ॐ आनन्दादयः प्रधानस्य ॐ
५. आनन्दाद्यधिकरणम्
सूत्रभाष्यम्
सर्वेषां मुमुक्षूणां कियन्नियमेनोपास्यमिति(अत)आह—
।। ॐ आनन्दादयः प्रधानस्य ॐ ।। १२ ।।
प्रधानफलस्य मोक्षस्यार्थे आनन्दो ज्ञानं सदात्मेत्युपास्य एव ।
सच्चिदानन्द आत्मेति ब्रह्मोपासा विनिश्चिता ।
सर्वेषां च मुमुक्षूणां फलसाम्यादपेक्षितेति ब्रह्मतर्के ।।
तत्त्वप्रदीपिका
ये सम्यङ्मुक्तिमात्रमिच्छन्ति न तत्र विशेषांस्तेषां ये गुणा उपास्यास्ते कियन्त इत्यधुना निरूप्यते । ननु किमत्र गुणोपास्तिप्रयोजनं, यदि स्वात्मनि गुणसमभिव्यक्तिस्तर्ह्यनर्थहेतुर्गुणोपासना स्यात् । बुद्धिसुखादीनां गुणानामत्यन्तोच्छित्तेरेवानर्थहानित्वेन मोक्षत्वात् । सुखज्ञाने हि दुःखज्ञानं दुर्वारम् । सुखदुःखयोरितरेतरव्याप्तत्वात् । अदृष्टनिमित्तानां च बुद्ध्यादीनां विशिष्टज्ञानयोगेन तदुच्छेद उच्छित्तिरेवाऽश्रयणीया । न च सुखानुभवाभावे मोक्षे प्रवृत्त्यभावप्रसङ्गः । दुःखनिवृत्यर्थं तदुपपत्तेरिति । न तावत्सुखज्ञानादीनां गुणानामभावो मोक्षे मन्तव्यः । प्रमाणाभावात् । यच्चोत्प्रेक्ष्यते मोक्षः सुखहीनो दुःखहीनत्वाद्वैधर्म्येण संसारवदिति । तदीश्वरेऽनैकान्तिकम् । ‘आनन्दं ब्रह्मणो विद्वान्न बिभेति’ ‘आनन्दो ब्रह्मेति व्यजानात्’ ‘विज्ञानमानन्दं ब्रह्म’ इत्यादिश्रुतेः पूर्णानन्द-त्वादीश्वरस्य, ‘निरनिष्ठो निरवद्यः’ ‘अपहतपाप्मा विजरो विमृत्युर्विशोकः’ ‘योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येति’ इत्यादेर्निर्दुःखत्वाच्च, सुखदुःखयोरितरेतरव्याप्तिरिति वाङ्मात्रम् । ‘ब्रह्मेति यद्विदुरजस्रसुखं विशोकम्’ इति च भागवते । आगमविरुद्धं चैतत् । ‘यत्र कामा निकामाश्च’ ‘यत्राऽनन्दाश्च मोदाश्च’ ‘सर्वे नन्दन्ति’ ‘स दुःखाद्विमुक्त आनन्दी भवति’ ‘तरति शोकमात्मवित्’ इत्यादिश्रुतिभ्यो मोक्षे निर्दुःखसुखाधिगमात् । अप्रवृत्तिप्रसक्तिश्चान्यथा । पुरुषार्था-भावात् । दुःखनिवृत्तिः पुरुषार्थ इति चेत्सत्यमनुभूयमाना । अन्यथा शिलादिवन्नैव स्यात् । पुरुषार्थ इति मतिमन्तो मन्येरन् । ‘मग्नस्य हि परेऽज्ञाने किं न दुःखतरं भवेत्’ इति च भारते । इच्छन्ति सुप्त्यादिकं दुःखं सोढुमक्षमा इति चेन्न । सुखार्थत्वात्तदिच्छायाः । सुखमहमस्वाप्समिति हि तत्रत्यः सुखानुभवोऽनुस्मर्यते । दुःखनिवृत्तौ तत्र सुखव्यवहारो भारार्तानामिव तन्निवृत्ताविति चेत् । दुःखनिवृत्त्यनुभवः तर्हि तत्रापि पुरुषार्थं मन्यसे । न च दुःखाभाव एव सुखमिति वक्तुं शक्यते । प्रतियोग्यनिरूप्यत्वात् । सुखाभाव एव दुःखमित्युक्ते किञ्चोत्तरमनुभवापलापिनः । तस्मात्सुखानु-भवाभावे