इमे’ इत्युपक्रमवाक्यस्य ‘तत्रापि गतागतस्य चरणफलकत्वेनाङ्गीकारात्’ इत्यादिना यदर्थान्तरमुक्तं तदपि निरस्तमिति भावः ।। अथ ये यज्ञेनेति ।। यद्यप्यत्र ‘नान्यः पन्थाः’ ‘इष्टापूर्ते’ ‘त्रैविद्या माम्’ इत्यादिश्रुति-स्मृतिविरुद्धं चेत्यपि वक्तुं शक्यम्; तथापि ‘अथ ये यज्ञेन’ इत्यादिश्रुतेः ‘अथ य इमे ग्रामा इष्टापूर्ते दत्तं इत्युपासते’ इति श्रुत्या शब्दतोऽपि समाख्यात्वलक्षणविशेषोऽस्तीति ज्ञापयितुं तद्विरोध एव दर्शितः । अत एव न्यायविवरणगतादिपदोपात्तत्वाविशेषेऽपि अस्या व्यवधानेनात्रो-दाहरणमिति ज्ञातव्यम् ।

भावदीपः

प्राप्तिसाधनेत्युक्तार्थम् । वैराग्यार्थं कर्मादौ वैराग्यार्थमित्यर्थः । गतागतस्य गमनागमनस्येति समाहारद्वन्द्वः ।। कर्मफलत्वेति ।। एतेनागमनादावतिक्लेशयुतत्वेन स्वर्गे कर्मणि च विरक्तेन भाव्यमित्ययुक्तम् । गत्यादेश्चरणफलत्वेन तन्मात्रवैराग्येण गत्यागत्योरभावे पुनरागमनहीनस्वर्गफले तद्धेतुकर्मणि च वैराग्यहेत्वभावादिति शङ्कनादनन्तरसङ्गतिरिति सूचितम् ।। प्रकृतमिति ।। यथैतमायातीत्यनेन प्रकृतमित्यर्थः ।। तन्निमित्तेति ।। तदिति गतागतपरामर्शः । गतागत-निमित्तानिमित्तयोः यथाक्रमं कर्मचरणयोर्द्वयोरपि गतागतरूपकार्येण सहभावस्य अथ य इमे ग्रामा इति श्रुतौ च दर्शनमित्यर्थः । तथा च चरणाफलस्यापि चरणेन सहोक्तिवत् कर्मसहोक्त्युपपत्त्या विशेषादर्शनात्सन्देह इति भावः । यद्वा तन्निमित्तानिमित्तयोः गतागतनिमित्तानिमित्तयोः । ‘अथ य इमे ग्रामाः’ इति श्रुतौ वक्ष्यमाणदिशा इष्टापूर्तादिशब्दोपशब्दाभ्यामुक्त्या तयोरुभयोरपि श्रुतौ सहभावदर्शनमित्यर्थः । तथा च दण्डपटाभ्यां घट इत्युक्ते अनिमित्तपटसहभावेन दण्डस्य घटं प्रति निमित्तत्वसन्देहवत् तस्मिन् यावत्संपातमिति चरमवाक्यश्रुतगतागतं प्रत्यनिमित्तचरणसहभावदर्शने-नेष्टापूर्तादिकर्मणोऽपि विशेषादर्शनदशायां भवति निमित्तानिमित्तत्वसन्देह इति गतागतं कर्मफलं न वेति सन्देहो युक्त इति भावः । सूत्रे चरणशब्दोऽस्यैव चोपपत्तेरूष्मेत्यादावूष्मादिशब्दवच्चरण-श्रुतिपरश्चरणपरश्च गतागतमिति प्रकृतस्यान्वय इति भावेन भाष्यस्थहेतुप्रतिज्ञे व्युत्क्रमेण व्याचष्टे ।। न यज्ञादीति ।। न यज्ञादिकृत इत्युक्तिलब्धोऽर्थोऽयम् ।। इति श्रुतेरिति ।। छान्दोग्ये पञ्चमे श्रवणादित्यर्थः । भाष्ये स्मृत्युक्तेरुपयोगं शङ्कापूर्वं व्यनक्ति ।। न चेति ।। स्मृत्युक्ति-रूपलक्षणमिति भावेनाह ।। स यथेति ।। करणचरणयोरेकत्वे श्रुतौ पुनरुक्तिः स्यादिति भावः । भेददाढर्््यार्थं श्रुतेरप्युक्तिः । अथ य इति स्पष्टकर्मफलत्वश्रुतिविरोधाद्यथाश्रुतसूत्रभाष्याभ्यां पूर्वपक्षानुदयमाशङ्क्य ‘अथ य’ इति श्रुतेरिष्टापूर्ते दत्तमित्युपासत इत्युपशब्देनेष्टादिभिराचारस्य सहभावापाठाच्चरणफलं पुनरावृत्तिं करणफलत्वेन भ्रमाद्वदन्तीत्यन्यत्रोक्तान्यथानयनप्रकारं व्यनक्ति ।। अथापीत्यादिना ।। करणचरणयोर्भेदेऽपीत्यर्थः । ग्रामा इति ग्रामस्थाः । इष्टं यागः । पूर्तं तटाकादि । ‘अन्येभ्योऽपि दृश्यत’ इति दीर्घः । दत्तं दानम् ।। इत्युपक्रम्येति ।। छान्दोग्ये पञ्चमे । तस्मिन् चन्द्रलोके । आकाशाच्चन्द्रमसमिति तस्य पूर्वत्र प्रकृतत्वात् ।। गतागतस्येति ।। धूममभिसम्भवतीति गमनस्य पुनरावर्तत इत्यागमनस्य च प्रतीतेरिति भावः ।। समीपवर्तीति ।। सङ्ख्ययाव्ययासन्नादूराधिकसङ्ख्याः सङ्ख्येय इत्यत्रोपशब्दस्य