ॐ महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम् ॐ

६. अथ वैशेषिकाधिकरणम्

सूत्रभाष्यम्

परमाण्वारम्भवादमपाकरोति–

।। ॐ महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम् ॐ ।। ११ ।।

महत्वाद्दीर्घत्वाच्च यथा कार्यमुत्पद्यते, एवं ह्रस्वत्वात्पारिमाण्डल्याच्चोत्पद्येत । वाशब्दा-दन्यथैतयोरपि न स्यात्, विशेषकारणाभावात् ।

सत्तर्कदीपावली

वैशेषिकाभ्युपगतपरमाण्वारम्भापाकरणत्वेन महद्दीर्घवदित्येतत् सूत्रं व्याचष्टे ।। महत्वा-दित्यादिना ।।

तत्त्वप्रदीपिका

अत्र परमाण्वारम्भवादिनो वदन्ति इच्छाज्ञानप्रयत्नसङ्ख्यापरिमाणपृथक्त्वसंयोगविभागैर्गुणैस्समवेत ईश्वरोऽस्ति । तदिच्छाऽदृष्टकालनिमित्तैः परमाणवः पार्थिवाद्याश्चतुर्विधाः सृष्टिकाले द्विश एव संयुज्यमाना द्व्यणुकानि कार्याण्यारभन्ते । तानि च द्व्यणुकानि त्रिशस्त्रिश एव युक्तानि त्र्यणुकारम्भकानि । तानि चतुश्चतुर्योगेन चतुरणुकानां समवायिकारणानि । ततोऽनियत्यैव सर्वकार्यसम्भवः । कारणगता गुणाः कार्ये सदृशं गुणान्तरमारभन्ते । ततः शुक्लेभ्यस्तन्तुभ्यः शुक्लः पटो जायते, कृष्णायाश्च मृदः कृष्णो घटः, महद्भ्यो दीर्घेभ्यश्च त्र्यणुकेभ्यस्तादृशं चतुरणुकं, ततश्च तादृग्गुणः खण्डावयवीत्येवमेव कार्याणीति नियमः । अस्य च नियमस्य क्वापि लोपमालपन्ति, यथा द्व्यणुकगतादणुत्वाद्ध्रस्वत्वाच्च परिमाणाख्यगुणात्त्र्यणुकेऽणुत्वं ह्रस्वत्वं च नोत्पद्येते । विजातीयपरिमाणाक्रान्तेः । पारिमाण्डल्याच्च परमाणुसमवेतात्परिमाणाद्द्व्यणुके ह्रस्वत्वपरिमाणवति पारिमाण्डल्यं नोत्पद्यत इति । अत्र सूत्रमवतारयति– ॐ महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम् ॐ ।। त्र्यणुक-महत्त्वाद्दीर्घत्वाच्च यथा चतुरणुकादौ महत्त्वं दीर्घत्वं च कार्यमुत्पद्यते, एवं द्व्यणुकगताद्ध्रस्वत्वात्त्र्यणुके ह्रस्वत्वं कार्यमुत्पद्येत । तथा परमाणुगतात्पारिमाण्डल्याच्च द्व्यणुके पारिमाण्डल्यान्तरमुत्पद्येत । यदि ह्रस्वत्वात्पारिमाण्डल्याच्च तादृशं नोत्पद्यते तर्हि महत्त्वदीर्घत्वयोरपि सकाशात्तादृशं नोत्पद्येत । विशेषकारणाभावात् । कल्पनामात्रस्यासाधकत्वात् । यथा च महत्त्वं दीर्घत्वं चतुरणुकगतं महत्त्वाद्दीर्घत्वाच्चोत्पद्यते एवं महत्त्वं दीर्घत्वं च त्र्यणुकगतं महत्त्वाद्दीर्घत्वाच्चैव स्यात् । अन्यथा चतुरणुकगतमपि तद्द्वयमेतयोर्न स्यात् । विशेषकारणाभावात् । यथा वा महद्दीर्घं चतुरणुकं महतो दीर्घात्त्र्यणुकादुत्पद्यते, तथा ह्रस्वपरिमण्डलावप्यणुपरमाणू ह्रस्वपरिमण्डलाभ्यां एव स्वकारणाभ्यां उत्पद्येयाताम् । यदि तौह ह्रस्वपरिमण्डलाभ्यां नोत्पद्येते तर्हि चतुरणुकगतं महत्त्वं दीर्घत्वं च त्र्यणुकगतमहत्त्वदीर्घत्वयोरपि न स्यात् । अनुत्पत्तौ च परमाणूनां तद्वत्सर्वानुत्पत्तिं प्रसञ्जयिष्यति । धर्मधर्म्यभेदादुभयी चोक्तिर्न विरुध्यते । अथ मतं द्व्यणुकत्र्यणुकयोः परिमाणान्तराक्रान्तेर्न पारिमाण्डल्याणुत्वे तत्र कार्यजनके, द्वित्वसङ्ख्या त्रित्वसङ्ख्या चाणुत्वमहत्त्वकारणं, परमाणु-द्व्यणुकयोर्महत्त्वे प्रत्यक्षत्वप्रसङ्गः, त्र्यणुकादीनामणुत्वे चाप्रत्यक्षत्वप्रसङ्ग इति । चतुरणुकादाविव द्व्यणुकादावपि विजातीयपरिमाणाक्रान्तिर्न स्यात् । अन्यथा तत्रापि स्यात् । विशेषप्रमाणाभावात् । सङ्ख्यायाः परिमाणारम्भकत्वे पृथक्त्वादेरपि स्यात् । न चेन्न तस्यापि । परमाणोर्द्व्यणुकस्य न महत्त्वं, त्र्यणुकादीनां च मेर्वादिभ्यो नाणुत्वमिति लोकानुभवविरुद्धम् । न चैवमनभ्युपगमे प्रत्यक्षाप्रत्यक्ष-विपर्ययप्रसङ्गः । उक्तं हि–

 प्रत्यक्षत्वतदन्यत्वे पुरुषापेक्षयाऽखिले ।

 अणुत्वं च महत्त्वं च यतो वस्तुव्यपेक्षया’ इत्यनुव्याख्याने ।

यस्मान्नयरत्नवराकरात्कतिचिदिह मणयः परिगृह्यन्ते । न च स्वस्मादनणोः स्वस्य महत्त्वं युक्तम्, अमहतो वाऽणुत्वम् । अपि च महत्वाद्दीर्घत्त्वाच्च यथा यत्किञ्चित्कार्यमुत्पद्यत एवं ह्रस्वत्वा-त्पारिमाण्डल्याच्चोत्पद्येत । यदि तयोः किमपि नोत्पद्यते तदैतयोरपि न स्यात् । विशेषहेतुर्वा वाच्यः ।

तत्त्वप्रकाशिका

अधिकरणप्रतिपाद्यमाह ।। परमाण्विति ।। अत्र हरेः सर्वगुणपूर्णत्वे वैशेषिकादिमतविरोध-परिहारादस्ति शास्त्रादिसङ्गतिः । विष्णुरनन्तगुणपूर्ण इत्युक्तम् । तस्य च परमाण्वारम्भवाद-विरुद्धत्वेनाभावशङ्का स्यात् । अतोऽसौ पराकरणीय एव । ईश्वरस्यानन्तगुणत्वं विषयः । युक्तमयुक्तं वेति सन्देहः । मतविवादः सन्देहबीजम् । न युक्तमिति पूर्वः पक्षः । षट् खल्विमे भावपदार्था द्रव्यादयः । तत्र गुणाश्रयो द्रव्यं पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनोभेदेन नवविधम् । तत्राकाशादिपञ्चकं नित्यमेव । भूतचतुष्टयं तु परमाणुरूपं नित्यमन्यदनित्यमेव । कर्मान्यत्वे सति जातिमात्राश्रया गुणाः रूपरसगन्धस्पर्शशब्दसङ्ख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वगुरुत्व-द्रवत्वस्नेहसंस्कारबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्माः । ते चानित्याश्रिता अनित्या एव नित्यद्रव्ये द्विविधाश्च । संयोगविभागयोरसमवायिकारणं कर्म उत्क्षेपणमपक्षेपणमाकुञ्चनं प्रसारणं गमनमिति पञ्चविधमनित्यमेव । नित्यमेकमनेकसमवेतं सामान्यमनेकविधम् । नित्यः सम्बन्धः समवाय एक एव । नित्यद्रव्यवृत्तयोऽन्त्या विशेषाः । एतत्त्रयं नित्यमेव । तत्रानित्यं कारणत्रितयजन्यम् । यत्समवेतं कार्यमुत्पद्यते तत्समवायिकारणं परमाण्वादिद्रव्यमेव । आदिसृष्टौ च परमाणवो द्व्यणुकादिक्रमेणावयविनमारभन्ते । समवायिकारणप्रत्यासन्नमधृतसामर्थ्यमसमवायिकारणम् । प्रत्यासत्तिर्द्वेधा । कार्यैकार्थप्रत्यासत्तिः कारणैकार्थप्रत्यासत्तिश्चेति । तत्र कार्यद्रव्यस्यावयवसंयोग एव कार्यैकार्थप्रत्यासत्त्यासमवायिकारणं भवति । कार्यगतगुणानां च कारणगतगुणाः कर्म च कारणैकार्थप्रत्यासत्त्यादिनासमवायिकारणम् । कार्यगतकर्मणश्च कारणगतगुणकर्मणी कार्यैकार्थ-प्रत्यासत्त्यासमवायिकारणम् । तत्र परिमाणं कारणगतं कार्यगतपरिमाणस्यासमवायिकारणं भवति । परमाणुद्व्यणुकगतं द्व्यणुकत्र्यणुकगतपरिमाणकारणं न भवति । किं तु सङ्ख्यादिनैव तज्जन्म । तदन्यत्कारणं निमित्तमीश्वरादृष्टकालादि । स चेश्वर आत्मविशेषः सङ्ख्यादिपञ्चगुणयुक्तः कर्तृत्वोपयोगिज्ञानेच्छाप्रयत्नशाली च । शिष्टषड्गुणायोग्य इति कथं तस्यानन्तगुणत्वं युक्तं स्यात् । अतो व्यर्थ एव पूर्वाध्याय इति प्राप्ते सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ।। महदिति ।। युक्तमेव हरेरनन्तगुणपूर्णत्वम् । वैशेषिकादीनामनुपपन्नभाषित्वेन तत्कल्पनाया अप्रामाणिकत्वात् । यथा हि । यदुच्यते परिमाणं त्र्यणुकादिगतमसमवायिकारणं भवति न परमाण्वादिगतमिति तदसत् । यथा महत्त्वाद्दीर्घत्वाच्च त्र्यणुकादिगतात्कार्ये परिमाणमुत्पद्यते तथा ह्रस्वत्वाद् द्व्यणुकगतात् त्र्यणुकगतपरिमाणोत्पत्त्युपपत्तेः । परमाणुपरिमाणश्च पारिमाण्डल्यात् द्व्यणुकगतपरिमाणोत्पत्ति-सम्भवादिति भावः । त्र्यणुकादिपरिमाणस्यारम्भकत्वेऽप्यस्य तन्मास्त्वित्यत आह ।। वाशब्दादिति ।। इति सूचितमिति शेषः । यदि ह्रस्वत्वादेर्नारम्भकत्वं तर्हि महत्वदीर्घत्वयोरपि तन्न स्यात् । कारण-विशेषाभावादित्यर्थः । न तावदसमवायिकारणलक्षणभावाभावाभ्यां विशेषः । ह्रस्वत्वादावपि तद्भावात् । अवर्जनीयप्रत्यासत्तिरेवेति चेन्न । महत्वेऽपि साम्यात् । पारिमाण्डल्यादेरारम्भकत्वे सर्व-कार्याणामणुत्वप्रसङ्ग इति चेत् तत्किमिदमणुत्वं तच्छब्दवाच्यत्वं तदत्यन्तसदृशपरिमाणत्वं वा । आद्ये नास्ति हानिः । द्वितीये महत्त्वस्याप्यनारम्भकत्वं स्यात् । न हि त्र्यणुकादिपरिमाण-मत्यन्तसदृशं सङ्केतमात्रं त्वप्रामाणिकमिति । द्व्यणुकादिपरिमाणे कारणान्तराभावाच्च सङ्ख्यादे-र्महत्त्वारम्भकत्वप्रसङ्गात् । संयोगस्य च द्रव्यनिमित्तत्वमेव किं न स्यात् । भिन्नतया प्रतीत्यभावादिति चेन्न । भिन्नतया प्रतीत्यभावेऽप्यपेक्षाबुद्धेरात्मगतद्वित्वनिमित्तत्वात् । अभ्युपगम्य चेदमुदितम् । किं तन्तूनां यथाकथंचित्संयोगः पटस्य कारणं विवक्षितो वा । नाद्यः । अनभ्युपगमात् । द्वितीये कस्येति वाच्यम् । पटस्येति चेत् कस्तदा पटोऽवशिष्यते । अतोऽसमवायिकारणं नाम न किञ्चिदस्तीति सिद्धम् ।