प्रवृत्त्यभावप्रसङ्गात् श्रुतिबलाच्च मोक्षे सुखानुभवोऽभ्युपगन्तव्यः । तथाऽपि भगवानुपासित एव दुःखं निवर्तयति सुखं चोपभोजयति । किमनेन गुणविशेषान्वेषणेन । अथवा सुषुप्तिप्रलय-वदनुपास्यैव च स स्यादित्यत आह– आनन्दादयः प्रधानस्य ।। निर्दोषसुखानुभवरूपाय मोक्षप्रयोजनाय आनन्दादयश्चत्वारो गुणा उपास्या एव । सत्त्वं नाम निर्दोषत्वम् । न हि सुखानुभवमात्रं मोक्ष इष्यते । संसारेऽपि तत्सम्भवात् । न च निर्दोषसुखानुभवस्तथा तदुपास्तिं विना प्राप्यते । ‘तं यथा यथोपासते तदेव भवति’ इति श्रुतेः । ‘स यथाकामो भवति’ इत्यादेश्च । स च पुरुषार्थः परतन्त्रस्य जीवस्य स्वामिनः सकाशाल्लभ्यत इति स्वामित्वं भगवत उपसंहर्तव्यं विशेषतः । तच्चाऽह ।। आत्मेति ।। आदत्त इति ह्यात्मा । एतदेव च विशेषत उपसंहारयिष्यति महत्यामप्यापदि– आत्मेति तूपगच्छन्तीत्यादौ । ‘आत्मशब्दाच्च’इति चोक्तमात्रोपसंहारप्रमाणं वदिष्यति ‘आत्मेत्येवोपासीत’ इति श्रुतिम् । अत एतच्चतुष्कमुपासनीयम् । पलसाम्यात् । फलस्योपास्तिसदृशत्वात् । ‘प्रतिमुखस्य यथा मुखश्रीः’ इति हि भागवते । अनेवम्भूतस्य चाफलत्वादुक्तन्यायेन । न च सुप्त्यादिवन्मोक्षसुखानुभवः । तस्यास्पष्टत्वात् । सांसारिकादनन्त-गुणत्वान्मौक्तिकस्य । सभक्तिभगवद्दृष्टिरूपत्वाच्च ।
तत्त्वप्रकाशिका
अत्र भगवज्ज्ञानसाधनाशेषमुमुक्षुसाधारणगुणोपासनस्य निर्णीयमानत्वादस्ति शास्त्रादिसङ्गतिः । अनिर्णये तूपासनामात्रोच्छेदप्रसङ्गात्तन्निर्णेतव्यम् । प्रकृतभगवद्गुणा एव विषयः । किं सर्वमुमुक्षू-पास्याः सङ्ख्यानिर्देशाभ्यां क्लृप्ताः पृथक् सन्ति न वेति संदेहः । पूर्वोक्तिर्विशेषानुक्तिश्च सन्देह-बीजम् । पूर्वपक्षयति ।। सर्वेषामिति ।। न सर्वमुमुक्षूपास्याः सङ्ख्यानिर्देशाभ्यां क्लृप्ता गुणाः पृथक् सन्ति । यदि भवेयुस्तर्हि ते के कियन्तश्चेति वक्तव्याः । यदि चतुःपञ्चषा आनन्दादय इत्युच्यन्ते तर्हि केषाञ्चित्समुच्चयेऽन्येषामपि समुच्चयप्रसङ्गेन नियमासम्भवात् । एवं न निर्देशक्लृप्तिः नैतेऽन्य एवेत्यपि वक्तुं शक्यत्वात् । अतः सर्वैर्मुमुक्षुभिर्नियमेनोपास्यगुणानिर्णयान्न कस्याप्युपासनोपपत्तिरिति भावः । सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ।। अत आहेति ।। सन्ति सङ्ख्यानिर्देशाभ्यां क्लृप्ताः सर्वमुमुक्षुभिः सर्वथोपास्या गुणा आनन्दादयश्चत्वारो न त्वधिकाः । सर्वमुमुक्षूणां तदधिकोपासनेऽ-समर्थत्वात् । न च निर्देशविपर्ययः । उपासनस्यानन्दादिरूपमोक्षार्थत्वात् । अपेक्षितफलानु-सारेणैवेश्वरस्योपास्यत्वात् । ‘तं यथा यथोपासते तदेव भवति’ इति श्रुतेरिति भावः । अत्र स्मृतिं चाह ।। सच्चिदिति ।। सत्त्वं निर्दोषत्वम् । तच्च ज्ञानानन्दौ च सर्वापेक्षितं फलम् । आत्म-पदोदितस्वामित्वं तु स्वसम्बन्धानुस्मरणस्य भगवत्प्रीतिसाधनत्वादुपास्यम् । तच्च चतुर्थे वक्ष्यत इति । अतः सर्वोपास्यगुणनिर्णयाद्युक्तमुपासनमिति सिद्धम् ।।
