ॐ तेजोऽतस्तथा ह्याह ॐ
४. अथ तेजोऽधिकरणम्
सूत्रभाष्यम्
।। ॐ तेजोऽतस्तथा ह्याह ॐ ।। १० ।।
‘वायोरग्निः’ (तै.उ. २-१) इत्यादेर्नान्यत उत्पत्तिर्ग्राह्या । अत एव परात्तदपि जायते । तत्तेजोऽसृजतेति ह्याह । कारणत्वेनेत्युक्तेऽप्यमुख्यतयाऽन्येषामपि शब्दोक्तत्वात्पुनरुक्तिरुभय-कारणत्वनिवृत्यर्थम् ।। इति तेजोऽधिकरणम् ।।
तत्त्वप्रदीपिका
एवं वाय्वाकाशयोरुत्पत्तिरुक्ता । तेजसस्तु कुत उत्पत्तिरिति विचार्यते । वायोरिति पूर्वपक्षः । ‘वायोरग्निः’’ इत्यादिश्रुतिबलात्परमात्मनोऽन्यतस्तेजस उत्पत्तिर्न ग्राह्या । अपि तु यतो वियद्वायू जातौ ततोऽत एव परात्तदपि जायते । वायोरग्निरित्यादेरत एव च प्रमाणात् । अपिशब्दाद्भूतवायुरपि परादेव जायत इति साधितमिति सूचयति । ‘आकाशाद्वायुः’ इत्युक्तेऽप्युक्तं हि ‘कारणत्वेन चाकाशादिषु’ इत्यत्राऽकाशादिभूतस्थ आकाशादिशब्दमुख्यार्थः पर एव वाय्वाद्युत्पत्तिकारणमिति तथा च पुनरुक्तिरित्यत आह– कारणत्वेनेति ।। यद्यपि विष्णुरेव मुख्यार्थः । तथाऽप्याकाशा-दीनामप्यमुख्यार्थतया शब्दोक्तत्वाङ्गीकाराथ ‘‘आकाशाद्वायुर्वायोरग्निः’’ इत्यादावुभयकारणत्वाशङ्का स्यात् । तन्निवृत्त्यर्थं च पुनरुक्तिरिति फलवती । तेत्तेजोऽसृजतेति प्रत्यक्षश्रुत्युपन्यासार्थत्वाच्च । उभयकार्यत्वाशङ्का व्युदस्ता पुरस्तादेव । पररूपस्य व्यक्तिमात्रोक्तेः । कार्यत्वापादकस्य कार्यशब्द-मुख्यार्थत्वमिति च विस्तृतम् ।
तत्त्वप्रकाशिका
एवं सर्वस्यापि ब्रह्मेतरस्योत्पत्तौ सिद्धायां वियदादीनां च परमात्मनो जन्मेत्यत्र विवादाभावेऽत्र ब्रह्मणि श्रुतिसमन्वयसिध्द्यर्थं तेजोजन्मविषयश्रुतिविरोधपरिहारादस्ति शास्त्रादिसङ्गतिः । सकल-जगत्कारणं ब्रह्मेत्युक्तम् । तत्र तेजसो वायुजातत्वे तदभावप्रसङ्ग इति तन्निरसनीयमेव । वायो-रनन्तरप्राप्तं तेजोऽत्र विषयः । किं वायोर्जायते ब्रह्मणो वेति सन्देहः । वायोरग्निः । ‘तत्तेजोऽसृजत’ इति श्रुतिविरोधः सन्देहबीजम् । वायोर्जायत इति पूर्वः पक्षः । ‘वायोरग्निः’ इति श्रुतेः । न च तेजसो वायुद्वारा परमात्मजातत्वाभिधायकत्वं श्रुतेर्वाच्यम् । किं ब्रह्म वायुद्वारमन्तरेण तेजः स्रष्टुमीष्टे न वा । आद्ये व्यर्थं वायुद्वारा सर्जनम् । द्वितीये सिद्धं नः समीहितं यावताऽस्माभिरप्युभय-कारणत्वमेवोच्यते । न च तत्तेजोऽसृजत इति श्रुतिविरोधः । तस्या उभयकारणत्वेऽप्यविरोधात् । ब्रह्ममात्रकारणत्वाभिधायकत्वे निरवकाशैतच्छ्रुतिविरोधेनाप्रामाण्यापातात् । अतो न जगत्कारणत्वेन ब्रह्मणः सर्वश्रुतिवेद्यतेति प्राप्ते सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ।। तेज इति ।। न ‘वायोरग्निः’ इत्यादि श्रुत्या तेजसो वायोरुत्पत्तिर्ग्राह्या । किं तु ब्रह्मणः सकाशादेव तेजो जायते । ‘तत्तेजोऽसृजत’ इति श्रुतेः । न च वायोरग्निरित्यादिश्रुतिविरोधः । तत्र वायुद्वारा तेजसो ब्रह्मजातत्वोक्तेः । न च द्वारवैयर्थ्यादुभयकारणत्वं वाच्यम् । वाय्वादेरकारणत्वेऽपि वाय्वादिद्वारमनुसृत्य ब्रह्मणः स्वेच्छयैव लीलया तेजः प्रभृतिकारणत्वस्य श्रुत्यादिसिद्धत्वात् । श्रुत्यादिकं चोत्तराधिकरणे दर्शयिष्यत इति भावः ।
ननु ‘कारणत्वेन चाकाशादिषु यथा व्यपदिष्टोक्तेः’ इत्यधिकरणे वाय्वादिशब्दानां ब्रह्मणि समन्वयस्योक्तत्वेन तेजसो ब्रह्मजातत्वस्य सिद्धत्वात् किं पुनरुक्त्येत्यत आह ।। कारणत्वेनेति ।। कारणत्वेनेत्यत्रैव ब्रह्मणस्तेजःकारणत्वसिद्धावपि तस्य पुनरुक्तिर्युक्ता उभयकारणत्वनिवृत्त्यर्थत्वात् । न च तत्तेन निरस्तं भवति । तत्र वाय्वादीनामप्यमुख्यतया वाय्वादि शब्दवाच्यत्वस्याङ्गीकृतत्वे-नोभयकारणत्वाविरोधादिति भावः । अतः श्रुत्यविरोधेन तेजसो ब्रह्मकारणत्वे सिद्धे युक्तो ब्रह्मणि वेदसमन्वय इति सिद्धम् । स्यादेतत् । एतत् श्रुतीनामुपादाननिमित्तविषयतया स्वत एव व्यवस्थित-त्वात् किमेतेनायासेनेति । मैवम् । वायुप्रभृतीनां देवतात्वादुपादानशक्तेश्च परमात्माधीनत्वादिति ।
गुर्वर्थदीपिका