गुर्वर्थदीपिका

नित्यद्रव्ये द्विविधाश्चेत्यत्र, पाकजत्वात्पार्थिवपरमाणूनां रूपादयोऽनित्याः । आप्य-परमाण्वादीनां तु रूपादयो नित्याः । संयोगविभागौ तु सर्वत्राऽनित्यौ । अपेक्षाबुद्धिजन्यत्वात् द्वित्वादिसङ्ख्या अप्यनित्या इत्यर्थः । संयोगविभागयोरसमवायिकारणं कर्मेत्यत्र केवलसंयोग-जनकसंयोगे विभागजनकविभागे चातिव्याप्तिपरिहाराय संयोगविभागयोरित्युक्तम् । उभयकारणत्वं च कर्मण एवेत्यर्थः । पञ्चविधमनित्यमित्यत्र उत्क्षेपणापक्षेपणे सङ्गृह्णता शरादीनां तिर्यक् क्षेपणं न सङ्गृहीतमिति विभागे न्यूनतैवेति द्रष्टव्यमित्यर्थः । नित्यमेकमनेकसमवेतमित्यत्र नित्यं सामान्यमित्युक्ते परमाणुष्वतिव्याप्तिः । तत्परिहारार्थमेकमित्युक्तम् । नित्यमेकमित्युक्ते गगने । अतोऽनेकसमवेतमिति । अनेकसमवेतमित्येवोक्ते संयोगे । एकं समवेतमित्येवोक्ते पुनस्तत्रैव । अतस्तत्परिहारार्थं नित्यमिति । नित्यमनेकं समवेतमित्युक्तेऽन्त्यविशेषेष्वपि । अतस्तत्परि-हारार्थमेकमिति । अतः सर्वं विशेषणं सार्थकमित्यर्थः । अन्त्याविशेषा इत्यत्र व्यावर्तकान्तरा-भावेऽपि ये व्यावर्तकास्तेऽन्त्याः । तत्र अन्त्या इत्येवोक्ते कर्मत्वेऽतिव्याप्तिरतो द्रव्यवृत्तय इत्युक्तम् । तावत्येवोक्ते रूपादौ । अतोऽन्त्या इत्युक्तम् । द्रव्यवृत्तयोऽन्त्या विशेषा इत्युक्तेऽ-मूर्तव्यावर्तकमूर्तत्वे । अतो नित्येति । तथाऽपि भूतत्वे । अतः मात्रपदमप्यूह्यम् । यत्समवेतं कार्यमुत्पद्यते तदित्यत्र समवायस्य सम्बन्धतयोभयनिष्ठत्वेन कार्यसमवेतमपि कार्यमुत्पद्यत इति कारणलक्षणं कार्येऽतिव्याप्तमिति चेन्न समवेतपदेन समवायसम्बन्धेन तदाश्रितत्वस्य विवक्षित-त्वात् । कार्यस्य च कार्याश्रितत्वाभावादिति भावः । कारणैकार्थप्रत्यासत्त्यादिनेत्यत्राङ्गुली द्वयसंयोगासमवायिकारणे कर्मणि कार्यैकार्थप्रत्यासत्तिरादिपदेन गृहीतेत्यर्थः । कार्यैकार्थ-प्रत्त्यासत्तिर्नाम कार्येण सहैकार्थे समवेतत्वम् । तन्तुद्वयसंयोगस्यासमवायिकारणत्वे पट एव कार्यं तस्य च तन्तुद्वयसंयोगस्य च तन्तावेव समवेतत्वात्कार्यैकार्थप्रत्यासत्तिः । तन्तुरूपस्यासमवायि-कारणत्वे पटगतरूपं कार्यम् । तेन सहैकार्थप्रत्यासत्तेस्तन्तुरूपेऽभावात्कारणैकार्थप्रत्यासत्तिः । पटरूपकारणेन पटेन सह तन्तुरूपस्य तन्तौ प्रत्यासन्नत्वात्कारणैकार्थप्रत्यासन्नमित्यर्थः । कर्मणश्च कारणगतगुणकर्मणीत्यत्र कारणगतगुणाः । गुरुत्वमादिपतने हेतुः । उत्तरत्र पूर्व-पूर्वपतनक्रिया हेतुरिति तत्सिद्धान्तः । वस्तुगत्या आन्तं गुरुत्वादेव पतनं, क्लृप्तपरित्यागे कारणाभावादिति ज्ञेयम् । सङ्ख्यादिनेत्यत्रादिपदेन तूलपरिमाणासमवायिकारणभूतः प्रशिथिला-वयवसंयोगाख्यः प्रचयो गृह्यते । शिष्टषड्गुणेत्यत्र शिष्टाः उक्तात्माष्टगुणेभ्योऽवशिष्टाः ये जीवात्मनः सुखदुःखधर्माधर्मद्वेषसंस्काराख्याः षड्गुणाः तेषामयोग्य इत्यर्थः । अयोग्य इति वदतो दुःखमिश्रितत्वात्सुखमयोग्यं, दुःखमनिष्टरूपत्वात्स्वत एवायोग्यं, धर्मोऽनित्यसुखजनकत्वाद-योग्यः, अधर्मो दुःखजनकत्वादयोग्यः, द्वेषो दोषरूपत्वादयोग्यः, नित्यज्ञाने ज्ञाननाशोत्तर-कालीनसंस्कारोऽप्ययोग्य इति भावः । ‘महत्त्वाद्दीर्घत्वात्’ इति वदता भाष्यकारेण सौत्रमह-द्दीर्घशब्दौ भावप्रधानाविति सूचितम् । गुणगुणिनोरभेदसूचनाय सूत्रकृत्तु गुणिपदेनैवाह । महत्त्वेऽपि साम्यादित्यत्र महत्त्वं त्र्यणुकगतमहत्त्वं ततोऽपि सङ्ख्ययैवोत्तरपरिमाणोपपत्तौ महत्त्व-मवर्जनीयप्रत्यासत्त्या तिष्ठत्विति भावः । साम्यादिति वदता सौत्रो वाशब्द उपमार्थक इति सूचितम् । परितो मण्डलस्य वर्तुलस्य भावः पारिमाण्डल्यम् । आद्ये नास्ति हानिरिति वदता परममहत्परिमाणद्रव्यापेक्षया महीमहीधरादेस्तदपेक्षया घटादेस्तदपेक्षया तदवयवपरम्पराया-स्त्र्यणुकपर्यन्तमणुशब्देन व्यवह्रियमाणत्वादिति भावः । न हि त्र्यणुकादिपरिमाणमत्यन्त-सदृशमित्यत्र एकैकत्र्यणुकपरिमाणं त्र्यणुकचतुष्टयारब्धचतुरणुकपरिमाणेनात्यन्तसदृशमित्यर्थः । सङ्ख्यादेर्महत्त्वारम्भकत्वप्रसङ्गादित्यत्र द्व्यणुकत्रयारब्धत्र्यणुके एकैकत्र्यणुकान्महत्त्ववत्परमाणु-द्वयारब्धद्व्यणुके एकैकपरमाणुतो महत्त्वावश्यम्भावादिति भावः । आत्मगतद्वित्वेत्यत्र आत्म-द्वितयगतद्वित्वेत्यर्थः । कस्तदा पटोऽवशिष्यत इत्यस्योर्ध्वतया च पटाकारेणौतास्तन्तवः सम्यक् दीर्घाकारत्वादातानाः । तिर्यक्पटाकारेण प््र•ेतास्तन्तवस्तद्विरुद्धतानवत्वाद्वितानाः अयमेव पट इति सर्वैर्व्यवह्रियते । इतोऽतिरिक्तं पटं कः प्रत्येतीति भावः ।

भावबोधः

वैशेषिकादिमतविरोधपरिहारेति ।। तथा च प्राधान्येनेश्वरस्य जगत्कर्तृत्वमङ्गीकुर्वतामस्माकं मते ‘प्रतिषेधाच्च’ इति निरीश्वरमतोक्तदोषानवकाश इति पूर्वपक्षोत्थानादनन्तरसङ्गतिरपीति भावः ।। युक्तमयुक्तमिति ।। अत्र विष्णोरनन्तगुणपूर्णत्वं किं युक्तमुतायुक्तमिति चिन्ता । तदर्थं वैशेषिकादिसमयः श्रुत्युक्ततद्बाधनक्षमो भवत्युत नेति । तदर्थं वैशेषिकादयः किमुपपन्नभाषिण उतानुपपन्नभाषिण इति । तदर्थं तत्परिकल्पितप्रक्रियायां साधकबाधकभावाभावौ वर्तेते उत नेति ।। जातिमात्राश्रया इति ।। गुणे गुणत्वसमवायस्य द्रव्यत्वकर्मत्वाद्यभावस्य च जातिमात्रा-श्रयत्वमसम्भवीति न वाच्यम्; संयोगसमवायान्यतरसम्बन्धेन यद्यत्रास्ति तत्प््रात्येव स आश्रय इत्युच्यते । समवायाभावयोस्तु संयोगसमवायान्यतरसम्बन्धेन न गुणवृत्तित्वम् । किं तु केवलविशेषणत्वेनैवेति भावः ।। संयोगविभागयोरिति ।। समुचितयोरिति शेषः । तेन न संयोग-विभागयोरतिव्याप्तिः । कर्म चेति ‘च’ शब्देनाश्रयगतगुणाश्च । आदिपदेन कार्यैकार्थप्रत्यासत्ति-ग्रहणम् । तथा च कार्यगतानां रूपरसगन्धस्पर्शपरिमाणैकत्वानेकत्वपृथक्त्वोत्तरसंयोगविभाग-गुरुत्वद्रवत्वस्नेहवेगानां कारणगता रूपादयः कारणैकार्थप्रत्यासत्त्या असमवायिकारणम् । संयोगविभागवेगानामाश्रयगतं कर्म । पार्थिवपरमाणुगतानां रूपरसगन्धस्पर्शानां पार्थिवतैजस-परमाणुगतद्रवत्वस्य च तद्गत एव तेजःसंयोगः । सर्वत्रैकत्वानेकत्वपृथक्त्वयोराश्रयगतैकत्वैक-पृथक्त्वानि । परत्वापरत्वयोराश्रयगतौ दिक्कालसंयोगौ । आत्मविशेषगुणानामात्मगतमन-स्संयोगः । शब्दस्याकाशगताः संयोगविभागशब्दाश्च कार्यैकार्थप्रत्यासत्त्या असमवायिकारण-मित्यर्थः । कर्मणश्च कारणगुणकर्मणी इति । कर्मसमवायिकारणगतगुणकर्मणी इत्यर्थः । तथा च कर्मण आश्रयगता गुरुत्वद्रवत्ववेगसंयोगाः कर्म च कार्यैकार्थप्रत्यासत्त्या असमवायिकारण-मित्यर्थः । द्वितीयादिपतनस्यन्दनादिकं तृतीयादिपतनस्यन्दनादिकं प्रत्यसमवायिकारणमिति मतावष्टम्भेन कर्मग्रहणं कृतम् । वस्तुतस्तु वैशेषिकमते तृतीयादिपतनस्यन्दनादिकं प्रति वेगस्यैवासमवायिकारणत्वम् । न द्वितीयादिपतनादेः । अत एव सुधायां कर्मण आश्रयगता गुरुत्वद्रवत्ववेगसंयोगा असमवायिकारणमित्येवोक्तम् ।। परमाणुद्व्यणुकगतमिति ।। उपलक्षणमेतत् । तूलपिण्डाद्यवयवगतपरिमाणं तूलपिण्डादिगतपरिमाणगतपरिमाणकारणं न भवतीत्यपि ग्राह्यम् । अत एव तत्कारणप्रचयसङ्ग्रहार्थं सङ्ख्यादिनैवेत्यादिनैवेत्यादिपदप्रयोगः ।। शिष्टषड्गुणायोग्य इति ।। नित्ययथार्थज्ञानस्येश्वरस्य मोहासम्भवे तत्प््राभवरागद्वेषयोरयोगेन तज्जन्यधर्माधर्मयोरभावात्तन्निमित्तक सुखदुःखयोर्नित्यज्ञानत्वादेव स्मरणलक्षणकल्पकाभावेन भावनायाश्चायोगात् शिष्टषड्गुणायोग्य इत्यर्थः ।। यथा महत्त्वाद्दीर्घत्वाच्चेति ।। ‘कारणबहुत्वात् कारणमहत्वात् प्रचयविशेषाच्च महत्’ इति कणादसूत्रानुसारेण सूत्रे महदित्यादिभावप्रधानो निर्देशः । तत्र तस्यैव’ इति लक्षणस्य प्रायिकत्वात् पञ्चम्यन्ताद्वतिरित्यभिप्रेत्य भाष्ये महत्त्वा-दित्याद्युक्तमिति भावः ।। न तावदिति ।। नापि बाधकभावाभावाभ्यां विशेष इति तावच्छब्दः । अत एव पारिमाण्डल्यादेरारम्भकत्व इति बाधकमाशङ्क्य परिह्रियते– अवर्जनीयप्रत्यासत्ति-रेवेति ।। न तु सामर्थ्यावधारणमिति लक्षणाभाव एवेत्यर्थः । नास्ति नो हानिरिति त्र्यणुकादिसर्वकार्याणामापेक्षिकाणुत्वस्य सत्त्वेन तच्छब्दवाच्यत्वस्येष्टत्वादिति भावः ।