गुर्वर्थदीपिका
उपासनामात्रोच्छेदप्रसङ्गादित्यत्र उपासनामात्रं कार्त्स्न्येनोपासनं सर्वेषां तद्गुणोपासनमिति यावत् । तस्योच्छेदप्रसङ्गादित्यर्थः । अन्यथा क्वाप्युपासना न स्यादित्येवोक्ते साधारणोपास्य गुणाभावेऽपि स्वस्वयोग्यगुणोपासनसम्भवेन वाक्यमसङ्गतं स्यात् । अत उक्तैव योजना । केषाञ्चि-त्समुच्चय इत्यस्य नियामकं विना स्वेच्छयैव मम ध्यानार्थमिमे गुणा एतावन्त इति मनसि पुञ्जीकरणे श्रौतत्वाविशेषाद्भगवद्गुणत्वाविशेषाच्च गुणान्तरपुञ्जीकरणस्यापि न्यायप्राप्तत्वादित्यर्थः । एकत्रैव पुञ्जीभूततण्डुलतिलमाषमुद्गादिराशौ तण्डुलचतुष्टयमानयेत्यादिविशेषनिर्देशं विना केवलमित-श्चतुष्टयमानयेत्येवोक्ते तण्डुलचतुष्टयवद्धान्यान्तरमेलनेनापि चतुष्ट्वपूरणवदिति भावः । न च निर्देश-विपर्यय इत्यस्य ‘सच्चिदानन्द आत्मा’ इति निर्देशेन विना सर्वेश्वरः सर्वकर्ता सर्वनियामकः सर्वशक्तश्चेति गुणान्तरचतुष्टयेनापि निर्देशसम्भवादित्यर्थः । ‘सुखमेव मे स्याद्दुःखं मनागपि माभूत्’ इति सर्वापेक्षितमोक्षेऽप्यानन्दस्य तदनुभवस्य दुःखादिदोषराहित्याख्यसत्तायाः यथायोग्यं स्वावरनियामकत्वस्य चेति गुणचतुष्टयस्यैव सर्वैरर्थ्यतेति भावेनोक्तमपेक्षितमिति । चतुर्थे वक्ष्यत इत्यत्र चतुर्थाध्याये ‘आत्मेति तूपगच्छन्ति ग्राहयन्ति च’इत्यस्मिन्नधिकरण इत्यर्थः ।
भावबोधः
अनन्तरसङ्गतिं सूचयन् विषयमाह– प्रकृतेति ।। ‘प्राप्तेश्च समञ्जसम्’ इत्यत्र युगपत्प्रतीति-विषयत्वेन प्रकृता भगवद्गुणा इत्यर्थः । तथा च ‘प्राप्तेः’इत्यत्र युगपत्प्रतीतिविषयत्वेन ये गुणाः प्राप्ताः ते उपास्या इत्यभिहिते शङ्काद्वयमुत्थितम् । फलातिशयनिर्णयाभावहेतुकोपसंहारा-कर्तव्यताक्षेपस्य विषयविशेषानिर्णयहेतुकतयाक्षेपात् प्राबल्येन पूर्वाधिकरणे तमाक्षेपं परिहृत्य अनन्तरमयमाक्षेपः परिह्रियत इत्यनन्तरसङ्गतिरिति भावः । किं सर्वेत्यादि ।। अत्र भगवद्गुणाः सर्वमुमुक्षूपास्याः सङ्ख्यानिर्देशाभ्यां पृथक् क्लृप्ता न सन्त्युत सन्तीति चिन्ता । तदर्थमानन्दादि-गुणचतुष्टयव्यतिरिक्तगुणानां सर्वमुमुक्ष्वपेक्षितफलहेतुत्वातदुपासनाशक्यत्वे वर्तेते न वेति । आनन्दादीनां केषाञ्चित् समुच्चये प्राप्ते सर्वगुणसमुच्चयः सर्वेषां स्यादिति न्यायविवरणं तन्निवर्तनीयाशङ्काप्रदर्शनपूर्वकं