समीपसमीपिरूपद्व्यर्थत्वस्य मञ्जर्या-दावुक्तेः । भाष्ये यथासूत्रं चरणफलमेव गमनागमनमिति वाच्ये सौत्रपदस्योपलक्षणत्वमुपेत्य इति श्रुतेरित्युक्तिः अन्यत्रोक्तकर्मफलत्वश्रुतेरन्यथानयनस्य निर्बीजत्वशङ्काव्युदासार्थेति भावेन भाष्य-भावार्थमाह ।। न चेत्यादिना ।। विषयान्तराभावेनेति ।। एतेन ‘इष्टापूर्तम् मन्यमाना’ इत्यादि-वाक्यमपि कथञ्चिदन्यथा योज्यमिति वा तदज्ञानेन वा पूर्वपक्ष इति सूचितम् ।। अत इति ।। गतागतस्य चरणफलत्वश्रवणात्कर्मफलत्वाश्रवणाच्चेत्यर्थः ।। पुनरावृत्तिशून्येति ।। चरणवैराग्य-मात्रेण तत्फलरूपगतागतस्याभावे कर्मणा सिद्ध्यन् स्वर्गः पुनरावृत्तिशून्य एव सिद्ध इति भावः । भाष्ये नेति नञः न यज्ञादिकृत इति पूर्वभाष्यलब्धार्थेनान्वयमाह ।। न गतागतस्येति ।। ननु सूत्रभाष्ययोश्चरणश्रुतेरमुख्यार्थत्वोक्तिरयुक्ता । निर्निमित्तं मुख्यार्थत्यागायोगादित्यतः ‘सङ्गम्यन्ते गुरोर्गिर’ इति स्वप्रतिज्ञामनुरुध्य ‘नान्यः पन्थाः’ इत्यादिवचनादेवोभयोरपि चरणशब्देनोक्ते-र्योग्यत्वादित्यन्यत्रोक्तं वचनादेवेति हेतुं न गतागतस्येत्याद्युक्तसाध्येनान्विततया लक्षणाबीजतया च व्यनक्ति ।। नान्यः पन्था इति ।। तावता गतागतस्य कर्मफलत्वाप्राप्तिरित्यन्यत्रोक्तादि-पदोपात्तश्रुत्यादिना तदाह ।। इष्टापूर्तमिति ।। ‘इष्टापूर्तं मन्यमाना वरिष्ठं नान्यच्छ्रेयो वेदयन्ते प्रमूढाः । नाकस्य पृष्ठे सुकृते तेऽनुभूत्वा इमं लोकं हीनतरं वा विशन्ति’ इत्याथर्वणश्रुत्येत्यर्थः । न्यायविवरणे श्रुतेरित्यनुक्त्वा वचनादित्युक्त्या स्मृतिरप्यभिमतेति भावेनाह ।। त्रैविद्येति ।। ‘त्रैविद्या मां सोमपाः पूतपापाः यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्त’ इति गीतास्मृत्येत्यर्थः । एवमन्यत एव गतागतस्य कर्मफलत्वसिद्धौ चरणश्रुतेरुपलक्षणत्वं किमर्थं वाच्यमित्यतो विरोधनिरासाय न तु कर्मफलत्वसिद्ध्यर्थमिति भावेन सूत्रभाष्ययोः श्रुतिविरोधनिरासकतयाऽर्थमाह ।। न चेत्यादिना ।। उभयोरपि चरणशब्देनोक्तेरित्यन्यत्रोक्तोभयशब्दानुरोधेनार्थमाह ।। अजहल्लक्षणयेति ।। पूर्वत्र श्रद्धाश्रुतेरिवेति भावः । एतेनोक्तेरजहल्लक्षणया प्रतिपादनस्य योग्यत्वादुपपत्तेरुपपन्नत्वादित्यर्थ उक्तो भवति ।। यज्ञादीति ।। रमणीयश्रुतेर्यज्ञादिपुण्यार्थत्वस्य कपूयश्रुतेः पापार्थत्वस्य चोपपत्तेरित्यर्थः ।। एतेनेति ।। चरणश्रुतेर्यज्ञादिपरतया सावकाशत्वकथनेनेत्यर्थः ।। आदिवाक्यस्येति ।। ‘अथ य इमे ग्रामाः’ इत्यादिवाक्यस्येत्यर्थः ।। अर्थान्तरेति ।। चरणपरत्वरूपेत्यर्थः ।। इत्यादीति ।। बृहदारण्यकेऽष्टमस्थवाक्ये स्पष्टं गतागतस्य कर्मफलत्वोक्तेस्तद्विरुद्धं चार्थान्तरकल्पनं न केवलं कल्पकशून्यमिति चार्थः । एतेन न्यायविवरणस्थादिपदेनैतदपि वाक्यं ग्राह्यमिति सूचितम् । इष्टापूर्तादिवाक्येऽत्रेव धूममभिसम्भवतीत्यादिरूपसामान्योक्त्यभावादियमेव समाख्यात्वेनोक्ता । यद्वाऽऽदिपदेनेष्टापूर्तादिवाक्यमपि ग्राह्यम् ।

अभिनवचन्द्रिका

तन्निमित्तानिमित्तयोरिति ।। कर्तुस्तावत्कुलालादेः निमित्तेन दण्डादिना अनिमित्तेन रास-भादिना सहभावो दृश्यते । प्रकृते च गमनागमनकर्तुर्जीवस्य कर्मादिना सहभावो दृश्यत इति तद्दर्शनं निमित्तत्वात् कर्ता कर्मसहभूतः उताऽवर्जनीयतयेति सन्देहजननद्वारा, गतागतं कर्मफलं न वेति सन्देहबीजमिति भावः ।। तद्य इह रमणीयेति ।।

