ॐ आनन्दमयोऽभ्यासात् ॐ
सूत्रभाष्यम्
६. आनन्दमयाधिकरणम्
तमेव समन्वयं प्रकटयत्यानन्दमयोऽभ्यासादित्यादिना समस्तेनाध्यायेन प्रायेण । प्रायेणान्यत्र प्रसिद्धानां शब्दानां परमात्मनि समन्वय प्रदर्श्यतेऽस्मिन् पादे । नान्यथा तददृष्टे । ब्रह्मजिज्ञासा कर्तव्येत्युक्तम् । तच्च ब्रह्म "ब्रह्म पुच्छं प्रतिष्ठा’ (तै.उ. २-५-२) इत्यानन्दमया-वयवरूपं प्रतीयते । न ह्यवयविनं विना अवयवमात्रस्य ज्ञेयतेत्यत आह ॥
ॐ आनन्दमयोऽभ्यासात् ॐ ॥ १२ ॥
आनन्दमयो ब्रह्मादि प्रकृतिर्विष्णुर्वा । ब्रह्मशब्दाद्धिररण्यगर्भस्य प्राप्ति शतानन्दनाम्ना च । अष्टमूर्तित्वात्सूर्ये प्रोक्तत्वाच्च रुद्रस्य । एवमन्येषामपि । "मम योनिर्महद् ब्रह्म’ इति (भ.गी.१४-३) ब्रह्मशब्दाद्बहुभावाच्च प्रकृते । "बृह जातिजीवकमलासनशब्दराशिषु’ इति ब्रह्मशब्दादेव सर्वजीवानाम् । अन्नमयत्वादेश्र्च । तथापि न त आनन्दमयशब्देनोच्यन्ते । किन्तु विष्णुरेव । "तदेव ब्रह्म परमं कवीनाम्’ (म.ना.उ. १-६) "एतमेव ब्रह्मेत्याचक्षते’
(ऐ.आ. ३-२-३-१२) ।
"ब्रह्मशब्द परे विष्णौ नान्यत्र क्वचिदिष्यते ।
असम्पूर्णा परे यस्मादुपचारेण वा भवेत्’ ।
"ब्रह्मेति परमात्मेति भगवानिति शब्द्यते’ ।
"वासुदेवात्मकं ब्रह्म मूलमन्त्रेण वा यति’ ॥
इत्यादिषु तस्मिन्नेव प्रसिद्धब्रह्मशब्दाभ्यासात् ॥ १२ ॥
सत्तकदीपावली
वृत्तवर्त्तिष्यमाणग्रन्थसङ्गतिमाह ॥ तमेवेत्यादिना ॥ सर्ववेदसमन्वयप्रतिपादके प्रथमाध्याये तदुपर्यपि बादरायण इत्यादिषु केषुचित्सूत्रेषु तत्प्रतिपादनाभावात् । ब्रह्मण्यर्थान्तरनिरूढशब्दसमन्वयप्रतिपादके प्रथमपादे आनन्दमयादिशब्दानां केषाञ्चिदर्थान्तरानिरूढानां समन्वयप्रतिपादनात्प्रायेणेत्युक्तम् । न च स्पष्टब्रह्म-लिङ्गानामस्मिन्पादे उपरि चास्पष्टब्रह्मिलङ्गानां समन्वयोऽभिधीयत इति कथनीयम् । एतत्कथनस्या-प्रामाणिकत्वात् । एतदमृतमभयमेतद्ब्रह्मेत्यादीनाम् उपरितनपादाधिकरणोदाहृतवाक्यानामपि स्पष्टब्रह्मिलङ्गा-नामेवोपलम्भाच्चेत्याह ॥ नान्यथेति ॥ नन्वयं निर्दिष्टश्रुतिसमन्वयो जिज्ञास्यतया प्रतिज्ञाय आनन्दमय एव तस्मिन् अभिधातव्य न तु ब्रह्मणि तस्य ब्रह्मपुच्छं प्रतिष्ठेति आनन्दमयावयवत्वश्रवणात् कृत्स्नानन्दमयावयविनं विहाय न हि तत्पुच्छरूपं ब्रह्म जिज्ञासितुं शक्यते । आनन्दमयस्य तु कृत्स्नस्य जिज्ञासया तु पुच्छरूपं ब्रह्म जिज्ञासितं भवत्येवेत्याशङ्कायां सूत्रमवतार्य व्याचष्टे । आनन्दमयोऽभ्यासा-दित्यादिना । अस्मिन्नधिकरणे विष्ण्वाख्यं ब्रह्मैवानन्दमय इति प्रतिपाद्यते । एकस्यैवावयवावयविभावाभि-प्रायेणानन्दमयपुच्छत्वश्रवणं न विरुद्धमिति वक्ष्यति । अतो विष्ण्वाख्ये ब्रह्मणि निखिलश्रुतिसमन्वय-प्रतिज्ञानानुपपन्ना तैत्तरीयके विज्ञानमय अन्योन्तरात्माऽनन्दमयो ब्रह्म भवितुमर्हति आनन्दमयमधिकृत्यास्ति ब्रह्मेति चेद्वेदेति श्रवणाद् ब्रह्मशब्दस्य हिरण्यगर्भे प्रसिद्धत्वान्मानुषाधिपादिषु शतोत्तरादिष्वन्त्यत्वेन हिरण्यगर्भस्य ते ये शतं प्रजापतेरानन्दा स एको ब्रह्मण आनन्द इति श्रूयमाणत्वात्तस्यानन्दमयत्वं सिद्ध्यति । पद्मभूश्र्च शतानन्द इत्यभिधानात् प्रकृतस्यानन्दमयस्य यश्र्चासावादित्य इत्यादित्यगतत्वेन श्रवणात् स रुद्र एव स्यात् । आदित्यस्य रुद्रमूर्त्यष्टकप्रविष्टत्वात् । रुद्रसर्गं प्रवक्ष्यामीत्यारभ्य
सूर्यो जलं मही वह्निर्वायुराकाशमेव च ।
दीक्षितो ब्राह्मण सोम इत्येतास्तनव क्रमादित्युक्तं विष्णुपुराणे ।
एवमेव बृहस्पतिरन्यो वाऽनन्दमय स्यात् शतोत्तरानन्दमयत्वेन श्रूयमाणत्वात् । चित्प्रकृतिर्वाऽ-नन्दमय मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहमिति भगवता ब्रह्मशब्दस्यानन्दमयविषयत्वेन श्रुतस्यैव प्रकृतौ प्रयुक्तत्वात् सैवानन्दमय स्यात् । सोऽकामयत बहु स्यामित्यानन्दमयस्य बहुभावश्रवणाच्च प्रकृतिरेवासौ तस्या एव महदादिरूपेण बहुभाव श्रुतिप्रमाणसिद्ध । आनन्दमयविषयत्वेन श्रुतस्य ब्रह्मशब्दस्य जीवेष्वपि विद्यमानत्वात्तेषां वाऽऽनन्दमयत्वम् । जातिजीवकमलासनशब्दराशिषु ब्रह्मशब्द इत्यभिधानात् । एष पुरुषोऽन्नरसमय प्राणमयो मनोमय इत्यादयो हि प्राणादिसम्बन्धित्वाज्जीव एव । अतस्तत्प्रायपठितानन्दमयोऽपि प्रियमोदादिसम्बन्धिजीव स्यात् । इदमेवानन्दमयो ब्रह्मादिरित्यादिनोक्त्वा तथापीत्यनेन प्रतिषेधति । विष्णुरेवायमानन्दमय । विष्णुवाचिनो ब्रह्मशब्दस्य आनन्दमयेऽभ्यासात् । असन्नेव स भवति । असद्ब्रह्मेति वेद चेत् । अस्ति ब्रह्मेति चेद्वेद । सन्तमेनं ततो विदुरित्यानन्दमयं प्रक्रम्य श्रूयते । न चात्र ब्रह्मशब्दादेव हिरण्यगर्भादीनामानन्दमयत्वप्राप्तिरिति वाच्यम् । मुख्ये सम्भवत्यमुख्यकल्पनाऽयोगात् विष्णावेव ब्रह्मशब्दो मुख्यो नान्यत्र मुख्य इति श्रुतिपुराणवाक्यैर्दर्शयति ॥ तदेवेत्यादिना ॥ बुद्ध्या विहितसत्पुष्पै प्रणवेन समर्चयेत् । वासुदेवात्मकं ब्रह्मेति एतद्वचनम् ।
तत्त्वप्रदीपिका
तमेवेत्यादिनोत्तराधिकरणजातस्य सङ्गतिं दर्शयति । समन्वयसूत्रेण यस्सामान्योक्तस्समन्वय तमेव विशेषत पृथक् पृथक्कथयतीति । ब्रह्मविचारे च प्रथमप्रतिज्ञाते प्रत्यधिकरणं सङ्गति समस्ति । जन्मादिसूत्रेण च तत्र ब्रह्मणोऽनन्तगुणत्वप्रदर्शनात्तेषां च गुणानामुत्तरसूत्रैरनुवर्ण्यमानत्वात् । शास्त्रयोनि-सूत्रेणापि तत्र तत्र शास्त्रयोनित्वप्रसाधकानामधिकरणानामस्त्येव सङ्गति । समस्तेनाध्यायेन समन्वयं वक्ति । प्रायेणेति देवताधिकरणादौ प्रासङ्गिकाधिकारादिविचारात्तत्र गत्यन्तराभावात् । प्रायेणान्यत्र प्रसिद्धानां शब्दानामिति च सम्बन्ध । आनन्दादिगुणवाचिनामानन्दमयादिगुणिवाचिनां च शब्दानां समन्वयसिद्ध्यर्थ-मानन्दमयाधिकरणे लिङ्गविचारादिन्द्राग्न्यादिबहुनाम्नां समन्वयसौलभ्यायोत्तरेऽन्तस्थत्विलङ्गविचारात् । तस्मात्प्रायेणान्यत्र प्रसिद्धानां नामशब्दानां ब्रह्मणि समन्वयं वक्त्यास्मिन्पादे । ब्रह्मणि वृत्तिहेतूनां विद्यमानत्वाद्योगवृत्त्या वैदिकप्रयोगबाहुल्याद्विद्वद्रूढ्या चैवं प्रथमपादे साधितेऽप्यन्यत्र प्रसिद्धिलङ्गेभ्य सावकाशत्वं श्रुतीनां स्यादिति लिङ्गरूपाणां द्वितीये प्रदर्श्यते । ततश्र्चान्यत्र प्रसिद्धत्वेन प्रतीयमानानां लिङ्गानां ब्रह्मणि समन्वयप्रदर्शनेन पूर्वोक्तौ नाम्नां रूढियोगौ बिलष्ठौ भवत । अथाप्युभयत्र प्रसिद्धत्वेन प्रतीयमानानां नामिलङ्गानामन्यत्र वृत्तिहेतोरल्पस्यापि निरासेन रूढेश्र्चाज्ञसम्बन्धिन्या आभासत्वेन विष्णावेव समन्वयं वक्ति तृतीयपादे । एवं वाक्यसमन्वये सिद्धे सति अवरादिपदानां दोषादिवाचकत्वेन श्रुतिलिङ्गादिभिरन्यत्रैव प्रसिद्धानां सर्वेषामपि विष्णावेव प्रवृत्तिं प्रतिपादयति चतुर्थे पाद इति पादसङ्गति ।
नान्यथा तददृष्टे । अयं भाव । न माय्युक्तप्रकारेण पादसङ्गतिर्युक्ता । द्वितीयतृतीयपादयोरु-भयोरप्यस्पष्टब्रह्मिलङ्गत्वे पादभेदाभावप्रसङ्गात् । गत्यन्तराभावाच्च । तन्नियमादृष्टेश्र्च । पादाभिधानादिलिङ्गेभ्य प्रसिद्धोपदेशोपपत्त्यम्बरान्तधृत्यादिलिङ्गानां स्पष्टत्वात् । ज्योतिश्र्चरणाभिधानादित्यत्र पादाभिधानादिति हि पुनरुक्तिदोषनिर्भयेन मायिनाऽभिहितम् । चतुर्थपादस्य सङ्गत्यदर्शनाच्च तन्मते ।
ब्रह्मजिज्ञासा कर्तव्येत्युक्तमित्यादिनाऽधिकरणमवतारयति । यज्जिज्ञास्यत्वेन प्रतिज्ञातं तद् ब्रह्माऽनन्दमयावयवरूपं प्रतीयते तैत्तिरीयश्रुतौ । तथाहि "विज्ञानमयादन्योऽन्तर आत्माऽऽनन्दमय’ इत्यादिनाऽऽनन्दमयं प्रस्तुत्य श्रूयते, "तस्य प्रियमेव शिर, मोदो दक्षिण पक्ष, प्रमोद उत्तर पक्ष, आनन्द आत्मा, ब्रह्म पुच्छं प्रतिष्ठा’ इति । न ह्यवयविनं विनाऽवयवमात्रज्ञानेन पुरुषार्थ । तस्माद्यस्या-वयवो ब्रह्म स आनन्दमयो विचार्यस्स्यादित्यत आनन्दमयस्य ब्रह्मत्वं प्रथमतस्साधनीयम् । तत्साधयति ॥ आनन्दमयोऽभ्यासात् ॥ आनन्दमयो विषय, स संशय्यते ब्रह्मादि प्रकृतिर्विष्णुर्वेति । ब्रह्म आदिर्यस्य देवतासङ्घस्य रुद्रशक्तिस्कन्दसूर्यविघ्नादे स ब्रह्मादि । अतस्संशयाद्विचार्यते । तत्र ब्रह्मादि प्रकृतिर्वाऽऽनन्दमय इति पूर्व पक्ष । विष्णुरेवेति सिद्धान्त ॥ ब्रह्मशब्दादित्यादिना पूर्वपक्षयुक्तिमाह । शतानन्दनाम्ना चाऽनन्दमयपर्यायेण तस्यैव प्रसिद्धेन हिरण्यगर्भस्याऽनन्दमयत्वप्राप्ति । "ते ये शतं प्रजापतेरानन्दा, स एको ब्रह्मण आनन्द’ इति सूचितेन शतानन्दनाम्ना च तस्य प्राप्ति । "स यश्र्चायं पुरुषे यश्र्चासावादित्य’ इति सूर्ये पुरुषे चाऽनन्दमयस्य प्रोक्तत्वाद्रुद्रस्य प्राप्ति । अत एवान्यदेवतानां च । मम योनिर्महद्ब्रह्मेति प्रकृतेरपि ब्रह्मशब्दवाच्यत्वादत्रापि ब्रह्मशब्दात्प्रकृते प्राप्ति । सोऽकामयत, बहु स्यां प्रजायेयेत्यादेरानन्दमयस्य बहुभावाज्जडप्रकृतेश्र्च परिणममानाया बहुभावात्तस्याश्र्च प्राप्ति । बृह जातिजीव-कमलासनशब्दराशिष्विति धातो ब्रह्मशब्दवाच्यत्वाज्जीवमात्रस्य प्राप्ति । एवं प्राप्ते सिद्धान्तमारभते तथाऽपीत्यादिना ।
बुद्ध्याऽविहिंसन्पुष्पैर्वा प्रणवेन समर्चयेत् ।
वासुदेवात्मकं ब्रह्म मूलमन्त्रेण वा यति ॥ इति व्यासस्मृति ।
एवमादिवाक्येषु विष्णावेव प्रसिद्धस्य ब्रह्मशब्दस्याऽनन्दमयश्रुतावभ्यासाद्विष्णौ तात्पर्यावगमादानन्दमय-शब्देन विष्णुरेवोच्यते ।
तत्त्वप्रकाशिका