योजयति– यदीति ।। चतुष्पञ्चषा इति सङ्ख्या क्लृप्तिः । आनन्दादय इति निर्वेशक्लृप्तिरिति ज्ञातव्यम् । अनेन न्यायविवरणे आनन्दादीनामिति निर्देशक्लृप्तिः केषाञ्चिच्चतुष्पञ्चषाणामिति सङ्ख्याक्लृप्तिरुक्तेत्युक्तं भवति । अत्र न्यायविवरणे सर्वगुणसमुच्चयः सर्वेषां स्यादिति सङ्ख्याक्लृप्तावतिप्रसङ्गोक्तिः । निर्देशक्लृप्त्यतिप्रसङ्गस्यापि उपलक्षणमित्यभिप्रेत्याह– एवमिति ।। अल्पशक्तित्वात्तेषां पुंसामिति न्यायविवरणं व्याख्याति– सर्वेति ।। अनेन न्यायविवरणे तेषामित्यनेन पूर्वं सर्वेषामिति प्रकृतानां सर्वमुमुक्षूणां परामर्श इत्युक्तं भवति । ब्रह्मादीनां केषाञ्चिदानन्दादिगुणचतुष्टयाधिकगुणोपासनासमर्थत्वेऽपि न सर्वेषां तत्सामर्थ्यम् । मनुष्योत्तमानां तदभावादिति भावः । नन्वयमपि नियमो नास्ति–
‘आत्मेत्येव परं देवमुपास्य हरिमव्ययम् ।
केचिदत्रैव मुच्यन्ते’ इति ।।
आत्मत्वमात्रोपासकानामपि मुक्तेरिति चेत् मैवम्, अत्र कर्मक्षयोत्क्रान्तिमार्गभोगलक्षण-चतुर्विधमोक्षयोग्यानामेवानन्दादिगुणनियतिसमर्थनात् । आत्मत्वमात्रोपासकानां तु ‘नोत्क्रामन्ति’ इत्युक्तत्वेन तदयोग्यत्वादिति ।।
ननु सत्त्वादिगुणत्रयोपासनाफलस्य निर्दुष्टज्ञानानन्दरूपस्य सर्वापेक्षितत्वेनास्तु तदुपास-नावश्यकत्वम् । आत्मत्वोपासनाफलस्य स्वामित्वस्य सर्वमुमुक्ष्वपेक्षितत्वाभावेन कथं तदुपासन-स्यावश्यकत्वमित्यत आह– आत्मपदेति ।। तच्चेति ।। तत् भगवत्प्रीतिसाधनत्वम् । चतुर्थे ‘आत्मेति तु उपगच्छन्ति ग्राहयन्ति च’ इत्यत्रेत्यर्थः ।
भावदीपः
उपासनस्येत्युक्त्या साक्षादेवास्यान्तर्भावसङ्गतिः सूचिता ।। उपासनामात्रेति ।। उपासनासामान्येत्यर्थः । तदुच्छेदे च कुतो विशेषचिन्ता पूर्वोक्तेति भावः । एतेन सिद्धे हि सामान्यत उपासनाकर्तव्यत्वे फलातिशयादिना अधिकारिभेदादिना च सर्वगुणोपासनाकर्तव्यत्व-रूपविशेषचिन्ता पूर्वत्र कृता युक्ता । सैव त्वयुक्ता । गुणनिर्णयाभावेनोपासनामात्रस्यैवायुक्तेरिति वा सर्वभेदादिति सर्वगुणोपासनस्य फलविशेषोक्तिरयुक्ता । उपासनामात्रस्यैवासिद्ध्या तद्विशेषासिद्धे-रित्यव्यवहितपूर्वमात्राक्षेपेणात्र पूर्वपक्षप्रवृत्तेर्वा पूर्वसङ्गतिः सूचिता । यद्यपीदमधिकरणमुप-संहारनयात्पूर्वमेव निवेश्यम् उपासनामात्रसमर्थनपरत्वादस्य । अत एवाणुभाष्ये सच्चिदानन्द आत्मेति एतन्नयार्थः प्रथमं निवेशितः । तथापि सर्वाधिकार्युत्तमब्रह्माधिकारिकत्वात्सर्वगुणोपासनस्य मुख्योपासनत्वाच्चादौ तन्निवेश इति भावः ।। प्रकृतेति ।। सर्वाभेदादित्यादौ सर्वपदादिना प्रकृतेत्यर्थः । सर्वेषामिति भाष्योक्तेराह ।। सर्वेति ।। सङ्ख्येति ।। चतुःपञ्चेत्यादिसङ्ख्यया आनन्दज्ञानेत्यादिविशेषोद्देशेन च क्लृप्ता इत्यर्थः ।। विशेषेति ।। उपासनाविधिषु विशेषानुक्ति-रित्यर्थः । आनन्दादीनां केषाञ्चित्समुच्चये प्राप्ते सर्वगुणसमुच्चयः सर्वेषां स्यादित्यन्यत्रोक्तन्यायमिह प्रश्नपूर्वमाह ।। ते के कियन्तश्चेति वक्तव्या इत्यादिना ।। चतुःपञ्चषा इति ।। चत्वारः पञ्च वा षड्वेत्यर्थः । सङ्ख्ययाव्ययासन्नादूराधिकसङ्ख्याः सङ्ख्येय इति बहुव्रीहिः । बहुव्रीहौ सङ्ख्येयेडज-बहुगणादिति समासान्तः । केषाञ्चित् आनन्दादिगुणानामित्यर्थः । अन्येषां बलैश्वर्यादीनामित्यर्थः ।। अत इति ।। सङ्ख्यानिर्देशक्लृप्तौ नियामकाभावादित्यर्थः । अनिर्णये हेतुरयम् । कस्यापि गुणस्येत्यर्थः ।। आनन्दो ज्ञानमित्यादिभाष्यं व्याचष्टे ।। सन्तीत्यादिना ।। सर्वमुमुक्षुभिरिति ।। सर्वेषां मुमुक्षूणामित्येतत्पूर्वभाष्यादत्राप्यनुवर्तत इति भावः । एवकारस्य इत्येवोपासीतेति भिन्नक्रममुपेत्य तद्व्यावर्त्यमाह ।। न त्विति ।। कुत इत्यतोऽल्पशक्तित्वात्तेषां पुंसामित्यन्यत्रोक्तं हेतुमाह ।। सर्वमुमुक्षूणामिति ।। अयं च तेषामित्यस्यार्थः । सङ्ख्याक्लृप्तौ न्यायविवरणोक्तहेतुं योजयित्वा निर्देशक्लृप्तौ प्रधानफलस्य मोक्षस्यार्थ इति भाष्यं हेतुतया योजयति ।। न चेत्यादिना ।। आनन्दादिरूपेति ।। निर्दोषानन्दानुभवरूपेत्यर्थः । तथाप्यानन्दादय एवोपास्य इति कुत इत्यतस्तस्य हेतुतां व्यनक्ति ।। अपेक्षितेति ।। तदेव भवति तदेव प्राप्नुवन्तीत्यर्थः । भू प्राप्तौ परस्मैपदमेकवचनं च छान्दसम् ।। अत्रेति ।। मोक्षार्थमेत एवोपास्या इत्यत्रेत्यर्थः । फलसाम्या-दित्यत्रापेक्षितफलस्वरूपमाह ।। सत्त्वमिति ।। आत्मत्वोपासने बीजमन्यदाह ।। आत्मेति ।। स्मृतावात्मत्वोपासने हेत्वनुक्तेराह ।। तच्चेति ।। तच्चात्मत्वोपासनमावश्यकमित्येतच्चतुर्थाद्यपादे आत्मेति तूपगच्छन्तीत्यत्र वक्ष्यत इत्यर्थः ।। अत इति ।। अपेक्षितमोक्षाख्यफलार्थतया वक्ष्यमाणदिशा भगवत्प्रीतिहेतुतया चाधिकोपासने शक्त्यभावाच्च सत्त्वज्ञानानन्दात्मत्वानां चतुर्णा-मेवावश्यकत्वादिति निर्णये हेतुरयम् । यद्वा अत इत्यस्यैव विवरणं सर्वेत्यादि ।।
अभिनवचन्द्रिका
उपासनामात्रोच्छेदप्रसङ्गादिति ।। सामान्यगुणोपासनपूर्वकत्वाद्विशेषगुणोपासनानां निर्णया-भावेन प्राथमिकोपासनाभावे उपासनामात्रविलोपप्रसङ्ग इत्यर्थः ।। पूर्वोक्तिरिति ।। ‘मानुषैः कैश्चिदेव तु’ इति पूर्वोक्तिर्विशेषानुक्तिश्च सन्देहबीजमित्यर्थः ।
पूर्वपक्षस्तु– न सन्त्येव सर्वसाधारणतयोपास्यगुणाः क्लृप्ताः । नियामकाभावात् । ततश्च क्लृप्त्य-भावेन प्राथमिकोपासनाऽसम्भवादुपासनामात्राऽसम्भव इति ।