ननु ‘तद्य इह’ इति श्रुतिबलात् रमणीयादियोनिप्राप्तेः चरणफलत्वासिद्धावपि न गतागतस्य तत्फलत्वं सिध्यतीति नैतत्प्रत्युदाहरणायुक्तम् । अस्तु वा आगमनस्य चरणफलत्वं तत्फलयो-निप्राप्त्यनुबन्धित्वात् । न तु गमनस्य कर्मफलस्वर्गप्राप्त्यनुबन्धित्वेन योनिप्राप्त्यननुबन्धित्वात् इति चेत्, न । भावानवबोधात् । न ह्यस्माभिः केवलयोर्गमनागमनयोश्चरणफलत्वसाधनाय एतच्छ्रुत्यु-दाहरणं क्रियते येनोक्तदोषः स्यात्, किं नाम स्वर्गलोकगमनमारभ्य योनिप्राप्त्यन्तस्य सर्वस्यापि चरणफलत्वसाधनाय एतच्छ्रुत्युदाहरणं क्रियते, ‘तद्य इह रमणीयचरणा रमणीयां योनिमापद्यन्त’ इति श्रुत्या च योनिप्राप्त्यन्तस्य गमनस्वर्गभोग पुनरागमनादे सर्वस्यापि चरणफलत्वप्रतिपादनं क्रियते । गत्यादेः सर्वस्य योनिप्राप्त्यनुबन्धित्वात् । तद्यथा ‘पूर्णाहुत्या सर्वान्कामानवाप्नोति’ इति श्रुतिबलात् पूर्णाहुतिसंज्ञकस्य यागस्य स्तोकं स्तोकं सर्वफलकत्वं, यथा वा ‘तरति मृत्युं, तरति पाप्मानं, तरति ब्रह्महत्यां योऽश्वमेधेन यजते, य उचैनमेव वेद’ इति श्रुतिबलात्, अश्वमेधफलत्वेन श्रुतमपि मृत्युतरणादिकं साङ्गोपाङ्गाऽश्वमेधज्ञानफलम् । तथा चरणस्यापि स्तोकस्वर्गफलकत्वात् गतिस्वर्गभोगपुनरागमनानां योनिप्राप्त्यनुबन्धित्वम् । अयमत्र विवेकः साङ्गज्योतिष्टोमानुष्ठाने आदौ चरणफलं भवति तच्च स्वर्गं प्रति गमनं, स्वर्गे वासः, पुनरागमनं, योनिप्राप्तिश्चेति । कर्मफलं तु अपुनरावर्तिस्वर्गगमनम्, तत्र निवासश्चेति । चरणफलस्वर्गप्राप्त्यनन्तरभाविनमर्थमाह– यावत्संपात-मुषित्वेत्यादिनेति ।। तत्रापि गतागतस्येति ।। अत्र एवं पूर्वपक्षिमते श्रुतियोजना द्रष्टव्या, अथ येऽधिकारिणः ग्रामे = गृहस्थाश्रमे स्थिताः, इष्टापूर्ते इष्टं यजनं, पूर्तं कूपखननादि, दत्तं दानमिति एतत्त्रयं तन्निकटवर्त्याचरणं चासते अनुतिष्ठन्ति, ते धूममभिसम्भवन्ति ततो रात्र्यादि-द्वारेण नित्याऽनित्यस्वर्गप्राप्तिमन्तो भवन्ति इति ।। पुनरावृत्तिशून्यस्वर्गसिद्धेरिति ।। चरणफलभोगोत्तरभाव्यपुनरावृत्तिस्वर्गसिद्धेरित्यर्थः । एतेन सङ्गकर्मण एव फलसाधनत्वात् चरणस्य च यज्ञाङ्गत्वात् चरणाभावे कर्मणः स्वर्ग एव न स्यात् । अङ्गविकलत्वात् सति च तस्मिन्पुनरा-वृत्तिः स्यात् साधनसद्भावादित्युभयथापि न कर्मणः सकाशात् अपुनरावृत्तिस्वर्गसिद्धिरिति परास्तम् ।

ननु ‘नान्यः पन्था’ इत्यादिश्रुतिबलेन निर्णयो युज्यते । निरवकाशचरणश्रुतिविरोधादित्या-शङ्क्य निषेधति– न चेत्यादिना ।। रमणीयकपूयपदाभ्यामिति ।। रमणीयत्वकपूयत्व-विशिष्टाऽधिकारिवाचिभ्यां पदाभ्यां लक्षणया यज्ञादिविशिष्टग्रहणसम्भवादित्यर्थः । न यज्ञादय उपलक्षणत्वेनोपात्तुं शक्यन्ते । अधिकारिणामयज्ञादिकारित्वादित्यत आह– यज्ञादिकारिणा-मिति ।। यज्ञादिकारिणां प्रकृतत्वेन सम्भवात् ये यज्ञादिकारिणो रमणीयाः, कपूयाश्चेति तदुप-लक्षणस्य सम्भवादिति पूर्वेणाऽन्वयः । तथापीति ।। न चरणशब्दस्याऽऽनर्थक्यमिति शेषः । कुतस्तस्य कर्मवाचकत्वमित्यत आह– यथा खल्विति ।। अस्ति तावत्कर्माणि चरणशब्दप्रयोग इति तस्य वृत्तिरङ्गीकर्तव्या चर्यत इति योगेन वाचकत्वसम्भवे लक्षणाऽसम्भवात् वाचकत्वमेवेति भावः । प्रयोगादिति ।। प्रयोगसम्भवादित्यर्थः । प्रयोगासम्भवं सूचयितुं प्रकृतेरेकस्मिन्नर्थे प्रयोगं दर्शयति प्रयुज्यते हीति ।। प्रकृतिद्वयं पर्यायेण प्रयुज्यत इत्यर्थः । अयं भावः धर्मं कुरुतेत्यर्थे ‘धर्मं चरत’ इति प्रयोगात् धर्मं मा कुरुतेत्यर्थे ‘मा चरत’ इति प्रयोगात् करोतिचरत्योः पर्यायत्वम् । ततश्च कृतिविषयाणां यज्ञादीनां कर्मव्युत्पन्नकृतशब्दवाच्यत्वमिव ‘कृत्य ल्युटो बहुलम्’ इति वचनात् कर्मणि व्युत्पन्नचरणशब्दवाच्यत्वमपि सिद्धमेवेति कर्मण्यपि चरणशब्दप्रयोगः सम्भावित एवेति । एतेन कुरुतेत्यर्थे चरतेति प्रयोगेण करोतिचरत्योः पर्यायत्वसिद्धावपि चरणशब्दस्य यज्ञादिवाचकत्वाऽसिद्धिरिति परास्तम् ।। साधारणश्रुतेरिति ।। ‘तद्य इह रमणीयचरणा’ इति साधारणश्रुतेः साङ्गकर्माभिधायकत्वमभ्युपेयम् । यज्ञाङ्गमात्रपरत्वे बाधकस्योक्तत्वादिति भावः ।