न तु तेजोऽधिकरणे ‘वायोरग्निः’ ‘तत्तेजोऽसृजत’ इति वाक्यद्वयात्तेजस उभयकारणत्व-शङ्कावद्वायोरपि ‘आकाशाद्वायुः’ ‘स इदं सर्वमसृजत’ इति वाक्यद्वयाद्वायोरप्युभयकारणत्व-शङ्काप्राप्तिरस्त्येव । लीलया वायुं द्वारीकृत्य परमात्मनैव तेजसस्सर्जनान्नोभयोस्समकारणत्वमिति समाधानवदाकाशं द्वारीकृत्य परमात्मनैव वायोस्सर्जनान्नोभयोस्समकारणत्वमिति समाधानस्यापि साम्यात् । भूतवायोरेवाधिकरणान्तरं कुतो न क्रियत इति चेत्सत्यम् । अधिभूतपञ्चकविषये अधिकरणपञ्चकं चिकीर्षुस्सूत्रकारः आकाशवायुविषयतयाऽधिकरणद्वयस्य कृतत्वात्क्रमप्राप्ततेजो-विषयेऽप्येकमधिकरणमेवाकरोत् । अनयैव दिशा वायुजनने आकाशस्य द्वारतामाकाशजननेऽ-हङ्कारस्य द्वारतां चासूचयत् । न तु विचारितवायोरेव पुनर्विचाराय मतिं चक्र इति विवेकसम्भवात् । जगत्कारणं ब्रह्मेत्यत्र कारणत्वमात्रस्य पूर्वपक्षिणाऽप्यङ्गीकृतत्वात्स्वतन्त्रकारणं ब्रह्मेत्युक्तमिति शङ्कितुरभिप्रायः । उभयकारणत्वमेवोच्यत इत्यस्य स्वातन्त्र्येणोभयकारणत्वमित्यर्थः । तच्च वायुं विना भगवतः करणसामर्थ्यं नास्तीति सिद्धान्तिनाऽप्यङ्गीकृतं चेदिष्टापत्तिरिति भावः । तत्तेजोऽ-सृजतेति श्रुतेरिति वदता असृजतेति कर्तृप्रयोगाद्ब्रह्मणः स्वतन्त्रकारणत्वं लभ्यत इति सूचितम् । वायुब्रह्मणोरुभयोरपि साम्ये तद्ब्रह्म वायोरसृजतेत्यवक्ष्यत् । अत एव यथा स्वातन्त्र्यं स्यात्तथाऽऽहेति सूत्रमिति भावः । वाय्वादेरकारणत्वेऽपीत्यत्र स्वातन्त्र्येणाकारणत्वेऽपीत्यर्थः । तत्र वाय्वादीनामप्यमुख्यतयेत्यत्र वाय्वादीनां शब्दवाच्यतामात्रस्यामुख्यत्वेन कथनेऽपि कारणतामुख्य-तायाः सूत्रमर्यादयाऽलाभादिति भावः । नन्वेवमपि ‘तदनन्यत्वमारम्भणशब्दादिभ्य’ इत्यधिकरणे ब्रह्मणोऽन्यस्य स्वतन्त्रकारणताया अपि निवारितत्वात्किमनेनेति चेत्सत्यं तत्रोदाहृतश्रुतौ ‘यतो भूमिम्’ इति भूमात्रजनने कारणान्तराक्षेपात्तेजोवारिणोर्विषये नेति मन्दाशङ्कापरिहारार्थं पुनरारम्भ इति ज्ञेयम् ।
भावबोधः
अनन्तरसङ्गतिमाह– एवं सर्वस्यापीति ।। उत्पत्तेरेवासिद्धौ कारणविशेषचिन्ताया अनवसरग्रस्तत्वेनाद्यद्वितीयाभ्यां सर्वस्योत्पत्तौ साधितायां जनकीभूतस्य ब्रह्मणोऽप्यन्यजन्यत्वे पुनस्तत उत्पत्तिर्न सम्भवतीति शङ्कायां तृतीयाधिकरणेन परिहृतायां सर्वस्यापि ब्रह्मेतरस्या-विवादेनोत्पत्तौ सिद्धायामेतच्चिन्तावसर इति भावः ।। विवादाभावेनेति ।। अधिकरणद्वय-प्रतिपादितवियत् मातरिश्वादीनां ब्रह्मान्यजन्यत्वप्रापकाभावाद् विवादाभावेन न तदर्थमधिकरणान्तरं कर्तव्यमिति भावः । यद्वा, पूर्वाधिकरणे सत इत्युक्तस्य ब्रह्मणोऽत्र ‘अतः’ इति परामर्शादनन्तर-सङ्गतिर्द्रष्टव्या । श्रुतिक्रमेणाप्यनन्तरसङ्गतिं दर्शयन् विषयमाह– वायोरनन्तरप्राप्तमिति ।। ‘असम्भवस्तु’ इत्यनेनोक्तरीत्या व्यवधानं न दोष इति भावः ।। किमिति ।। अत्र तेजः किं वायोर्जायते ब्रह्मणो वेति चिन्ता । तदर्थं ब्रह्मजातत्वश्रुतिः वायोरग्निरिति श्रुतिविरुद्धा न वेति । तदर्थं सा श्रुतिर्वायोर्मुख्यकारणत्वप्रतिपादकत्वेन निरवकाशोत द्वारपरत्वेन सावकाशेति । तदर्थं ब्रह्मणो द्वारतया वायुग्रहणं किं तद्रहितस्याशक्त्योत शक्तस्यापि लीलयेति । तदर्थं तत्र प्रमाणं नास्त्युतास्तीति । वायोरग्निरित्यादेर्नान्यत उत्पत्तिर्ग्राह्येति भाष्यानुसारेण पूर्वपक्षमाह– वायोरिति ।। विष्णोरेव तेजस उत्पत्तौ द्वारकारणवैयर्थ्यमिति न्यायविवरणोक्तयुक्तिं वक्तुमाह– न चेति ।। विष्णोरेवेत्येवशब्दानुरोधादाह– वायुमन्तरेणेति ।। आद्यपक्षोत्तरत्वेन न्यायविवरणं योजयति– आद्ये व्यर्थमिति ।। उभयकारणत्वनिवृर्त्त्यमिति भाष्यानुसारेण द्वितीये दोषमाह– द्वितीय इति ।। तत्तेजोऽसृजतेति श्रुतिर्ब्रह्मकारणत्वमात्रपरा वा ब्रह्ममात्रकारणत्वपरा वेति विकल्पं हृदि निधाय क्रमेण पक्षद्वये दोषमाह– तस्या इत्यादिना ।। सूत्रे ‘अत’ इत्येतत्पूर्वसूत्रस्थ ‘स’च्छब्दोक्त परमात्मपरामर्शकं सावधारणं च । ‘तथा’ शब्दो वियदादिसमुच्चयार्थः । ‘हि’शब्दो हेत्वर्थः । असम्भव इत्युक्तप्रकृत्यर्थमात्रस्य विवक्षितप्रत्यययोगेनानुवृत्तिरित्यभिप्रेत्यप्रवृत्तस्य वायोरग्निरित्यादि-भाष्यस्याभिप्रायमाह– न वायोरित्यादिना ।। द्वारमनुसृत्यैव विष्णोः प्रवृत्तिरिति न्यायविवरणाभि-प्रायमाह– वाय्वादेः अकारणत्वेऽपीति ।। अनेनानुसृत्यैवेत्येवशब्दाध्याहृतेन लीलयेत्यनेन सम्बन्धो वा शक्तोऽपि स्वेच्छामनुसृत्यैवेत्यभिप्रायो वा उक्तो भवति ।