ननु परमाणुद्व्यणुकगतमेव परिमाणमणुशब्दवाच्यं न त्र्यणुकादिसर्वकार्यगतः कथमिष्टा-पत्तिरित्यत आह– सङ्केतमात्रमिति ।। अवर्जनीयप्रत्यासत्तिर्नेत्यत्र हेत्वन्तरमाह– द्व्यणुकादि-परिमाण इति ।। तथा चागत्या पारिमाण्डल्यादेरेव कारणत्वमिति न सामर्थ्यावधारणाभाव इति भावः ।

ननु सङ्ख्यादिनैव तज्जन्मेत्युक्तत्वात् कथं कारणान्तराभाव इत्यत आह– सङ्ख्यादेरिति ।। त्र्यणुकादिबहुत्वसङ्ख्याप्रचययोश्चतुरणुकादिगतमहत्त्वारम्भकत्वप्रसङ्गादित्यर्थः । युतसिद्धतयेत्यर्थः ।

भावदीपः

इत्युक्तमिति ।। पूर्वाध्याये उक्तमित्यर्थः ।। न युक्तमितीति ।। कुतो न युक्तमित्यतो द्रव्यत्वेन परिगणितात्मविशेषस्य तस्याष्टगुणमात्रयुक्तत्वादिति वक्तुं कानि द्रव्याणि के च गुणा इत्याकाङ्क्षायामनुव्याख्यानोक्तदिशा तदीयप्रक्रियामनुवदति ।। षट्खल्विति ।। एतदुक्तिः सर्व-सूत्रोपयोगित्वेन द्रव्यादय इत्यादिपदार्थो गुणकर्मसामान्यविशेषसमवाया इति लक्षणवाक्यै-र्विवरिष्यत इति भावः ।। गुणाश्रय इति ।। गुणात्यन्ताभावानधिकरण इत्यर्थः । तेनाद्यक्षणे नाव्याप्तिर्घटादाविति ध्येयम् । नित्यमेवेत्येवकारेण प्रवाहव्यवच्छेदेन स्वरूपस्यैव कूटस्थ-नित्यत्वमाह ।। एवमग्रेऽपि ।। अत्र नित्यानित्यविभागोक्तिः । नित्यमेव च भावात् । रूपादि-मत्त्वाच्चेत्येतत्सूत्रोपयोगित्वेन महदिति सूत्रोपलक्षितद्रव्यासमवायिकारणादिखण्डनाय चेति बोध्यम् ।। जातिमात्राश्रया इति ।। समवायवृत्त्येति योज्यम् । एतेन रूपत्वादिसमवायाश्रयो रूपादिरिति नासम्भवः । गुणस्वरूपाद्युक्तिरीश्वरस्याष्टगुणत्वाद्यवधारणार्था ।। अनित्या एवेति ।। गुणेषु नित्यानित्यविभागोक्तिर्महदितिसूत्रोपयोगित्वेन । संयोगजनके संयोगे विभागजनके च विभागेऽतिव्याप्तिनिरासाय संयोगविभागयोरिति द्वयोरप्युक्तिः । कर्मस्वरूपाद्युक्तिरुभयथापि न कर्मेतिसूत्रोपयोगित्वेनेति ज्ञेयम् । संयोगेऽतिव्याप्तिनिरासाय सामान्यलक्षणे नित्यमिति विशेषणम् । समवाये दोषनिरासाय समवेतमित्युक्तिः । आत्मादिनित्यवस्तुगतैकत्वानां जातित्व-निवृत्त्यर्थमेकमिति ।। अनेकविधमिति ।। परापरजातिभेदेनेति भावः । एतदुक्तिश्च नित्यमेव चेति सूत्रोपयोगित्वेन । समवायस्वरूपोक्तिरपि समवायसूत्रोपयोगाय । अत्याः व्यावर्त-(कान्तर)कशून्याः । एतत्त्रयं सामान्यादित्रयम् । नित्यानित्यविभागोक्तेरुपयोगमाह ।। तत्रा-नित्यमिति ।। त्रितयेति ।। समवाय्यसमवायिनिमित्तकारणरूपत्रितयेत्यर्थः । परमाणव इति बहुवचनं भूतचतुष्टयापेक्षया । प्रत्येकं तु परमाणुद्वयं द्वयमेव द्व्यणुकादिकार्यारम्भकमिति बोध्यम् । तन्तुरूपादौ पटासमवायित्वव्यावृत्त्यर्थमवधृतेत्यादि । निमित्तादावतिव्याप्तिनिरासाय पूर्वभागः । एवं सति तन्तुरूपादेः पटरूपादिं प्रत्यसमवायिकारणत्वं न स्यात् । पटरूपं प्रति समवायिकारणभूते पटे तन्तुरूपस्याप्रत्यासन्नत्वादित्यत आह ।। प्रत्यासत्तिर्द्वेधेति ।। असमवायिकारणस्य समवायिकारणे प्रत्यासत्तिर्वर्तनं द्वेधा । स्वकार्येण सहैकस्मिन्नर्थे समवायेन वर्तनं वा स्वकार्ये यत्कारणं तेन सहैकस्मिन्नर्थे वर्तनं चेत्यर्थः ।। कारणैकार्थप्रत्यासत्त्यादिनेति ।। कार्यगतरूपादिगुणानां कारणगतरूपादयो गुणाः कारणैकार्थप्रत्यासत्त्याऽसमवायिकारणानि । कर्म तु आदिपदोपात्तया कार्यैकार्थप्रत्यासत्त्याऽसमवायिकारणम् । संयोगादिकार्यं प्रति कारण-भूतघटादिगतकर्मणः स्वकार्येण संयोगादिना एकार्थे घटादौ प्रत्यासन्नत्वादिति बोध्यम् ।। कार्यगतेति ।। आम्रफलादिरूपकार्यगतकर्मणः कारणभूतं यदाम्रफलादिकं तद्गताः गुरुत्वद्रवत्व-वेगसंयोगरूपा गुणाः तद्गतं पूर्वपूर्वपतनादिकर्म चादिपदोक्तया कार्यैकार्थप्रत्यासत्त्याऽ-समवायिकारणमित्यर्थः । कार्यगतकर्मणः अवयविगतकर्मणः तत्कारणावयवगतकर्म च कारणैकार्थप्रत्यासत्त्याऽसमवायिकारणमित्यर्थः । यद्वा सुधारीत्या कार्यगतकर्मणः कर्म कारणद्रव्यगता गुरुत्वादयोः गुणाः कार्यैकार्थप्रत्यासत्त्या कर्मकारणैकार्थप्रत्यासत्त्याऽसमवायि-कारणमित्यर्थः । कारणगतेत्यत्र कारणपदेन कर्मकारणस्य कर्मकारणकारणस्य च ग्रहः । गुणकर्मणी इत्यनयोः क्रमेणान्वयः । कर्मणश्च समवायिकारणस्थगुणा एवासमवायिकारण-मित्युक्तेः । महदिति सूत्रनिरस्यं दर्शयति ।। तत्र परिमाणमिति ।। सङ्ख्येति ।। द्व्यणुकगतं परिमाणं परमाणुगतद्वित्वसङ्ख्यया त्र्यणुकगतं च द्व्यणुकगतबहुत्वसङ्खया जायत इत्यर्थः । आदिपदेन प्रचयग्रहणम् । तूलपिण्डादिस्थपरिमाणं प्रशिथिलावयवसंयोगरूपप्रचयजन्यमित्यर्थः । उभयथापीति सूत्रनिरस्यं दर्शयति ।। एतदन्यदिति ।। समवायिकारणासमवायिकारणाभ्या-मन्यदित्यर्थः । ईश्वरश्चेदस्ति तर्हि द्रव्यं नवविधमिति भज्यते इत्यतो वाऽष्टगुणत्वं निर्धारयितुं वाऽऽह ।। स चेति ।। शिष्टेति ।। शिष्टेषु आत्मयोग्येषु चतुर्दशसु मध्ये सामान्यस्य सङ्ख्यादि-पञ्चकस्य ज्ञानादिषु नवगुणेषु कर्तृत्वार्थं ज्ञानेच्छाप्रयत्नानामावश्यकत्वे सङ्ख्यादिसामान्यगुण-पञ्चकातिरिक्तानां ज्ञानादिगुणत्रयातिरिक्तानां संस्कारसुखदुःखद्वेषधर्माधर्मरूपषड्गुणानामयोग्य इत्यर्थः । नित्यज्ञानस्य स्मरणहेतुसंस्काराभावादत एव मोहाभावेन तत्कार्यद्वेषधर्माधर्माणां तत्कार्यसुखादेश्चाभावादिति भावः । सूत्रभाष्ययोः क्रियमाणमापादनम् उक्तशङ्कानिरासकत्वाद-सङ्गतमाशङ्क्य परिष्कृत्य व्याचष्टे ।। युक्तमेवेति ।। महत्त्वादिति ।। प्रतियोगिनि पञ्चमीनिर्देशात् पञ्चम्यन्ततया विग्रहः प्रदर्शितः । पूर्ववत्सन इत्यादाविव पञ्चम्यन्तादपि वतिप्रत्ययसिद्धेः पञ्चम-स्याद्यपादे तत्र तस्येवेत्यत्र मञ्जर्यामुक्तत्वात् । कारणबहुत्वात्कारणमहत्त्वात्प््राचयविशेषाच्च महदिति काणादसूत्रानुसारेण सूत्रे महदित्यादिनिर्देश इति भावः ।। कारणविशेषाभावादिति ।। ननु तल्लक्षणभावाभावौ वा । ‘सदृशस्य हि कार्यस्य नैव योगः कथञ्चन । अप्रत्यक्षत्वमेव स्याद्यतः कार्येष्वणुत्वत’ इत्यनुभाष्योक्तदिशा तत्सदृशपरिमाणत्वापत्तिरूपबाधकभावाभावौ वा विशेषकारणमित्यत आद्यं निराह ।। न तावदिति ।। अवधृतसामर्थ्यं नेति शङ्कते ।। अवर्जनीयेति ।। द्वितीयमाशङ्क्य निराह ।। पारिमाण्डल्यादेरिति ।। नास्ति हानिरिति ।। सर्वपदार्थानामापेक्षिकाणुत्ववत्त्वेन तच्छब्दवाच्यत्वस्येष्टत्वात् । ‘अणुत्वं च महत्त्वं च यतो वस्तुव्यपेक्षया’ इत्यनुभाष्योक्तेरिति भावः ।