सिद्धान्तस्तु– क्लृप्ता एव सर्वमुमुक्षूपास्या गुणाः । सर्वेषां मुक्तौ आनन्दज्ञानदुःखा-भावानामपेक्षितत्वात् । तत्सिद्धये सत्त्वचिदानन्दास्तावत् उपास्याः । यत्तु आत्मत्वापरपर्यायम् । स्वामित्वं स्वसम्बन्धानुस्मरणस्य भगवत्प्रीतिसाधनत्वात्तदप्युपास्यम् । एवञ्च प्राथमिकोपास्य-निर्णयात्सर्वाप्युपासना युक्तैवेति सिद्धम् ।
वाक्यार्थमुक्तावली
उपासनामात्रोच्छेदेति ।। सर्वमुमुक्षुभिर्नियमेनोपास्यसामान्यगुणानिर्णये उपासन एवाप्रवृत्तेः प्रवृत्तस्यैव युगपत्प्रतीतगुणान्तरोपासनसम्भवादन्यथाऽसम्भवादिति भावः । उपासनाफल-निरूपणानन्तरं तद्विषयसर्वसाधारणगुणनिर्णयादनन्तरसङ्गतिः ।। किमिति ।। सर्वमुमुक्षूपास्या गुणाः सङ्ख्यानिर्देशाभ्यां क्लृप्ता न सन्त्युत सन्तीति चिन्ता । तदर्थं सङ्ख्यानिर्देशक्लृप्तिकल्पकं नास्त्युतास्तीति ।। विशेषानुक्तिरिति ।। मानुषैः कैश्चिदेव त्वित्युक्तगुणाः सर्वमुमुक्षुभि-र्नियमेनोपास्या इति वक्तव्यम् । मध्यमगुणानामुत्तमगुणानां च सर्वमुमुक्षुसाधारण्यायोगात् । तत्र कैश्चिदेव त्वित्येवोक्ते विशेषानुक्तिः सन्देहबीजमिति भावः । पूर्वपक्षं सूचयतीति । कियन्नियमेनोपास्यं न कियदपीति काक्वा सङ्ख्याक्लृप्त्याक्षेपेऽपि निर्देशक्लृप्त्याक्षेपस्यात्र मुखतो लाभात् सूचयतीत्युक्तम् । अत एव किन्नियमेनोपास्यं न कियदपीति काकुलब्धं सङ्ख्याक्लृप्त्याक्षेपमुपलक्षणं मत्वोभयमाक्षिपति ।। न सर्वमुमुक्षूपास्या इति ।। कुतो न सन्तीत्यतः सङ्ख्याप्रश्नपरत्वेन तदेव वाक्यं व्याकुर्वन्नुपलक्षणत्वे निर्देशमपि पृच्छति ।। यदि भवेयुरिति ।। यदिशब्दाध्याहारेण तदेव वाक्यं सङ्ख्याप्रश्नोत्तरशङ्कापरत्वेन व्याचष्टे ।। यदीति ।। एतेन यदि कियच्चतुष्पञ्चषट्सङ्ख्याकं नियमेनोपास्यमित्युच्यत इति व्याख्यातं भवति । उपलक्षणीयमर्थमाह ।। आनन्दादय इति ।। यद्यानन्दादय इत्युच्यत इत्यर्थः । तदुत्तरत्वेन समुच्चय इत्युक्तन्यायप्रदर्शकत्वेन तर्हीत्यध्याहारेण तदेव भाष्यं व्याचष्टे ।। तर्हीति ।। तर्हीत्यस्यैव विवरणं केषाञ्चिदिति ।। एतेन तर्हि चतुष्पञ्च-षण्णामुपास्यत्वे पुनः किन्नियमेनोपास्यं प्रसज्येत । ततोऽधिकानां कियतां सप्ताष्टादिसङ्ख्याका-नामपि नियमेनोपास्यत्वमिति समुच्चयः प्रसज्यत इत्यर्थ उक्तो भवति । निर्देशाक्लृप्तावप्यतिप्रसङ्ग-मुपलक्षणत्वेनाह ।। एवमिति ।। आनन्दादयश्चत्वार इति ।। यद्यपि सूत्रे आनन्दादय इति आत्मानन्दमात्रस्य मुखतो निर्देशेनादय इत्येवोक्तम् । चत्वार इति सङ्ख्याविशेषनिर्देशश्च न