ननु ‘वायोरग्निः’ इति श्रुतेर्भूतवायोरग्निं प्रत्युपादानत्वमात्रप्रतिपादकत्वं ‘तत्तेजोऽसृजत’ इति श्रुतेस्तु ब्रह्मणः कर्तृत्वप्रतिपादकत्वम् । सति चैवं श्रुत्योर्विरोधाभावादधिकरणमेवेदं व्यर्थमिति दूरे उभयकारणत्वनिवृत्त्यर्थेति अभ्यधिकचिन्तावसर इत्याशयेन शङ्कते स्यादेतदिति ।। देवता-त्वादिति ।। तथा च श्रुतिद्वयस्यापि निमित्तपरत्वेन विरोधप्राप्तौ ‘वायोरग्निः’ इति श्रुतेर्देवता-द्वारत्वमात्रपरत्वेन व्यवस्थां वक्तुमायास इति भावः ।। उपादानशक्तिश्चेति ।। ‘तत्तेजोऽसृजत’ इति श्रुतेर्ब्रह्मणो भूतवाय्वनुप्रवेशेन तद्गतोपादानत्वशक्तिप्रेरकत्वेनापि कारणत्वप्रतिपादकत्वमभिप्रेतम् । ‘वायोरग्निः’ इति श्रुतेर्ब्रह्मनैरपेक्ष्येणोपादानत्वप्रतिपादकत्वे विरोधप्राप्तौ ब्रह्मप्रेरितोपादानत्व शक्तियुक्तत्वरूपद्वारत्वप्रतिपादकत्वेन ‘वायोरग्निः’ इति श्रुतेर्व्यवस्थां वक्तुमायास इति भावः ।
भावदीपः
अत्र तेजसो ब्रह्मान्यस्मात्स्वतन्त्राज्जन्मास्ति न वेति विशेषविचारस्यावसरप्राप्तिरूपसङ्गतिमाह ।। एवमिति ।। सिद्धायामिति ।। वियन्मातरिश्वनयाभ्यामिति भावः । वियन्नये अनादित्वेनाभि-मतस्य सर्वस्योपलक्षणं वियत्पदमिति व्याख्यानात् । तत्र विशेषशङ्कायां मातरिश्वनयस्याग्रे ज्ञोऽत इति नयस्य च प्रवृत्तेः । उत्पत्तिः पराधीनविशेषावाप्तिरूपा ध्येया । परतन्त्रविशेषो हि विकार इति कीर्तित इत्युक्तेः । अत्र ब्रह्मेतरस्येत्युक्त्या ब्रह्मणः पराधीनविशेषावाप्त्यभावरूपानुत्पत्तौ सिद्धायाम् इति लभ्यते । तर्हि वियदादावियं चिन्ता कुतो न कृतेत्यत आह ।। वियदादीनामिति ।। स इदं सर्वमसृजत । एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च । खं वायुर्ज्योतिरापः पृथिवी’ इत्यादिश्रुत्या विकारहेतुकं सर्वं कुरुते निर्विकारवानित्यादिस्मृतिभिरीश्वरजातत्वस्य सिद्धत्वात् । अन्यजातत्वबोधकविपरीतश्रुत्यभावाच्च विवादाभाव इति भावः । यद्यप्याकाशाद्वायुरित्यस्ति वायावन्यजातत्वबोधिका विवादहेतुभूतश्रुतिः । तथाप्यतिव्यवहितस्य तेजसो ब्रह्मजातत्वसाधकै-तन्नयन्यायेनैवाव्यवहितवायोस्तत्सिद्धेः पृथग्विवादाभाव इति भावः । तथा च वक्ष्यति आप इत्यत्र अत्र न्यायप्राप्तभूतवाय्वित्यादि । अत्र वायुरतस्तथा ह्याहेत्युक्तावप्येतन्न्यायेनैवान्यजातत्वेन श्रुतीनां तेजःप्रभृतीनामीश्वरादेव जन्म नान्यस्मात्स्वतन्त्रादिति सिध्यति । तथापि वायौ मुख्यदेवतामादायैव विचारस्य कृतत्वादुदाहरणदारिद्य्राभावाद्वायुमपि विषयीकुर्वतो विचारान्तरस्यापि व्यवहिते तेजसि कृते वायौ कैमुत्यसिद्धिलाभाच्च तेजोऽत इत्येवोक्तिरिति तात्पर्यं ध्येयम् ।। श्रुतिसमन्वयेति ।। सर्वकारणतयेति योज्यम् ।। श्रुतिविरोधेति ।। श्रुत्योर्विरोधेत्यर्थः । यद्वा अन्यतो जन्मविषयिण्या वायोरग्निरिति श्रुत्या यो विरोधः कारणत्वेनोक्तसमन्वयस्य तत्परिहारादित्यर्थः ।। वायुजातत्व इति ।। वायुशब्दोऽत्र भूतवायुतद्देवतारूपोभयपरः । एवं तेजःशब्दोऽपि । अभिमानिव्यपदेशस्तु शरीररूपकविन्यस्तगृहीतेरिति च नयद्वयोक्तन्यायद्वयात् । स्वातन्त्र्येणेति योज्यम् ।