पूर्वपक्षस्तु चरणफलमेव गतागतं न यज्ञादिकर्मणः ‘तद्य इह रमणीयचरणा’ इति श्रुतेः, चरणस्य च ‘स यथाकारी यथाचारी तथा भवतीति श्रुतेः, ‘आचार इति संप्रोक्त’ इति स्मृतेश्च कर्मणोऽन्यत्वात् । न च ‘अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासत’ इति श्रुतेः, गतागतं यज्ञफलमेव न चरणफलमिति वाच्यम् । ‘इष्टापूर्ते दत्तमित्युपशब्देन यज्ञसमीपवर्तिवाचिना चरणमभिधाय ‘इष्टापूर्ते, इत्यनेन यज्ञं चाभिधाय उभयफलस्य ‘ते धूममभिसम्भवन्ति’ इत्यादिना द्विविधस्वर्गस्याभिधानात् । अयमत्र विवेकः । एकस्तावत् पुनरावर्तियुक्तः स्वर्गः, अपरस्तु अपुनरावृर्तियुक्तः । तत्र आद्यः चरणफलं, तद्भोगानन्तरं यज्ञफलस्य पुनरावर्तिवर्जितस्य स्वर्गस्य प्राप्तिर्भवति । प्रायश्चित्तेन पापानां संसारापादकानामनन्तकर्मणाम् अपुनरावृत्तिस्वर्गसाधनज्योति-ष्टोमादिमहिम्ना विनाशो वा, पण्डता वा, (कार्यजनकता) भवतीति । अतो गतागतस्याऽन्य-फलत्वात् कर्मणापुनरावर्तिशून्यस्वर्गसिद्धेर्न तत्र वैराग्यादिना कृत्यमिति ।

सिद्धान्तस्तु न गतागतस्य कर्मफलत्वाभावः ‘नान्यः पन्था’ इति गतागताशून्यफलस्य कर्मसाध्यताया निषिद्धत्वात् । ‘इष्टापूर्ते मन्यमाना’ इति श्रुत्या, ‘त्रैविद्यामाम्’ इति स्मृत्या च गतागतस्य कर्मफलत्वोक्तेश्च । न च ‘तद्य इह रमणीयचरण’ इति श्रतिविरोधः – तस्या उदाहृतश्रुत्याद्यनुरोधेनाऽजहत्स्वार्थलक्षणया यज्ञाद्यर्थत्वोपपत्तेः । अथ ‘यज्ञेन दानेन तपसा लोकान् जनयन्ति’ इति विस्पष्टश्रुतेश्च । अपि चैवं कार्ष्णाजनिराचार्यो मन्यते, ननु ‘रमणीय-चरणा’ इति श्रुतेः लक्षणया यज्ञाद्यर्थत्वमिति न युक्तं, रमणीया इत्यनेनैव यज्ञाद्युपलक्षणसम्भवेन चरण शब्दवैयर्थ्यप्रसङ्गादिति चेत् । अत्र वक्तव्यम् । किं चरणशब्दवैय्यर्थ्यप्रसङ्गात् यज्ञाद्युप-लक्षणत्वमेव नेत्युच्यते, आहोस्वित् यज्ञाद्युपलक्षणत्वमङ्गीकृत्य चरणपदकृत्यमात्रं पृच्छसीति । नाद्यः श्रुत्यादिविरोधस्योक्तत्वात् । द्वितीये तु यज्ञादिकारिणां साध्वसाधुचरणाभ्यामेव रमणीयत्वं कपूयत्वं च भवतीति ज्ञापनाय चरणपदमिति ब्रूमः । अथवा पुनरस्तु चरणपदं यज्ञादिवाचकमेव, धर्मं कुरुतेत्यर्थे चरतेति प्रयोगात् करोतिचरत्योः पर्यायत्वेन धर्मशब्दाभिधेये पुण्यसाधने यज्ञादि-सर्वकर्मणि, कर्मणि क्ते निष्पन्नकृतशब्दाभिधेयत्वस्य सर्वसिद्धत्वेन तत्पर्यायस्य कर्मणि ल्युडन्तस्य चरणशब्दस्याऽपि शक्तेरवर्जनीयत्वात् अपि च एवमेव बादरिराचार्योऽपि मन्यते । अतो गतागतस्य कर्मफलत्वात् क्लेशसाधने तस्मिन्, तत्साध्ये च विरक्तेन भवितव्यमिति सिद्धम् ।