कृतः । तथापि प्रधानस्य इत्युक्तफलपर्यालोचनात् सङ्ख्यानिर्देशज्ञानं सुकरम् । निर्दोषानन्दानुभवस्वावर-स्वामित्वरूपप्रधानफलस्य चतूरूपत्वेनानन्दादय इत्युक्ते सङ्ख्यानिर्देशविशेषज्ञानसम्भवादानन्दा-दयश्चत्वार इति व्याख्यातम् । महदल्पसाधारण्येन मुमुक्षुमात्रापेक्षिततया प्रधानफलस्यार्थ इत्युक्त्यैव सूचितं अल्पशक्तिरित्युक्तन्यायं चत्वार एवोपास्या नाधिका इत्यत्र हेतुत्वेनाह ।। सर्वमुमुक्षूणा-मिति ।। निर्देशक्लृप्तावपि प्रधानस्येत्ययमेव हेतुरित्याह ।। न च निर्देशविपर्यय इत्यादिना ।। सर्वेषां च मुमुक्षूणामित्यस्य कर्मक्षयादिरूपचतुर्विधमोक्षेच्छूनां सर्वेषां सच्चिदानन्द आत्मेति ब्रह्मोपासा-फलस्य साम्यात् फलस्योपास्तिसदृशत्वात् अपेक्षिता विनिश्चिता इत्यर्थः । तदुक्तं तत्त्वप्रदीपे । फलसाम्यात् फलस्योपास्तिसदृशत्वात्प्रतिमुखस्य यथा मुखश्रीरिति भागवतमिति । आत्मत्वो-पासनस्य कर्तव्यत्वे निमित्तान्तरमप्याह ।। आत्मपदोदितेति ।। तच्चेति ।। भगवत्प्रतीति-साधनत्वमात्मगृहीतिरित्यत्र चतुर्थे वक्ष्यत इत्यर्थः ।
तत्त्वसुबोधिनी
अनन्तरसङ्गतिं सूचयन् विषयमाह ।। प्रकृतेति ।। प्राप्तेश्च समंजसमित्यत्र युगपत्प्रतीति-विषयत्वेन प्रकृताः भगवद्गुणा इत्यर्थः । तथा च प्राप्तेरित्यत्र युगपत्प्रतीतिविषयत्वेन ये गुणाः प्राप्ताः ते उपास्या इत्यभिहिते शङ्काद्वयमुद्धितं फलातिशयनिर्णयाभावाद्विषयविशेषनिर्णया-भावाच्चाकर्तव्यतोपसंहारस्येति । तत्र फलातिशयाभावहेतुकोपसंहारस्य कर्तव्यता क्रमस्य विषय-विशेषनिर्णयाहेतुकक्षे प्राप्तावसरेण । पूर्वाधिकरणेन तमाक्षेपं परिहृत्यानन्तरमयमाक्षेपः परिह्रियते इत्यनन्तरसङ्गतिरिति भावः ।। सङ्ख्यानिर्देशाभ्यामिति ।। चतुः पञ्चषा इति सङ्ख्याक्लृप्तिः । आनन्दादय इति निर्देशक्लृप्तिः ।। सर्वमुमुक्षूणामिति ।। ब्रह्मादीनां केषांचिदानन्दादिगुणाः चतुःषष्ठ्याधिकगुणोपासनासमर्थनमपि न सर्वेषां तत्सामर्थ्यं मनुष्योत्तमानां तदभावादिति भावः । न चायमपि न निर्णयः । ‘आत्मेत्येव परं देवमुपास्य हरिमव्ययम् । केचिदत्रैव मुच्यन्ते’ इत्यात्म-मात्रोपसकानामपि मुक्युक्तेरिति वाच्यम् । कर्मक्षयोत्क्रान्तिमार्गभोगलक्षणचतुर्विधमुक्तियोग्याना-मेवानन्दादिगुणनियतिसमर्थनात् । आत्मत्वमात्रोपासकानां नोत्क्रामन्ति इत्युक्तत्वेन तदयोग्य-त्वादिति भावः । ततः किमित्यत आह ।। अपेक्षितेति ।। अपेक्षितफलानुसारेण उपासनं कर्तव्यमित्यत्र प्रमाणमाह ।। तमिति ।।