ननु वायुदेवतागतकर्तृत्वशक्तेः भूतवायुगतोपादानशक्तेश्च स्वातन्त्र्येऽपि न ब्रह्मणो जगत्कारणत्वाभावप्रसङ्गः । कारणत्वेन चेति नये ब्रह्मणोऽपि स्वातन्त्र्येण तेजःप्रभृतिसर्वकारण-त्वोक्तेः । तथा च तेजसो वायुशब्दितब्रह्मतद्देवतारूपोभयकर्तृत्वेऽपि स्वातन्त्रेण भूतवायू-पादानकत्वेऽपि न क्षतिरिति चेन्न । सर्वस्वातन्त्र्येण जगत्कारणत्वस्य जन्मादिसूत्रे विवक्षितस्या-भावप्रसङ्ग इति तात्पर्यात् ।। वायोरनन्तरेति ।। आकाशाद्वायुः वायोरग्निरिति श्रुतावित्यर्थः । वायोरेकरूपेण प्राग्विचारितत्वादिति भावः ।। किमिति ।। अयमर्थः । तेजोभूतं किं वायुभूतादीशा-प्रेरितोपादानशक्तिकाज्जायते तथा तेजोभूतं तद्देवता च वायुदेवतात ईशवत् स्वतन्त्रकर्तृशक्तिमत्याः जायते किं वा सर्वस्वतन्त्राद् ब्रह्मणः क्रमाद् द्विविधवायुद्वारा जायते । अन्यगतकर्त्रुपादान-शक्त्योरपि प्रेरकं ब्रह्मेति यावदिति ।। श्रुतिविरोध इति ।। उभयत्रापि स्वातन्त्र्येण कारणत्वोक्तावित्यर्थः । वायोरग्निरित्यादिभाष्यं नञ्परित्यागेन व्याकुर्वन्नाह ।। वायोर्जायत इति ।। सन्देहग्रन्थे अभिहितोऽर्थोऽत्राप्यनुसन्धेयः । विष्णोरेव तेजस उत्पत्तौ द्वारकारणवैयर्थ्य-मित्यन्यत्रोक्तयुक्तिं शङ्कापूर्वमाह ।। न च तेजस इति ।। शक्तस्य द्वारवैयर्थ्यमित्येव वाच्ये विकल्पमुखेनोक्तिरुभयकारणत्वेति भाष्यविवरणाय ।। यावतेति ।। यस्मादित्यर्थः । ईश्वरकारणत्वं द्विरूपवायुकारणत्वं चेत्युभयकारणत्वमित्यर्थः । स्वातन्त्र्येति योज्यम् । श्रुतिः किं ब्रह्मकारणत्वपरा अन्यकारणत्वनिषेधपरा वा आद्ये आह ।। तस्या इति ।। अन्त्ये आह ।। ब्रह्मेति ।। एतत् श्रुतीति ।। वायोरग्निरिति श्रुतीत्यर्थः ।। अत इति ।। द्वारपरत्वायोगेन निरवकाशान्यकारणत्व-श्रुतिभावात्तत्तेज इति श्रुतेश्चोभयकारणत्वेऽप्युपपन्नत्वादित्यर्थः ।। सर्वेति ।। यद्यपि वायोरग्नि-रित्यस्योभयकारणत्वपरत्वेऽपि अन्यस्येवास्ति ब्रह्मणोऽपि वेद्यता । तथाप्यन्यस्यापि स्वातन्त्र्येण तेजःकारणत्वप्राप्तावितरासाधारणकारणत्वेन तद्वेद्यता न प्राप्तेति सर्वश्रुतिवेद्यता नेत्युक्तम् । सूत्रे पूर्वस्मात्तुशब्दानुवृत्तिमुपेत्य भाष्ये अत एवेति सौत्रपदमनूद्य परादिति व्याख्यातम् । तत्रावधारण-व्यावर्त्योक्तिपरं वायोरित्यादि भाष्यमिति दर्शयन् भाष्यं व्याचष्टे ।। न वायोरिति ।। वायोरुत्पत्तिरिति ।। जडाजडाख्याद्विरूपाद्वायोर्द्विरूपतेजस इत्यर्थः । स्वातन्त्र्येणेति योज्यम् । हिर्हेताविति मत्त्वोक्तमिति श्रुतेरिति । एवं सूत्रभाष्यं व्याख्याय द्वारमनुसृत्यैव विष्णोः प्रवृत्तेरित्य-न्यत्रोक्तमत्र संयोज्य व्याकर्तुं प्रागुक्तशङ्कामनुवदति ।। न च वायोरिति ।। वायुद्वारेति ।। अन्यथा तत्तेज इति श्रुतिविरोधादिति भावः । नन्वथापि वायोरग्निरिति श्रुतिर्वायुद्वारा अग्नेरीशजत्वमाह । तत्तेज इति तु साक्षादेवेति पुनर्विरोधतादवस्थ्यम् । न च तत्तेज इत्यत्रापि वायुद्वारेति मतम् । तथात्वे तेजोभिमानिनी लक्ष्मीः प्राणस्त्वभिमानवानिति स्मृत्या श्रीदेव्या वायुद्वारा जन्मायोगात् । प्राथम्याच्च तेज आद्या लक्ष्म्यादय इति सिद्धमिति तद्भाष्यविरोधादिति चेन्न । सृष्टिभेदेनाविरोधात् । न चैवं छान्दोग्ये क्रमानुक्तावापि तैत्तिरीयोक्तस्य स इदं सर्वमसृजत इत्यादाविव ग्राह्यत्वेना-विरोधादिति वियदधिकरण चन्द्रिकावाक्यविरोधः । तस्याभ्युपगमवादत्वात् । छान्दोग्यभाष्य-स्यार्थान्तरत्वमुपेत्य प्रवृत्तत्वाद्वा पररीत्या वा न दोष इत्याहुः ।। अकारणत्वेऽपीति ।। स्वतन्त्र-कारणत्वाभावेऽपीत्यर्थः ।। श्रुत्यादिकं चेति ।। एतस्माज्जायत इत्यादीत्यर्थः ।। उभयकारणत्वेति ।। ब्रह्मवद्वायुरपि स्वतन्त्रकारणमिति शङ्कानिवृत्त्यर्थत्वादित्यर्थः ।। न च तत्तेन निरस्तमिति ।।
नन्वथापि तदनन्यत्वनये विष्णोरन्यस्य स्वतन्त्रसाधनत्वं निरस्तमित्युभयकारणत्वमपि निरस्तमिति चेन्न । तत्र युक्तिप्राप्तस्यैवान्यस्वातन्त्र्यस्य निरासादत्र पुनः श्रुतिप्राप्तस्य निरास इति तात्पर्यात् ।। अमुख्यतयेति ।। हरौ परममुख्यत्वापेक्षयैतदुक्तिः । समाकर्षादिति न्यायात् । अन्यथा कल्पनासूत्रविरोधात् ।। अत इति ।। वायोरग्निरिति श्रुतेर्द्वारपरतया सावकाशत्वात्ततेज इति श्रुतिबलाच्चेत्यर्थः । सूत्रभाष्ययोरयुक्ततामाशङ्क्याधिभूताधिदैवेति पादादिस्थभाष्यानुरोधेन समाधिमाह ।। स्यादेतदिति ।। एतच्छ्रुतीनां वायोरग्निः