ननु परिमाणमणुमहद्दीर्घं ह्रस्वं चेति चतुर्विधमित्यङ्गीकारात् त्र्यणुकादिसर्वकार्यगतं महत् । परमाणुद्व्यणुकगतं तु अणुपरिमाणमित्युपेतत्वेन कथं द्व्यणुकादिगतमत्यन्तसदृशं नेत्यत आह ।। सङ्केतमात्रं त्विति ।। पारिमाण्डल्यादेरारम्भकत्वे बाधकरूपकारणविशेषं परिहृत्यानारम्भकत्वे बाधकमाह ।। द्व्यणुकादिति ।। एतेनान्यथा पारिमाण्डल्यादिना परिमाणरूपकार्यानुत्पत्तौ एतयोर्द्व्यणुकत्र्यणुकयोरपि न स्यात् परिमाणमिति शेषः । पारिमाण्डल्यादितोऽन्यस्य कारण-विशेषस्याभावादिति भाष्यस्यार्थान्तरं दर्शितम् । अत एवैताभ्यामिति वाच्ये एतयोरित्युक्तिः । नन्वस्तु परमाणुगतद्वित्वसङ्ख्यैव कारणान्तरमित्यत आह ।। सङ्ख्यादेरिति ।। परमाण्वादि-गतसङ्ख्यादेर्द्व्यणुकादिपरिमाणकारणत्वे चतुरणुकाद्यारम्भकानेकत्र्यणुकगतबहुत्वसङ्ख्याप्रचययो-श्चतुरणुकगतमहत्त्वारम्भकत्वप्रसङ्गादित्यर्थः । एतेन भाष्येऽन्यथा सङ्ख्यादिनैव द्व्यणुकादिगत-परिमाणोत्पत्त्यङ्गीकारे एतयोर्महत्त्वदीर्घत्वयोरपि चतुरणुकादिस्थपरिमाणकारणत्वं न स्यात् । किं तु त्र्यणुकादिगतसङ्ख्यादेरेव स्यात् । विशेषकारणाभावादित्यपि भाष्यार्थ उक्तो भवति । सूत्रोक्तं परिमाणाख्यगुणासमवायिकारणनिराकरणमुपलक्षणमिति भावेन द्रव्यासमवायिकारणमपि निराह ।। संयोगस्य चेति ।। यत्परमाण्वादिसंयोगो द्व्यणुकाद्यसमवायिकारणमिति वैशेषिकादीनां कल्पनं तन्न । तस्य द्रव्यनिमित्तत्वमेव किं न स्यात् । अनिमित्तत्वे मानाभावात् । निमित्तत्वे बाधकाभावाच्चेति भावः । निमित्तत्वाभावे मानमाशङ्कते ।। भिन्नतयेति ।। युतसिद्धतयेत्यर्थः ।। अभ्युपगम्येति ।। समवायिकारणद्रव्यसंयोगात्तत्कार्यस्य पटादेर्भेदमभ्युपगम्य समवायिकारण-संयोगस्य निमित्तत्वमस्तु इत्युक्तम् । वस्तुतस्तु समवायिकारणद्रव्यसंयोगादन्यत्कार्यमेव नास्ती-त्यर्थः । तदेव व्यनक्ति ।। किं तन्तूनामिति ।। विवक्षितो वेति ।। तन्तूनां व्यतिषङ्गविशेषो वेत्यर्थः ।। कस्तदा पट इति ।। तन्तुभ्योऽन्यः पटः साक्षात्कस्य दृष्टिपथं गत इत्येकादशे गीतातात्पर्योक्तब्रह्मतर्कस्मृतेरिति भावः । एवं द्रव्यगुणयोरसमवायिकारणनिरासे सति कार्य-कारणयोरभेदादेव कर्मासमवायिकारणमपि निरस्तप्रायं मत्वाऽऽद्यसूत्रतात्पर्यार्थमुपसंहरति ।। अत इति ।। परिमाणलक्षणगुणासमवायिकारणे विशेषकल्पनस्य निर्बीजत्वात् । उपादानोपादेययोर-भेदेन द्रव्यासमवायिकारणस्य कर्मासमवायिकारणस्य चायोगादित्यर्थः ।

अभिनवचन्द्रिका

कार्यगतगुणानाञ्चेति ।। आदिशब्देन कार्यैकार्थप्रत्यासत्तिर्गृह्यते । घटादिगतसंयोगादिकं प्रति घटादिगतं कर्म कार्यैकार्थप्रत्त्यासत्त्या कारणमित्यर्थः ।। कर्मणश्चेति ।। अत्र कर्मणश्च कारणगतगुणकर्मणी कार्यैकार्थप्रत्यासत्त्या असमवायिकारणमित्येव पाठः । तस्यार्थः फलस्या-द्यपतनरूपे कर्मणि गुरुत्वं द्वितीयपतनरूपे कर्मणि तु आद्यपतनरूपं कर्म, जलस्य स्यन्दन-क्रियायां द्रवत्वं, शरस्य गमनक्रियायां वेगश्चेति सर्वे कार्यैकार्थप्रत्यासत्त्या असमवायिकारणमिति ।। परमाणुव्द्यणुकगतमिति ।। यथासङ्ख्यं सम्बन्धः । उपलक्षणमेतत् । तूलपरिमाणं तूलपिण्ड-परिमाणासमवायिकारणं न भवतीत्यपि ग्राह्यम् ।। किंत्विति ।। आदिशब्देन प्रचयपरिग्रहः ।। कारणविशेषाभावादिति ।। प्रमाणाभावादित्यर्थः ।

ननु एषां परिमाणानां असमवायिकारणत्वतदभावाभ्यां वैलक्षण्ये कारणविशेषाभावोऽसिद्धः । तथा हि अस्ति तावन्महद्दीर्घपरिमाणयोरसमवायिकारणत्वानुमापकसमवायिकारणलक्षणम् । अवधारयन्ति खलु सास्नादिमत्त्वलक्षणेन गोत्वम् । न च ह्रस्वाणुपरिमाणयोः तदस्ति । नापि प्रमाणान्तरमस्ति । अपि च पारिमाण्डल्यस्य कारणत्वे द्व्यणुकस्याप्यणुत्वप्रसङ्गः । ह्नस्वस्य परिमाणस्य कारणत्वे द्व्यणुकस्यापि ह्रस्वत्वप्रसङ्गः । न च महद्दीर्घपरिमाणयोः कारणत्वे बाधकं पश्यामः । अतो मन्यामहे साधकसद्भावात् बाधकाभावाच्च महद्दीर्घपरिमाणयोः असमवायिकारणत्वं, साधकाभावाद्वाधकसद्भावाच्च नाऽणुह्रस्वपरिमाणयोः कारणत्वमित्यत आह न तावदित्यादिना ।। अवर्जनीया प्रत्यासत्तिर्नेत्यत्र हेत्वन्तरमाह द्व्यणुकादिपरिमाण इति ।। न च सङ्ख्याया एव कारणत्वसम्भवात् कारणान्तराभावोऽसिद्ध इति वाच्यम् । तथा सति चतुरणुकादिपरिमाणेऽपि सङ्ख्याया एव कारणत्वसम्भवेन महत्त्वदीर्घत्वयोरपि कारणत्वाभाव-प्रसङ्गादिति भावः । इतः परं टीकायां श्रूयमाणं ‘सङ्ख्यादेहत्त्वारम्भकत्वप्रसङ्गात्’ इति वाक्यं न टीकावाक्यम् । किन्तु इममेवाभिप्रायं वक्तुं प्रवृत्तस्य कस्यचिद्व्याख्यातुर्वाक्यम् । अवश्यं चैतदेवं विज्ञेयम् । ‘सङ्ख्यादेर्महत्त्वारम्भकत्वप्रसङ्गात्’ इत्यस्य पूर्वोत्तरवाक्याभ्यामन्वयाभावात् आपादकानुक्तेश्च, आदिशब्दवैयर्थ्याच्च । यदि सङ्ख्यायाः कारणत्वं स्यात्तर्हि सर्वत्रापि सङ्ख्याया एव कारणत्वप्रसङ्गेन महत्त्वदीर्घत्वयोरकारणत्वप्रसङ्गेन महत्त्वदीर्घत्वयोरकारणत्वप्रसङ्गादिति वक्तव्यत्वेन महत्त्वारम्भकत्वमात्रस्याऽनिष्टत्वाभावाच्च सङ्ख्यादेर्महत्त्वारम्भकत्वप्रसङ्गादित्युक्त्य-योगाच्चेति । तन्तुद्वयसंयोगादेः असमवायिकारणत्वं निराकरोति – संयोगस्य चेति ।। भिन्नतयेति ।। पटासमवायिकारणात् भिन्नतया प्रतीत्यभावादित्यर्थः । इदमुक्तं भवति । पटस्य समवायिकारणमिवासमवायिकारणमपि दृष्ट्वा तन्तुसंयोगो न समवायिकारणं नाप्य-समवायिकारणम् । अथ च कारणमिति निश्चये निमित्तकारणं स्यात् । न च तथा निश्चयोऽस्ति । असमवायिकारणान्तरदर्शनादिति ।। भिन्नतया प्रतीत्यभावेऽपीति ।। अपेक्षाबुद्धौ आवां द्वाविति प्रतीयमानद्वित्वसमवायिकारणप्रत्यासन्नत्वे सति कारणत्वदर्शनात् असमवायिकारणात् भेदेन प्रतीत्यभाव इति भावः ।। अभ्युपगम्य चेदमुदितमिति ।। ‘वस्तुतस्तु कारणमेव न भवति तथा हि’ इति वाक्यशेषो द्रष्टव्यः ।। अनभ्युपगमादिति ।। सिद्धान्त-विरुद्धत्वादित्यर्थः । एतेन नाङ्गीकृतं चेत् परेण संयोगमात्रस्य कारणत्वं तर्हि तन्निषेधवैयर्थ्यम् । अथाभ्युपगतं तर्हि अनभ्युपगमादित्ययुक्तमिति परास्तम् ।

वाक्यार्थमुक्तावली

वैशेषिकेति ।। तथा च प्राधान्येनेश्वरस्य कर्तृत्वमङ्गीकुर्वतामस्माकं मते विप्रतिषेधाच्चेति निरीश्वरमतोक्तदोषानवकाश इति पूर्वपक्षोत्थानादन्तरसङ्गतिरपीति भावः ।। परमाण्वारम्भवाद-विरुद्धत्वेनेति ।। परमाणुः स्वस्मिन् समवायसम्बन्धेन सम्बद्धं द्व्यणुकादिकमारभते । तत्र कर्तेश्वरः कर्तृत्वोपयुक्तज्ञानेच्छाप्रयत्नशाली नातिरिक्तानन्दाद्यनन्तगुणक इति यो वादः स परमाण्वारम्भवादः । तद्विरुद्धत्वे गुणानामभावशङ्का स्यादित्यर्थः ।। युक्तमिति ।। विष्णोरनन्त-गुणत्वं वैशेषिकप्रक्रियाविरोधादयुक्तमुत युक्तमिति चिन्ता । तदर्थं तत्प््राक्रिया प्रमाणवत्युत अप्रमाणिकेति । ईश्वरस्यानन्तगुणत्वमयुक्तमित्यतो गुणानां चतुर्विंशतित्वाद्द्रव्यत्वेन परिगणितात्मविशेषस्येश्वरस्याष्टगुणमात्रत्वादिति वक्तुं तावत् पदार्थविभागमाह ।। षडिति ।। एतदुक्तिः सर्वसूत्रोपयोगित्वेन ।। गुणाश्रय इति ।। अत्र गुणाश्रयत्वं नाम गुणात्यन्ता-भावानधिकरणत्वम् । अतो न प्रथमक्षणे निर्गुणेषु घटादिष्वव्याप्तिः । अत्र नित्यानित्य-विभागोक्तिः ‘नित्यमेव च भावात्’ ‘रूपादिमत्वाच्च’ इति सूत्रोपयोगित्वेन महदिति सूत्रोपलक्षितद्रव्यासमवायिकारणखण्डनाय चेति ज्ञेयम् ।। जातिमात्राश्रयः इति ।। समवाय-सम्बन्धेनेति योज्यम् । तेन गुणे गुणत्वसमवायस्य द्रव्यत्वाद्यभावस्य च स्वरूपसम्बन्धेन सत्वात् जातिमात्राश्रयत्वमसम्भवीति निरस्तम् । गुणस्वरूपाद्युक्तिरीश्वरस्याष्टगुणत्वाद्यवधारणार्था । गुणेषु नित्यानित्यविभागोक्तिरपि महदिति सूत्रोपयोगित्वेन ।। संयोगविभागयोरिति ।। समुच्चितयोरिति शेषः । तेन संयोगजनके संयोगे विभागजनके विभागे च नातिव्याप्तिः । कर्मस्वरूपोक्तिः । ‘उभयथापि न कर्म’ इति सूत्रोपयोगित्वेन ।। नित्यमेकमिति ।। अत्राद्य-विशेषणाभावे घटपटसंयोगद्वित्वादौ अतिव्याप्तिः । द्वितीयाभावे सलिलाद्यनेकपरमाणुरूपेऽति-व्याप्तिः । तृतीयाभावे गगनादौ । समवेतमित्येवोक्ते शब्दे ।। अतोऽनेकेति ।। यद्यप्यत्रानेकानु-गतमित्येतावन्मात्रोक्तावपि गगनादावतिव्याप्तिर्नास्ति । तथापि समवायेऽतिव्याप्तिवारणाय समवेतमित्युक्तिः । अनेकेति परापरजातिविभागेनेति भावः । एतदुक्तिः नित्यमेवेति सूत्रोप-योगित्वेन । समवायस्वरूपोक्तिरपि समवायसूत्रोपयोगाय । नित्यद्रव्योवृत्तय इति स्वरूपकथनम् । अन्त्या इति लक्षणम् । द्रव्यादिव्यावर्तकानामभावेऽपि ये व्यावर्तका भवन्ति तेऽन्त्याः । अन्त्यव्यावृत्तिहेतव इति यावत् । तेन दण्डादिद्रव्यस्य अदण्डादिभ्यः गुणस्य निर्गुणात् कर्मणश्च निष्क्रियात् अपरसामान्यस्य द्रव्यत्वादेरद्रव्याद्व्यावृत्तिहेतुत्वेनातिव्याप्तिरिति निरस्तम् । दण्डादीनां दण्ड्यंतरादिभ्योऽव्यावर्तकत्वेन अनुवृत्तेरपि हेतुत्वेन केवलं व्यावृत्तिहेतुत्वाभावात् । नित्यद्रव्यवृत्तय इति नित्येष्वेव द्रव्येष्वेव वर्तन्ते ये ते विशेषा इति सुधारीत्या लक्षणान्तरं वा । तत्पदकृत्यचिन्तात्वस्मदाचार्यैः सुधाविवृत्तौ कृतानुसन्धेया । नित्यानित्यविभागोक्तेरुपयोगमाह ।। तत्रानित्यमिति ।। परमाणव इति ।। भूतचतुष्टयापेक्षया प्रत्येकं तु परमाणुद्वयमेतत् द्व्यणुका-रम्भकमिति बोध्यम् । असमवायिकारणलक्षणे समवायिकारणमात्रप्रत्यासन्नत्वविवक्षायामात्मनः संयोगेऽतिव्याप्तिः । तन्मात्रप्रत्यासत्त्यविवक्षायां तुरीतन्तुसंयोगेऽतिव्याप्तिः । इति चेन्नैषदोषः । यतो नासमवायिकारणत्वमेकं किन्तु तत्तत्कार्यं प्रति भिन्नभिन्नमेव पारिभाषिकम् । तथा च तत्तल्लक्षणदोषपरिहाराय विशेषणं देयम् । न च गुणकर्मान्यतरत्वं लक्षणमिति युक्तम् । अन्त्यावयविरूपादावतिव्याप्तेः । नन्वेवं सति तन्तुरूपादेः पटादिरूपं प्रत्यसमवायिकारणत्वं न स्यात् । पटरूपं प्रति समवायिकारणभूते पटे तन्तुरूपस्याप्रत्यासन्नत्वात् इत्यत आह ।। प्रत्यासत्तिरिति ।। कर्म चेति ।। चशब्दादाश्रयगता गुणा गृह्यन्ते ।। कारणैकार्थप्रत्यासत्या-दिनेति ।। अत्रादिपदेन कार्यैकार्थप्रत्यासत्तिः गृह्यते । तथा च पटादिगतरूपादिकं प्रति तन्त्वादिगतरूपादिकं कारणैकार्थप्रत्यासत्यासमवायिकारणम् । कर्म तु संयोगविभागौ प्रति कार्यैकार्थप्रत्त्यासत्त्यासमवायिकारणम् । संयोगादिकार्यं प्रति कारणभूतघटादिकर्मणः स्वकार्येण संयोगादिकार्यं प्रति कारणभूतघटादिकर्मणः स्वकार्येण संयोगादिना एकार्थे घटादौ प्रत्या-सन्नत्वात् । पार्थिवपरमाणुगतानां पाकजरूपादीनां तद्गत एव तेजःसंयोगः । सर्वत्रानेक-पृथक्त्वादीनामाश्रयगतैकत्वैकपृथक्त्वादीनि च कार्यैकार्थप्रत्यासत्त्या समवायिकारणमित्यर्थः । कर्मणश्च कारणगतगुणकर्मणी कार्यैकार्थप्रत्यासत्त्यासमवायिकारणमिति । फलादेराद्यपतनरूप-कर्मणः कर्मसमवायिकारणगतं गुरुत्वम् । जलस्थस्यन्दनक्रियायां द्रवत्वम् । शरस्य गमनक्रियायां वेगश्चेति कर्मणः कारणगतगुणाः कार्यैकार्थप्रत्यासत्त्यासमवायिकारणमित्यर्थः ।