वाक्यार्थमुक्तावली

कर्मफलत्वसाधनादिति ।। चरणफलत्वे गतागतिक्लेशस्य कर्मफलस्वर्गस्य क्लेशानुषङ्गाभावान्न स्वर्गाख्ये कर्मफले वैराग्यमावश्यकं स्यादिति पूर्वाक्षेपेण समाधानादनन्तरसङ्गतिरिति भावः । गतागतं यज्ञादिफलं न भवत्युत भवतीति चिन्ता । तदर्थं रमणीयचरणा इत्यत्र श्रुतश्चरणशब्दः कर्मपरो न भवत्युत लक्षणादिना तत्पर इति । तदर्थं लक्षणापक्षे रमणीयपदेनैव तत्सम्भवात् चरणशब्दानर्थक्यमस्ति वा न वेति ।। तन्निमित्तेति ।। यज्ञादिनिमित्तकस्य ज्योतिर्मयदेहादेः तदनिमित्तकस्य लिङ्गदेहादेः सहभावो दृष्टस्तेन जीवेन सहभूतं गतागतं ज्योतिर्मयदेहादि-वत्तन्निमित्तकमुत लिङ्गदेहादिवत्तदनिमित्तकमिति सन्देह इति भावः । यद्वा कर्तुः कुलालादेः घटादिना दण्डतुर्यादिना तदनिमित्तेन रासभादिना सहभावो दृश्यते । प्रकृते च गमनागमन-कर्तुर्जीवस्य कर्मादिना सहभावो दृश्यत इति कर्त्रा सहभूतं कर्म निमित्तं वोतावर्जनीयसन्निधिकं वेति सन्देहजननद्वारा गतागतं कर्मफलं न वेति सन्देहबीजमिति भावबोधोक्तार्थः ।

सूत्रे ‘यथेतमनेवं च’ इति प्रकृतत्वाद्गतागतमित्यस्ति । तथा च गतागतं चरणात्कर्माङ्ग-भूतादाचाराद्भवति । न तु यज्ञादिकर्मभिर्भवति । कुतः । चरणात् चरणशब्दघटितात् ‘रमणीयचरणा रमणीयां योनिमापद्यन्त’ इत्यागमादित्यर्थमभिप्रेत्य प्रवृत्तं भाष्यं व्याचष्टे ।। न यज्ञादिकर्मफलमिति ।। एतेन न यज्ञादिकृत इति भाष्यस्य यज्ञादिकृतो यज्ञादिकर्तुःफलं नेत्यर्थ उक्तो भवति । ननु रमणीयचरणा इति श्रुत्या योनिप्राप्तेश्चरणफलत्वसिद्धावपि न गतागतस्य तत्फलत्वं सिद्ध्यति । कथञ्चिदागमस्य योनिप्राप्त्यनुबन्धित्वेन चरणफलत्वेऽपि गतस्य कर्मफल-स्वर्गप्राप्त्यनुबन्धित्वेन न तस्य चरणफलत्वे इदं प्रमाणमिति चेन्न । इह साधकेषु ये रमणीय-चरणास्ते तत्र धूमादिमार्गेण स्वर्गं गत्वा रमणीयां योनिमापद्यन्त इति श्रुत्यर्थस्य विवक्षितत्वेन प्रकृतोपयोगात् । न चैवं स्वर्गस्यापि चरणफलत्वे कर्मफलवैय्यर्थ्यमिति वाच्यम् । अङ्गभूतेन चरणेन गतागतयोनिप्रवेशा भवन्ति, कर्मणा तु स्वर्गभोग इत्युपपत्तेरिति भावः । सुकृतदुष्कृत एवेति तु बादरिरिति सूत्रनिवर्तनीयमाशङ्क्य निषेधति ।। न चेति ।। चरणत्वाच्चरणशब्दवाच्यत्वात् ।। शून्यमिति ।। चरणफलमेव गमनागमनं न यज्ञादिकृत इत्यर्थोपपादकं वचनं शून्यं नास्तीति न वाच्यमित्यर्थः । कुतो न वाच्यमित्यतश्चरणात् चरणस्य कर्माङ्गत्वप्रतिपादकचरणशब्दघटितस्मृतेः श्रुतेश्चेति भावेन प्रवृत्तं ‘आचार इति सम्प्रोक्तः कर्माङ्गत्वेन शुद्धिदः’ इति भाष्यमुपलक्षणं मत्वा व्याचष्टे ।। स यथाकारीत्यादिना ।। चरणमेव यज्ञादिसमीपवर्तीति ‘आचार इति सम्प्रोक्तः कर्माङ्गत्वेन शुद्धिदः’ इति तदङ्गत्वस्मरणादिति भावः । अथ य इम इत्यत्रोपशब्देन चरण-ग्रहणेऽपि यावत्सम्पातमुषित्वेत्युक्तस्वर्गवासस्य यथा कर्मफलत्वं प्रतीयते तथा धूम इत्याद्युक्त-गतागतस्यापि । तथा हि । अथ ये अधिकारिणो ग्रामे गृहस्थाश्रमे स्थित्वा इष्टं यजनं, पूर्तं कूपारामादि, दत्तं दानमित्येतत्त्रयं उप तन्निकटवर्त्याचरणं चासते अनुतिष्ठन्ति ते इमे धूममभि-सम्भवन्ति प्राप्नुवन्ति । ततो रात्र्यादिद्वारेण स्वर्गं प्राप्य तस्मिन् यावत्सम्पातमुषित्वा अथैत-मेवाध्वानं पुनरावर्तन्ते इति योजनायां स्वर्गस्य साङ्गकर्मसाध्यत्ववद्गतागतस्यापि साङ्गकर्मसाध्यत्व-प्रतीतेरित्याशङ्कापरिहाराय सहभाव इत्युक्तन्यायं विशदयति ।। तत्र येयमिति ।। एतच्चरण-फलमेतत्कर्मफलमिति विवेचनसामर्थ्याभावाद्भ्रान्तिरेवाज्ञानां ज्ञायते इति भावः ।। कुत एवमिति ।। कुतो बाधकाद्भ्रान्तित्वं कल्प्यत इत्यर्थः ।