तत्तेजोऽसृजतेत्येवं रूपश्रुतीनामित्यर्थः ।। देवतात्वादिति ।। तथा च वायुदेवताया अपीशवत्स्वातन्त्र्येण तेजः प्रतिनिमित्तकारणत्वं प्राप्तमिति श्रुत्योर्विरोधः प्राप्त इति तन्निरासायासः सफल इति भावः । वाय्वादिशब्देषु भूतपरत्वस्यापि सत्त्वात् । तत्र तत्र स्थितो विष्णुस्तत्तच्छक्तीः प्रबोधयन्नित्यग्रे वक्ष्यमाणस्मृत्यनुरोधेनाह ।। उपादानशक्तेश्चेति ।। न केवलं देवतागतकर्तृशक्तेरित्यर्थः । तथा च कारणत्वेनेत्यन्यत्रोक्तन्यायेन वाय्वादौ स्थितो भगवान्वाय्यादिशब्दित भूततद्देवतागतोपादानकर्तृशक्तीः प्रेरयंस्तेजःप्रभृतिकार्यं करोतीति वक्तुमयमारम्भ इत्यर्थः । नन्वथापि कर्तेति नये परात्तु तच्छ्रुतेरिति गुणसूत्रे जीवगत-कर्तृत्वशक्तिरपि ईश्वरायत्तेति वक्ष्यमाणत्वात्तन्न्यायेन वाय्वादिदेवतास्थितकर्तृत्वशक्तिरपि ईश्वरायत्ता सेत्स्यति किमनेनेति चेन्मैवम् । तेन विनापि कर्तुं शक्तिसत्त्वे द्वारोक्तिवैयर्थ्येनान्यगत-कर्तृत्वादिशक्तेः स्वातन्त्र्यस्य श्रुतिप्रापितत्वादुभयकारणत्वं श्रौतमिति शङ्कायां लीलया द्वारोपादानेनैवेश्वरेण सृष्टिकारणात्तस्यैव च श्रुतावुक्त्युपपत्तेरीशाधीनैव कर्तृत्त्वादि शक्तिरन्यगतेत्यत्र कथनादिति भावः । यत्तु तत्तेज इति श्रुतौ साक्षात्तेजसः सृष्टिः वायोरग्निरित्यत्र वायुद्वारा । तथा च विरोध इति चोद्यं तत्तूक्त्यनुक्त्योर्विरोधाभावादिति प्रागेव निरस्तप्रायमिति भावः ।
अभिनवचन्द्रिका
एवमिति ।। उत्पत्तौ सिद्धायामित्यन्तमवसरसङ्गतिसूचनार्थम् । ननु प्राथमिकत्वाद्वियद्विचार एव कर्तव्यः, न तेजोविचार इत्याशङ्कापरिहाराय ‘वियदादीनां च परमात्मनो जन्मेत्यत्र विवादाभावेन’ इत्यन्तं वाक्यं प्रवृत्तम् । अत्राऽऽदिशब्दः प्रक्षिप्तः वियतश्चेत्येव पाठः । वायोरबधिकरणे विचार्यमाणत्वात् विवादसद्भावाच्चादिशब्दसङ्ग्रह्याभावात् । ततः परं ‘वियद्विचारं परित्यज्य’ इति शेषः । अत्र ब्रह्मणि श्रुतिसमन्वयसिद्ध्यर्थमित्याद्यन्तर्भावसङ्गतिनिरूपणार्थम् । वायुविचारपरित्यागेन, प्रथमं तेजोविचारस्तु क्वचित् तेजः पूर्वसृष्टेः श्रवणात् तत्प्राधान्यविवक्षयेति बोध्यम् ।। तदभावप्रसङ्ग इति ।। स्वातन्त्र्येण जगत्कारणत्वाभावप्रसङ्ग इत्यर्थः ।। तस्या इति ।। उभयकारणत्वेऽपि तस्याः श्रुतेः अविरोधात् । निरवधारणत्वेनोपपन्नत्वादित्यर्थः । सर्वं वाक्यं सावधारणम्’ इति न्यायेन ‘तत्तेजोऽसृजत’ इति श्रुतिरवधारणतात्पर्यवतीत्यत आह – ब्रह्ममात्रेति ।। व्रीह्यादेरकारणत्वेऽपीति ।। वाय्वादीन् विना स्नष्टुं शक््यत्वेऽपीति भावः । वायुप्रभृतीनां देवतात्वादिति ।। वायुप्रभृतीनां देवतात्वेन ‘वायोरग्निः’ इति श्रुतेः निमित्तपरत्वस्यापि सद्भावेन विरोधसद्भावादायासः सार्थक इति भावः । ‘उपादानशक्तेश्च परमात्माधीनत्वात्’ इति वाक््यं प्रक्षिप्तम् न टीकावाक्यमिति बोध्यम् ।
पूर्वपक्षस्तु – न श्रुतिसमन्वयेन विष्णोरसाधारण्येन जगत्कारणत्वं वाच्यम् । तेजसः वायुजातत्वे श्रुतिसद्भावेन विष्णुवत् वायोरपि अग्निकारणत्वेन विष्णोर्विशेषाभावात् । न च वायुद्वारा तेजसः परमात्मजातत्वाभिधायकत्वं श्रुतेर्वाच्यम् । किं ब्रह्म वायुद्वारमन्तरेण तेजः स्रष्टुमीष्टे, न वा । आद्ये द्वारवैयर्थ्यम् । द्वितीये तु साम्यं तयोरवर्जनीयम् । अतो न जगत्कारणत्वेन सर्वश्रुतिसमन्वयो युक्त इति ।
सिद्धान्तस्तु – युक्तमेव तत्र सर्वश्रुतिसमन्वयेन जगत्कारणत्वं ‘तत्तेजोऽसृजत’ इति श्रुतेरग्नेर्विष्णुजातत्वात् । न च ‘वायोरग्निः’ इत्यादिश्रुतिविरोधः । तत्र वायुद्वारा तेजसो ब्रह्मजातत्वोक्तिः । न च द्वारवैयर्थ्यानुपपत्त्या उभयोरपि कारणत्वं वाच्यम् । शक्तस्यापि ब्रह्मणः स्वेच्छयैव द्वारमनुसृत्य कारणत्वस्य प्रमाणसिद्धत्वात् । अतः श्रुत्यविरोधेन तेजसो ब्रह्मजातत्वे सिद्धे सर्वश्रुतिसमन्वयेन जगत्कारणत्वं हरेरिति सिद्धम् ।
वाक्यार्थमुक्तावली