कारणैकार्थप्रत्यासत्त्येति क्वचित्पाठः । तत्र कर्मणोऽसमवायिकारणं गुरुत्वं, तेन सहैकार्थ-प्रत्यासत्त्येति योज्यम् । द्वितीयादिपतनस्यन्दनादिकं कर्मजमिति मतानुसारेणेयमुक्तिः । तत्रापि वेगस्यैवासमवायिकारणत्वमिति मतानुसारेण सुधायां कर्मणः कर्मकारणकत्वानुक्तिरित्यविरोधः । परमाणुद्व्यणुकगतमिति यथासङ्ख्यं सम्बन्धः । उपलक्षणमेतत् । तूलपिण्डपरिमाणं तूलपरिमाणासमवायिकारणकं न भवतीत्यपि ग्राह्यम् । सङ्ख्यादिनेत्यादिपदेन प्रशिथिलावयव संयोगरूपप्रचयपरिग्रहः । तूलपरिमाणस्य तूलपिण्डप्रचयकार्यत्वात् ।। शिष्ठेति ।। आत्मयोग्येषु चतुर्दशगुणेषु मध्ये शिष्टसंस्कारादिषड्गुणायोग्य इत्यर्थः । नित्यज्ञानस्येश्वरस्य स्मरणहेतु-संस्काराभावात् । अत एव मोहाभावेन तत्कार्यसुखादेश्चाभावादिति भावः । सूत्रे ‘कारण-बहुत्वात् कारणमहत्वात् प्रचयविशेषाच्च महत्’ इति काणादसूत्रानुसारेण महदिति भावप्रधानो निर्देशः । तत्र तस्यैवेति लक्षणस्य प्रायिकत्वात् पञ्चम्यन्ताद्वतिः । अत एव ह्रस्व-परिमण्डलाभ्यामिति तत्प््रातियोगिनः तथा निर्देशः । यद्वा षष्ट्यन्ताद्वतिः । विभक्तिविपरिणामेन वा सकाशादित्यध्याहारेण वा भाष्ये महत्वादित्युक्तमिति भावेन भाष्यस्य सूत्रारोहं दर्शयति ।। यथेत्यादिना ।। महद्दीर्घवद्वा इत्यतः परं परिमाणमुत्पद्यत इति शेषः । परिमण्डलाभ्यामित्यतःपरं उत्पद्यत इति शेष इति भावेन परिमाणमुत्पद्यत इत्याद्युक्तम् ।। इति सूचितमिति ।। तद्वदेवेति वा अत्राप्युत्पद्यतैवेति वा अवधारणार्थवाशब्देनाविशेषसूचनादिति भावः । तदेव व्यनक्ति यदीति ।। महत्वादेरेवारम्भकत्वं ह्रस्वत्वादेर्नेत्यत्र विशेषहेत्वदर्शनादिति भावः ।

ननु महत्वादेः परिमाणासमवायिकारणत्वसाधकमसमवायिकारणलक्षणमस्ति ह्रस्वत्वादेः परिमाणासमवायिकारणत्वे साधकं लक्षणं नास्ति । किञ्च महत्वादेरारम्भकत्वे बाधकं नास्ति । त्र्यणुकादिगतमहत्वादेः चतुरणुकादौ सजातीयपरिमाणोत्पत्तिसम्भवात् । पारिमाण्डल्य ह्रस्व-त्वयोरारम्भकत्वे स्वसदृशकार्यारम्भकत्वनियमेन सर्वकार्याणामणुत्वादिप्रसङ्गेनाप्रत्यक्षत्वं बाधक-मस्ति । तथा च साधकबाधकभावाभावविशेषस्य विद्यमानत्वात् कथमविशेष इत्यतः साधक बाधकभावाभावविशेषं तावदपाकरोति ।। न तावदिति ।। अवधृतसामर्थ्येनेति शङ्कते ।। अवर्जनीयेति ।। द्वितीयमाशङ्क्य निराह ।। पारिमाण्डल्यादेरिति ।। नास्ति हानिरिति ।। त्र्यणुकादिसर्वपदार्थानां आपेक्षिकाणुत्वेन तच्छब्दवाच्यत्वस्येष्टत्वात् । ‘अणुत्वं च महत्वं च यतो वस्तुव्यपेक्षया’ इति अणुभाष्योक्तेरिति भावः ।

ननु परमाणुद्व्यणुकादिगतमेव परिमाणमणुशब्दवाच्यं न तु त्र्यणुकादिगतमतः कथमिष्टा-पत्तिरित्यत आह ।। सङ्केतेति ।। न हीत्यत्रैकैकत्र्यणुकपरिमाणादेः अत्यन्तसादृश्याभावो ज्ञेयः । एवं पारिमाण्डल्यादेरारम्भकत्वे बाधकं परिहृत्यानारम्भकत्वे बाधकमाह ।। द्व्यणुकादीति ।। भावबोधे तु अवर्जनीयाप्रत्यासत्तिर्नेत्यत्र हेत्वन्तरमाह द्व्यणुकादीत्यवधारितम् । एतेनान्यथा पारिमाण्डल्यादिना परिमाणरूपकार्यानुत्पत्तावेतयोर्द्व्यणुकत्र्यणुकयोरपि न स्यात् परिमाणमिति शेषः । पारिमाण्डल्यादितोऽन्यस्य कारणविशेषस्याभावादिति भाष्यस्य वृत्यन्तरं दर्शितम् । अत एवैताभ्यामिति भाष्ये वाच्ये एतयोरित्युक्तिः ।

ननु सङ्ख्यादिनैव तज्जन्मेत्युक्तत्वात्कथं कारणान्तराभाव इत्यत आह ।। सङ्ख्यादेरिति ।। आदिशब्देन प्रचयो गृह्यते । सङ्ख्यादिनैव तज्जन्मेत्यङ्गीकारे परमाणुसङ्ख्यायाः द्व्यणुके महत्वा-रम्भकत्वप्रसङ्गः । द्व्यणुकगतसङ्ख्यायास्तथात्वाभ्युपगमात् विजातीयत्वाविशेषाच्च । एवं द्व्यणुकगतसङ्ख्यायास्त्र्यणुकगतमहत्वारम्भकत्वे तूलपिण्डगतप्रचयस्य तूलपरिमाणकारणत्वे च त्र्यणुकादिगतबहुत्वसङ्ख्याप्रचययोश्चतुरणुकगतमहत्वारम्भकत्वप्रसङ्गः । तथा च परिमाणस्य कारणत्ववादो दत्तजलाञ्जलिकः स्यादित्यर्थः । एतेनान्यथा सङ्ख्यादिनैतद्व्यणुकादिगतपरिमाणो-त्पत्त्यङ्गीकारे एतयोर्महत्वदीर्घत्वयोरपि चतुरणुकादिगतपरिमाणकारणत्वं न स्यात् । किन्तु त्र्यणुकादिगतसङ्ख्यादेरेव स्यात् । विशेषकारणाभावादित्यपि भाष्यार्थ उक्तो भवति । सूत्रोक्तं परिमाणाख्यगुणासमवायिकारणनिराकरणमुपलक्षणमिति भावेन द्रव्यासमवायिकारणमपि निराह ।। संयोगस्येति ।। अनिमित्तत्वे मानाभावात् निमित्तत्वे बाधकाभावाच्चेति भावः । निमितत्वा-भावे मानमाशंकते ।। भिन्नतयेति ।। युतसिद्धतयेत्यर्थः । लोके हि यन्निमित्तकारणं तुर्यादि तत्समवायिकारणतन्तुषु असमवेततया युतसिद्धमनुभूयते । तन्तुसंयोगश्च तन्तुगुणः समवायि-कारणतन्तुसमवेतः, युतसिद्धतया प्रतीत्यविषयः कथं निमित्तकारणं स्यादिति भावः । तन्तु-संयोगो न निमित्तं युतसिद्धतया प्रतीत्यविषयत्वात् । इति विवक्षितेऽनुमाने व्यभिचारमाह ।। भिन्नतयेति ।। अभ्युपगम्येति ।। कारणत्वं संयोगस्याभ्युपगम्येदं निमित्तत्वमुक्तमित्यर्थः । तन्तु संयोगः कारणमेव न भवति, तथाहीति वाक्यशेषो बोध्यः ।। विवक्षितो वेति ।। विवक्षितो व्यतिषङ्गविशेषो वेत्यर्थः ।। कस्तदेति ।। तदा विवक्षिततन्तुसंयोगे सति कः पटो नामावशिष्यते । विवक्षितव्यतिषङ्गविशेष विशिष्टतन्त्वतिरिक्तपदाभावात् । तन्तुव्यतिषङ्गानन्तरं पटोत्पत्त्यभावेन संयोगस्य न कारणत्वमिति भावः । अत्र यद्वक्तव्यं तत्प््रामेयमुक्तावल्यामुक्तं सुधायां विशदम् ।