आनर्थक्यमिति चेदिति सूत्रपूर्वपक्षानुसारेण भ्रमत्वकल्पकं बाधकमाह ।। चरणत्वश्रुतेरिति ।। पुनरावृत्तिशून्येति ।। चरणस्यैव पुनरावृत्तित्वेन पुनरावृत्त्यहेतुना स्वर्गार्थं विहितेन कर्मणा पुनरावृत्तिशून्यस्वर्गसिद्धेरित्यर्थः ।। नेति ।। नञ्निषेध्यमाह ।। न गतागतस्येति ।। किन्तु तच्छून्यफलस्यैव कर्मसाध्यत्वं गतागतं तु चरणसाध्यमिति न वाच्यमित्यर्थः । कुतो न वाच्य-मित्यतो नान्यःपन्था इत्यादिवचनादिति न्यायविवरणानुसारेण हेतुमध्याहरति । ‘नान्यः पन्थाः’ इति श्रुत्या गतागतशून्यफलस्येति । मोक्षे गमनसद्भावेऽपि विशिष्टाभावादियमुक्तिः । इष्टापूर्तमिति श्रुतौ इष्टापूर्तादिकारिणां धूमादिमार्गेण सुकृतप्राप्ये स्वर्गे भोगं विधाय इमं लोकमाविशन्ती-त्यागमनस्य श्रवणात् । स्मृतौ सोमपानां धूमादिमार्गेण सुरेन्द्रलोकप्राप्तिं विधाय ‘क्षीणे पुण्ये मर्त्यलोकं विशन्ति’ इति पुण्यभोगावसानकाले पुनरागमनस्मरणादिति भावः । नेत्यंशं चरण-श्रुतिविरोधश्च नेत्यर्थतयापि व्याचष्टे । न चेति । कुतो नेत्यतश्चरणश्रुतेरुदाहृतश्रुतिविरोधेन मुख्यार्थे योग्यताविरहात् लाक्षणिकार्थस्योदाहृतश्रुतिविरोधेन योग्यतावत्वात् । यथायोग्यमेवार्थः श्रुतेरिति योग्यतेत्युक्तन्यायसूचकं यज्ञाद्युपलक्षणार्थेति भाष्यं व्याचष्टे ।। तस्या इति ।। एतेन चरणादिति प्रकृतचरणश्रुतिस्तदुपलक्षणार्था तस्येष्टादिकारिणामिति प्रकृतयज्ञादेरुपलक्षणयोपपादनार्थेति कार्ष्णाजिनिरित्यर्थ उक्तो भवति ।। अजहल्लक्षणयेति ।। साङ्गकर्मण एव फलावश्यंभावाच्चरण-रूपाङ्गस्यापि अन्वये समर्पणीयत्वादिति भावः ।। आदिवाक्यस्येति ।। ‘अथ य इमे ग्रामा’ इत्युपक्रमवाक्ये गतागतस्य कर्मफलत्वप्रतीतेर्भ्रान्तित्वेन तमर्थं विहाय तस्मिन्यावत्सम्पातमुषित्वेत्ये-तत्करणफलं एतमेवाध्वानमित्येतच्चरणफलमित्यर्थान्तरकल्पनमित्यर्थः । एतेन यज्ञाद्युपलक्षणार्था चरणादिश्रुतिरिति भाष्ये आदिपदेनोपात्ता ‘अथ य इमे ग्रामा’ इत्युपक्रमश्रुतिर्यज्ञाद्यर्था यज्ञादेरेव गतागतसाधनत्वार्थेति व्याख्यातं भवति । एतेन सूत्रे तदुपलक्षणेत्येतवता पूर्तेरर्थपदवैय्यर्थ्यमिति निरस्तम् । चरणश्रुतेरुपक्रमस्था अथ य इम इति श्रुतिरपि तदर्था यज्ञार्थेति विजिज्ञापयिषितत्वात् । अन्यथा भाष्यस्थादिपदवैय्यर्थ्यात् ।

तत्त्वसुबोधिनी

प्रकृतं गतागतमिति ।। तथा च यथेतमनेवं चेत्युक्तगतागतस्य कर्मफलत्वसमर्थनादनन्तर-सङ्गतिरिति भावः ।। तन्निमित्तानिमित्तयोरिति ।। न केवलमेकस्य निमित्तस्यैवेत्यपेरर्थः । एकस्मिन् देशे काले च पटादिना कार्येण तन्निमित्तानिमित्तयोस्तन्त्वादिरासभादिकयोः सहभाव-दर्शनमित्यर्थः । ननु करणचरणयोरैक्यात् गतागतं न यज्ञादिकर्मफलं किन्तु चरणफलमेवेति वचनमयुक्तमित्याशङ्क्य निषेधति ।। न च वाच्यमिति ।। कथमुपशब्दस्य चरणवाचकत्वमित्यत आह ।। स हीति ।। तर्हि गतागतयोः कर्मफलत्वप्रतीतेः का गतिरित्यत आह ।। तत्र येयमिति ।। न चेति ।। इष्टापूर्ते दत्तमित्युपासत इति श्रुतिस्थोपशब्दस्य चरणवाचकत्वपरिकल्पनादिकं कुत इत्यर्थः । गतागतशून्यफलस्येति ।। मोक्षरूपस्येत्यर्थः । कर्मणो गतागतफलत्वाभावे हि विहितस्य निष्फलत्वायोगात् गतागतशून्यफलस्य च कर्मसाध्यत्वाभावात् परिशेषेण गतागतफलकत्वमेव सिद्ध्यतीति भावः । नन्वनया श्रुत्या कर्मणो गतागतशून्यफलकत्वाभावसिद्धावपि गतागतफलकत्वं कुत इत्यतस्तत्र श्रुतिस्मृती आह ।। इष्टापूर्तमिति ।। उदाहृतश्रुत्याद्यनुरोधेनेति ।। तदपेक्षत्वा-दित्युत्तरसूत्रांशानुसारेणाजहल्लक्षणयेत्युक्तम् ।। एतेनेति ।। ‘नान्यः पन्थाः’ इत्यादिश्रुत्यनुसारेण चरणशब्दस्य कर्मोपलक्षकतया रमणीयचरणा इति श्रुतेः कर्मणो गतागतफलकत्वप्रतिपादकतया सविषयत्वप्रतिपादनेन निर्विषयत्वाद्यभावात् एतत् श्रुत्यवष्टम्बेन ‘अथ य इमे ग्रामा’ इत्युपक्रम-वाक्यस्य गतागतस्य चरणफलत्वेनाङ्गीकारादित्यादिना यदर्थान्तरमुक्तं तदपि निरस्तमित्यर्थः । गतागतस्य कर्मफलत्वानङ्गीकारे समाख्याविरोधं चाह ।। अथ ये यज्ञेनेति ।। यद्यप्यत्र नान्यः पन्था, इष्टापूर्तं, त्रैविद्या मां इत्यादिश्रुतिस्मृतिविरुद्धं चेत्यपि वक्तुं शक्यम् । तथापि अथ ये यज्ञेनेत्यादिश्रुतेः अथ य इमे ग्रामा इष्टापूर्ते दत्तमित्युपासत इति श्रुत्या शब्दतोऽपि समाख्यात्व-लक्षणविशेषोऽस्तीति ज्ञापयितुं तद्विरोध एव दर्शितः ।