अथ ब्रह्मस्वरूपनिरूपणेऽनवशेषात्किमध्यायशेषेणेत्यतस्तत्कृत्यमाह ॥ तमेवेति ॥ कृत्यान्तरा-भावेऽपि "तत्तु समन्वयात्’ इत्युक्तमेवोपक्रमाद्यन्वयात्सम्यनिरूपणं शास्त्रीयशब्दानां प्रतिवाक्यग्रहणेन प्रकटयत्यनेनाध्यायेन सूत्रकार । अन्यथा प्रतिज्ञामात्रस्यासाधकत्वेनान्यदेव समन्वयादित्यपि वक्तुं शक्यत्वा-दिति भाव । एतदधिकरणसङ्गतिशङ्कोत्थापनाय सूत्रोदाहरणम् । चतुर्थपादे तु न समन्वय इत्येतदश्रद्धेयमिति भावेनोक्तं समस्तेनेति । प्रायेणेति देवताद्यधिकरणव्यावृत्तये । तर्ह्यध्यायस्यैकार्थत्वात्पादभेद किंनिबन्धन इत्यत समन्वयेऽप्यवान्तरभेदेनेति भावेनैतत्पादप्रतिपाद्यं दर्शयति ॥ प्रायेणेति ॥ शब्दास्तावच्चतुर्विधा । अन्यत्रैव प्रसिद्धा उभयत्र प्रसिद्धा अन्यत्र प्रसिद्धा तत्र प्रसिद्धा इति । सर्वेऽपि नामिलङ्गात्मकतया प्रत्येकं द्विविधा । तेषु तत्र प्रसिद्धानां न समन्वयो वाच्य । तेषु अन्यत्रैव प्रसिद्धशब्दसमन्वयस्य प्रथम-मबुद्ध्यारोहाच्चतुर्थे तदुक्ति । उभयत्र प्रसिद्धानामन्यत्र प्रसिद्धिपराकरणमात्रस्यान्यत्र प्रसिद्धानां तत्प्रसिद्धि-निराकरणपूर्वकं भगवत्परत्वप्रतिपादनादमुख्यत्वेन प्राथम्यायोगात्तृतीये तदुक्ति । अन्यपराणां मध्ये लिङ्गात्मकानां धर्मवाचित्वान्नामात्मकेभ्यो धर्मिवाचिभ्योऽमुख्यत्वेनाप्राथम्यात्तत्समन्वयोक्तिर्द्वितीये । ततोऽन्यत्र प्रसिद्धानां नामात्मकानां शब्दानां भगवति समन्वय प्रदर्श्यतेऽस्मिन्पाद इति भाव । अत्रान्त-स्थत्विलङ्गसमन्वयप्रतिपादनात्प्रायेणेति । अन्ये तु ब्रह्मनिष्ठतया स्पष्टिलङ्गानां प्रथमे द्वितीयतृतीययोरस्पष्टानां समन्वय प्रतिपाद्यत इत्यन्यथा पादार्थानाचक्षते तन्निराचष्टे ॥ नान्यथेति ॥ एतदमृतमभयमेतद्ब्रह्मेत्युत्तराधि-करणोदाहृतवाक्येष्वपि स्पष्टब्रह्मिलङ्गानामुपलम्भेन तन्नियमादृष्टेर्नान्यथा पादार्थ इत्यर्थ । नन्वत्रान्यत्र प्रसिद्धानन्दमयनाम्नो ब्रह्मणि समन्वयसमर्थनादस्तु शास्त्राध्यायपादसङ्गति । तथापि आनन्दमयस्य विष्णुत्वसमर्थने का पूर्वसङ्गतिरित्यत श्रुत्यधिकरणसङ्गती दर्शयति ॥ ब्रह्मेति ॥ "अथातो ब्रह्मजिज्ञासा’ इति यस्य ब्रह्मणो जिज्ञासा कर्तव्यतयोक्ता तच्च ब्रह्म तैत्तिरीयश्रुतावानन्दमयस्य पुच्छाख्यावयवरूपं प्रतीयते । "तस्माद्वा एतस्माद्विज्ञानमयात् अन्योऽन्तर आत्माऽनन्दमय । तेनैष पूर्ण । स वा एष पुरुषविध एव । तस्य पुरुषविधताम् । अन्वयं पुरुषविध । तस्य प्रियमेव शिर । मोदो दक्षिण पक्ष । प्रमोद उत्तर पक्ष । आनन्द आत्मा । ब्रह्म पुच्छं प्रतिष्ठा ।’ इति । अत सङ्गतिसद्भावादानन्दमयस्य ब्रह्मत्वमत्र समर्थ्यत इति भाव । तेनानन्दमयेनैष विज्ञानमयो निश्छिद्रतया पूर्ण स एष आनन्दमय पुरुषाकारं एव । तस्यानन्दमयस्य पुरुषाकारतानुसारेणायं विज्ञानमय पुरुषाकारस्तस्मादुद्भूत । उपकारजं प्रियम् । प्रकृष्टाप्रकृष्टविषयोत्थौ मोदप्रमोदौ । स्वरूपभूत आनन्द । यत्वा श्रवणोत्थं प्रियम् । दर्शनोत्थो मोद । भोगोत्थ प्रमोद । स्वरूपभूत आनन्द । तत्त्वत्प्रवर्तकतया च तत्तद्व्यपदेश इति । ब्रह्मणोऽ-वयवत्वोक्तावपि किमर्थमानन्दमयस्य विष्णुत्वसमर्थनमित्यत आह ॥ न हीति ॥ यद्यानन्दमयो ब्रह्मणोऽन्यस्तदा न ब्रह्मजिज्ञासा सम्भवति । अवयविन एवानन्दमयस्य जिज्ञास्यत्वप्राप्ते । अवयविजिज्ञासां विना अवयवमात्रजिज्ञासाऽयोगात् । ब्रह्मजिज्ञासा च श्रुत्युक्ता न हातुं शक्या । अत आनन्दमयस्य विष्णोरन्यत्वे न ब्रह्मजिज्ञासा सम्भवतीति यतोऽतो ब्रह्मजिज्ञासासिद्ध्यर्थमानन्दमयोऽभ्यासादित्यानन्दमयस्य विष्णुत्वमाह सूत्रकार इति भाव । एवं सङ्गतिमुक्त्वा विषयसंशयौ दर्शयति ॥ आनन्दमय इति ॥
अत्राऽऽनन्दमयो विषय । स किं ब्रह्मादिजीवसमूह उत चेतनप्रकृति अथाचेतना किं वा विष्णु । "ब्रह्माणि जीवा’ । "मम योनिर्महद्ब्रह्म’ "पञ्चभि पञ्चभिर्ब्रह्म’ इत्यादिना जीवादिषु ब्रह्मशब्दप्रयोग सन्देहबीजमिति भाव; । तत्र सयुक्तिकं पूर्वपक्षानाह ॥ ब्रह्मशब्दादित्यादिना ॥ आनन्दमयमधिकृत्य "अस्ति ब्रह्मेति चेद्वेद’ इति हिरण्यगर्भनिष्ठब्रह्मशब्दश्रवणात्तस्याऽऽनन्दमयत्वं युज्यते । ब्रह्मशब्दस्यान्यत्रापि वृत्ते कथं तेन तन्निश्चय इति चेत् आनन्दमयशब्दार्थवच्छतानन्दनाम्ना च हिरण्यगर्भे विद्यमानेन तस्य प्राप्ते । रुद्रस्य वाऽऽनन्दमयत्वप्राप्ति । यश्चासावादित्ये इत्यानन्दमयस्य सूर्ये प्रोक्तत्वाद्रुद्रस्य सूर्याद्यष्ट-प्रतिमत्वात् । तथा च विष्णुपुराणे ।
सूर्यो जलं मही वह्निर्वायुराकाशमेव च ।
दीक्षितो ब्राह्मण सोम इत्येतास्तनव क्रमाद् । इति ।
एवमिन्द्रबृहस्पत्यादीनामपि सूर्याधिष्ठातृत्वादिनाऽऽनन्दमयत्वप्राप्ति । चित्प्रकृतेर्वा आनन्दमयत्वप्राप्ति । आनन्दमयनिष्ठब्रह्मशब्दस्य मम योनिर्महद्ब्रह्म इति चित्प्रकृतौ प्रयोगात् । कथं सावकाशब्रह्मशब्देनायं निर्णय इति चेत् । "सोऽकामयत बहु स्याम्’ इत्यानन्दमयस्य बहुभावश्रवणात् । तदभिमानित्वाच्चित्प्रकृते । अचित्प्रकृतेर्वाऽऽनन्दमयत्वप्राप्ति । बहुभावादेव । तत्तद्देहगतसर्वजीवानां वाऽऽनन्दमयत्वप्राप्ति । बृह जातिजीवक्रमलासनशब्दराशिष्विति धातोर्जीवेष्वपि ब्रह्मशब्दात् । न च वाच्यं ब्रह्मशब्दस्य साधारण्यान्न निश्चायकत्वमिति । अन्नरसमय प्राणमय इत्युक्ताऽन्नमयादीनामन्नादिविकाराभिमानित्वेन जीवत्वात् । तत्प्रायपठितानन्दमयत्वेऽपि जीवानां प्राप्ते । यद्यपि ब्रह्मशब्देन विष्णोरप्यस्ति प्राप्तिस्तथापि नासावानन्द-मय । विष्णोरानन्दमयावयवत्वोक्ते । तस्य चाऽऽनन्दमयत्वे तदवयवत्वविरोधात् । तथा चाऽऽनन्द-मयस्याब्रह्मत्वेन न तदवयवब्रह्मजिज्ञासा सम्भवतीत्याशय ।
सिद्धान्तयति ॥ तथापीति ॥ यद्यप्येवमन्येषां प्राप्तिस्तथापीत्यर्थ । कस्तर्हीत्याशङ्क्य सङ्गत्यर्थ-मुदाहृतसूत्रप्रतिज्ञाभागं व्याचष्टे ॥ किंत्विति ॥ कुतो विष्णुरेवानन्दमय इत्यत सौत्रं हेतुं व्याचष्टे ॥ तदेवेति ॥ "असन्नेव स भवति । असद्ब्रह्मेति वेद चेत् । अस्ति ब्रह्मेति चेद्वेद ।’ इत्यानन्दमये ब्रह्म-शब्दाभ्यासाद्विष्णुरेवानन्दमय । ब्रह्मशब्दस्य तदेव ब्रह्मेत्यादिश्रुतिस्मृतिषु विष्ण्वेकनिष्ठत्वोक्ते । न च तत एव हिरण्यगर्भादीनां प्राप्ति शङ्क्या । तेषामपूर्णत्वेन ब्रह्मशब्दमुख्यार्थत्वाभावस्योदाहृतश्रुत्यादि-सिद्धत्वात् । मुख्यार्थत्यागेनामुख्यार्थग्रहणायोगादिति भाव ॥ १२ ॥
गुर्वर्थदीपिका
शब्दास्तावच्चतुर्विधा इत्यत्रान्यत्र प्रसिद्धानामिन्द्रादिशब्दानां हरावपि प्रसिद्धिसद्भावे उभयत्र प्रसिद्धत्व-प्रसङ्गेन हरौ प्रसिद्धिरहितत्वे सतीन्द्रादिषु प्रसिद्धिर्वक्तव्या । एवं चेयमन्यत्रैव प्रसिद्धिर्जाता । अत कथं चतुर्थपादाद्भेदसिद्धिरिति चेत्सत्यं यद्यप्युक्तरीत्या इयमपि प्रसिद्धिरन्यत्रैव प्रसिद्धिस्तथाऽपि व्यवहर्तृ-लोकत एव । न त्वानन्दादिशब्दश्रवणे सत्येव हरौ किञ्चिद्बाधकवशान्निरवधिकपरमानन्दमये निरवधिकैश्र्वर्यादिगुणे भगवत्यपि प्रसिद्धौ शाब्दबाधकस्यादर्शनात् । लोकास्तु भगवन्महिमानमजानानास्तान् शब्दांस्तत्र प्रयुञ्जते । अत इयमन्यत्र प्रसिद्धिर्लोकत एव न तु शब्दबाधकवशात् । चतुर्थपादे तु समन्वीयमानदुखिबद्धावरादिशब्दा दोषवाचित्वाच्छब्दश्रवणमात्रे सति निरवद्ये हरौ शाब्दबाधकादेवाप्रसिद्धा न तु केवललोकात् । अत एवोक्तमाचार्यै ।
"दोषशब्दास्तु विष्णवि ।
अमङ्गलत्वाच्छब्दानां राज्ञो योगादमङ्गले ।
अप्रियत्वात्तु शब्दस्य स्यात्प्रयोगनिवर्तनम्’ ।
इत्यादि । "ज्योतिरुपक्रमात्तु तथा ह्यधीयत एक’ इति चतुर्थपादस्थद्वितीयाधिकरणे हरौ समन्वीयमानकर्मकाण्डस्थाशेषशब्देषु प्रधानभूतज्योतिष्टोमादिकर्मवाचकशब्दवाच्यत्वे यागं कुर्यादित्यर्थक-यजेतेति क्रियायोगेनोत्पत्तिविनाशादिदोषप्राप्ते । "व्रीहीन्प्रोक्षति’ "व्रीहीनवहन्यात्’ "तण्डुलान्पिनष्टि’ "पशूनालभेत भूतिकाम’ "स्वर्गकाम’ इत्याद्यङ्गप्रतिपादकशब्दवाच्यत्वे चाशुद्धत्वावहननपेषणालम्भना-पूर्णत्वादिदोषाणां स्पष्टमेकवाक्यतयैव प्राप्तेस्तेऽपि शब्दा अव्यक्तादिशब्दवद्दोषशब्दा एव । एवं च हरौ श्रवणत एव बाधसहिताश्शब्दा अन्यत्रैव प्रसिद्धा केवलं लोकतोऽन्यत्रैव प्रसिद्धास्त्वन्यत्र प्रसिद्धा इति विवेकसम्भवान्न कश्र्चित् क्षुद्रोपद्रव ।
धर्मवाचित्वादित्यत्र पङ्कजादिशब्दवत्पदद्वयसमाहारेण लभ्यो योऽर्थस्तद्वचनपुरस्कारेणैव धर्मिवाचित्व-मित्यर्थ । धर्मवाचित्वादिति तु धर्मस्यैव प्राधान्यादिति ज्ञेयम् । नामात्मकेभ्यो धर्मिवाचिभ्य इत्यत्र पद्मादिपदवत्केवलं धर्मिवाचिभ्य इत्यर्थ । "तददृष्टे’ इत्युपलक्षणम् । लिङ्गानां पूर्वमेव स्पष्टत्वे वैयर्थ्यात्सर्वाण्यपि लिङ्गानि प्रागस्पष्टानि । सौत्रव्यपदेशे सत्येव स्पष्टीक्रियन्ते । तस्मात्सूत्रगृहीत-तत्तत्प्रकरणस्थिलङ्गानां प्रागेव स्पष्टत्वात् स्पष्टत्वोक्त्या पादभेदकथनं विदुषां वामपादात्स्वस्यैव भेदप्रथनमिति द्रष्टव्यम् ।
उपकारजमित्यस्य स्वेनोपकृतै परै धनदानादिना यत्प्रत्युपकार क्रियते तदभिव्यक्तमित्यर्थ । प्रकृटाप्रकृष्टविषयौ मोदप्रमोदावित्यादि । जलपानादिरूपेण क्षीरपानादिरूपेण प्रकृष्टाप्रकृष्टौ विषयौ ययोस्तौ प्रकृष्टाप्रकृष्टविषयाविति विग्रह । "मम योनिर्महद्ब्रह्म तस्मिन्गर्भं दधाम्यह’ मिति वचनात् मम योनिरिति वाक्ये भगवद्गर्भाधानयोग्या चेतनप्रकृतिरेवोच्यते । पञ्चभि पञ्चभिर्ब्रह्मेत्यस्य पञ्चभि पृथिव्यादिभूतै प्रतिशरीरं ब्रह्मपदवाच्या प्रकृतिस्तिष्ठतीत्यर्थ । अत इदं वाक्यमचेतनप्रकृते प्रापकमिति भाव । आनन्दमयशब्दस्यार्थोऽस्य वर्तत इत्यानन्दमयशब्दार्थवत् । तच्च तच्छतानन्दनाम चेति विग्रह । बहुभावादेवेत्युपलक्षणम् । पञ्चभि पञ्चभिर्ब्रह्मेति ब्रह्मशब्दाच्चेति द्रष्टव्यम् । स्वमूलभाष्यसम्पुटिकायां पृथक्सूत्रपाठाभावात् सङ्गत्यर्थमुदाहृतेत्युक्तम् । यत्र तु पृथक्सूत्रपाठोऽप्यस्ति तत्र तूदाहृतप्रतिज्ञाभागमित्येव वाक्यं द्रष्टव्यम् । यद्यपि ब्रह्मशब्दस्य तु विष्णावेव मुख्यताया प्रथमसूत्रे समर्थितत्वात् "अत एव प्राण’ इति वदत एवेत्यतिदेशमात्रमप्यत्रालम् । तथाऽप्यभ्यासाख्यतात्पर्यिलङ्गस्य सत्त्वात्सुतरां निर्णय इति भावेन तस्यैव हेतोर्विवेचनम् ।