भगवतः स्वतन्त्रत्वाद्वायुद्वारमन्तरेण स्रष्टुं समर्थस्यापि स्वेच्छयैव वायुद्वारानुसरणमिति इह सिद्धान्तस्य वर्तिष्यमाणत्वेन, अनुसारितेत्येदधिकरणसिद्धान्तन्यायस्य स्वातन्त्र्यरूपपूर्वाधिकरण-सिद्धान्तन्यायावष्टम्भेन प्रवृत्तेरव्यवहितसङ्गतिः । अत एव सूत्रे तेजोत इति तत्परामर्श इति ज्ञेयम् ।। वियदादीनामिति ।। नन्वस्त्येवादिपदोपात्तस्य वायोःपरमात्मजातत्वे, आकाशाद्वायुः एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च खं वायुर्जोतिराप इति श्रुतिविवादः । अत एवा-बधिकरणटीकायां ब्रह्मण एवाबादिसृष्टिरिति भाष्यस्थादिपदं मूलीकृत्य टीकायां सौत्रापशब्दस्योप-लक्षणत्वं वक्ष्यतीति चेन्न । टीकायामादिपदेन प्रकृतिकालादयो गृह्यन्ते न तु वाय्वादयः तेषामपि विप्रतिपत्तिविषयत्वात् । तर्हि प्रथमातिक्रमे कारणाभावाद्वायुरतस्तथाहेति सूत्रयितव्यम् अप्पदेनोप-लक्षणमयुक्तमिति चेन्न । अतिव्यवहितानामपां ब्रह्मजत्वसाधकतदधिकरणन्यायेनैकव्यवहितस्य वायोस्तत्सिद्धिरिति कैमुत्यद्योतनायाप्शब्देनोपलक्षणसम्भवात् । नन्वेवं सति तेजोत इति व्यर्थम् आप इत्यनेन वायोरिव तेजसोऽप्युपलक्षणसम्भवात् । खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी’ इति तदधिकरणोपात्तश्रुतौ तेजसोऽपि ब्रह्मजातत्वाभिधानादिति चेन्न ।
सिद्धान्ते ‘तत्तेजोऽसृजत’ इत्यसाधारणश्रुत्युपन्यासायैतदधिकरणोपपत्तेः । यद्यपि तत्रैव सौत्रतेजः शब्दस्यान्योपलक्षकत्वमङ्गीकृत्यादिपदं भाष्ये प्रयोक्तुमुचितं प्रथमातिक्रमे कारणाभावात् । तथापि तदपोऽसृजत तदिदं सर्वमित्यत्राद्भिः सह वाय्वादिसर्वसृष्ट्युक्तेस्तत्रैवोपलक्षणा कृता । किं चैतदधिकरणद्वयार्थे उदाहरणीये प्रमाणे वाय्वादीनां ग्रहणात्तत्रैवोपलक्षणाभिप्रायेणादिपदप्रयोगः । तत्त्वप्रदीपे तु, तेजःशब्दो वायूपलक्षकः अत एव भाष्ये तदपीत्यपिपदमुक्तं वायोरनन्तरप्राप्तमिति । एतेन श्रुतिक्रमेणाप्यनन्तरसङ्गतिरुक्ता भवति । असम्भवस्त्वित्यनेन व्यवधाने कारणं तूक्तम् । किमिति । तेजः किं वायोर्जायते ब्रह्मण एवेति चिन्ता । तदर्थं वायोरग्निरिति श्रुतिः वायोर्मुख्य-कारणत्वपरा उत द्वाराकारणत्वपरेति । तदर्थं किं ब्रह्मणो द्वारोपादानं अशक्त्या, उत लीलयेति । सूत्रे सतः स्वातन्त्र्यादिति सत्परामर्शलब्धं विष्णोः स्वतन्त्रकारणत्वं, वायोर्द्वारकारणत्वं चाशङ्क्य द्वारवैयर्थ्यमित्युक्तं न्यायं सङ्गमयति । सूत्रे सत्परामर्शात्तथा ह्याहेति सूत्रखण्डं प्रतिक्षिपति न चेति । कुतो वाच्यमित्यतस्तत्तेजोऽसृजतेति श्रुतिब्रह्ममात्रकारणत्वपरा वेति विकल्पं हृदि निधाय क्रमेण पक्षद्वये दोषमाह ।। तस्या इत्यादिना ।। उभयकारणत्वनिवृत्यर्थमिति वक्ष्यमाणस्याक्षेपोऽयम् । उभयकारणत्वेऽपीति ।। अत एव परादिति सिद्धान्तानुसारेण ब्रह्ममात्रकारणत्वेति सूत्रे अत इति सत्परामर्शः । पूर्वसूत्रात्तुरनुवर्तते । स चावधारणेऽप्यर्थे च । अवधारणस्यात इत्यनेनान्वयः । अपेस्तु तेज इत्यनेनान्वयः । न केवलं वियदादिरित्यर्थः । हिर्हेतौ ।। यस्मात्तथा श्रुतिराहेति ।। जायत इति शेषः इत्यभिप्रेत्य प्रवृत्तं भाष्यं व्याचष्टे ।। न वायोरित्यादिना ।। सूत्रे सत इति भाष्ये परादिति स्वातन्त्र्योक्त्या वायोर्द्वारत्वमवसीयत इत्याह ।। तत्र वायुद्वारेति ।। न च द्वारवैयर्थ्या-दिति ।। तथा चात एवेत्यवधारणायोग इति भावः । कुतो न वाच्यमित्यतः अपि वाय्वादेः स्वतः कारणत्वाभावेऽपि स्वातन्त्र्यादेव परात् वायुद्वारैव तज्जायते कुतः अत एव परात्तत्संकल्पादेव हि यस्मादुदाहरिष्यमाणश्रुतिस्तथा हेति सूत्रभाष्ययोरर्थं मत्वाऽनुसारितेति सिद्धान्तन्यायं दर्शयन् व्याचष्टे ।। वाय्वादेरिति । अस्मिन् व्याख्याने तत्तेजोऽसृजतेति श्रुत्युदाहरणं परित्यज्य वक्ष्यमाणमनुसन्धेयम् ।। श्रुत्यादीति ।। खं, वायुर्जोतिराप इति तेजःकारणवायोरपि ब्रह्मजातत्व-मुक्त्वा पुनस्तेजसोऽपि ब्रह्मजातत्वप्रतिपादनाद्वायोर्द्वारकारणत्वमवसीयते । वामनपुराणे लीलयैव द्वारानुसरणं प्रतीयत इति भावः ।। उभयकारणत्वेति ।। उभयोरपि स्वतन्त्रकारणत्वनिवृत्यर्थत्वा-दित्यर्थः ।। अमुख्यतयेति ।। ‘भूतं भूताभिमानी च तद्देहोऽन्तर्नियामकः । हरिश्चाकाशशब्दोक्तो मुख्यतो हरिरेव तु’ इत्यनुव्याख्यानोक्तेरिति भावः । तदधीनत्वादर्थवदिति न्यायेन वायोरग्निरित्यत्र वायुगताग्निकारणत्वस्य तदायत्तत्वेन वायोरिति कारणत्वपरपञ्चम्यन्तशब्दवाच्यत्वस्य, यथा-व्यपदिष्टोक्तेरित्यनेन लब्धत्वात्स्वातन्त्र्येणोभयकारणत्वशङ्कैव नोदेतीति चेन्न । ईश्वरस्य स्वातन्त्र्येणान्यस्य पारतन्त्र्येणेत्युभयकारणत्वे द्वारवैयर्थ्यमिति तदाक्षेपोपपत्तेः ।। स्वत एवेति ।। वायोस्तेजः प्रत्युपादनत्वस्य प्रसिद्धत्वात्तदैक्षत, तत्तेजोऽसृजतेति ईक्षया श्रुत्या ब्रह्मणो निमित्तत्वस्य स्पष्टं प्रतिभासादित्यर्थः ।। देवतात्वादिति ।। ‘भूतं भूताभिमानी च’ इत्युक्तदिशा देवतात्वस्यापि भावात् । चेतनस्योपादानत्वाभावेन च निमित्तत्वश्रुत्योः विरोधप्राप्तौ, देवताद्वारव्यवस्थया विरोधः परिहार्य एवेति भावः । वायोरग्निरित्यत्र वायुशब्दस्याचेतनपरत्वेऽपि तत्तेजोसृजत’ इत्यत्र तेनास्तिविरोधः । तथा हि । तदैक्षत तत्तेजोऽसृजतेत्यत्र तद्ब्रह्मतेजसो यदुपादानं वायुतेजःसूक्ष्म-तामसाहङ्काररूपं यच्च निमित्तं कालादि तत्सर्वमैक्षतेतीक्षितृत्वाच्च तदुपानत्वशक्तिः प्रबोध्य तेजोऽसृजन्तेति विवक्षितम् । ततश्चोपादानत्वशक्तेः परमात्माधीनत्वाद्वायोरग्निरित्यत्र साक्षाद्वायु-भूतादेव तेजोभूतपरिणामप्रतीतेर्विरोधे प्राप्ते तत्परिहारयामासेति भावेनाह ।। उपादानत्वशक्तेरिति ।। तदनन्यत्वमारम्भणशब्दादिभ्य इत्यत्र कारणान्तरस्य युक्तिप्राप्तं स्वातन्त्र्यं निरस्तम् । अत्र तु श्रुतिप्राप्तमिति भेदः ।
तत्त्वसुबोधिनी
अनन्तरसङ्गतिमाह ।। एवमिति ।। एवं ब्रह्मान्यस्य सर्वस्योत्पत्तौ, ब्रह्मणश्चानुत्पत्तौ सिद्धायां इदानीं कार्यविशेषकारणविशेषविप्रतिपत्तिर्निरस्यते इति संगतिः ।। यदा पूर्वाधिकरणे सतः इत्युक्तस्य ब्रह्मणः अत्रात इति परामर्शात् अनन्तरसंगतिरिति भावः ।। विवादाभावे इति ।। यद्यपि आकाशाद्वायुः एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च खं वायुर्ज्योतिरिति श्रुत्योः विवादोऽस्ति तथापि अतिव्यवहितस्य तेजसो ब्रह्मजत्वसाधके तदधिकरणन्यायेनैवाव्यवहितस्य वायोः तत्सिद्धेः अर्थे विवादाभावादिति भावः ।। श्रुतिक्रमेणास्य अनन्तरसङ्गतिं दर्शयन् विषयमाह ।। वायो-रनन्तरमिति ।। असम्भवस्त्वित्यनेन व्यवधानं तु न दोषः । उक्तरीत्या संगतिलाभेन तस्य मध्ये उक्तत्वादिति भावः । वायोरग्नि इत्यादेः नान्यत उत्पत्तिः ग्राह्या इति भाष्यानुसारेण पूर्वपक्षमाह ।। वायोरिति ।। विष्णोरेव तेजसः उत्पत्तौ द्वारकारणवैय्यर्थ्यमिति न्यायविवरणोक्तां युक्तिं वक्तुमाह ।। न चेति ।। विष्णोरेवेत्येवशब्दानुरोधेनाह वायुद्वारमन्तरेण इति ।। आद्यपक्षोत्तरत्वेन न्यायविवरणं योजयति ।। आद्य इति ।। उभयकारणत्वमन्तरेणेति भाष्यानुसारेण द्वितीये दोषमाह ।। द्वितीय इति ।। कथं समीहितं सिद्धमित्यतः आह यावतेति ।। नन्वेवं तेजसः साक्षात् ब्रह्मजातत्व-प्रतिपादकतत्तेज इत्यादीत्यत आह ।। न चेति ।। ‘तत्तेजोऽसृजत’ इति श्रुतिः ब्रह्मकारणत्व-मात्रपरा वा ब्रह्ममात्रकारणत्वपरा वेति विकल्पं हृदि निधाय क्रमेण पक्षद्वये दोषमाह ।। तस्या इत्यादिना ।। सूत्रे अत इत्येतत् पूर्वसूत्रस्थसच्छब्दोक्तं परमात्मपरामर्शकं सावधारणं तथाशब्दो वेदादिसमुच्चयार्थ हि शब्दो हेत्वर्थः । असम्भव इत्यस्य प्रकृतार्थपरत्वेनानुवृत्तिः इति अभिप्रेत्य प्रवृत्तस्य वायोरग्निरित्यादिभाष्यस्याभिप्रायमाह ।। न वायोरित्यादिना ।।