वाक्यार्थविवरणम्

गतागतस्येति भावे क्तः । गमनसहितागमनस्येति व्याख्येयम् । तेनैकवचनोपपत्तिः ।। तन्निमित्तेत्यादि ।। एकस्मिन्नेव देशे काले च पटादिना कार्येण तन्निमित्तानिमित्तयोस्तन्त्वादि-रासभयोः सहभावदर्शनात् गतागतरूपकार्येण तन्निमित्तानिमित्तयोः कर्मणोः सहभावाद्यज्ञादिकं तन्निमित्तं न वेति सन्देहो भवतीति यावत् ।। तद्य इहेति ।। इह लोके ये रमणीयाचारवन्तस्ते धूमादिमार्गेण चन्द्रलोके स्वर्गे भोगान् भुक्त्वाऽनन्तरं यथेतमाकाशमित्युक्तमार्गेण रमणीयां योनिमापद्यन्त इति हि श्रुत्यर्थः । तथा चात्र गतागतस्य चरणफलत्वे इयं श्रुतिः प्रमाणमिति ध्येयम् । भाष्ये यज्ञादिकृत इति लिङ्गव्यत्यासेन यज्ञादिकृतमिति योज्यमित्याहुः । यद्वा यज्ञादिकृत इति षष्ठी । तथा च यज्ञादिकृतो यत् गमनागमनं तत् चरणफलमेव । यज्ञादिकर्मफलं नेत्यर्थः । चरणफलमेव गमनागमनं न यज्ञादिकृत इत्यभिधानं वचनं शून्यं व्यर्थम् । कुत इत्यतश्चरण-फलत्वोक्त्या यज्ञादिकर्मफलत्वेऽस्यैव प्राप्तेरित्याशयेनोक्तम् यज्ञादिकर्मण एव चरणत्वादिति ।। यथाकारी ।। यथा कर्मकर्ता ।। यथाचारी ।। यथा आचारवान् ।। तथा भवतीति ।। तदनुसारेण फलवान् भवतीत्यर्थः ।। इत्युपक्रम्येति ।। ‘ते धूममभिसम्भवन्ति धूमाद्रात्रिं रात्रेरपरपक्षम-परपक्षाद्यान् षड्दक्षिणैति मासांस्तान्नैते संवत्सरमभिप्राप्नुवन्ति । मासेभ्यः पितृलोकं पितृलोका-दाकाशमाकाशाच्चन्द्रलोकम्’ इत्युपक्रम्येत्यर्थः ।। तस्मिन् ।। चन्द्रलोकपदोक्ते स्वर्गे पतनपर्यन्तं सम्यगुषित्वेत्यर्थः । पुनरावर्तन्त इत्यनन्तरं यथेतमाकाशमाकाशाद्वायुमित्यादिवाक्यमस्ति । तथा च भोगापादककर्मावसाने यथेतमित्यादिक्रमेणैतमेवाध्वानं पुनरावर्तन्त इत्यर्थः ।। नास्तीति न च ।। अस्त्येवेत्यर्थः । न श्रूयत इति चेत् । सत्यम् । तथापि तद्वाचकपदान्तरमस्तीत्याह ।। इष्टेति ।। तदिति ।। चरणेत्यर्थः । उपशब्दस्य कथं चरणवाचकत्वमित्यतस्तदुपपादयति ।। सं हीति ।। उपशब्द इत्यर्थः । समीपवर्ति यद्वस्तु तद्वक्तीत्यर्थः ।। यज्ञादिसमीपेति ।। अङ्गतयेति शेषः । नन्वथ ये ग्रामा इष्टा पूर्ते इति शब्दात् स्पष्टं गतागतस्येष्टादिकर्मफलत्वप्रतीतेः कुत इत्थं योज्यत इति चेत्तत्राह ।। तत्रेति ।। सहैवोक्त्वेति ।। इष्टादिशब्देन करणम् उपशब्देन च चरणम् ‘इष्टापूर्ते दत्तमित्युपासत’ इति वाक्येन सहैवोक्त्वेत्यर्थः ।। स्वर्गगतागतयोश्चेति ।। इष्टादिकर्मफलस्य स्वर्गस्य उपशब्दोक्तचरणफलस्य गतागतस्य च ‘ते धूममभिसम्भवन्ति’ इत्यादि तस्मिन् ‘याव-त्सम्पातमुषित्वाथैतमेवाध्वानं पुनरावर्तन्त’ इति सहोक्तीत्यर्थः । तथा च गतागतस्य स्वर्गवत् कर्मफलत्वप्रतीतिः स्वर्गगतागतरूपफलसाधनयोः कर्माचारयोः सहैवोक्तिनिमित्ता तत्फलयोश्च सहोक्तिनिमित्ता भ्रान्तिरेव । न प्रमेति भावः । इष्टापूर्तादि ये आसत आस्थिताः कुर्वन्ति ते चन्द्रलोकमाप्नुवन्ति । ये उप आसते चरणमास्थिताश्चरणवन्त इति यावत् । ते धूममभि-सम्भवन्तीत्यादि धूमादिमार्गेण गमनागमनवन्तो भवन्तीति पूर्वपक्षिमते श्रुत्यर्थः ।। अन्येति ।। आचारेत्यर्थः । कर्मणा चेत्युक्तं दूषयति ।। नान्यःपन्था इतीति ।। श्रुत्येति ।। इष्टापूर्त्तादिकं वरिष्ठं मन्यमाना धूमादिमार्गेण नाकपृष्ठं प्राप्य भोगमनुभूय यथेतमाकाशमित्युक्तमार्गेणेमं लोकं हीनतरं वा विशन्तीति श्रुत्यर्थः ।। स्मृत्या चेति ।। यज्ञैरिष्ट्वा धूमादिमार्गेण सुरेन्द्रलोकमासाद्य दिव्यभोगान् भुक्त्वा क्षीणे पुण्ये यथेतमाकाशमिति क्रमेण मर्त्यलोकं विशन्तीति स्मृत्यर्थः ।। उदाहृतेति ।। इष्टापूर्तं त्रैविद्या इत्युदाहृतश्रुतिस्मृतीत्यर्थः ।। अजहल्लक्षणयेति ।। तथा च ‘तद्य इह रमणीयचरणा’ रमणीयाचारपूर्वकयज्ञादिमन्तः ।। कपूयचरणाः ।। निषिद्धवाची कपूयशब्दः । निषिद्धाचारपूर्वकयज्ञादिमन्त इत्यर्थः ।। एतेनेति ।। रमणीयचरणा इत्यस्याः श्रुतेरजहल्लक्षणया यज्ञाद्यर्थत्वेनेत्यर्थः ।। एतच्छ्रुतीति ।। ‘तद्य इह रमणीयचरणा इति श्रुतीत्यर्थः ।। आदि-वाक्यस्य ।। अथ ये ग्रामा इत्युपक्रमवाक्यस्य ।। अर्थान्तरेति ।। मैवम् ।। तत्रापीत्युक्तरीत्येत्यर्थः ।। जयन्ति ।। प्राप्नुवन्ति । भाष्ये यज्ञादीत्यत्रादिपदेन पूर्तदत्तपरिग्रहः ।