तत्त्वसुबोधिनी

वैशेषिकादीति ।। निरीश्वरपक्षोक्तो दोषः नास्माकं स्वातन्त्र्येणेश्वरस्य जगत्कर्तृत्वाङ्गीकारात् ईश्वरस्तु अष्टगुणक एव नानन्दादिगुणक इति पूर्वाक्षेपेणोत्थानादनन्तरसङ्गतिः इति भावः । कुतो न युक्तमित्यतः ईश्वरस्याष्टगुणत्वं वक्तुं क्रमेण पक्षार्थान् निरूपयति ।। षडिति ।। तत्र द्रव्य-लक्षणमाह ।। तत्रेति ।। आश्रयत्वमात्रस्य जात्यादावपि सत्त्वेनातिव्याप्तिं वारयितुं गुणपदम् । नन्वेवमपि प्रथमक्षणावच्छिन्नेति व्याप्तिरेवेति चेन्न, गुणात्यन्ताभावाविरोधित्वस्याविवक्षितत्वेना-दोषात् । लक्षणमुक्त्वा विभागमाह ।। पृथिवीति ।। नित्यानित्यत्वेन द्रव्यविभागमाह ।। तत्रेति ।। गुणलक्षणमाह ।। कर्मान्यत्वे सतीति ।। जात्याश्रयाः इत्युक्तौ कर्मण्यतिव्याप्तिः स्यात् तदर्थं कर्मान्यत्वे सतीति । जात्यादावतिप्रसङ्गं वारयितुं जात्याश्रय इति । एतावत्युक्ते द्रव्ये गतमतो मात्रेति ।। न चैवमसम्भवः ।। गुणत्वद्रव्यत्वाद्यभावस्य सत्त्वेन जातिमात्राश्रयत्वस्य विवक्षितत्वात् । गुणानां तु समवायसम्बन्धेन जात्यतिरिक्ताश्रयत्वस्याभावान्नासम्भवः । द्रव्यस्य तु समवायसम्बन्धेन जात्यातिरिक्तगुणाद्याश्रयत्वाभावान्नातिप्रसङ्गः । नित्यत्वानित्यत्वेन गुण-विभागमाह ।। ते चेति ।। कर्मविभागमाह ।। संयोगविभागयोरिति ।। विशेष्यमात्रं त्र्यणुक-गतपरिमाणादौ । अतः संयोगविभागयोरिति समग्रमपि संयोगविभागादौ गतम् । अतः आद्येति विशेषणं द्रष्टव्यम् ।। नित्यमिति ।। नित्यत्वमात्रम् । गगने, अतः समवेतमिति । तावत्युक्ते विशेषे गतम् । अतः नैकेति ।। तथाप्यनेकेषामनेकसमवेतत्त्वमस्त्येवेत्यत उक्तम् ।। एकेति ।। नित्यः इति ।। सम्बन्धमात्रं संयोगे अतः नित्येति ।। नित्यत्वमात्रं गगने अतः सम्बन्धेति ।। विशेषलक्षणमाह ।। नित्येति ।। नित्यद्रव्यवृत्तयः इत्युक्ते परमाणुत्वादौ गतम् ।। अतोऽन्त्या इति ।। अन्तव्यावृत्तिहेतवः इत्यर्थः ।। कारणत्रितयजन्यमिति ।। समवायि, असमवायि, निमित्तकारणजन्यमित्यर्थः । समवायिकारणलक्षणं आह ।। यत्समवेतमिति ।। असमवायि-कारणलक्षणमाह ।। समवायीति ।। तन्तुत्वादिव्यावृत्त्यर्थं अधृतेति ।। निमित्तकारणव्यावृत्त्यर्थं आद्यम् । प्रत्यासन्नमित्यस्य प्रत्यासत्तियुक्तमित्यर्थः । तत्र प्रत्यासत्तिं विभागेन दर्शयति ।। प्रत्यासत्तिरिति ।। कार्यद्रव्यस्येति ।। घटादिरूपस्येत्यर्थः ।। कार्येति ।। कर्म चेत्यत्र चशब्देन पटरूपाश्रयगतगुणग्रहणम् ।। अवयवसंयोगः तन्तुद्वयसंयोगः ।। कार्यैकार्थेति ।। कार्येण पटेन सह एकस्मिन् अर्थे तन्तौ अवयवसंयोगस्य या प्रत्यासत्तिः तया इत्यर्थः । आदिपदेन कार्यैकार्थप्रत्यासत्तिग्रहणम् । एवं च पटगतं कर्म, पटगतगुणाश्चादिपदोपात्तकार्यैकार्थप्रत्यासत्या समवायिकारणं पटगतसंयोगादीन् प्रतीत्यन्वयः । एवं च पटादिरूपकार्यगतगुणानां रूपरस-गन्धस्पर्शपरिमाणैकत्वैकउक्तोत्तरसंयोगविभागगुरुत्वद्रवत्वस्नेहसंस्कारवेगानां कारणीभूततन्त्वादि- गतरूपादयः कारणैकार्थप्रत्यासत्त्या स्वगतरूपादीन् प्रति कारणेन पटेन सह एकस्मिन्नर्थे तन्तौ या प्रत्यासत्तिः तया समवायिकारणम् । कार्यभूतपटाद्याश्रयगतं, कर्म, तद्गतगुणाश्च, पटादिगत-संयोगविभागवेगादीन् प्रति कार्यैकार्थप्रत्यासत्त्या पटादिगतकर्मणः, कार्येण पटादिगतसंयोगादिना सह एकस्मिन्नर्थे पटे या प्रत्यासत्तिः तया समवायिकारणमित्यर्थः । पार्थिवपरमाणुगतानां रूपरसगन्धस्पर्शानां पार्थिवतेजःपरमाणुगतद्रव्यत्वस्य तद्गत एव तेजःसंयोगः सर्वत्रानेकत्वानेक-पृथक्त्वयोराश्रयगतैकत्वैकपृथक्त्वानि परत्वापरत्वयोगाश्रयगतौ द्दिक्कालसंयोगौ आत्मविशेष-गुणानां आत्मगतमनःसंयोगः शब्दस्याकाशगतः संयोगविभागशब्दश्च कार्यैकार्थप्रत्यासत्त्या समवायिकारणमित्यर्थः ।। कार्यगतकर्मणश्चेति ।। पटादिकार्यगतकर्मसमवायिकारणपटादिगत-गुणकर्मणीत्यर्थः । अत्र कार्यैकार्थप्रत्यासत्त्येत्येव मूलपाठः । मूलकोशेषु तथा दर्शनात्, क्वचित् कारणैकार्थप्रत्यासत्त्यादिनेत्यपि पाठः । तत्राप्यतद्गुणसंविज्ञानबहुव्रीहिणा कार्यैकार्थप्रत्यासत्तिरेव विवक्षिता । तथा च पटादिगतकर्मणः पटादिरूपाश्रयगतगुरुत्वद्रवत्ववेगसंयोगाः कर्मकार्येण कर्मणा सहैकस्मिन्नर्थे पटादौ या प्रत्यासत्तिः तया समवायिकारणमित्यर्थः । नन्वेवं सुधाविरोधः । तथा आश्रयगतगुरुत्वद्रवत्ववेगसंयोगानामेव कर्मासमवायिकारणत्वोक्तेरिति चेन्न, द्वितीयादि-पतनस्यन्दनादिकं प्रति तृतीयादिपतनस्यंदनादिकं प्रति असमवायिकारणमिति वैशेषिकैकदेश-मतावलम्बनेन कर्मग्रहणस्य टीकायां उक्तत्वात् । सुधायां तु तृतीयादिपतनस्यन्दनादिकं प्रत्यपि वेगस्यैवासमवायिकारणत्वान्न द्वितीयादिपतनादेरसमवायिकारणत्वमिति वैशेषिकमुख्यमताव-लम्बनेन प्रवृत्या विरोधाभावादिति भावः ।। परमाणुद्व्यणुकगतमिति ।। उपलक्षणमेतत् । तूलपिण्डाद्यवयवगतं परिमाणं तूलपिण्डादिगतपरिमाणासमवायिकारणं न भवति, किन्तु अवयवगतं प्रचय एवेति द्रष्टव्यम्, अत एव तत्कारणप्रपञ्चसङ्ग्रहार्थं सङ्ख्यादिनैवेत्यादिपदप्रयोगः । विशिष्टसद्गुणायोग्य इति कर्तृत्वार्थं ज्ञानेच्छाप्रयत्नानाम् आवश्यकत्वे तदितरगुणेषु नित्ययथार्थ-ज्ञानस्येश्वरस्य मोहासम्भवे तत्प््राभावरागद्वेषायोगेन तज्जन्यधर्माधर्मयोरभावेन तन्निमित्तसुखदुःखयोः नित्यज्ञानत्वादेव स्मरणकल्पकाभावेन भावनाद्ययोगात् सङ्ख्यादिगुणपञ्चकव्यतिरिक्तषड्गुणायोग्यः इत्यर्थः । यथा महत्वाद्दीर्घत्वाच्चेति कारणबहुत्वात् कारणमहत्वात् प्रचयविशेषाच्च महदिति काणादसूत्रानुसारेण सूत्रे महदिति निर्देशः । तत्र तस्यैवेति लक्षणस्य प्रायिकत्वात् पञ्चम्यन्ता-द्व्यतिरिक्तेत्यभिप्रेत्य भाष्ये महत्वादित्याद्युक्तमिति भावः । यद्वा महद्दीर्घवदिति षष्ठ्यर्थे वतिः । विभक्तिविपरिणामेन वा सकाशादित्यध्याहारेण वा महत्वामहत्वादित्युक्तमिति भावः इति सूचितमिति शेषः । अन्यथा महत्वदीर्घत्वयोरपि साधकत्वं न स्यादिति वाशब्देन सूचितमित्यर्थः ।। न तावदिति ।। नापि बाधकभावाभ्यामिति तावच्छब्दः । अतः एव पारिमाण्डिल्या-देरारम्भकत्व इति बाधकमाशङ्क्य परिह्रियते ।। तद्भावादिति ।। असमवायिकारणलक्षण-सद्भावादित्यर्थः ।। प्रत्यासत्तिरेवेति । तत् सामर्थ्यावधारणं इति लक्षणाभाव एवेत्यर्थः ।। साम्यादिति ।। अवर्जनीयप्रत्यासत्तित्त्वसाम्यादित्यर्थः ।। नास्ति(नो)हानिरिति ।। त्र्यणुकादि-सर्वकार्याणामापेक्षितकारणत्वस्य सत्त्वेन तच्छब्दवाच्यत्वस्येष्टत्वात् इति भावः ।। ननु परमाणु-द्व्यणुकगतपरिमाणमेवाणु न त्र्यणुकादिगतमतः कथं इष्टापत्तिरित्यतः आह ।। सङ्केतमात्रमिति ।। अयं सङ्केतो प्रामाणिकः । द्व्यणुक अणुकेत्यादिकाणत्वस्य त्र्यणुकवत् द्व्यणुकेत्यापेक्षिक-महत्त्वस्य सम्भवादिति भावः । अवर्जनीया प्रत्यासत्तिर्नेत्यत्र हेत्वन्तरमाह ।। द्व्यणुकादीति ।। तथा चागत्या पारिमाण्डिल्यादेरेव कारणत्वमिति न सामर्थ्यावधारणाभाव इति भावः । ननु सङ्ख्यादिनैव तज्जन्येत्युक्तत्वात् कथं कारणान्तरा भावः इत्यत आह ।। सङ्ख्यादेर्महत्वेति ।। चतुरणुकारम्भकानेकत्र्यणुकगतबहुत्वसङ्ख्याप्रचययोश्चतुरणुकगतमहत्वारम्भकत्वप्रसङ्गादित्यर्थः । अवयवसंयोगो समवायिकारणमुच्यते तत्र तस्य निमित्तकारणत्वमेव किं न स्यादिति आह संयोगस्येति ।। भिन्नतयेति ।। युतसिद्धतयेत्यर्थः । संयोगस्य कारणत्वमभ्युपगम्य निमित्त-कारणत्वमेव किं न स्यादित्यापादितम् । इदानीं तु संयोगस्य कारणत्वमेव न सम्भवतीत्याह ।। अभ्युपगम्येति ।।

वाक्यार्थविवरणम्

गुणाश्रय इति ।। गुणाश्रयत्वं च गुणात्यन्ताभावानधिकरणत्वं विवक्षितम् । अतो न प्रथमक्षणावच्छिन्नघटेऽव्याप्तिरिति ध्येयम् । कर्मण्यतिव्याप्तिपरिहाराय कर्मान्यत्वे सतीत्युक्तम् । सामान्येऽतिव्याप्तिवारणाय जात्याश्रयपदम् । द्रव्येऽतिव्याप्तिवारणाय मात्रपदम् । यद्यपि गुणस्य गुणत्वसमवायद्रव्यत्वाद्यभावाद्याश्रयत्वेन जातिमात्राश्रयत्वाभावेनासम्भव एव । तथापि समवाये न जातिमात्राश्रयत्वं विशेषणतासम्बन्धेनैवेति न दोष इति ध्येयम् ।। संयोगविभागयोरिति ।।