भावबोध
॥ ॐ आनन्दमयोऽभ्यासात् ॐ ॥ सम्यनिरूपणमिति । अनेन "तमेव समन्वयम्’ इति भाष्यगतसमन्वयशब्दनोपक्रमादिलिङ्गग्रहणेऽध्यायशेषेणोपक्रमादिप्रपञ्चनाभावात् प्रकटयतीतत्यस्यानुपपत्ते, सुधोक्तरीत्या शक्तितात्पर्यलक्षणसम्बन्धावगमग्रहणेऽपि तथात्वात्, सम्यगन्वय शक्तितात्पर्यावगमो येन निरूपणेन भवतीति योगेन वा हेतुभूतोपक्रमादिलिङ्गवाचकेन समन्वयपदेन लक्षणया वा तत्साध्य-निरूपणं ग्राह्यमित्युक्तं भवति । शङ्कोत्थापनायेति । सूत्रानुदाहरण आनन्दमयरूपविषयापरिज्ञानेऽस्य विष्णुत्वसमर्थने का पूर्वसङ्गतिरित्येवंरूपशङ्कानुदयादिति भाव ॥
इतोऽत्यभ्यधिकत्वेऽपि तुर्यपादोदितस्य तु ।
महासमन्वये तस्मिन्नाधिकारोऽखिलस्य हि ॥
ब्रह्मैवाधिकृतस्तत्र मुख्यतोऽन्ये यथाक्रमम् ।
दुर्गमत्वाच्च नैवात्र प्राथम्येनोदितोऽञ्जसा ॥
इत्यानुव्याख्यानं मनसि निधायाह तेष्वन्यत्रैवेति ॥ "तत्र प्रथमतोऽन्यत्र प्रसिद्धानां समन्वय । शब्दानां वाच्य एवात्र महामल्लेशभङ्गवत्’ इत्यनुव्याख्यानानुसारेण आद्यपादत्रयक्रमे निमित्तमाह उभयत्र प्रसिद्धानामित्यादिना । नामात्मकानां शब्दानामिति । अनेन मूले नामात्मकानामिति संयोज्यमित्युक्तं भवति । अत एव लिङ्गात्मकानामिति द्वितीयपादे वक्ष्यतीति भाव ॥ अत्रान्त-स्थत्विलङ्गेति ॥ सूत्राक्षरार्थाभिप्रायेणैवमुक्तम् । फलतस्तत्रापि नामसमन्वयसिद्ध्यङ्गीकारादिति बोद्धव्यम् ॥ उत्तराधिकरणेति ॥ उत्तरपादगताधिकरणेत्यर्थ । अन्यत्र प्रसिद्धेति ॥ "ब्रह्मणि’ इति शास्त्रेण, "समन्वय’ इति अध्यायेन, लोकतोऽन्यत्र प्रसिद्धनाम्न’ इति पादेन, चान्तर्भावलक्षणा सङ्गतिरुक्ता । तत्रापि "लोकत’ इति चतुर्थपादीयानाम् "अन्यत्र’ इति तृतीयपादीयानाम् "नाम्न’ इति द्वितीयपादीयानां शब्दानां निरास इति ज्ञेयम् । एवमुत्तरत्रापि ज्ञातव्यम् । श्रुत्यधिकरणसङ्गती इति । पूर्वाधिकरण-तदुपात्तश्रुतिभ्यामेव सङ्गतिर्वक्तव्या, न त्वव्यवहितपूर्वाधिकरणेनैवेति नियम इति भाष्याभिप्राय इति भाव । पूर्वाधिकरणस्थ"तन्निष्ठस्य मोक्षोपदेशात्’ इति सूत्रोक्तमोक्षजनकज्ञानविषयत्वस्यात्र "नेतरोऽनु-पपत्ते’ इति परपक्षप्रतिक्षेपहेतुत्वेनोपपादानादव्यवहितपूर्वाधिकरणसङ्गतिरपि द्रष्टव्या ।
उत्तरै पूरिता पूर्वे निश्छिद्रत्वेन सर्वश ।
सर्वेऽपि पुरुषाकारा उत्तरात् पूर्वसम्भवा ॥
इति तैत्तिरीयभाष्यं मनसि निधाय श्रुतिं व्याचष्टे तेनेत्यादिना ॥ तस्य पुरुषविधतामनु एतस्य पुरुषविधत्वं किं विवक्षितमित्यत आह तस्मादुद्भूत इति । शरीरिस्थानीयान्नारायणाख्यादानन्दमया-च्छरीरस्थानीयो बाह्यो वासुदेवाख्यो विज्ञानमय प्रादुर्भूत इत्यर्थ । यथोक्तं तैत्तिरीयभाष्ये
देहदेहिवदेवासौ पञ्चधाऽवस्थितो हरि ।
बहिस्स्थो देहवद्विष्णुरन्तस्थो देहिवत् स्मृत ॥ इति ॥
"परेयं प्रियनामकं’ "मोदो भोगनिमित्तक । प्रमोदस्तद्विशेषोत्थ’ "मुन्नाम विषयोत्थं यत् प्रकृष्टविषयात् प्रमुत्’ इत्यादिवचनानुसारेणाह उपकारजं प्रियमित्यादि । जीववैषयिकसुखाभिप्रायेणोक्तम् । तच्छब्दवाच्यत्वादिना तज्जातीयं प्रियादिकं विष्णौ बोद्धव्यम् ॥ स किमिति ॥ अत्रान्नमयादिपञ्चकं किं जीवादिरुत विष्णुरिति चिन्ता । तदर्थं येऽन्नं ब्रह्मेत्याद्यन्नमयादिविषयश्र्लोकस्था ब्रह्मशब्दा किममुख्य-वृत्त्या जीवादिविषया उत मुख्यवृत्त्या विष्णुविषया इति । तदर्थं ब्रह्मशब्दस्य मुख्यवृत्त्यङ्गीकारे बाधकमस्त्युत नास्तीति । तदर्थं "मय’प्रत्यय अन्योऽन्तर आत्मा इत्यन्यान्तरशब्दा ब्रह्म पुच्छं प्रतिष्ठा इति ब्रह्मण आनन्दमयावयवत्वोक्तिरन्नमये "तस्येदम्’ इति प्रत्यक्षनिर्देशश्र्चेत्येतत् किं विकारभेदाद्यर्थकमुत प्राचुर्यविशेषाद्यर्थकमिति । तदर्थं हेतुव्यपदेशभृगुवल्लीसमाख्या मन्त्रवर्णसमाख्या चेति स्वपक्षसाधकमनुपपत्तिर्भेदव्यपदेश अन्नमयादिप्राप्ते फलत्वकथनं चेति परपक्षबाधकञ्च किं सावकाश-मुत निरवकाशमिति ॥ आनन्दमयशब्दार्थवदिति ॥ अनेन हिरण्यगर्भ आनन्दमयशब्दवाच्य तत्समानार्थकशतानन्दशब्दवाच्यत्वादिति वा आनन्दमयशब्दो हिरण्यगर्भवाचक तद्वाचकशतानन्द-शब्दसमानार्थकत्वादिति वा मूलाभिप्राय इत्युक्तं भवति । इन्द्रबृहस्पत्यादीनामिति । तेषां सूर्यादुत्तमतया तन्नियामकत्वेनावस्थानं तदधिष्ठातृत्वम् । आदिपदेन साधारणो ब्रह्मशब्दो विवक्षित ।
यद्वा आनन्दमयस्य सूर्ये प्रोक्तत्वग्रहणायाऽऽदिपदम् । अनेन "एवमन्येषाम्’ इत्येतच्चतुर्मुख-रुद्रव्यतिरिक्तसूर्याधिष्ठातृमात्रपरम् । "इतरेषां’ सर्वजीवानामिति, पृथगुक्तेरित्युक्तं भवति । बहुभावादेवेति । न त्वभिमानित्वेनेत्येवशब्दार्थ । तत्र देहगतेति । अनेनान्नमयत्वादेश्र्चोक्ते हेतुर्देहाभिमानित्वेन जीवे वर्तत इत्युपपादितं भवति । "अवयवत्वविरोध’ इति न्यायविवरणोक्तहेतुमुपपादयति यद्यपि ब्रह्मशब्दे-नेति ॥ सूत्रानुदाहरणेन कथं तद्य्वाख्यातमित्यत आह सङ्गत्यर्थमुदाहृतेति ॥ सङ्गतिप्रदर्शनार्थमित्यर्थ । यद्वा सङ्गत्यर्थं व्याचष्ट इत्यन्वय । तथा च "किन्तु विष्णुरेव’ इत्यनुक्तौ साध्यधर्मांशालाभेन "पर्वतो धूमवत्त्वात्’ इत्यनयोरिव "आनन्दमयोऽभ्यासात्’ इत्यनयोरप्यसङ्गति स्यात् । तदुक्तौ तु वह्निमानित्युक्ते कुत पर्वतो वह्निमानित्याकाङ्क्षायां हेतुवाक्यसङ्गतिवदत्राप्यभ्यासादित्यस्यानन्दमय इत्यनेन सङ्गत्यर्थं समन्वयसूत्रात्तदेवेत्यनुवर्त्यानन्दमय इति प्रतिज्ञाभागं व्याख्यातीत्यर्थ । एवम् "एवम्भूत श्रूयमाणो विष्णुरेव’ इत्यादावपि द्रष्टव्यमिति भाव । भाष्य इत्यादिषु ब्रह्मशब्दाभ्यासादित्यन्वयभ्रमं वारयंस्तदर्थमाह असन्नेवेत्यानि ॥ आनन्दमये ब्रह्म शब्दाभ्यासादिति । अनेन "तस्मिन्’ इत्यस्यानन्दमयपरत्वेनावर्त्याभ्यासादित्यत्राप्यन्वय इत्युक्तं भवति । "असन्नेव’ इत्यादेरध्याहारो वार्थलब्ध-त्वञ्चेति द्रष्टव्यम् । श्रुति स्मृतिषु विष्ण्वैकनिष्ठत्वोक्तेरिति । अनेन "इत्यादिषु’ इत्यस्य प्रसिद्धपदेनान्वय प्रदर्शितो भवति । "तस्मिन्नेव, इत्येतद्विष्णावेवेति व्याख्यातं भवति ।
ननु विज्ञानमयानन्दमययोर्ब्रह्मशब्दाभ्यासेऽपि नान्नमयादिषु त्रिषु तदभ्यास । अतो भागासिद्धि । तेषामपि पक्षत्वस्योत्तरत्र वक्ष्यमाणत्वादिति चेत्, अभ्यासशब्देन तदुक्तिमात्रं विवक्षितम्; न त्वेकप्रकारासकृदुक्तिरित्यभिप्रायात् । अत एवोत्तरत्र "योऽन्नं ब्रह्मोपसते’ इत्यादिब्रह्मशब्दादित्येव वक्ष्यत्याचार्य । अत एव च तट्टीकायां तद्विषयत्वेन ब्रह्मशब्दश्रवणादित्येवोक्तम् । सुधायामप्य-नुव्याख्यानगत येऽन्नं ब्रह्म’ इत्यादिरूपादिति रूपशब्दप्रयोगप्रयोजनं वदतायमेवाभिप्राय स्पष्टीकृत ।
भावदीप
॥ ॐ आनन्दमयोऽभ्यासात् ॐ ॥ अथेति ॥ अधिकरणपञ्चकोक्तप्रमेयानन्तरमित्यर्थ ॥ शेषेणेति ॥ यद्यप्येतदादिरेवाध्याय इति जिज्ञासासूत्रे व्यक्तं तथापि सुधारीत्या समन्वयसूत्र-मारभ्यायान्तर्भावोऽस्तीत्यभिप्रेत्य शेषेणेत्युक्तम् । एवकारार्थमाह ॥ कृत्यान्तरेति ॥ तमित्यस्यार्थ इत्युक्तमेवेति । समन्वयमित्यत्रान्वयशब्दार्थमाह ॥ उपक्रमेति ॥ अन्वयशब्दोऽत्र करणव्युत्पत्त्या वाक्यानां शक्तितात्पर्यविषयेण सम्बन्धरूपान्वयज्ञापकपर । तथा चोपक्रमादिरूपादन्वयादन्वयज्ञा-पकादित्यर्थ । अन्वयज्ञापकैरुपक्रमादिभिरिति यावत् । संशब्दार्थ सम्यनिरूपणमिति । शक्तितात्पर्याभ्यामर्थप्रतिपादनप्रकारमित्यर्थ ॥ प्रतिवाक्येति ॥ इदं वाक्यं तत्स्थं पदं वैतदुपक्रमादिनैतमर्थं शक्तितात्पर्याभ्यां गोचरयतीत्येवं रूपेण प्रकटयतीत्यर्थ; । विभागेन समन्वयमित्यनुव्याख्यानसुधयोस्तु न केवलमुपक्रमादिकमन्वयशब्दार्थ किन्तु तन्निर्णीततत्परसम्बन्धोऽपीत्युक्तम् ॥ सङ्गतिशङ्केति ॥ तथा च वक्ष्यति स्वयमेव शङ्कोत्थापनप्रकारं तथाप्यानन्दमयस्य विष्णुत्वे का पूर्वसङ्गतिरिति । सूत्रानुदाहरणे विषयाज्ञानेन शङ्काया अनुदयादिति भाव ॥ इत्येतदिति ॥ परोक्तमित्यर्थ । तच्चान्यत्र निरस्तमिति भाव ॥ देवतेति ॥ तदुपरीत्यत्र शुगस्येत्यत्र च देवतापशूद्रनययोरधिकारतदभावचिन्तनादिति भाव ॥ एकेति ॥ "अर्थैकत्वादेकं पादक्रमबीजं चाह ॥ शब्दा इति ॥ वैदिका इति योज्यम् । तथैव सुधोक्ते । समन्वयस्तु त्रिविधानामेवेति तावच्छब्द ॥ अन्यत्रैवेति ॥ व्युत्क्रमेणायं निर्देशोऽग्रे क्रमबीजोक्तिसौकर्याय । एतेषामसाङ्कर्यं चन्द्रिकायां व्यक्तम् ॥ तत्रेति ॥ तत्रैवेत्यर्थ । तथैव सुधोक्ते । तेन न पाञ्चविध्यं शङ्क्यम् । अन्यथा तत्रापीति विवक्षापत्त्योभयत्रान्तर्भावेन त्रैविध्यमेव स्यात् । नामिलङ्गेति ॥ तत्स्वरूपमग्रे व्यक्तम् ॥ न तत्रेति ॥ अन्यपरत्वशङ्काशून्यानामेव तत्र प्रसिद्धशब्देन विवक्षितत्वादिति भाव । तेन जनितोतविष्णोरित्यादौ अन्यपरत्वव्युदासाय समन्वयो वाच्य इति न शङ्क्यम् ॥ प्रथममिति ॥ दुर्गमत्वाच्च नैवात्र प्राथम्येनोदितोऽञ्जसेत्युपासनापादीयानुव्याख्यानोक्तरीत्या पदवर्णस्वरादिसमन्वयरूपत्वेन वाक्यसमन्वयाभावादिति भाव । असर्वाधिकारत्वाच्चेत्युपलक्ष्यं महासमन्वये तस्मिन्नाधिकारोऽखिलस्य हीत्युक्ते । तत्र प्रथमतोऽन्यत्र प्रसिद्धानां समन्वय । शब्दानां वाच्य एवात्र महामल्लेशभङ्गवदित्यनुभाष्योक्तदिशोभयत्र प्रसिद्धानामप्राथम्ये बीजमाह ॥ उभयत्रेति ॥ मात्रस्येति ॥ विष्णावपि दत्तपदत्वेन तत्र वृत्तेरव्युत्पाद्यत्वादिति भाव । नामिलङ्गयोरपि तन्न्यायेनैव क्रममाह ॥ अन्येति ॥ धर्मेति ॥ लिङ्गानां यौगिकत्वान्नाम्नां रूढत्वादिति भाव । तथा च सुधोक्तदिशा नाम्नामन्यबुद्धिजनकत्वं साक्षादेव । लिङ्गानां तु व्यवधानेनेति नामसमन्वये यत्नगौरवात्प्राथम्यमिति । एतच्चोपलक्षणम् ।