ननु परमात्मनोऽतिसमर्थत्वेन द्वारमन्तरेणैव सर्जनसमर्थत्वात्तेजआदिसर्जने वाय्वादिरूप-द्वारानुसरणं अनर्थकं इत्याशङ्क्य निषेधति ।। न चेति ।। वाय्वादेरकारणत्वेऽपि स्वतन्त्र-कारणत्वाभावेऽपीत्यर्थः । किञ्च श्रुत्यादिकमित्यत आह ।। श्रुत्यादिकं चेति ।। पौनरुक्त्यमाशङ्कते नन्विति ।। उभयकारणत्वनिवृत्त्यर्थत्वादिति ।। ब्रह्मवत् वायुरपि स्वतन्त्रकारणमिति शङ्का-निवृत्त्यर्थत्वादिति भावः । ननु कारणत्वेनेत्यनेनैवोभयकारणत्वस्य निरासादधिकरणानर्थक्यं तदवस्थमेवेत्यत आह न चेति ।। ननु वायोरग्निरिति श्रुतेर्भूतवायोरग्निप्रत्युपादानत्वमात्रप्रतिपादकत्वं तत्तेजोऽसृजतेति श्रुतेस्तु ब्रह्मणः कर्तृत्वप्रतिपादकं सति चैवं श्रुत्योर्विरोधाभावादधिकरणमेवेदं व्यर्थमिति दूरे उपादानकारणत्वनिवृत्त्यर्थमिति अभ्यधिकाचिन्तानवसर इति शङ्कते स्यादेतदिति ।। देवतात्वादिति ।। तथा च श्रुतिद्वयस्यापि निमित्तपरत्वेन विरोधप्राप्तौ वायोरग्निरिति श्रुतेर्देवता-द्वारत्वमात्रपरत्वेन व्यवस्थां वक्तुं आयास इति भावः । वायोरग्निरिति श्रुतेर्ब्रह्मनैरपेक्ष्येण वायोरुपादानत्वप्रतिपादनत्वप्रतिपादकत्वे तत्तेज इति श्रुतिविरोधः स्यादित्याह ।। उपादानशक्ते-श्चेति ।। तत्तेजोऽसृजतेति श्रुतेः ब्रह्मणो भूवाय्वनुप्रवेशेन तद्गतोपादानत्वशक्तिप्रेरकत्वेनापि कारणत्वप्रतिपादकत्वमभिमतम् । वायोरग्निरिति श्रुतेर्ब्रह्मनैरपेक्ष्येणोपादानत्वप्रतिपादकत्वे विरोध-प्राप्तौ ब्रह्मप्रेरितोपादानशक्तियुक्तत्वरूपद्वारत्वप्रतिपादकत्वेन वायोरग्निरिति श्रुतेर्व्यवस्थां वक्तुमय-मायास इति भावः ।
वाक्यार्थविवरणम्
अत्र किं तेजस उत्पत्तिविषये श्रुतिविरोधः परिह्रियते तदुत्पत्तिकर्तृविषये वा । नाद्यः । विवादाभावादित्याशयनोक्तम् । एवं सर्वस्यापि ब्रह्मेतरस्योत्पत्तौ सिद्धायामिति । द्वितीय आकाशाद्युत्पत्तिकर्तृविषये श्रुतिविरोधमपरिहृत्य तेजस उत्पत्तिकर्तृविषय एव तद्विरोधः कस्मात्परि-हरणीय इत्यत उक्तं वियदादीनां चेत्यादि । तेजोजन्मकर्तृविषये ‘तेजोऽसृजत’ ‘वायोरग्निः’ इति परस्परश्रुतिविरोधवदाकाशस्य ‘आत्मन आकाशः सम्भूत इति परमात्मन एवोत्पत्तिश्रवणेन भगवदन्यस्मादुत्पत्तेरश्रुतत्वेन परस्परश्रुतिविरोधाभावादादौ तेजोजन्मकर्तृत्वविषय एव श्रुतिविरोधः परिह्रियत इत्यर्थः ।। श्रुतेरिति ।। वायोरग्निरितिश्रुतेरित्यर्थः । तथा चास्यापि परमात्मजातत्वाभि-धायकत्वेन विरोध इत्याशयः ।। सिद्धं न इति ।। वायुकारणकत्वस्य प्राप्तत्वादिति भावः । ननु परमात्मकारणकत्वस्यापि प्राप्तत्वात् कथं समीहितसिद्धिरित्यत आह ।। यावतेति ।। यस्मादित्यर्थः ।। अविरोधादिति ।। तदेवेत्यवधारणाभावादिति भावः ।। निरवकाशैतच्छ्रुतीति ।। वायोरग्निरिति श्रुतीत्यर्थः ।। अप्रामाण्यापातादिति ।। ब्रह्ममात्रकारणत्वप्रतिपादिकायास्तत्तेजोऽसृजतेति श्रुतेरित्यर्थः ।। अत इति ।। एतद्दृष्टान्तेन सर्वस्याप्यप्रामाण्यप्राप्त्येत्यर्थः । एवमुत्तराधिकरणेऽपि एवमेवाभिप्रायो द्रष्टव्यः ।। श्रुत्यादिकम् ।। ‘तत्र तत्र स्थित’ इत्यादिकम् । तदुभयकारणत्वम् । तेन कारणत्वेनेति सूत्रेण । कुत इत्यत आह– तत्रेति ।। कारणत्वेनेति सूत्रे ।
वाक्यार्थमञ्जरी
ननु तेज उत्पद्यते न वेत्यविचार्य परमात्मनो जायते अन्यतो वेति विशेषविचारकरणमयुक्त-मित्यत उक्तम् ।। एवमिति ।। तर्ह्याकाशाविषये तत्किं न विचार्यत इत्यत उक्तम् ।। वियदादीनां चेति ।। तद् ब्रह्म वायुद्वारेति वायुलक्षणावान्तरकारणव्यवधानेनेत्यर्थः ।। अविरोधादिति ।। अन्यनिषेधाभावादिति भावः ।। ॐ तेजोऽतस्तथा ह्याह ॐ ।। यथा वियदादि तथा तेजोऽप्यतः भगवत एवोत्पद्यते कुतः हि यस्मात्तत्तेज इति श्रुतिराहेत्यर्थः ।। देवतात्वादिति ।। तथा च श्रुतिद्वयस्यापि निमित्तपरत्वेन विरोधप्राप्तौ वायोरग्निरिति श्रुतेर्देवताद्वारत्वमात्रपरत्वेन व्यवस्थां वक्तुमयमायास इति भावः । ननु वाय्वादिशब्दानामुभयपरत्वे नोपादानत्वमात्रग्रहणे विरोधा-भावस्तदवस्थ एवेत्यत आह ।। उपादानशक्तिश्चेति ।। तत्तेजोऽसृजतेति श्रुतेः ब्रह्मणो भूतवाय्वनु-प्रवेशेन तद्भूतोपादानत्वशक्तिप्रेरकत्वेनापि कारणत्वप्रतिपादकत्वेन वायोरग्निरिति श्रुतेर्ब्रह्मनैर-पेक्षेणोपादानत्वप्रतिपादकत्वे विरोधप्राप्तौ ब्रह्मप्रेरितोपादानत्वशक्तियुक्तत्वरूपद्वारवत्वप्रतिपादकत्वेन वायोरग्निरिति श्रुतेर्व्यवस्थां वक्तुमयमायास इति भावः ।
।। इति तेजोऽधिकरणम् ।।