ननु कार्यगतसंयोगं विभागं वा प्रति कारणगतसंयोगस्य विभागस्य वा असमवायि-कारणत्वमस्तीति संयोगासमवायिकारणत्वं विभागासमवायिकारणत्वं च संयोगे विभागे चातिव्याप्तमिति चेन्न । समुच्चितयोः संयोगविभागयोरसमवायिकारणत्वस्य विवक्षितत्वात् । एकस्मिन् संयोगे विभागे वा समुच्चितौ प्रति असमवायिकारणत्वाभावादिति ध्येयम् ।। नित्य-मिति ।। समवेतं सामान्यमित्युक्ते एकस्मिन् विशेषेऽतिव्याप्तिः ।। तदर्थमनेकेति ।। अनेक-समवेतत्वं विशेषेष्वतिव्याप्तमत एकमिति पदम् । तावत्युक्ते संयोगेऽतिव्याप्तिः । अतो नित्यपदम् । नित्यमेकमित्युक्ते गगने । अतोऽनेकसमवेतपदम् । अत्र यद्यपि अनेकानुगत-मात्रोक्त्यैव लक्षणसामंजस्ये समवेतपदं व्यर्थम् । अवृत्तित्वेन गगने अतिव्याप्तेरनुगतत्वोक्त्यैव परिहारात् । तथापि समवायेऽतिव्याप्तिपरिहारार्थं तदिति ध्येयम् । तथाप्येकपदं व्यर्थम् । न च विशेषेष्वतिव्याप्तिपरिहाराय तदिति वाच्यम् । तेष्वनेकसमवेतत्वाभावात् । अनेकसमवेतत्वं च स्वाश्रयप्रतियोगिकान्योन्याभाववत्समवेतत्वम् । न ह्येकस्मिन् विशेषे स्वाश्रयप्रतियोगिकान्योन्या-भाववति द्रव्यान्तरे समवेतत्वमस्तीति चेत् । अत एवैकत्वं न लक्षणशरीरान्तर्गतं किन्तु सामान्यं सर्वत्रानुगतव्यवहारहेतुत्वादेकमेव न विशेषवत् प्रतिव्यक्तिभिन्नमिति स्वरूपकथनार्थमेवेति संप्रदायविदः । अनयैवानुपपत्त्या केचित् भावत्वे सति विशेषसमवायेतरन्निस्सामान्यं सामान्य-मिति कथयन्ति ।। अनेकविधमिति ।। परम् अपरं परापरं चेति त्रिविधमित्यर्थः ।। नित्य इति ।। संयोगेऽतिव्याप्तिवारणाय नित्यपदम् । गगने तद्वारणाय सम्बन्धपदमिति ध्येयम् । ननु नित्ये कालाकाशसंयोगेऽतिव्याप्तिः । संयोगस्यान्यतरकर्मादिकारणजन्यत्वनियमेन तत्र तदसम्भवेन अजन्यसंयोगानङ्गीकारादिति भावः ।। अन्त्या इति ।। पार्थिवपरमाण्वोः समगुण-क्रियाजातिमतोर्योगीश्वराणामस्मादयं भिन्न इति व्यावृत्तिबुद्धिर्यस्माज्जायते स विशेषः । तथा च अन्ते भवा अन्त्याः । अन्ते गुणादीनां व्यावर्तकाणामभावे भावान्तरव्यावर्तकतया विद्यमाना इत्यर्थः । एतावत एव लक्षणत्वोपपत्तौ नित्यद्रव्यवृत्तय इति स्वरूपसङ्कीर्तनमिति ध्येयम् ।। यत्समवेतमिति ।। स्वसमवेतकार्यजनकत्वस्य विवक्षितत्वात् न कश्चित् क्षुद्रोपद्रवः ।। अवधृतेति ।। सामर्थ्यावधारणमनन्यथासिद्धपूर्वभावित्वेन द्रष्टव्यम् । निमित्तकारणेऽतिव्याप्तिवारणाय समवायि-कारणप्रत्यासन्नेति ।। तन्तुरूपेऽतिव्याप्तिपरिहारायावधृतेत्युक्तम् । तस्य च पटरूपजननोपक्षीण-त्वेनानन्यथासिद्धत्वाख्याऽवधृतसामर्थ्यवत्त्वाभावान्नातिव्याप्तिः ।

ननु द्रव्यासमवायिकारणे संयोगे समवायिकारणप्रत्यासन्नत्वसत्त्वेऽपि गुणासमवायिकारणे कारणगतगुणादौ समवायिकारणप्रत्त्यासन्नत्वाभावादव्याप्तिः । यदि च समवायिकारणं समवायिकारणसमवेतत्वं विवक्षितं, तदा सयोगेऽव्याप्तिरित्यत आह ।। प्रत्यासत्तिश्चेति ।। कार्येण सहैकार्थे प्रत्यासत्तिः । तथा च समवायिकारणतत्समवायिकारणयोरन्यतरसमवेतत्वमेव समवायिकारणप्रत्यासन्नत्वं विवक्षितम् । तच्च गुणासमवायिकारणे द्रव्याऽसमवायिकारणे चास्तीति नाव्याप्तिदोष इति द्रष्टव्यम् । कारणैकार्थप्रत्यासत्त्यादिनेत्यत्रादिपदेन कार्यैकार्थ-प्रत्यासत्तिग्रहणम् । तथा च कार्यगतानां रूपरसगन्धादिगुणानां कारणगतरूपादयः कारणैकार्थ-प्रत्यासत्त्याऽसमवायिकारणम् । तथा कार्यगतगुणानां संयोगविभागवेगानां कारणगतं कर्म कार्यैकार्थप्रत्यासत्त्याऽसमवायिकारणम् । यथा मल्लयोर्मेषयोर्वा संयोगो विभागश्च भवति । तत्र मल्लादिगतं कर्मैव कार्यैकार्थप्रत्यासत्त्याऽसमवायिकारणम् । कार्येण संयोगादिना सहैकार्थे मल्लादौ कर्मणः प्रत्त्यासन्नत्वात् । शरगतवेगसंस्कारस्य शरगतं कर्मैव कारणमित्यर्थः ।। कर्मणश्च कारणगतगुणकर्मणी इति ।। कर्मसमवायिकारणगतगुणकर्मणी इत्यर्थः । यथा फलगताधः पतनस्य पतनसमवायिकारणफलगतगुरुत्वरूपो गुणः कार्यैकार्थप्रत्यासत्त्याऽसमवायिकारणम् । कारणेन पतनेन सहैकार्थे फले प्रत्यासन्नत्वात् । तृतीयादिपतनरूपकर्मणः तत्समवायिकारण-फलगतं द्वितीयादिपतनरूपं कर्म कार्यैकार्थप्रत्यासत्त्याऽसमवायिकारणम् । कार्येण तृतीयपतनेन सहैकार्थे फले द्वितीयपतनस्य प्रत्यासन्नत्वादित्यर्थः ।। परमाणुद्व्यणुकगतमिति ।। अणुत्वं हृस्वत्वं चेत्यर्थः । द्व्यणुकत्र्यणुकगतपरिमाणेति ।। द्व्यणुके हृस्वत्वपरिमाणं त्र्यणुके तु महत्त्वं दीर्घत्वं चेति परिमाणद्वयमस्तीति ज्ञेयम् । एवं तर्हि द्व्यणुकत्र्यणुकगतपरिमाणानां किम-समवायिकारणमिति पृच्छति ।। किं त्विति ।। ‘वैरूप्यं तत्र कारणम्’ इत्यनुव्याख्यानं मनसि निधायोत्तरमाह ।। सङ्ख्यादिनैवेति ।। तज्जन्म द्व्यणुकनिष्ठहृस्वपरिमाणस्य जन्मसङ्ख्यया जन्म ईश्वरापेक्षाबुद्ध्युत्पन्ना या परमाण्वोर्द्वित्वसङ्ख्या तया । तथा तज्जन्मत्र्यणुकनिष्ठमहत्त्वदीर्घत्व-रूपरिमाणजन्म । ईश्वरापेक्षाबुध्युत्पन्ना या द्व्यणुकेषु त्रित्वसङ्ख्या तयेत्यर्थः । आदिपदेन तूलपिण्डपरिमाणजन्म प्रशिथिलावयवसंयोगरूपप्रचयेन भवतीति ध्येयम् ।।

तदन्यत् ।। समवाय्यसमवायिकारणान्यदित्यर्थः ।। आत्मविशेष इति ।। आत्मनः क्षेत्रज्ञ-परमात्मभेदेन द्विविधत्वादीश्वरस्यात्मविशेषत्वं द्रष्टव्यम् ।। शिष्टेति ।। आत्मनिष्ठबुद्ध्यादिनव-विशेषगुणानां मध्येऽङ्गीकृतज्ञानेच्छाप्रयत्नैस्त्रिभिरवशिष्टाः सुखदुःखद्वेषधर्माधर्मभावनासंस्काररूपा ये षड्गुणास्तदयोग्यस्तद्वत्त्वायोग्य इत्यर्थः ।। यथा महत्त्वादीत्यादि ।। त्र्यणुकद्य्यणुकपरिमाणं स्वाश्रयसमवायिकारणपरिमाणजं कार्यपरिमाणत्वात् । चतुरणुकादिपरिमाणवत् । द्व्यणुकपरमाणु-परिमाणं परिमाणारम्भकं द्रव्यसमवायिकारणपरिमाणत्वात् । त्र्यणुकपरिमाणवत् । त्र्यणुक-

द्व्यणुके वा परिमाणारभ्यपरिमाणवती कार्यत्वात् । चतुरणुकादिवत् । द्व्यणुकपरमाणू परिमाणाऽसमवायिकारणपरिमाणवन्तौ द्रव्यसमवायिकारणत्वात् । त्र्यणुकवत् । इत्यनुमानान्यत्र सूचितानि द्रष्टव्यानि । न च प्रचयजन्यपरिमाणे व्यभिचारः । तस्यापि पक्षतुल्यत्वात् । प्रचय-कारणताया अप्यनिवारणेन बाधाभावात् । परिणामप्रचययोरुभयोरपि तत्र कारणतया क्लृप्त-शक्तित्वेन गौरवाभावादित्यादिसुधोक्तरीत्या द्रष्टव्यम् ।। असमवायिकारणत्ववतीति ।। चतुरणुकादिपरिमाण इति शेषः ।। परमाण्वादिगतमिति ।। द्व्यणुकादिपरिमाणे समवायि-कारणमित्यर्थः । उक्तानुमानेष्वप्रयोजकतामाशङ्कते ।। त्र्यणुकादिपरिमाणस्येति ।। आरम्भ-कत्वेऽपीति ।। चतुरणुकादिपरिमाणारम्भकत्वेऽपीत्यर्थः ।। अस्य ।। परमाण्वादिपरिमाणस्य ।। तत् ।। द्व्यणुकादिपरिमाणारम्भकत्वम् ।। कारणेति ।। त्र्यणुकादिगतमहत्त्वादेरेव चतुरणुकादि-परिमाणारम्भकत्वं द्व्यणुकादिहृस्वत्वादेस्तु नेत्यत्र कारणविशेषाभावादित्यर्थः । कारणविशेष-मेवाशङ्कते ।। न तावदिति ।। अवर्जनीयेति ।। हृस्वत्वस्य प्रत्यासत्तिरवर्जनीयेत्यर्थः । तथा चावश्यकल्प्यमाननियतपूर्ववृत्तिसङ्ख्ययैव त्र्यणुकादिपरिमाणाख्यकार्योत्पत्तौ तत्सहभूतत्वेन रास-भवत् हृस्वादेरन्यथायुतसिद्धत्वेनावधृतसामर्थ्याभावेनासमवायिकारणलक्षणाभाव एव विशेष इत्यर्थः । ‘सदृशस्य हि कार्यस्य नैव योगः कथञ्चन ।’ अप्रत्यक्षत्वमेव स्याद्यतः कार्येष्वणु-त्वतः’ इति अनुव्याख्यानानुसारेणानुमानेषु तर्कपराहतिमाशङ्कते ।। पारिमाण्डल्यादेरिति ।। तदत्यन्तसदृशेति ।। परमाणुपरिमाणात्यन्तसदृशेत्यर्थः । ‘अणुत्वं च महत्त्वं च यतो वस्तुव्यपेक्षया’ इत्यनुव्याख्यानं मनसि कृत्वाऽऽह ।। न नो हानिरिति ।। अत्यन्तसदृश-मिति ।। चतुरणुकादिगतमहत्त्वपरिमाणेनेति शेषः । कारणपरिमाणापेक्षया कार्ये परिमाणाति-शयस्यानुभवसिद्धत्वादिति भावः । अवर्जनीयप्रत्यासत्तिर्नेति दूषणान्तरमाह ।। द्व्यणुकादीति ।। तथाचानन्यगत्या पारिमाण्डिल्यादेरेव कारणत्वं वाच्यमित्यर्थः । न तु कारणान्तराभावोऽसिद्धः । सङ्ख्याया एव कारणान्तररूपायाः सत्त्वादित्याह ।। सङ्ख्यादेरिति ।। यथा परमाण्वादिगत-सङ्ख्ययैवोत्पत्तिरित्युच्यते तथाऽनयैव रीत्या त्र्यणुकादिगतबहुत्वसङ्ख्ययैव चतुरणुकादिमहत्त्वा-रम्भोपपत्तौ सर्वत्रैकरूप्यलाभेन परिमाणात् तदुत्पत्त्यङ्गीकारो युक्त इत्यर्थः ।। द्रव्यनिमित्तत्व-मेवेति ।। नासमवायिकारणत्वमित्येवार्थः ।। भिन्नतयेति ।। द्रव्यापेक्षयेति शेषः । अयुतसिद्ध-तयेत्यर्थः । असमवायिकारणत्वमिति शेषः । घटापेक्षया भिन्नतया प्रतीयमानस्य दण्डादेर्घटं प्रति निमित्तत्वं दृष्टम् । प्रकृते च तदभावादसमवायिकारणत्वमिति भावः । अयुतसिद्धतया प्रतीत्य-भावस्य नासमवायिकारणतासाधकत्वं व्यभिचारादित्याह ।। भिन्नतयेति ।। आत्मनोऽतीन्द्रिय-त्वेन तद्गतद्वित्वस्यापि तथात्वात् द्वित्वरूपकार्यापेक्षयाऽपेक्षाबुद्धेर्भिन्नतया बहिरिन्द्रियप्रतीत्य-भावेऽपि निमित्तत्वस्यैव दर्शनात् व्यभिचार इत्यर्थः ।। अभ्युपगम्येति ।। संयोगस्य पटं प्रति कारणत्वमभ्युपगम्येदं निमित्तत्वमुक्तम् । वस्तुतस्तु कारणत्वमेव नास्तीति भावः ।। कारणम् ।। असमवायिकारणम् ।। विवक्षित इति ।। व्यतिषङ्गविशेषविशिष्ट इत्यर्थः ।। कस्येति ।। व्यतिषङ्गविशेषविशिष्टः तन्तुसंयोगः कस्यासमवायिकारणमिति प्रश्नस्योत्तरं वाच्यमित्यर्थः ।। कस्तदेति ।। तदा व्यतिषङ्गविशेषानन्तरम् । व्यतिषङ्गविशेषविशिष्टतन्तूनामेव पटत्वेन तयो-रत्यन्ताभेदान्न कार्यकारणभाव इति । न तस्यासमवायिकारणत्वमिति भावः ।