ननु सत्वादिगुणत्रयोपसानाफलस्य निर्दोषत्वज्ञानानन्दरूपस्य सर्वापेक्षितत्वेनास्तु तदुपासन-स्यावश्यकत्वम् । आत्मत्वोपासनाफलस्य स्वामित्वस्य सर्वमुमुक्ष्वपेक्षितत्वाभावेन कथं तदुपासन-स्यावश्यकत्वमित्यत आह ।। यदेति ।। स्वामित्वोपासने हि स्वस्य परमात्मा स्वामीति परमात्मना साकं स्वस्य स्वाम्यस्वामिरूपसम्बन्धानुस्मरणं भवति । तच्च भगत्प्रीतिसाधनमित्यतः तदप्युपास्य-मित्यर्थः । ननु कथमस्य भगवत्प्रीतिसाधनत्वमित्यत आह ।। तच्चेति ।। तत् भगवत्प्रीतिसाधनत्वम् । चतुर्थे, आत्मेति तूपगच्छन्ति ग्राहयन्ति चेत्यत्रेत्यर्थः ।
वाक्यार्थविवरणम्
विशेषानुक्तिरिति ।। गुणैरुपास्य इत्येव सामान्यत उक्तेरेतैरेतावद्भिरिति विशेषानुक्तिरित्यर्थः । चतुःपञ्चषाणामिति सङ्ख्याक्लृप्तिर्न सम्भवतीत्याह ।। न हीति ।। केषाञ्चित् चतुष्पञ्चषाणां समुच्चये उपास्यत्वेन समुच्चये । युगपत्समुच्चयेनोपास्यत्वकथन इति यावत् । अन्येषां चतुष्पञ्चषेभ्यो व्यतिरिक्तानाम् । तथा च चतुष्पञ्चषा एवेति नियमासम्भवेन सर्वेषां सर्वगुणसमुच्चयः स्यादिति भावः ।। नेति ।। आनन्दादिनामका न, किन्त्वन्ये नामान्तरोपेता इत्यर्थः ।। तच्चेति ।। सत्त्वमित्यर्थः । स्वशब्देन भगवान् । सम्बन्धः । स्वामिभृत्यभावः ।
वाक्यार्थमञ्जरी
ज्ञानसाधनेत्युपासनाविशेषणम् ।। उपासनामात्रोच्छेदेति ।। सामान्यनिर्णय एव विशेष-निर्णयादिति भावः ।। प्रकृतेति ।। प्राप्तेश्च समंजसमित्यत्र युगपत्प्रतीतिविषयत्वेन प्रकृतेत्यर्थः । निर्देशः एतादृशा इति निरूपणम् ।। पूर्वोक्तिरिति ।। भगवद्गुणानां मुमुक्षूपास्यत्वोक्तिरित्यर्थः । सङ्ख्यानिर्देशाभ्यामक्लृप्तत्वे उपास्यत्वायोगादिति भावः । चतुष्पञ्चषा इति सङ्ख्याक्लृप्तिः आनन्दादय इति निर्देशक्लृप्तिरिति ज्ञातव्यम् ।। केषाञ्चिदिति ।। यद्यानन्दादीनां चतुष्पञ्चषाणामुपास्यत्वं तर्हि सर्वेषां सर्वोपास्यत्वं स्यात् अविशेषादित्यर्थः ।। नैत इति ।। आनन्दादयो न किन्तु प्रकाशवीर्यादय एवेति वक्तुं शक्यत्वादित्यर्थः ।
ॐ आनन्दादयः प्रधानस्य ॐ ।। प्रधानस्य मोक्षस्यार्थे आनन्दज्ञाननिर्दोषात्मत्वाख्याश्च-त्वारो गुणा उपास्या इत्यर्थः ।। असमर्थत्वादिति ।। अतो न केषाञ्चित्समुच्चयः इत्युक्तदोष इति भावः ।। तमिति ।। तं भगवन्तं यद्गुणविशिष्टतयोपासते तद्गुणवन्तो भवन्तीत्यर्थः । ननु सच्चिदानन्ददोपासनाफलस्य निर्दोषत्वज्ञानानन्दादिरूपस्य सर्वापेक्षितत्वेनास्तु तदुपासनस्यावश्य-कत्वं आत्मत्वोपासनफलस्य स्वामित्वस्य सत्वेन कथं तदुपासनस्यावश्यकत्वमित्यत आह ।। आत्मपदेति ।। तच्चेति ।। तदात्मत्वोपासनस्य भगवत्प्रीतिसाधनत्वं चतुर्थेऽध्याये । आत्मेति तूपगच्छन्ति ग्राहयन्तीत्यत्र वक्ष्यत इत्यर्थः ।
।। इति आनन्दाद्यधिकरणम् ।। ५ ।।