तेषामन्यगतत्वे तु न स्यात्सम्यक्समन्वय ।
इत्येवाशेषिलङ्गानां ब्रह्मण्येव समन्वयम् ।
आहेत्यनुभाष्योक्तदिशा लिङ्गैनामसमन्वयोक्तौ तेषां विष्ण्वेकनिष्ठतासाधकत्वाच्चेत्यपि ज्ञेयम् । एतेन यौगिकानि लिङ्गानि रूढानि नामानि योगरूढानि तूभयात्मकानीति सूचितम् । तद्विवृतं चन्द्रिकायाम् ॥ अत्रेति ॥ पाद इत्यर्थ । साक्षात्त्वाशयेनेदं फलतस्तत्रापि नामसमन्वयात् ॥ स्पष्टेति ॥ स्पष्टत्वं नाम वाक्यान्तरे ब्रह्मधर्मतया निर्णीतत्वं वा जीवादौ स्वारस्येनानुपपद्यमानत्वं वा ज्ञेयम् ॥ उत्तरेति ॥ द्वितीयतृतीयपादस्थेत्यर्थ । अन्तर उपपत्तेरिति द्वितीयपादस्थाधिकरणविषयवाक्ये "य एषोऽन्तरक्षिणि पुरुषो दृश्यते । एष आत्मेति होवाच । एतदमृतमभयमेतद्ब्रह्म’ इत्यत्रामृतत्वादिलिङ्गानां ब्रह्मणि स्पष्टत्वादित्यर्थ । वाक्येष्विति बहुवचनं बह्वधिकरणवाक्येषु व्यभिचारप्रदर्शनाय । तच्च विवृतं चन्द्रिकायाम् । एतद्वाक्योक्तिस्तु उदाहरणे समीप एव स्पष्टिलङ्गानां श्रवणादुदाहरणस्योभयसंमतत्वाद्वेति । तेन भवतामिवास्माकमपि प्रायिकत्वात्पादव्यवस्थेति कस्यचिच्चोद्यं निरस्तम् ॥ सङ्गतिरिति ॥ शास्त्राध्याय-पादेष्वन्तर्भाव इत्यर्थ । तदुपपादनमन्यत्र प्रसिद्धेत्यादि । तत्र ब्रह्मणीत्युक्त्या शास्त्रे, समन्वयेत्युक्त्या अध्याये, अन्यत्रेत्युक्त्या पादे, नाम्न इत्युक्त्या प्रथमपादेऽन्तर्भाव उपपादित । समन्वयो नामोपक्रमा-द्यन्यतमप्रमाणकशक्तितात्पर्याभ्यामभिधानं वा । तादृगभिधानप्रयोजकोपक्रमाद्यन्यतमप्रमाणं वा । तस्य ब्रह्मविषये समर्थनात् विषयवाक्यसद्भावप्रतिपादनादित्यर्थ । एवमग्रेऽपि प्रतिनयं बोध्यम् । आनन्दमयनाम हीत्यनुभाष्योक्तेर्नामेत्युक्तम् । तत्वप्रदीपे तु उत्तराधिकरणेऽन्तस्थत्वमिवैतदपि लिङ्गमित्युक्तम् । एतदन्नमयादिनाम्नामुपलक्षणम् । आनन्दमयस्य मुखत उक्ति सङ्गतिसूचनायेत्यग्रे व्यक्तम् । तस्यान्यत्र प्रसिद्धिस्तु "अन्नमयप्राणमयमनोमयविज्ञानमयानन्दमया मे शुध्यन्ताम्’ इति अब्रह्मणि प्रयोगाद्वा निर्बाधरूढ्या जीवादौ प्रसिद्धब्रह्मपदसाहित्याद्वा विकारार्थकमयब्दोपेतत्वाद्वेति ज्ञेयम् ॥ का पूर्वेति ॥ एतेन सङ्गतिशङ्कोत्थापनायेति प्रागुक्तं विवृतम् ॥ श्रुतीति ॥ पूर्वेति योज्यं अत्रेत्यनुषङ्ग ॥ यस्येति ॥ भाष्ये यद्ब्रह्मेति योज्यमिति भाव ॥ तैत्तिरीयेति ॥ ब्रह्म पुच्छं प्रतिष्ठेतीति वक्ष्यमाणेतिशब्दस्येति तैत्तिरीयश्रुताविति पूर्वेणान्वय । एतेन भाष्ये इतिशब्दानन्तरं तैत्तिरीयश्रुताविति शेष इति इत्यत इत्यत्र इति सङ्गतिसम्भवादिति सङ्गत्यर्थोऽतशब्द इति सूचितम् । न ह्यवयविनं विनेत्यादिवाक्यं तु फलोपपादकतया करिष्यमाणव्याख्यानदिशा सङ्गत्युपपादकमिति व्यक्तमिति भाव । अत इत्यनुवादेन सङ्गतिसम्भवादिति व्याख्यानम् । पूर्वोक्तब्रह्मजिज्ञासा न युक्ता । जिज्ञास्यत्वेनोक्तब्रह्मणोऽन्यावयवत्वेन श्रवणादवयविनं विना अवयवजिज्ञासामात्रस्यापुमर्थत्वेनायोगादिति पूर्वाक्षेपरूपसङ्गतिसम्भवादित्यर्थ । एतेन तद्विजिज्ञासस्वेति श्रुत्युक्तजिज्ञासा न युक्ता । जिज्ञास्यत्वेन भृगुवल्ल्युक्तब्रह्मणो ब्रह्मवल्ल्यां पूर्वत्रान्यावयवत्वोक्तेरिति श्रुतिसङ्गतिरप्युक्ता भवति । अथातो ब्रह्मजिज्ञासेतीति टीकायां तद्विजिज्ञासस्व तद्ब्रह्मेति श्रुतेरप्युपलक्षणात् । अत एव भाष्ये श्रुतिसूत्रसाधारण्येन ब्रह्मजिज्ञासा कर्तव्येत्युक्त-मित्येवानुवाद । विप्रकीर्णनानाशाखास्थवाक्यनिर्णायकेष्वधिकरणेषु वाच क्रमवृत्तित्वेन क्रमे सिद्धे येन केनचित्पूर्वेणाक्षेपादिरूपैव सङ्गतिरपेक्षिता । तावतैव चिन्ताया साफल्यसिद्धेर्न त्वव्यवहितेनैव पूर्वेणेति निर्बन्ध इति जिज्ञासाधिकरणतद्विषयवाक्याभ्यां सङ्गतिरुक्तेत्युक्तं चन्द्रिकायाम् । व्यक्ता च तत्रैवाव्यवहितपूर्वेणापि सङ्गति प्रत्यधिकरणमिति नेहास्माभिरुच्यते । आहेत्यस्य कर्माकाङ्क्षां सूत्रोक्त्या पूरयन्विवक्षितार्थमाह ॥ आनन्दमयस्येति ॥ सूत्रेऽभ्यासादित्यादिना प्रमाणोक्ते सामर्थ्यत इत्युक्तम् । भाष्यटीकयो श्रुतिसङ्गतिफलयोरपि लाभायैवं सङ्गत्युक्तावपि । तत्रानन्दादयो गुणा । ईशस्यैवेति निर्णीता श्रुतियुक्तिसमाश्रयादिति उपासनापादीयानुभाष्यसुधायामानन्दमयाधिकरणस्याद्यत्वे हेतुं सूचयन्ना-हेत्यवतार्य सर्वेषु हि मूर्धाभिषिक्ता आनन्दविज्ञानादय अतो माङ्गिलक आचार्यस्तच्छब्दसमन्वयमादावा-हेत्युक्तदिशा सर्वापेक्षितानन्दप्रदोपासनाविषयपूर्णानन्दत्वरूपमहागुणस्यादौ वक्तव्यत्वाच्चेत्यपि सङ्गतिरुपलक्ष्या ।
उत्तरै पूरिता पूर्वे निश्छिद्रत्वेन सर्वश ।
सर्वेऽपि पुरुषाकारा उत्तरात्पूर्वसम्भवा ॥
इति तैत्तिरीयभाष्यदिशा श्रुत्यर्थमाह ॥ तेनेति ॥ तस्माद्भूत इति ॥ शरीरिस्थानीयादान्तरा-न्नारायणाख्यादानन्दमयकोशस्थादानन्दमयनामकाच्छरीरस्थानीयो बाह्यो वासुदेवो विज्ञानमयकोशस्थो विज्ञानमयनामक प्रादुर्भूत इत्यर्थ ॥ उपकारजमित्यादि ॥ "परेयं प्रियनामकम्’ इति तैत्तिरीयभाष्योेक्ते । मोदो भोगनिमित्तक इत्याद्यैतरेयभाष्यान्तिमाध्यायोक्ते ।
सुखं स्वरूपभूतं यदानन्द इति कथ्यते ।
मुन्नाम विषयोत्थं यत्प्रकृष्टविषयात्प्रमुत् ॥
इति षष्ठे बृहद्भाष्योक्तेरिति भाव । भाष्येऽनुक्तस्यापि समग्रवाक्यस्यात्रोक्तिस्तु स शिर स दक्षिण पक्ष इत्यादिभाष्योपयोगार्था ॥ किमर्थमिति ॥ किंनिमित्तं किम्प्रयोजनमिति वाऽर्थ ॥ ब्रह्मणोऽन्य इति ॥ ब्रह्मत्वे तु एकैकशोऽङ्गानि धिया विभावयेत्पादादियावद्धसितं गदाभृत इत्युक्तदिशा वा वक्ष्यमाणदिशाऽवयवावयविनोर्भेदाभावेन वा तस्य जिज्ञास्यत्वं सेत्स्यतीति भाव । ननु लोके जीवशरीरेऽप्यवयवावयविनोर्भेदो नास्त्येव समवायस्य निरासात् । सत्यम् । सर्वैरवयवैरवयविनोऽत्यन्ता-भेदेऽप्येकैकेन भेदस्यापि सत्वादिति भाव । एवं परिष्कृत्य न हीति वाक्यार्थमाह ॥ अवयवीति ॥ तन्मात्रज्ञानस्यापुमर्थत्वादिति भाव । अयुक्ता चेत्त्यज्यतामित्यत आह ॥ ब्रह्मेति ॥ न हीति वाक्यं न केवलं प्रागुक्तसङ्गत्युपपादकम् । किन्तु पूर्वपक्षे प्रागुक्तजिज्ञासाऽऽक्षेप फलं सिद्धान्ते च तत्समाधि फलमित्येतदधिकरणप्रयोजनोपपादकमपीति भावेन इत्यत आहेत्येतत्पूर्वं सङ्गतिपरं व्याख्यातमपि प्रकारान्तरेण व्याचष्टे ॥ अत इति ॥ एतेन भाष्येऽत इत्यावर्तते द्वितीयं चतुर्थ्यर्थकं तस्य तस्आद्यादिभ्य उपसङ्ख्यानमित्युक्ते । न हीति हिशब्दो हेतौ । तथा च हि यत अत एतस्मात्कारणात् अत एतदर्थजिज्ञासासिद्ध्यर्थमित्यर्थो दर्शित । ज्ञेयतेत्यस्य जिज्ञास्यतेति व्याख्यानात् ॥ सङ्गतिमिति ॥ एतद्विचारस्य पूर्वसङ्गतत्वं पूर्वाक्षेपसमाधिरूपप्रयोजनं चोक्त्वेत्यर्थ । आनन्दमयो विषय इत्यन्नमयादेर्गुणि-सामान्यवाचिन उपलक्षणम् । ब्रह्मादिरिति भाष्यस्थादिपदार्थो जीवेति । प्रकृतिशब्दार्थं द्वेधाह ॥ उतेति ॥ ब्रह्माणीति ॥ "ब्रह्माणि जीवा सर्वेऽपि परब्रह्माणि मुक्तिगा’ इति परमश्रुतौ, "मम योनिर्महद्ब्रह्म तस्मिन्गर्भं दधाम्यहम्’ इति गीतायाम्,
""पञ्चभि पञ्चभिर्ब्रह्म चतुर्भिर्दशभिस्तथा ।
एतच्चतुर्विंशतिकं गणं प्राधानिकं विदु’’
इति भागवते, जीवचिदचित्प्रकृतिषु यथाक्रमं ब्रह्मपदप्रयोग इत्यर्थ । विष्णौ तु तदेव ब्रह्म परमं कवीनामिति स्फुटत्वादादिपदेनोक्ति । योनिर्भार्येति गीतातात्पर्योक्ति ॥ हिरण्यगर्भनिष्ठेति ॥ अनेनान्नमयादावपि तत्प्राप्तिर्दर्शिता । सर्वत्र ब्रह्मशब्दश्रवणात् ॥ शब्दार्थवदिति ॥ शब्दार्थयुक्तेत्यर्थ । मयट प्राचुर्यार्थत्वमुपेत्यैतदुक्ति । "ते ये शतं प्रजापतेरानन्दा स एको ब्रह्मण आनन्द’ इति सूचितशतानन्दरूपतत्पर्यायशब्दवाच्यत्वात्तत्प्राप्तिरित्यर्थ ॥ यश्र्चासाविति ॥ आनन्दमयशब्दोक्तस्य यतो वाच इत्युत्तरत्रावामनसगोचरत्वेनानन्दानन्त्यं वक्तुं पूर्वत्र ब्रह्मादीनां तारतम्येन परिमितानन्दोक्ता-वानन्दमयस्यापि प्राप्तदेवानुप्राविशदिति सर्वत्र बहुरूपेण प्रविष्टस्य स्थानभेदकृतभेदशङ्कायां नेति वक्तुं "स यश्चायं पुरुषे यश्चासावादित्ये स एक’ इत्यस्य प्रवृत्तेरसावित्यानन्दमयपरामर्श इति भाव । एवमन्येषामित्येतद्य्वनक्ति ॥ एवमिन्द्रेति ॥ सूर्येति ॥ तेषां सूर्यादुत्तमत्वेन तन्नियामकतयावस्थाना-दित्यर्थ । आदिपदेन "स एक इन्द्रस्य आनन्द । स एको बृहस्पतेरानन्द’ इति । इदं बृहस्पत्यादि-श्रुत्यादिकं ग्राह्यम् ॥ आनन्दमयत्वेति ॥ तस्यैव प्रकृतत्वात्स इति परामर्श इति भाव । प्रकृते-रित्यस्यार्थान्तरमाह ॥ अचिदिति ॥ बहुभावेदेवेति ॥ न त्वभिमानिद्वारेत्येवार्थ । एकस्य सर्वदेहस्थानन्दमयत्वाभावादाह ॥ तत्तद्देहेति ॥ एतेनाभिमानित्वेनेत्यग्रेतनमुपपादितं ध्येयम् । ब्रह्मशब्दस्य हिरण्यगर्भनिष्ठताद्योतनाय बृहजातीत्यादिसर्वांशोक्ति । अन्नमयत्वादेश्चेत्यस्य व्यावर्त्यपूर्वमर्थमाह ॥ न चेति ॥ उक्तेरिति ॥ ब्रह्मपुच्छं प्रतिष्ठेत्यनेन । अवयवत्वविरोध इति न्यायविवरणोक्तमाह ॥ तस्य चेति ॥ सङ्गत्यर्थमुदाहृतेति ॥ इत्यत आहेत्यत्रोदाहृतेत्यर्थ । हेतोरसिद्धिनिरासायानन्दमयनिष्ठतां व्यञ्जयन् व्यवहितत्वात्प्रतिज्ञाहेत्वोरन्वयमाह ॥ असन्नेवेति ॥ "तदप्येष श्लोको भवति’ इति आनन्दमयं प्रत्यदाहृते "अस्ति ब्रह्मेति चेद्वेद सन्तमेनं ततो विदु’ इति श्लोके जीवान्यत्वेन ब्रह्माभावभावज्ञानिनो-स्तमोमुक्तिभाक्त्वरूपफलोक्तिपरे द्विर्ब्रह्मशब्दश्रवणेन एकप्रकारासकृदुक्तिरूपब्रह्मशब्दाभ्यासादित्यर्थ । तस्मिन्नित्यस्यार्थ आनन्दमय इति । श्लोको ब्रह्मपुच्छं प्रतिष्ठेत्युक्तपुच्छं प्रत्येवोदाहृत इति तु अन्नमयादीन्प्रत्युदाहृतेषु पुच्छविषयत्वाभावेन प्रायपाठविरोधादयुक्त इति भाव ॥ श्रुतिस्मृतिष्विति ॥ भाष्ये द्वे श्रुती । तिस्र स्मृतय इति दर्शितम् ॥ विष्ण्वेकेति ॥ तदेवेति श्रुतौ तच्छब्देन विष्णुपरामर्श-स्यावधारणेन तदेकनिष्ठताया प्रागेवोक्तत्वात् एतमेवेति श्रुतौ सावधारणब्रह्मशब्दस्य विष्णोरन्यत्र मुख्यत्वायोगेन तदेकनिष्ठताया शब्दविशेषादित्यत्र वक्ष्यमाणत्वात् स्मृतौ च नान्यत्रेति निषेधादिति भाव । ब्रह्मेति परमात्मेतीति भागवते । "बुध्याऽविहिंसन् पुष्पैर्वा प्रणवेन समर्चयेत् । वासुदेवात्मकम्’ इति व्यासस्मृति । सावधारणश्रुत्युक्ते असम्पूर्णा इति स्मृतिशेषोक्तेश्चोपयोगं शङ्कापूर्वमाह ॥ न च तत एवेति ॥ ब्रह्मशब्दादेवेत्यर्थ ॥ अयोगादिति ॥ असन्नेवेति श्लोक इत्यर्थ । एतेन भाष्ये तस्मिन्नेवेत्यवधारणं विवृतं ध्येयम् ॥ १२ ॥