वाक्यार्थमञ्जरी

परमाण्वारम्भेति ।। त्र्यणुकषष्ठभागस्य द्व्यणुकादिक्रमेण कार्यारम्भकत्वमेव न तु तदात्मना परिणामवादेत्यर्थः । ईश्वरस्याष्टगुणमात्रत्वं वक्तुं उपोद्धातमाह ।। षट्खल्वित्यादिना ।। गुणा-श्रयेति ।। गुणात्यन्ताभावानधिकरणमित्यर्थः । तेन प्रथमक्षणावच्छिन्नघटे नाव्याप्तिः । अन्यत्कार्यरूपम् ।। कर्मान्यत्वेति ।। अत्र कर्मसामान्यद्रव्यव्यावृत्तये क्रमेण विशेषणानि । ननु गुणे गुणत्वसमवायस्य द्रव्यत्वाद्यभावस्यापि सत्वेनासम्भवीदं लक्षणमिति चेन्न । संयोग-समवायान्यतरसम्बन्धेन यद्यत्रास्ति तत्प््रात्येव स आश्रय इत्यङ्गीकारात् । गुणस्याभावसमवायौ प्रति विशेषणविशेष्यभावेनाश्रयत्वेऽपि संयोगसमवायान्यतरसम्बन्धेनानाश्रयत्वादिति भावः ।। संयोगविभागयोरिति ।। न च संयोगविभागयोरतिव्याप्तिः । उभयासमवायिकारणत्वस्य विवक्षितत्वादिति भावः ।। नित्यमिति ।। अत्रसंयोगविशेषगगनसमवायव्यावृत्तये क्रमेण विशेषणानि । नन्वत्रानेकसमवेतत्वं नामानेकत्वसङ्ख्यावत्समवेतत्वं वा स्वाश्रयप्रतियोगिका-न्योन्याभाववत्समवेतत्वं वा । नाद्यः रूपत्वे अव्याप्तेः । तदाश्रये रूपे सङ्ख्याभावात् । न द्वितीयः एकपदवैय्यर्थ्यात् । विशेषाणां प्रतिव्यक्तिनियतत्वेनैकैकस्य विशेषस्य स्वाश्रय-प्रतियोगिकान्योन्याभाववत्समवेतत्वाभावेन तत्राप्यव्याप्त्यभावात् । न च विशेषसमुदायेऽति-व्याप्तिः । समुदायिभिन्नसमुदायाभावात् । भावे वा तस्य समवेतत्वाभावेन तेनैव तद्व्यावृत्तेरिति चेदुच्यते नात्रैकत्वं लक्षणशरीरान्तर्गतम् । किन्तु सामान्यं सर्वत्रानुगतव्यवहारहेतुत्वादेकमेव न तु विशेषवत्प््रातिव्यक्तिभिन्नमिति स्वरूपकथनार्थमिति सम्प््रादायविदः । नन्वथापि कालाकाश-संयोगेऽतिव्याप्तिरिति चेन्न अनङ्गीकारात् । तयोरमूर्तत्वेन परस्परसंयोगाभावेनामूर्तत्वभङ्गा-भावाच्चेत्यर्थः ।। अनेकविधमिति ।। सत्ता द्रव्यत्वादिरूपेण परापरोभयविधरूपेत्यर्थः ।। नित्य इति ।। संयोगाकाशव्यावृत्तये क्रमेण विशेषणे ।। अन्त्या इति ।। अन्तेभवा इत्यर्थः । गुणादीनां व्यावर्तकाणामभावे स्वयं व्यावर्तकतया विद्यमाना इति यावत् । आद्यपरमाणुप्रभृतिषु समानगुणकर्मजातिमत्सु योगिनामयमस्माद्भिन्न इति व्यावृत्तिबुद्धिजनकस्यान्यस्याभावात्तदर्थं तन्मात्रवृत्तितया व्यावृत्तिबुद्धिजनका विशेषा अङ्गीक्रियन्ते । अत्रांत्या इत्येव लक्षणम् अन्यत्स्वरूपकथनमिति बोध्यम् । तत्र पदार्थेषु यद्यत्र स्वसमवेतकार्यजनकत्वमिति फलितोऽर्थः । द्रव्यमेव न गुणादिकं समवायिकारणम् ।। आदिसृष्टाविति ।। महेश्वरसिसृक्षया परमाणुषु क्रियोत्पद्यते । ततो द्वयोर्द्वयोरन्योन्यसंयोगेन द्व्यणुकोत्पत्तिस्त्रिभिर्द्व्यणुकैस्त्र्यणुकमित्यादिक्रमेण महापृथिव्याद्युत्पत्तिरित्यर्थः । प्रत्यासन्नं प्रत्यासत्तियुक्तम् ।। अवधृतसामर्थ्यमिति ।। अवधृतं सम्यङ्निश्चितं सामर्थ्यं कार्यजनने यस्य तत्तथोक्तम् । तदवधारणे हेतुश्चानन्यथा सिद्धत्वम् । अत्र तन्तुतन्तुत्वव्यावृत्तये क्रमेण विशेषणे ।। कार्यैकार्थेति ।। कार्येण सहैकत्र समवायिकारणेन सहैकत्र समवायश्चेत्यर्थः ।। कार्यद्रव्यस्येति ।। यथा तन्तुसंयोगः पटलक्षणकार्येण सहैकत्र तंतुषु समवेतः पटसमवायिकारणम् ।। कार्यगतेति ।। यथा तन्तुरूपं कार्येण पटेन सहैकत्र तंतुषु समवेतं पटरूपासमवायिकारणम् ।। कर्म चेति ।। यथा तंतुक्रियापटलक्षणकार्येण सहैकत्र तंतुषु समवेत-पटगतविभागकारणम् । अत्र चशब्देनाश्रयगतगुणानामादिशब्देन कार्यैकार्थप्रत्यासत्तेश्च ग्रहणम् । यथापार्थिवपरमाणुगतं रूपादिकं प्रति पार्थिवपरमाणुतेजःसंयोगस्वरूपादिलक्षणकार्येण सह परमाणुलक्षणैकार्थे समवेतत्वेन कारणत्वम् ।। कारणगतगुणकर्मणीति ।। कर्मसमवायि-कारणगतगुणकर्मणीत्यर्थः । यथा फलगतं गुरुत्वं तद्गतपतनं प्रति तल्लक्षणकार्येण सह फल-लक्षणैकार्थसमवेतमसमवायिकारणम् । यथा वा फलगतं द्वितीयपतनं तद्गततृतीयपतनासमवायि-कारणम् । इदं चैकदेशिमतेन । वस्तुतस्तु तृतीयादिपतनं प्रति वेगस्यैवासमवायिकारणत्वम् । अत एव सुधायां कर्मण आश्रयगताः गुरुत्वद्रवत्वसंयोगा असमवायिकारणमित्येवोक्तम् ।। सङ्ख्यादिनैवेति ।। परमाणुगतद्वित्वेन द्व्यणुकपरिमाणं तद्गतत्रित्वेन त्र्यणुकपरिमाणम् आदि-पदेन वर्तुलपिण्डपरिमाणं कारणप्रचयसङ्ग्रहः । तत्राप्यवयवपरिमाणस्य हेतुत्वमिति भावः ।। एत-दन्यदिति ।। समवाय्वसमवायिभिन्नमित्यर्थः ।। शिष्टषड्गुणायोग्य इति ।। नित्ययथार्थ-ज्ञानस्येश्वरस्य मोहासम्भवे तत्प््राभवरागद्वेषयोरयोगेन तज्जन्यधर्माधर्मयोरभावात्तन्निमित्तसुख-दुःखयोर्नित्यज्ञानत्वादेव स्मरणलक्षणकल्पकाभावेन भावनाख्यसंस्कारस्य चायोगाच्छिष्टषड्गुणा-योग्य इत्यर्थः । यथा महत्वाद्दीर्घत्वाच्च परिमाणाच्च चतुरणकादिकार्यगतं परिमाणं जायते तथा च ह्रस्वत्वात्पारिमाण्डिल्याच्च परिमाणात्तत्कार्ये परिमाणमुत्पद्येत । अन्यथा महत्व-दीर्घत्वाभ्यामपि नोत्पद्येताविशेषादित्यर्थः ।। न तावदिति ।। नापि बाधकभावाभावाभ्यामिति तावच्छब्दः ।। प्रत्यासत्तिरेवेति ।। न तु सामर्थ्यावधारणमिति लक्षणाभाव एवेत्यर्थः । तत्र यं पुरस्कृत्य यस्य यं प्रति पूर्वभावोऽवगम्यते तत्तेनान्यथासिद्धमित्युक्तान्यथासिद्धिसत्वादिति भावः ।। महत्वेऽपीति ।। उक्तान्यथासिद्धेस्तत्रापि वक्तुं शक्यत्वादिति भावः । बाधकं शङ्कते ।। पारिमाण्डल्यादेरिति ।। नास्ति नो हानिरिति ।। त्र्यणुकादिसर्वकार्याणामापेक्षिकाणुत्वसत्वेन तत्राणुशब्दवाच्यत्वस्येष्टत्वादिति भावः । ननु परमाणुगतपरिमाणमेव अणुपरिमाणं न त्र्यणुकादिसर्वकार्यगतमतः कथमिष्टापत्तिरित्यत आह ।। सङ्केतमात्रमिति ।। अवर्जनीय-प्रत्यासत्तिर्नेत्यत्र हेत्वन्तरमाह ।। द्व्यणुकादीति ।। तथाचानन्यगत्या पारिमाण्डल्यादेरेव कारणत्वमिति न सामर्थ्यावधारणाभाव इति भावः । ननु सङ्ख्यादिनैव तज्जन्मेत्युक्तत्वात्कथं कारणान्तराभाव इत्यत आह ।। सङ्ख्यादेरिति ।। त्र्यणुकादिगतबहुत्वसङ्ख्यादेश्चतुरणुकादि-महत्वारम्भकत्वप्रसङ्गादित्यर्थः । तथा च तत्रापि परिमाणस्यारम्भकत्वं न स्यादिति भावः । यद्वा द्व्यणुकगतसङ्ख्यादेश्चतुरणुकगतमहत्वारम्भकत्ववत्परमाणुगतसङ्ख्याया अपि द्व्यणुके महत्वारम्भकत्वप्रसङ्गादित्यर्थः ।। भिन्नतयेति ।। समवायिकारणाद्विविक्ततयेत्यर्थः । तथाविधस्यैव दण्डादेर्निमित्तकारणत्वादिति भावः ।। भिन्नतयेति ।। द्वित्वसमवायिकारणात्मनः सकाशादिति शेषः । अभ्युपगम्य संयोगस्य कारणत्वं विवक्षितव्यतिषङ्गविशेषविशिष्टः ।। कस्तदेति ।। व्यतिषङ्गविशेषविशिष्टतन्तूनामेव पटत्वादिति भावः ।

Load More