वाक्यार्थमञ्जरी

गतागतस्येति ।। गतं गमनम् आगतम् आगमनं तयोरित्यर्थः । भावे क्तप्रत्ययः ।। तन्निमित्तानिमित्तयोरिति ।। एकस्मिन्देशे काले च पटादिकार्येण तन्निमित्तानिमित्तयोः तन्तुरासभयोः सहभावदर्शनादित्यर्थः । तथा च तद्वदेवात्र यज्ञादेर्गतागतनिमित्तत्वसंशयेन गतागतस्य तज्जन्यत्वसंशय इति भावः ।। ॐ चरणादिति चेन्न तदुपलक्षणार्थेति कार्ष्णाजिनिः ॐ ।। ‘रमणीयचरणा’ इति श्रुतेः गतागतं चरणादाचारादेव भवति, न कर्मणेति चेन्न यतश्चरणश्रुतिस्तदुपलक्षणार्था तस्य कर्मणोपलक्षणया वृत्त्योपादानार्थत इत्यर्थः ।। तद्य इहेति ।। तत् तत्र कर्मिषु ये रमणीयचरणाः साध्वाचारवन्तः त इह भूमौ रमणीयां साध्वीं ब्राह्मणादि-योनिम् आपद्यन्ते प्राप्नुवन्ति । ये कपूयचरणाः असाध्वाचारवन्तः ते कपूयाम् असाध्वीं शूद्रादि-योनिमापद्यन्त इत्यर्थः । कृतकर्मणोरित्यभिधानम् । शून्यं प्रयोजनविकलम् । कारी कर्मकर्ता आचारी आचारवान् तथा तदनुसारिफलभाक् ।। अथेति ।। य इमे ग्रामाः काम्यकर्मिणां समुदायः इष्टं यजनं पूर्तं तटाकबन्धनादि दत्तं धनादिदानं इति शब्दःप्रभृत्यर्थः । उपासते आतिष्ठन्ते । ते धूमं धूमादिदेवतालोकं अभिसम्भवन्ति प्राप्नुवन्तीत्यर्थः ।। तस्मिन्निति ।। ते कर्मिणः तस्मिन्निन्द्रलोके यावत्संपातं तस्मादधःपतनं यावद्भवति तत्रावस्थाननिमित्तं पुण्यं यावत्समाप्यत इति यावत् तावत्कालपर्यन्तं तत्रोषित्वा वासं कृत्वा अथ कर्मक्षये तमेव मार्गं पुनरावर्तन्त इत्यर्थः ।। न चेति ।। नास्तीति न चेत्यर्थः । करणं कर्म ।। भ्रान्तिरेवेति ।। तथा च न तद्विरोध इति भावः । एतत् तत्रापि चरणफलस्य गतागतस्य चरणफलत्वरूपार्थान्तरकल्पनम् । चरणश्रुतेः तद्य इहेत्यस्य सावकाशश्रुतेः इष्टापूर्ते दत्तमित्यस्याः । गतागतशून्यफलं मोक्षः । नन्वनया श्रुत्या कर्मणो गतागतशून्यफलत्वाभावसिद्धावपि गतागतफलत्वं कुत इत्यत आह ।। इष्टापूर्तमिति ।। तत्रेमं लोकं हीनतरं वा विशन्तीत्युक्तेरिति भावः ।। त्रैविद्येति ।। त्रैविद्याःकाम्यकर्मिणः । मां यान्तीत्यर्थः ।। अजहदिति ।। स्वार्थाचारात्यागलक्षणयेत्यर्थः । आदिवाक्यस्य इष्टापूर्ते दत्तमित्युपक्रमवाक्यस्य ।। य इति ।। ये यज्ञादिकर्मणा लोकान्प्राप्नुवन्ति त आदौ धूममभिसम्भवन्तीत्यर्थः । विरुद्धमर्थान्तरकल्पनमित्यस्ति ।

Load More