अभिनवचन्द्रिका
किमध्यायशेषेणेति ॥ ननु ब्रह्मण शास्त्रविषयत्वात् ब्रह्मस्वरूपनिरूपणानवशेषे शास्त्रशेषवैयर्थ्यस्यै-वोचितत्वेन किं शास्त्रशेषेणेत्येव वक्तव्यम्, नतु अध्यायशेषेणेति । किं च इत प्राक्तनानामधिकरणानाम्, अध्यायपादपीठत्वेनाऽनध्यायत्वात् किमध्यायेनेत्येव वक्तव्यम्, न त्वध्यायशेषेणेतीति चेत्, न । नैतदेवं विज्ञायते अध्यायस्य शेष अध्याय शेष इति । किं तर्हि अध्यायरूप शेषोऽध्यायशेष इति । ततश्र्च "आनन्दमयोऽभ्यासा’ दित्यारभ्य "अनावृत्ति शब्दादनावृत्ति शब्दा’(४-४-२३)दित्यन्त शास्त्रशेष अध्यायसंज्ञक इति "किमध्यायशेषेणे’त्येवोक्तं भवतीति नोक्तदोष । तत्कृत्यमाहेति ॥ अध्यायचतुष्टय-कृत्यस्य परस्परं विलक्षणत्वेन पृथगेव वक्तव्यत्वात् । उत्तराध्यायस्य कृत्यन्तु तत्र तत्रैव वक्ष्याम इति भावेन प्रथमाध्यायकृत्यं तावदाह आचार्यो भाष्यकार इत्यर्थ । अत एव उत्तराध्यायनिरूपणभाष्यस्य व्यावर्त्यशंकाया अत्रैवोक्तत्वेन उत्तराध्यायटीकायां तामप्रदर्शयित्वा एतदध्यायप्रतिपाद्यं दर्शयतीत्येवाव-तारितम् । अन्यथा इहैव गतार्थतामाशंक्य किमध्यायेनेति तत्रापि ब्रूयादिति द्रष्टव्यम् । कृत्यान्तरा-भावेऽपीति ॥ अनुक्तार्थनिरूपणरूपप्रयोजनान्तराभावेऽपि उपक्रमाद्यन्वयाच्छास्त्रीयशब्दानां सम्यक् निरूपणमनेनाध्यायेन कुर्वन्सूत्रकार, अन्यपरत्वसन्देहविषयेषु वाक्येषु भगवत्परत्वसाधकोपक्रमादि-लिङ्गयोगरूपो य समन्वय "तत्तु समन्वया’(ब्र.सू.१-१-४)दिति सूत्रे समन्वयशब्देनोक्त तमेव समन्वयं भगवत्परत्वसाधकोपक्रमादिलिङ्गयोगं प्रतिवाक्यग्रहणेन दर्शयति । ततश्र्च अनुक्तार्थप्रतिपादनरूप-प्रयोजनान्तराभावेऽपि समन्वयप्रकटनरूपप्रयोजनसद्भावान्नाध्यायशेषस्य वैयर्थ्यमिति भाव । एतेन यदि उक्तसमन्वयनिरूपणमेव अध्यायप्रयोजनं स्यात् तर्हि आनन्दमयादिसूत्रेषु "अभ्यास, लिङ्ग’मित्यादिरूपेण प्रतिवाक्यग्रहणपूर्वकं उपक्रमादिकमेव प्रदर्शनीयं स्यात्, न तु "आनन्दमय’ इत्यादिसाध्यांशप्रदर्शनमिति परास्तम् । उपक्रमादिलिङ्गानि, वाच्यवाचकभावसम्बन्धश्र्चेत्युभयप्रदर्शनस्य इहाभिमतत्वात् । कुत समन्वयसूत्रोक्तं समन्वयं प्रतिवाक्यग्रहणेन प्रदर्शयतीत्यत आह अन्यथेति ॥ अत्र वाक्ये "अन्यथे’ति "अन्यदेव समन्वयादित्यपि वक्तुं शक्यत्वा’दिति च, प्रक्षिप्तम् । ततश्र्चैवं टीकावाक्यपाठ प्रतिज्ञामात्रस्य हेतूपन्यासमात्रस्य हेत्वसाधकत्वात्, प्रतिवाक्यग्रहणेनोपक्रमादिकं प्रकटयतीति पूर्वेण सम्बन्ध । अवश्यं चैतदेवं विज्ञेयम्, "अन्यदेव समन्वयादित्यपि वक्तुंशक्यत्वात्’ इत्यस्य अन्यथा प्रतिज्ञामात्रस्य असाधकत्वा’दित्यनेनान्वयाभावात् । न हि यो हि प्रतिज्ञामात्रमसाधकमिति ब्रूते स स्वयम् अर्थसाधनाय प्रतिज्ञामात्रं करोतीति सम्भवति । येनेदं अन्यदेव समन्वयादित्यपि वक्तुं शक्यत्वा-दित्येतत् पूर्वेण सङ्गतं स्यात् । सूत्रोदाहरणकृत्यमाह एतदधिकरणेति ॥ एतदधिकरणमारभ्य अध्याय-पादाभ्यामन्तर्भावसङ्गतिप्रसक्तिसूचनाय सूत्रोदाहरणमित्यर्थ । अत एव प्राक् "अध्यायपादसङ्गतिस्तु आनन्दमयाधिकरणमारभ्य गवेषणीये’त्युक्तम् । समस्तेनेति प्रायेणेति च माता वन्ध्येतिवद्य्वाहतमित्याशङ्कां विषयव्यवस्थया परिहरति चतुर्थपादे त्वित्यादिना ॥ नहीति ॥ यदि समस्तेनाध्यायेन समन्वयो निरूप्यते तर्हि अध्यायस्य एकार्थत्वं प्राप्तमेवेति पादभेदो न स्यात् । प्रतिपाद्यभेदायत्तत्वात् पादभेदस्येति भाव । शब्दास्तावच्चतुर्विधा इति ॥ सूत्रनिष्पत्ते पुरा चतुर्विधा शब्दा आसन्, चतुर्विधप्रतिपत्तिविषया आसन्निति यावत् । एतेन शब्दानां स्वत चातुर्विध्याभावात् शब्दाश्र्चतुर्विधा इत्ययुक्तमिति परास्तम् । स्वत चातुर्विध्याभावेऽपि चतुर्विधप्रतिपत्तिविषयत्वेन चतुर्विधा इत्युपचारविषयत्वसम्भवात् । अन्यत्रैव प्रसिद्धा इति ॥ प्रबलश्रुतिलिङ्गादिभि अन्यपरा एवेति विज्ञाता अन्यत्रैव प्रसिद्धा । कस्मिंश्र्चिद्वाक्ये विद्यमाना अन्यपरा इत्येवं विज्ञाता उभयत्र प्रसिद्धा । लोकव्यवहारबलेन वा, श्रुत्यादिबलेन वा, अन्यपरा एवेति विज्ञाता अन्यत्र प्रसिद्धा । भगवद्वाचकत्वेन विज्ञाता तत्र प्रसिद्धा इत्यर्थ । एतेन अन्यत्र प्रसिद्धानाम्, अन्यत्रैव प्रसिद्धेषु अन्यत्रापि प्रसिद्धेषु वा अन्तर्भावो भवेत् अन्यत्रेत्यस्य अन्यत्रैव अन्यत्रापीति पक्षद्वयव्यतिरेकेण विधान्तरत्वाभावात् चातुर्विध्याभिधानमयुक्तमिति परास्तम् । अन्यत्र प्रसिद्धा इत्यनेन लोकव्यवहारबलेन श्रुत्यादिबलेन वा अन्यपरा एवेति विज्ञाता इति शब्दविशेषाणां विवक्षितत्वात् । नन्वेवमपि अन्यत्र प्रसिद्धा उभयत्र प्रसिद्धा इति विभागो नोपपद्यते । अन्यत्र प्रसिद्धानां शब्दानामपि बलवच्छ्रुतिलिङ्गादिभि अन्यत्रैव प्रसिद्धत्वात् । कथमन्यथा आनन्दमयाद्यधि-करणपूर्वपक्षेषु ब्रह्मादिश्रुतीनां, सूर्ये प्रोक्तत्वादिलिङ्गानां चोपन्यास । न च ब्रह्मश्रुत्यादीनां न बलवत्वमिति वक्तुं युक्तम् । पूर्वपक्षदाढर्याभावप्रसङ्गात् । न च पूर्वपक्षिभिन्नस्य अन्यत्र प्रसिद्धत्वं उभयत्र प्रसिद्धत्वं विवक्षितम् । पूर्वपक्षिण श्रुत्यादिभि प्रसिद्धत्वेऽपि नान्यत्र प्रसिद्धत्वहानिरिति वाच्यम् अन्यत्रैव प्रसिद्धाऽव्यक्तादिशब्दानां पूर्वपक्षिभिन्नस्य पुरुषस्य श्रुत्यादिभिरन्यत्र प्रसिद्धत्वाभावेन अन्यत्रैव प्रसिद्धत्वाभावापातात् । न च "अव्यक्तात्पुरुष पर’ इत्याद्युक्तावरत्वादिलिङ्गपयालोचनयैव पूर्वपक्षिभिन्नस्य ते अन्यत्र प्रसिद्धा इति तेषां अन्यत्रैव प्रसिद्धत्वमिति वाच्यम् । अवरत्वादिलिङ्गबलेन अन्यत्रैव प्रसिद्धा इति ज्ञातु पूर्वपक्षित्वानपायात् । न हि पूर्वपक्षिण शृङ्गमस्ति, यद्य्वतिरेकान्नायं पूर्वपक्षीति प्रतीम । किं च यथा आनन्दमयादिशब्दा लोकतोऽन्यत्र प्रसिद्धा, तथा चतुर्थपादव्युत्पाद्या अव्यक्तादिशब्दा अपि लोकतोऽन्यत्र प्रसिद्धा, कथमन्यथा चतुर्थपादीयाऽव्यक्ताद्यधिकरणेषु समन्वयसूत्रमन्यत्रैव प्रसिद्धिं सन्देहबीजत्वेनाभिदध्यात् । न च लोकतोऽन्यत्रैव प्रसिद्धि सन्देहबीजम् । अपि तु श्रुतियुक्त्यदिभिरन्यत्रैव प्रसिद्धि सन्देहबीजमिति वाच्यम्, तस्या एव पूर्वपक्षनिश्र्चयत्वेन संशयहेतुत्वासम्भवात् । न च लोकप्रसिद्धेरपि संशयहेतुत्वासम्भव अन्यमात्रपरत्वेन लोकविज्ञानस्य श्रुत्यादिमूलत्वेन दाढर्याभावात् । इदं रजतमिति जानातीति भ्रान्तिज्ञस्य संशयवत् संशयहेतुत्वोपपत्ते । एवमुभयत्र प्रसिद्धा अपि अन्यत्रैव प्रसिद्धा । अत परविद्याविषयो द्युभ्वाद्याश्रयो विष्णोरितर एवेति पूर्वपक्षिणाऽवधृतत्वात् । "अन्यपरा एवे’ति अवधारणविषयत्वस्यैव अन्यत्रैव प्रसिद्धिशब्दार्थत्वात् । न हि वाक्यविशेषान्तर्गतो विष्णुपर तदन्यवाक्यविशेषान्तर्गतोऽन्यपर इति प्रतीतिविषयत्वमात्रेण उभयत्र प्रसिद्धत्वेन भाव्यं, न भाव्यं च विषयवाक्यान्तर्गतो न विष्णुपर किं तु तदन्यपर एवेति निश्र्चय-विषयत्ववशात् अन्यत्रैव प्रसिद्धत्वे नेति राज्ञामाज्ञाऽस्तीति चेत् सत्यम् । अन्यत्रोभयप्रसिद्धा अन्यत्रैव प्रसिद्धा, अन्यत्रैव प्रसिद्धा अपि लोकतोऽन्यत्र प्रसिद्धा भवन्तीति । तथापि विभागो युज्यते पृथापुत्रत्वसाम्येऽपि अर्जुने पार्थत्वेन प्रसिद्धिवत् येषु लोकत श्रुत्यादिना वाऽन्यत्र प्रसिद्धत्वेन प्रसिद्धि, ते शब्दा अन्यत्र प्रसिद्धशब्देन सङ्गृहीता । येषु अन्यत्रैव प्रसिद्धत्वेन प्रसिद्धि, ते शब्दा अन्यत्रैव प्रसिद्धशब्देन सङ्गृहीता इत्यङ्गीकारात् । एवं च सति येऽन्यत्र प्रसिद्धत्वेन प्रसिद्धा तानुपादाय प्रथमद्वितीययो पादयो, ये उभयत्र प्रसिद्धत्वेन प्रसिद्धा तानुपादाय तृतीयपादस्य, ये त्वन्यत्रैव प्रसिद्धत्वेन प्रसिद्धा तानुपादाय चतुर्थपादस्य प्रवृत्ति । एकस्यैवेंद्रस्य शचीपतित्वेन सहस्राक्षत्वेन पुरंदरत्वेन प्रसिद्धिवत् । एकस्यैव आकाशशब्दस्य अन्यत्रोभयत्र अन्यत्रैव प्रसिद्धत्वात् "आकाश-स्तल्लिङ्गा(१-२२)दिति प्रथमे "आकाशोऽर्थांतरत्वादिव्यपदेशा’(३-४१)दिति तृतीये, कारणत्वेन चाकाशादि’ष्विति चतुर्थे च, समन्वयो निरूपित । अत एव ज्योतिशब्दस्य "ज्योतिश्र्चरणाभि-धाना’(१-२६)दिति प्रथमे, "ज्योतिर्दर्शना’(३-४०)दिति तृतीये, "ज्योतिरुपक्रमात् तु तथा ह्यधीयत एक’ (४-१०) इति चतुर्थे च समन्वयोक्तिरुपपन्ना । सर्वेऽपि नामिलङ्गात्मकतयेति ॥ स्वशक्यार्थ-बोधका नामात्मका, अवयवशक्त्यार्थऽबोधका लिङ्गात्मका इत्यर्थ । इदं च लिङ्गात्मकत्वं पङ्कजादिपदेषु "यस्मिन् द्यौ’रित्यादिवाक्येषु चाऽविशिष्टं पङ्कजादिपदानामिव, "यस्मिन् द्यौ’रित्यादिवाक्यानामपि स्वावयवशक्त्याऽर्थबोधकत्वादिति बोध्यम् । तेषु न तत्र प्रसिद्धानामिति ॥ यद्वाक्यान्तर्गता भगवत्प्रसिद्धा । तद्वाक्यं विषयवाक्यत्वेनोदाहृत्य तदन्तर्गतानां तेषां समन्वयो न वाच्य इत्यर्थ । एतेन "ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् । ऊर्ध्वरेतं विरूपाक्षं शङ्करं नीललोहित’मिति वाक्यान्तर्गतब्रह्मशब्दस्य शङ्करादिश्रुतिबलेन "अन्यपर एवायं ब्रह्मशब्द’ इति प्राप्तपूर्वपक्षस्य परिहाराय समन्वेतव्यत्वात् । तत्र प्रसिद्धानां समन्वयो न वाच्य इत्ययुक्तमिति परास्तम् । एतद्वाक्यान्तर्गतपदस्य अन्यत्रैव प्रसिद्धत्वेन तत्र प्रसिद्धत्वभावात् । अमुख्यत्वेन प्राथम्यायोगादिति ॥ ननु उभयत्र प्रसिद्धशब्दा-नामपि अन्यत्र प्रसिद्धशब्दानामिवान्यत्र प्रसिद्धिपराकरणपूर्वकं भगवत्परत्वं समर्थनीयं, समर्थ्यते च "द्युभ्वाद्यायतनं स्वशब्दा’(१-३-१)दित्यादौ, अन्यथा "नानुमानमतच्छब्दात्; प्राणभृच्चे’ (ब्र.सू.१.३.२.३)त्येतावन्मात्रेण अन्यत्रप्रसिद्धिपराकरणसम्भवात्, "द्युभ्वाद्यायतनं स्वशब्दा’दित्यस्य वैयर्थ्यं स्यात् । किं चैवं सति तृतीयपादस्य समन्वयाप्रतिपादकत्वेन समन्वयाध्याये अन्तर्भावो न स्यात् इति चेत् स्यादयं दोष, यदि तृतीयपादे समन्वयो न व्युत्पादनीयो, न व्युत्पाद्यते चेति ब्रूम, न चैवं किं नाम समन्वेतव्यशब्दोक्तगुणलाभाय समन्वयो न व्युत्पादनीय इति । समन्वेतव्यशब्दस्य उभयत्र प्रसिद्धित्वेन तद्वाच्यगुणस्य परमात्मनि पूर्वपक्षिणा अङ्गीकृतत्वात् । किमर्थं तर्हि समन्वय उच्यते इति चेत् समन्वेतव्यशब्दवाच्यगुणस्य अन्येषु योगनिरासायेति ब्रूम । विष्ण्वन्यपरत्वेनाभिमत-यावद्वाक्यान्तर्गतसमन्वेतव्यशब्दस्य भगवति समन्वये भगवदन्यस्य समन्वेतव्यशब्दोक्तगुणयोगो निराकृतो भवति । प्रमाणवैधुर्यादिति ॥ ततश्र्चैवं योजना उभयत्रप्रसिद्धशब्दानां समन्वयफलस्य अन्यत्रप्रसिद्धिपराकरणमात्रस्य, अन्यत्रप्रसिद्धशब्दसमन्वयप्रतिपादनलभ्यफलादमुख्यत्वेन प्राथम्यायोगात् तृतीयपादे तत्समन्वयोक्तिरिति । इदमुक्तं भवति अन्यत्रप्रसिद्धशब्दस्य समन्वयोक्ते फलद्वयं, भगवति समन्वेतव्यशब्दोक्तगुणलाभ अन्यत्र तद्योगनिरासश्र्चेति । उभयत्रप्रसिद्धशब्दसमन्वयस्य तु भगवति तदभिधेयगुणयोगस्य पूर्वपक्षिणा कृतत्वात् अन्यत्रतद्गुणयोगानिरास एव फलमिति । अन्यपराणां मध्य इति ॥ लिङ्गात्मकानामवयवशाक्तिमालम्ब धर्मवाचिनां, स्वशक्त्या धर्मिवाचिभ्यो नामात्मकेभ्योऽ-मुख्यत्वेन तत्समन्वयोक्ति द्वितीयपाद इत्यर्थ । एतेन लिङ्गात्मकानामपि धर्मिवाचिभ्य अमुख्यत्व-कथनमयुक्तमिति परास्तम् । ततोऽन्यत्रेति ॥ स्वशक्यार्थप्रतिपादकत्वेन प्राधान्यात् तत्समन्वय प्रथमपादे प्रदर्श्यत इत्यर्थ । लोकतोऽन्यत्रप्रसिद्धानां प्रथमपादे, श्रुत्यादिभिरन्यत्रप्रसिद्धानां द्वितीयपादे समन्वय प्रतिपाद्यत इति भाव । एतेन समन्वतेव्यशब्दानां नामात्मकत्विलङ्गात्मकत्वभेदेन पादभेदनिरूपणमयुक्तं, नामिलङ्गात्मकत्वादिति परास्तम् । लोकतोऽन्यत्रप्रसिद्धत्वश्रुत्यादिभिरन्यत्रप्रसिद्धत्वरूपभेदस्यैव पादभेदप्रयोजकतयाऽभिमतत्वात् । नामिलङ्गात्मकत्वोक्ते स्वरूपकथनार्थत्वात् । अत एव टीकायां "प्रथमपादे लोकतोऽन्यत्र प्रसिद्धाऽऽनन्दमयनाम्न’ इत्युक्तं, द्वितीयपादे तु लोकतोऽन्यत्र प्रसिद्धाऽऽदित्य-श्रुतिसहपठितसर्वगतत्विलङ्गात्मकस्येत्युक्तम् । अन्यत्रप्रसिद्धानां नामात्मकानां प्रथमपादे, लिङ्गात्मकानां द्वितीयपाद इत्यादिनियमस्तु सूत्रे उदाहरणतयोपादानविषय एवेति बोध्यम् । एतेन आनन्दमयशब्द-समन्वयोक्तौ, समानन्यायत्वात् अन्यत्रप्रसिद्धनामात्मकाऽन्नमयादिशब्दसमन्वयसिद्धिवत्, समानन्याया-क्रान्तानामुभयत्र अन्यत्रैव प्रसिद्धशब्दानां समन्वयसिद्धिर्भवेदेवाऽविशेषात् । एवं च प्रथमपादे अन्यत्र-प्रसिद्धनामात्मकानां समन्वयो निरूप्यत इत्यादिपादार्थकथनमयुक्तमिति परास्तम् । अन्ये त्विति ॥ स्पष्टिलङ्गानां, स्पष्टिलङ्गं समन्वयज्ञापकं येषां ते स्पष्टिलङ्गा तेषां शब्दानां ब्रह्मनिष्ठतया प्रथमे समन्वय प्रतिपाद्यते । द्वितीयतृतीययोस्तु अस्पष्टानां न विद्यन्ते स्पष्टानि येषां तेऽस्पष्टा तेषां शब्दानां समन्वय प्रतिपाद्यत इति पादार्थानाचक्षत इत्यर्थ । प्रायेणान्यत्रप्रसिद्धानामिति भाष्येण शास्त्राध्यायपादसम्भवेऽपि न श्रुत्यधिकरणसङ्गातिसूचनं सम्भवतीति भावेन शङ्कते । नन्विति ॥ अन्यत्रप्रसिद्धानां शब्दानां समन्वय प्रतिपाद्यतेऽस्मिन् पादे इत्यभिधानात् अस्मिन् अधिकरणे आनन्दमय-नाम्नो ब्रह्मणि समन्वयसमर्थनात्, शास्त्राध्यायपादसङ्गति सूचिताऽस्तु, तथापि न कृतार्थता श्रुत्यधिकरण-सङ्गत्योरसूचनात् । एवं चानन्दमयस्य विष्णुत्वसमर्थनरूपस्य अधिकरणप्रमेयस्य पूर्वस्य सङ्गतिर्वक्तव्या । सा च केत्यत श्रुत्यधिकरणाभ्यां सङ्गतिं दर्शयतीत्यर्थ । एतेन आकाशाद्यधिकरणोपक्रम इव अस्ति शास्त्रादिसङ्गतिरित्युक्त्या श्रुत्यधिकरणसङ्गतिं दर्शयतीति वक्तव्यं न तु "नन्वस्तु शास्त्राध्यायपादसङ्गाति तथापि का पूर्वसङ्गति’रिति प्रष्टव्यं, शास्त्रादिसङ्गतेरनुक्तत्वेन अर्धाङ्गीकारायोगात्, "तथापि’ इत्यस्य अनन्वयाच्चेति परास्तम् । पादप्रतिपाद्यं वदता भाष्यकृता सङ्गते सूचितत्वेन सर्वापि सङ्गति सूचितेति मन्यमानस्य शङ्कोदयसम्भवात् । यद्यपि समन्वयसूत्रेण प्रपञ्च्यप्रपञ्चकभावलक्षणसङ्गतेरुक्तत्वात् का पूर्वसङ्गतिरिति प्रश्र्नोऽनुपपन्न, तथापि तस्या सङ्गते सर्वाधिकरणसाधारणत्वात् असाधारणसङ्गतेरनुक्त-त्वात् प्रश्र्नो नानुपपन्न । यद्यपि पादस्य शास्त्राध्यायपादसङ्गतित्वेनोपचरिता । अत एव अस्तु शास्त्राध्यायपादसङ्गतिरित्येकवचनम् । अन्यथा "श्रुत्यधिकरणसङ्गती’ इत्यत्र द्विवचननिर्देशवत् इहापि "सङ्गतय’ इति बहुवचननिर्देशं कुर्यादिति । अत सङ्गातिसद्भावादिति ॥ जिज्ञासाधिकरणे प्रतिपाद्यस्य ब्रह्मण आनन्दमयाधिकरणप्रतिपाद्यस्य आनन्दमयस्य च अवयवावयविभावलक्षणसम्बन्धसद्भावादित्यर्थ प्रतिपाद्ययो सम्बन्धस्यैव सङ्गतित्वादिति भाव । तेन जिज्ञासाधिकरणप्रतिपाद्यस्य ब्रह्मण तैत्तिरीयश्रुतौ आनन्दमयपुच्छत्वश्रवणेऽपि तयोरधिकरणयो सङ्गतिलाभ । पुच्छत्वेन प्रतीतिमात्रस्य सङ्गतिं प्रति अप्रयोजकत्वादिति परास्तम् । "तस्य प्रियमेव शिर’ इत्यादिना शिरआद्यवयवादीनाम् उपकारादिसाधन-जन्यसुखविशेषात्मकत्वमुच्यत इति प्रतीतिनिरासायाह तत्तत्प्रवर्तकतयेति ॥
यद्यपि "तत्तत्प्रवर्तकतया तत्तद्य्वपदेश’ इति वाक्यं सर्वपुस्तकेषु न दृश्यते, तथापि एतद्वाक्योक्त-तत्तद्य्वपदेशगतिकथनस्य ग्राह्यत्वादिदं वाक्यं व्याख्यातम् । प्रियादिप्रवर्तकतया "प्रियमेव शिर’ इत्यादिव्यपदेश इति भाव । न ह्यवयविनं विनेति भाष्यमयुक्तं विष्णुत्वसमर्थनस्य आवश्यकत्वा-निरूपणादित्यत आह यद्यानन्दमय इत्यादिना ॥ तदा न ब्रह्मजिज्ञासेति ॥ भिन्नांशत्वे जीववत् सर्वोत्तमत्वेन जिज्ञास्यत्वं न स्यादिति भाव । आनन्दमयस्य ब्रह्मणोऽन्यत्वेऽपि "तद्विजिज्ञासस्वे’ति श्रुतिविहितत्वात् ब्रह्मजिज्ञासा भवेदेवेत्यत आह अवयविन एवेति ॥ जिज्ञासाविधिगतस्य ब्रह्मशब्दस्य आनन्दमये लक्षणसम्भवेन आनन्दमयजिज्ञासैव विध्यर्थ स्यादिति भाव । मुख्यार्थबाधाभावाल्लक्षणा न युक्तेत्यत आह अवयविजिज्ञासां विनेति ॥ अवयवस्य प्राधान्येन जिज्ञासायोगात् मुख्यार्थबाध इति भाव । अस्तु तर्हि आनन्दमयजिज्ञासैव श्रुत्यर्थ, तथा च तस्य विष्णुत्वसमर्थनं व्यर्थमित्यत आह ब्रह्मविज्ञासा चेति ॥ श्रुत्युक्ता ब्रह्मशब्दरूढिलभ्या ब्रह्मजिज्ञासा आनन्दमयस्य विष्णुत्वसमर्थनेन सम्भवे सति न हातुं शक्या । सर्वथा मुख्यार्थासम्भव एव लक्षणाया स्वीकर्तव्यत्वादिति भाव । उपसंहरति अत इति ॥ आनन्दमयस्य अत पुच्छरूपाद्विष्णोरन्यत्वे सति ब्रह्मजिज्ञासा न सम्भवति इति यत अतो ब्रह्मजिज्ञासासिध्यर्थमित्यन्वय । अत्र आनन्दमयो विषय इति ॥ अत्र द्वे दर्शने आनन्दमयशब्दो लिङ्गात्मक इति एकं दर्शनम्, नामात्मकमिति अपरम् । तत्राद्यं सत्तकदीपाविलतत्व-प्रदीपकृतोर्दर्शनम् । "ब्रह्मणि अर्थान्तरनिरूढसमन्वयप्रतिपादनात् प्रायेणेति’ इति सत्तकदीपावल्याम्, "आनन्दादिगुणवाचिनां आनन्दमयादिगुणिवाचिनां स्वशब्दानां समन्वयसिध्द्यर्थम् आनन्दमयाधिकरणे लिङ्गविचारात्, इन्द्रादिबहुनाम्नां समन्वयसौलभ्याय उत्तरत्रान्तस्थत्विलङ्गविचारात् । तस्मात् प्रायेण अन्यत्र प्रसिद्धानां नामशब्दानां ब्रह्मणि समन्वयं वक्ति अस्मिन् पाद’ इति तत्वप्रदीपे च आनन्दमय-शब्दस्य लिङ्गात्मकत्वोक्ते । द्वितीयं तु टीकाकृतो दर्शनम् अत्रान्तस्थत्विलङ्गसमन्वयप्रतिपादना-त्प्रायेणेतीति अंतस्थत्वाधिकरणस्यैव व्यावर्त्यत्वोक्ते । अन्यथा आनन्दमयाधिकरणस्यापि व्यावर्त्यत्व-मवक्ष्यत् । तत्राद्यमतस्य "गुणिसामान्यवाचिनाम् । गुणवाचिनां च प्रथममाह देव समन्वय’मित्यनु-व्याख्याने आनन्दमयशब्दस्य धर्मविशिष्टधर्मिवाचकत्वोक्तिर्मूलम् । द्वितीयमतस्य तु "आनन्दमयरूपे तु ब्रह्मण पुच्छतोक्तित । समस्ताब्रह्मताप्राप्तेरानन्दमयनाम ही’त्यनुव्याख्याने नामत्वोक्तिर्मूलम् । न च परस्परविरोधादन्यतरस्याऽप्रामाण्यं वाच्यम् आनन्दमयशब्दस्य योगरूढत्वेन मतद्वयोक्तनामात्मकत्व-लिङ्गात्मकत्वयोर्भावात् । पूर्वमते नामात्मकत्वस्याऽनिषेधात्, द्वितीयमते च लिङ्गात्मकत्वस्याऽनिषेधात् । कथं तर्हि टीकायां अन्तस्थत्वाधिकरणस्यैव प्रायशब्दव्यावर्त्यत्वोक्तिरिति चेत्, तस्य केवलिलङ्गात्मकत्वेन पादेऽन्तर्भावो नेति सूचनायेति ब्रूम । कथं तर्हि तत्वप्रदीपे आनन्दमयाधिकरणस्य प्रायशब्दव्यावर्त्य-त्वोक्तिरिति चेत्, आकाशाद्यधिकरणेष्विव आनन्दमयाधिकरणे केवलनामात्मकसमन्वयो नेति सूचनार्थमिति ब्रूम । किं वा विष्णुरिति ॥ "इति सन्देह’ इति शेष । हिरण्यगर्भनिष्ठब्रह्मशब्दस्य आनन्दमये श्रवणात् आनन्दमयशब्दपर्यायस्य शतानन्दशब्दस्य हिरण्यगर्भे श्रवणात् तयोरैक्यमिति गूढाभिसन्धि । पूर्वपक्षमाह आनन्दमय इति ॥ ब्रह्मशब्द एवाऽऽनन्दमयस्य हिरण्यगर्भत्वसाधनायोपन्यस्त इति मन्यमान शङ्कते ब्रह्मशब्दस्येति ॥ भवेद्ब्रह्मशब्द आनन्दमयस्य हिरण्यगर्भत्वसाधक यदि तन्मात्रनिष्ठ स्यात्, न चैवमिति भाव । "इति चेत्’ इत्यनन्तरं नेति शेषो बोध्य । पूर्वपक्षी स्वाऽभिसन्धिमुद्धाटयति । आनन्दमयशब्दार्थवदिति ॥ नाऽस्माभिर्ब्रह्मशब्दमात्रेण हिरण्यगर्भत्वं साधितं येनोक्तदोष स्यात्, किं तु परस्परनामसाङ्कर्येण तयोरैक्यमिति साधयाम इति भाव । एतेन शतानन्दनाम्न पक्षधर्मताभावात् ब्रह्मशब्दस्य जीवादावपि सत्त्वात् व्यात्प्यभावेनहिरण्यगर्भत्वसाधनाय तयोरुपन्यासोऽनुपपन्न इति परास्तम् । आनन्दमय हिरण्यगर्भयोरभेदसाधनाय नामसाङ्कर्यस्य हेतुत्वेनेहाभिमतत्वात् । ययोर्नामसाङ्कर्यमसति बाधके तयोरभेद इति व्याप्तिसद्भावात् । नासत्यदस्रयोर्नामसाङ्कर्येऽपि बाधकवशात् नाभेद इति भाव । सूर्ये प्रोक्तत्वादिति ॥ सूर्यान्तर्गतत्वादित्यर्थ । अप्रयोजकताशङ्कापरिहाराय तस्य रुद्रिलङ्गत्वमाह रुद्रस्येति ॥ सूर्यान्तर्गतत्वं न रुद्रस्य, नापि बृहस्पते, किं तु इन्द्रस्यैवेति मन्यन्ते । अपरे बृहस्पतेरेव न रुद्रेन्द्रयो । अन्ये तु अन्यस्यैव न रुद्रेन्द्रबृहस्पत्यादीनां मन्यन्ते । तेषां पूर्वपक्षमाह । ययोरिति ॥ एतेन सूर्यान्तर्गतत्वस्य रुद्रादिसाधारण्ये रुद्र एव आनन्दमय इत्याद्यवधारणार्थं हेतुतया तस्योपादानमयुक्तमिति परास्तम् । तस्य रुद्राद्यसाधारण्यं मन्यमानैर्हेतुतया उपादानस्योचितत्वात् । आनन्दमय चित्प्रकृतिर्भवितुमर्हति, ब्रह्मशब्दविषयत्वेन बाधकाभावात् जगदुपादानत्वेन साधकसद्भावादिति गूढाभिसन्धि । पूर्वपक्षमाह चित्प्रकृतिर्वेति ॥ ब्रह्मशब्दस्य चित्प्रकृतिरूपसाध्यसामानाधि-करण्यज्ञापनायाह आनन्दमयनिष्ठेति ॥ एतेन आनन्दमयस्य चित्प्रकृतित्वसाधनाय तत्रैव हेतोर्वक्तव्यत्वेनाचित्प्रकृतेर्हेतुविधानमयुक्तमिति परास्तम् । ब्रह्मशब्दो हेतुत्वेनोक्त इति मन्यमान शङ्कते कथमिति ॥ इति चेत् इत्यनन्तरं"ने’ति शेष । पूर्वपक्षी स्वाऽभिसन्धिमुद्धाटयति सोऽकामयत इति ॥ ब्रह्मशब्दविषयत्वं बाधकाभावप्रदर्शनायोपन्यस्तम् । बहुभाव एव हेतुवेन उपन्यस्त इति भाव । साध्यसहचाराभावात् व्याप्यत्वासिद्धो हेतुरित्यत आह तदभिमानत्वादिति ॥ मुख्योपादानत्वस्य साध्यसहचाराभावेऽपि "सोऽकामयते’ति श्रुत्युक्तकामनोपपत्तये हेतुत्वेनाभिमतस्यौपचारिकोपादानत्वस्य साध्यसहचारित्वात् न व्याप्यत्वासिद्धिरिति भाव । बहुभावादेवेति ॥ "बहुस्या’मिति वाक्ये मुख्य एव बहुभावो विवक्षित । कामनाया अभिमानिद्वारा सम्भवात् । ततश्र्च अचित्प्रकृतित्वसाधन-मेवोचितमिति भाव । आनन्दमया जीवा । जीवात्मकाऽन्नमयादिप्रायपठितत्वात् इति मन्यमानस्य पूर्वपक्षमाह तत्तद्देहगतेति ॥ नानन्दमया जीवत्वेन अभ्युपगन्तुं युक्ता ब्रह्मशब्दाविषयत्वादित्यत आह बृहजातीति ॥ तस्य जीवेऽपि सद्भावात् न ब्रह्मशब्दविषयत्वं बाधकमिति भाव । ब्रह्मशब्द एव हेतुत्वेनोक्त इति मन्यमानस्य शङ्कामनूद्य निषेधति न च वाच्यमिति ॥ स्वाभिप्रेतं हेतुमाविष्करोति अन्नरसमय इति ॥ सर्वपूर्वपक्षसाधारणम् अवधारणव्यावर्त्यमाह यद्यपीत्यादिना ॥ तत्तद्देवतालिङ्ग-सद्भावात् यथा तत्तद्देवानां प्राप्ति, एवं मुख्यतो विष्णुवाचकब्रह्मशब्दसद्भावात् विष्णोरप्यस्ति प्राप्तिरित्यर्थ । ननु आनन्दमयेति प्रतिज्ञाभागो विष्णुरेवेति व्याख्यातव्य, किन्त्विति व्यर्थमित्या-शङ्कायामाह कस्तर्हीति ॥ "न ते आनन्दमयशब्देनोच्यन्त’ इत्यनन्तरं हेतोरेवाऽऽकाङ्क्षितत्वेत विष्णुरेवेत्यस्याऽनाकाङ्क्षितत्वादवक्तव्यत्वं स्यादिति न त आनन्दमयशब्देनोच्यन्त इति उक्त्यनन्तरं विष्णुरेवेत्युक्ते सङ्गत्यर्थं किंचिदनेनाकाङ्क्षामुत्पाद्य सूत्रप्रतिज्ञाभागं व्याचष्ट इत्यर्थ । ब्रह्मशब्दाभ्यासं दर्शयति असन्नेवेति ॥ अत्र सूत्र आनन्दमयशब्दस्य उदाहरणमात्रत्वात् । अन्नमयादिषु यद्विष्णुत्वसाधकं प्रसिद्धं तदेव हेतुत्वेन ग्राह्यम् । एवं च आनन्दमयेऽभ्यासो हेतु, अन्नमयादिषु ब्रह्मशब्द एव हेतुरिति बोध्यम् । एतेन आनन्दमये विज्ञानमये च अभ्याससद्भावेऽपि, अन्नमयदिषु अभ्यासाभावात् भागासिद्धोहेतुरिति परास्तम् ॥
"येऽन्नं ब्रह्मे’त्यादिरूपादभ्यासात्तैतरीयके ।
अन्यासु चैतद्रूपासु शाखास्वपि सहस्रश ।
आनन्दमय इत्याद्यै शब्दैर्वाच्यो हरि स्वयम् ।’
इत्यनुव्याख्यानस्य तैत्तरीयके विद्यमानात् । "येऽन्नं ब्रह्मोपासते, ये प्राणं ब्रह्मोपासते, आनन्दं ब्रह्मणो विद्वान्, विज्ञानं ब्रह्मेति चेत् वेद, विज्ञानं देवा सर्वे ब्रह्म ज्येष्ठमुपासते, असत् ब्रह्मेति वेद चेत्, अस्ति ब्रह्मेति चेद्वेदे’(तै.उ.२.)त्यादिब्रह्मशब्दाभ्यासात्, उपलक्षणतया सूत्रगृहीता ब्रह्मशब्दादयश्र्च एतद्रूपासु सहस्रशाखासु "आनन्दमय विज्ञानमय’ इत्याद्यै शब्दैर्हरि स्वयं वाच्य इत्यर्थ । ब्रह्मशब्दस्य चाभ्यासात् पञ्चरूपादिषु स्फुटमिति अनुव्याख्यानस्यापि अन्नमयादिपञ्चरूपेषु अन्नादिषु मध्ये आनन्दमयवत् विज्ञानमयेऽभ्यासात् सूत्रस्थाऽऽनन्दमयशब्दोऽन्नमयादीनाम् उपलक्षको बोध्य । अन्यथा अन्नमयादीनामब्रह्मत्वप्रात्प्या तदन्तर्गतविज्ञानमये व्यभिचरितो ब्रह्मशब्दस्याभ्यास कथमानन्दमयस्य ब्रह्मत्वं साधयेदित्येवाऽऽशय । न त्वन्नमयादिषु सर्वत्र ब्रह्मशब्दाभ्यासोऽस्तीत्याशय । अन्नमयादिषु सकृदेव ब्रह्मशब्दश्रवणेनाभ्यासस्याऽभावात् । न वा सूत्रकृता ब्रह्मशब्द एव हेतुत्वेनोक्तोऽ-भ्यास इत्याशय । आनन्दमयशब्दस्योपलक्षकत्वसिद्धौ अन्नमयादिषु असिद्धिपरिहाराय ब्रह्मशब्दो हेतुत्वेन विवक्षित इत्यर्थसिद्धि । ब्रह्मशब्दमात्रस्य हेतुत्वसिद्धौ च व्यभिचारप्रसङ्गेनाऽसाधकत्वापत्त्या तत्परिहारायाऽऽनन्दमयशब्दस्योपलक्षकत्वसिद्धिरिति अन्योन्याश्रयप्रसङ्गात् । ननु "आनन्दमयोऽभ्यासात्’ इत्यत्राऽभ्यासस्य हेतुत्वं सूत्रकृता विविक्षितमित्ययुक्तम् । सुधाविरुद्वत्वात् । तथा हि "एकविषया-सकृदुक्तिर्मुख्योऽभ्यास । न चैवमत्रास्ति । किंतु असकृदुक्तिमात्रमिति विज्ञापयितुं "इत्यादे’रित्यनुक्त्वा इत्यादिरूपा’दित्युक्तम् । अन्नमयादिविषयत्वेन ब्रह्मशब्दस्य श्रुतत्वादित्युक्तं भवतीति ब्रह्मशब्दस्य हेतुत्वाभिधानादिति चेत्, स्यादयं दोष यदि ब्रह्मशब्दाभ्यासो न हेतुरिति सुधाशय स्यात्, न चैवं, किंनाम ब्रह्मशब्दाभ्यास ब्रह्मशब्दश्र्च हेतुरित्याशय । तत्राऽऽद्य सूत्रे कण्ठोक्त । द्वितीयस्तु उपलक्षण-तया सूचित इति विवेक । ततश्र्च एवं सुधावाक्ययोजना नन्वनुव्याख्याने "येऽन्नं ब्रह्मे’त्यादिरूपा-दभ्यासादित्युक्तं येऽन्नं ब्रह्मेत्यादे सकृदुक्तत्वेन अभ्यासत्वाभावादित्यत आह एकविषयाऽसकृदुक्ति-रिति । एकविषयाऽसकृदुक्ति सौत्राऽभ्यासपदस्य मुख्योऽर्थ । न चैवंरूपोऽभ्यासोऽन्नमयादिषु सर्वत्रास्ति, किंतु अन्नमयादिपञ्चविषयेषु मिलित्वा बहुवारमुक्तिरस्तीति न सौत्रहेतोरसिद्धि शङ्कनीयेति सूत्रकृता ब्रह्मशब्दोऽभ्यासश्र्चेति हेतुद्वयं विवक्षितम् । अन्नमयादिषु आनन्दमयविज्ञानमययोरिव ब्रह्मशब्दाभ्यासरूपहेत्वभावेऽपि उपलक्षणतयोक्तब्रह्मशब्दरूपहेतुसद्भावात् नासिद्धिरिति ज्ञापयितुं इत्यादेरित्यनुक्त्वा इत्यादिरूपादित्युक्तमिति भाव । "येऽन्नं ब्रह्मे’ त्यनुव्याख्याने अभ्यासादित्युक्ते-र्भावमाह अन्नमयादिविषयत्वेनेति ॥ उदाहरणत्वेन सूत्रोपात्तादभ्यासपदात्सूचितो ब्रह्मशब्दरूपो हेतु अत्र अनुव्याख्याने अभ्यासपदेनोक्त इति भाव । ननु आनन्दमयशब्दस्य अन्नमयादिशब्दोदाहरण-त्वाभिधानमयुक्तम् । अनुव्याख्यानसुधाविरुद्धत्वात् । "उपलक्षणत्वं शब्दानामानन्दमयपूर्विणाम’ इत्यनुव्याख्याने आनन्दमयशब्दस्य अन्नमयादिशब्दोपलक्षकत्वोक्ते । "अजहल्लक्षणा चैषा तेनाऽऽ-नन्दमयस्य त्यागो न मन्तव्य’ इति सुधायामुक्तत्वादिति चेत् स्यादयं दोष, यदि आनन्दमयशब्द अन्नमयादिशब्दोपलक्षकत्वमिति सुधानुव्याख्यानयोराशयोऽर्थ । "अजहल्लक्षणा चैषे’ति सुधावाक्यस्य सूत्रकारीयाऽऽनन्दमयशब्दोच्चारणस्य एषा अन्नमयादिशब्दोदाहरणे च, अजल्लक्षणा तुल्या, यथा छत्रिण समायान्तीत्यत्र छत्रिशब्दस्य शक्यतत्सम्बंध्युभयग्राहकत्वं, एवं आनन्दमयशब्दोच्चारणस्य उच्चार्यमाणानन्दमयशब्दस्य तत्समानन्यायाऽन्नमयशब्दस्य च ग्राहकत्वं, न तु "सभाराजाऽमनुष्य-पूर्वे(पा.सू.२.४.२३’)त्यत्र राजशब्दोच्चारणस्येव पर्यायमात्रस्य ग्राहकत्वमित्याशयो बोध्य । एतेन उच्चारणस्योच्चार्यमाणशब्दस्य परित्यागेन समानन्यायशब्दग्राहकत्वस्य क्वाप्यदर्शनात् अजहल्लक्षणा-तुल्यत्वाभिधानमयुक्तमिति परास्तम् । उच्चारणेऽपि उच्चार्यमाणशब्दपरित्यागस्य सभाराजेत्यादौ दर्शनात् । इदमत्र तत्वम् "आनन्दमयोऽभ्यासा’दित्यादिसूत्रे सूत्रकारीयमानन्दमयादिशब्दोच्चारणं न समन्वेतव्यशब्दानां परिगणनाय । अनन्तशाखानिर्णयाभावप्रसङ्गात् । किंतु समन्वेतव्यशब्दानामुच्चारणमात्रम् । एवं सति "अग्न्ये त्वा जुष्टं निर्वपामी’त्यत्र अग्न्पिदस्थाने सूर्यपदोहवत् आनन्दमयोऽभ्यासादित्यादिसूत्रेषु समन्वेतव्य-शब्दस्थाने समानन्यायानामन्नमयादिशब्दानमूह कार्य । ततश्र्चैवं सूत्रपाठो भवति "आनन्दमयोऽ-भ्यासात्, अन्नमयो ब्रह्मशब्दात्, विज्ञानमयोऽभ्यासा’दित्यादि । अत एव सुधायां "यद्यत्र आनन्दमय-शब्द स्वमात्रस्य ग्राहक स्यात्, न चैवं किं त्वत्रानन्दमयशब्दस्य समानन्यायानामन्नमयादिशब्दानामुप-लक्षकत्व’मित्युक्तम् । न हि आनन्दमयशब्दोच्चारणमन्नमयादिशब्दानामपि अस्मिन् सूत्रे उच्चार्यत्वमिति ज्ञापनार्थमित्यभिप्रायाभावे आनन्दमयशब्द स्वमात्रस्य ग्राहक स्यादि’ति सुधावाक्यं युज्यते । आनन्दमयशब्दस्यार्थवाचित्वेन शब्दपदार्थकत्वाभावात् । कथमन्यथा "तत्त्वि’त्यनेन आनन्दमयशब्दस्य सम्बन्ध स्यात् । तस्मात् आनन्दमयशब्दोच्चारणस्य अन्नमयादिशब्दग्राहकत्वमिति सुधाशयो बोध्य । एवमन्यान्यपि सुधावाक्यानि योज्यानि । अवश्यं चैतदेवं विज्ञेयम् "आनन्दमयो विष्णुरभ्यासात्, अन्नमयो विष्णुर्ब्रह्मशब्दात्’ इत्यादियोजनासम्भवात् । आनन्दमयशब्दस्याऽन्नमयादिशब्दोपलक्षकत्वाङ्गीकारे तु आनन्दमयशब्दस्य अजहल्लक्षणया आनन्दमयरूपार्थान्नमयादिशब्दोभयपरत्त्वापत्त्या पदतात्पर्यविषयस्य वाक्यार्थसमन्वयनियमेनानन्दमयरूपोऽर्थ, अन्नमयादिशब्दा विष्णुरेवेति वाक्यार्थ स्यात्, न चासौ युक्त, "ब्रह्मणोऽन्नमयादिशब्दरूपत्वाभावात् । वाक्यविशेषग्रहणस्य पूर्वपक्षविशेषोपादानस्य सिद्वान्त-प्रमाणविशेषस्वीकारस्य च उदाहरणार्थत्वादिति सुधायामुक्तत्वाच्चेति’ ब्रह्मशब्दाभ्यासब्रह्मशब्दयोरन्नमयादिषु श्रवणेऽपि कुतोऽन्नमयादयो विष्णुत्वेन प्रतिपत्तव्या इत्यत आह टीकायाम् ब्रह्मशब्दस्येति ॥ भाष्ये "तदेव ब्रह्म परमं कवीना’मित्यादिश्रुतिरस्मृत्युदाहरणं यथा "किंतु विष्णुरेवे’ति प्रतिज्ञातार्थ-सिध्द्युपयोगि तथैव "न ते आनन्दमयशब्देनोच्यन्त’ इति प्रतिज्ञातार्थसिद्धेरप्युपयोगीति भावेन "तथापि न त आनन्दमयशब्देनोच्यन्त’ इति वाक्यम् अर्थतोऽनुवदति न च तत एवेति ॥ तत एव तथापि हिरण्यगर्भादीनां प्राप्ति आनन्दमयशब्दवाच्यत्वप्राप्तिर्नाशङ्क्येत्यर्थ । एतेन हिरण्यगर्भादीनां प्राप्तिमाशङ्क्य तथापि न ते आनन्दमयशब्देनोच्यन्त इति भाष्ये निषिद्धत्वेन च "तत एवे’त्यनेन पुनराशङ्क्य निराकरणमनुपपन्नमिति परास्तम् । अस्य ग्रन्थस्य "न ते आनन्दमयाशब्देनोच्यन्त’ इति भाष्यस्योपयोगोऽस्तीति सूचनार्थत्वात् । यदर्थमनुवाद तदाह अपूर्णत्वेति ॥ भाष्ये वासुदेवात्मक-मिति ॥ यति वासुदेवात्मकं ब्रह्म, मूलमन्त्रेण प्रणवेन वा पूजयेदित्यर्थ ।
वाक्यार्थमुक्तावली
ॐ आनन्दमयोऽभ्यासात् ॐ ॥ अथेति ॥ अधिकरणचतुष्टये प्रमाणाभ्यां वस्तुनिर्णयानन्तरं पञ्चमे चावाच्यतया शब्दलेशसञ्चाराविषयस्य शास्त्रावगम्यत्वमसम्भावितमित्यसम्भावनाशङ्कानिवृत्यनन्तर-मित्यर्थ ॥ शेषेणेति ॥ यद्यप्येतदादिरेवाध्याय इति जिज्ञासाधिकरणे व्यक्तं तथापि सुधारीत्या समन्वयसूत्रमारभ्याध्यायान्तर्भावोऽस्तीत्यभिप्रेत्य शेषेणेत्युक्तम् । यद्वा पञ्चाधिकरण्या अन्तर्भावेना-सङ्गतत्वेऽप्युपोद्धातरूपेण सङ्गतत्वात्तद्विवक्षया शेषग्रहणम् ।
ननु भाष्ये समन्वयपदेन पूर्वभाष्यदिशा नोपक्रमादिलिङ्गमुच्यते । उपक्रमादिमात्रस्यात्र अनिरूपणा-दित्यत आह तत्तु समन्वयादित्युक्तमिति ॥ तत्तु समन्वयादित्यत्रान्वयादुपक्रमादिलिङ्गसमुदायबलात्सम्यक् शास्त्रे निरूप्यमाणे विचार्यमाणे सति समन्वयात् सर्वशास्त्रस्य भगवत्येव सम्यग्वचनवृत्या शक्तितात्पर्य-लक्षणसम्बन्धावगमादित्यन्वयशब्दस्य द्विरावृत्या निरूप्यमाणे इत्यध्याहारेण च लब्धं करणावान्तर-फललक्षणं समन्वयपदार्थप्रतिवाक्यग्रहणेन प्रकटयतीत्यर्थ । सम्यनिरूपणमिति सम्यक्प्रविचारणं तत्साध्यं शक्तितात्पर्यलक्षणसम्बन्धं चेत्यर्थ । अवान्तरव्यापारस्य समन्वयत्वं समन्वयशब्दितिलङ्गसाध्यतयेति ध्येयम् । व्यक्तमेतत्सुधायाम् । "विभागेन समन्वयम् । आनन्दमय इत्यादिनाऽध्यायेन वदत्यज’ इति व्याख्यावसर इति ज्ञेयम् । सङ्गतिशङ्कोत्थापनायेति । आनन्दमयरूपविषयापरिज्ञाने अस्य विष्णुत्व-मसर्थने का पूर्वसङ्गतिरित्येवंरूपशङ्कानुदयादिति भाव ॥ अश्रद्धेयमिति ॥ अध्यायानन्तर्भावप्रसङ्गात् प्रधानशाब्दत्वनिरासस्येक्षत्यधिकरणानन्तर्यौचित्येन व्यवधानकारणाभावाच्चेति भाव ॥ एकेति ॥ अर्थैक्यादेकं वाक्यमिति जैमिन्युक्तेरिति भाव ॥ अन्यत्रैवेति ॥ बलवत् श्रुतिलिङ्गाद्यैरिति शेष । श्रुत्यादे प्राबल्यं चान्यपरत्वात्याजकत्वम् अव्यक्तजीवादिसमन्वये ह्यवरत्वदुखित्वाद्यन्यप्रापकिलङ्गादि-विरोधे लिङ्गस्याप्यन्यगतावरत्वदुखादिस्वामित्वेन भगवति सावकाशत्वे वाच्ये अवरत्वदुखादि-समवायिन्यपि लिङ्गादिवृत्या अव्यक्तादिशब्दानां तत्परत्वत्यागायोगात् । तथा च येषां शब्दानां सिद्धान्तिनापि प्रबलबाधकवशादन्यपरत्वमत्याजयित्वा भगवत्परत्वमुच्यते ते अन्यत्रैव प्रसिद्धा इति भाव ॥ उभयत्रेति ॥ उभयप्रापकवशादिति शेष ॥ अन्यत्रेति ॥ लोकतो वा लोकप्रसिद्ध-श्रुतिलिङ्गादिभिर्वेति शेष । एतेनान्यत्रेति सावधारणं न वा आद्ये चतुर्थपादसाङ्कर्यं द्वितीये तृतीयपाद-साङ्कर्यमिति निरस्तम् । सावधारणत्वेऽपि विवक्षातिशयेन चतुर्थपादसाङ्कर्यात् । व्युत्क्रमेणोक्तिस्तु तेष्वित्यादिना क्रमबीजोक्तिसौकर्यायेति ज्ञेयम् ॥ तत्रेति ॥ तत्रैवेत्यर्थ । तेन न पाञ्चविध्यम् ॥ नामेति ॥ नामात्मका रूढा यौगिका लिङ्गात्मका इत्येके । सुधायां साक्षाद्धर्मिवाचिनो नामात्मका धर्मद्वारा धर्मिणि । वर्तमाना लिङ्गात्मका इति । तेनान्तप्रविष्टं यस्मिन्द्यौरित्यादिवाक्यरूपिलङ्गस्यापि सङ्ग्रहो भवति ॥ प्रथममिति ॥ दुर्गमत्वाच्च नैवात्र प्राथम्येनोदितोऽञ्जसेत्यनुव्याख्यानदिशा पदवर्णस्वरादि-समन्वयरूपत्वेन दुर्गमत्वादिति भाव ॥ उभयत्रेति ॥ अन्यत्र प्रसिद्धानामन्यत्र प्रसिद्धित्याजनं भगवति प्रसिद्धिसम्पादनं चेति द्वयं कर्तव्यमिति तत्र प्रयत्नाधिक्यम् उभयत्र प्रसिद्धानां नान्यत्र प्रसिद्धित्याजनं कार्यमिति प्रयत्नलाघवादानंतर्यमिति भाव ॥ अन्यपराणां मध्य इति ॥ लोकतोऽन्यत्र प्रसिद्धानां मध्य इत्यर्थ ॥ अन्तस्थत्वेति ॥ सूत्राक्षरार्थाभिप्रायेणैवमुक्तम् । फलतस्तत्रापि नामसमन्वय-सिद्ध्यङ्गीकारात् ॥ स्पष्टेति ॥ जीवादावनुपपद्यमानतया ब्रह्मतया निर्णीतिलङ्गवतामित्यर्थ ॥ उत्तराधि-करणेति ॥ उत्तरपादीयाधिकरणेष्वित्यर्थ । वाक्येष्विति बहुवचनेन नास्माभिरिव तेन प्रायिकतया पादव्यवस्था वक्तुं शक्यत इति सूचितं भवति ॥ नन्वन्यत्रप्रसिद्धेति ॥ अत्र ब्रह्मणीति शास्त्रसङ्गति । समन्वयेत्यध्यायसङ्गति । तेनैवान्यत्रैव प्रसिद्धशब्दसमन्वयात्मक । चतुर्थपादे तृतीयपादे चोभयत्र प्रसिद्धविषये द्वितीयपादे चान्तर्भावनिरास इति विवेक । आनन्दमयनाम्न इति द्रष्टव्यम् । एतच्चाग्रे व्यक्तीभविष्यति । आनन्दमयशब्दस्य नामात्मकत्वनिर्वाहश्र्चास्माभि प्रमेयमुक्तावल्यां कृतोऽनुसन्धेय ॥ समन्वयप्रतिपादनादिति ॥ अभ्यासाद्यन्वयमनुसृत्य शक्तितात्पर्यलक्षणसम्बन्धनिरूपणादित्यर्थ ॥ श्रुत्यधिकरणसङ्गती इति ॥ पूर्वाधिकरणादुपात्तश्रुतिभ्यामेव सङ्गतिर्वक्तव्या न त्वव्यवहितपूर्वाधिकरणेनेति नियम इति भावेन भाष्ये जिज्ञासाधिकरणेन सङ्गतिरुच्यत इत्यर्थ । अव्यवहितसङ्गतिस्तु पूर्वाधिकरणे ब्रह्मणो वाच्यत्वं "यतो वाचो निवर्तन्त’ इति श्रुतिबलेनाक्षिप्य समाधानमयुक्तम् । तस्या श्रुतेर्मनोमय-विषयत्वात् । मनोमयादीनां चाब्रह्मत्वादित्याक्षेपपरिहारायास्याधिकरणस्य प्रवृत्तिरिति । अथवा तत्र ब्रह्मानन्दस्यावाच्यत्वमुच्यते न तु ब्रह्मण । न चानन्दशब्देनापि ब्रह्मोच्यते इति वाच्यम् । गुणवाचिनां गुणिनि हरौ वृत्तेरेवायुक्तत्वात् । ब्रह्मणो ब्रह्मेत्यन्वयप्रसङ्गाच्चेत्याशङ्क्य गुणगुणिनोरभेदघटकं विशेषं चाश्रित्यानन्दादिगुणवाचिशब्दसमन्वयस्याप्यत्र समन्वयप्रतिपादनाद्वा सङ्गतिरिति । तदुक्तं
"गुणिसामान्यवाचिनाम् ।
गुणवाचिनां च प्रथममाह देव समन्वयम्’ । इति ।
"उत्तरै पूरिता पूर्वे निश्छिद्रत्वेन सर्वश ।
सर्वेऽपि पुरुषाकारा उत्तरात्पूर्वसम्भवा’ ॥
इति तैत्तिरीयभाष्यानुसारेण श्रुत्यर्थमाह तेनेत्यादिना । तस्य पुरुषविधतामन्वयमित्यस्य तात्पर्यं तस्मादुद्भूत इति । शरीरिस्थानीयादान्तरान्नारायणाख्यात् आनन्दमयकोशगतानन्दमयाख्यात् शरीरस्थानीयो बाह्यो वासुदेवो विज्ञानमयकोशगतो विज्ञानमयनामक प्रादुर्भूत इत्यर्थ ॥ उपकारजम् इति ॥ "परेयं प्रियनामकम्’ इत्युक्ते । "मोदो भोगनिमित्तक’ इत्यैतरेयभाष्योक्ते ।
सुखं स्वरूपभूतं यदानन्द इति कथ्यते ।
मुन्नाम विषयोत्थं यत्प्रकृष्टविषयात्प्रमुत् ॥ इति ।
बृहद्भाष्योक्तेरिति भाव ॥ ब्रह्मणोऽन्य इति ॥ ब्रह्मत्वे तु एकैकशोऽङ्गानि धिया विभावये-त्पादादियावद्धसितं गदाभृत इत्युक्तदिशावयवावयविनोर्भेदाभावेन जिज्ञास्यत्वं सम्भवतीति भाव ॥ अयोगादिति ॥ प्रधानपरित्यागेनाप्रधानस्वीकारस्यानुचितत्वादित्यर्थ । स किं ब्रह्मादिजीवसमूह इति । आनन्दमयादिपञ्चकं किं जीवादिरुत विष्णुरिति चिन्ता । तदर्थं तत्र श्रूयमाणो ब्रह्मशब्द किममुख्यवृत्या जीवादिविषय उत मुख्यवृत्या विष्णुविषय इति । तदर्थं ब्रह्मशब्दस्य मुख्यवृत्यङ्गीकारे किं बाधकमस्त्युत नास्तीति । तदर्थं मयत्यय, अन्योन्तरात्मेत्यन्यतरशब्द, ब्रह्म पुच्छमिति ब्रह्मण आनन्दमया-वयवत्वोक्ति, अन्नमये तस्येदमिति निर्देशश्र्चेत्येतत्किं विकारभेदाद्यर्थकमुत प्राचुर्यविशेषाद्यर्थकमिति । तदर्थं हेतुव्यपदेश भृगुवल्लीसमाख्या मन्त्रवर्णसमाख्या चेति स्वपक्षसाधकम् अनुपपत्ति भेदव्यपदेश सुधोक्तशासनं चेति परपक्षबाधकं च किं वा सावकाशमुत निरवकाशमिति ॥ मम योनिर्महद्ब्रह्मेति ॥ महद्ब्रह्म चेतनप्रकृतिर्मम भार्येति कृष्णवाक्यम् । पञ्चभि पञ्चभिर्ब्रह्मेति । पञ्चभूतादिसूक्ष्मात्मकजडप्रकृति-विषयम् ॥ हिरण्यगर्भनिष्ठेति ॥ न च तस्य नपुंसकिलङ्गब्रह्मशब्दवाच्यत्वं नास्तीति भ्रमितव्यम् । तस्मादेतद्ब्रह्म नामरूपमन्नं च जायते । द्वे ब्रह्मणीत्यादिप्रयोगात् । आनन्दमयशब्दार्थेति । अनेन चतुर्मुखवाचकशतानन्दशब्दवाच्यत्वादिति मूलाभिप्राय उक्तो भवति । पर्यायत्वं च मयट प्राचुर्यार्थत्वात् । आनन्दमय शतानन्द इत्यर्थैक्यत इति द्रष्टव्यम् ॥ सूर्याधिष्ठातृत्वादिनेति ॥ इन्द्रादीनां सूर्याद्युत्तमत्वेन तदधिष्ठातृत्वं । बृहस्पतेर्ब्रह्मशब्दवाच्यत्वस्य ब्रह्मापि तन्न जानातीत्यादौ टीकाकारैरेवोक्तत्वात् । तदादि-शब्दगृहीतम् । तदभिमानित्वादिति ॥ बहुभाववदचित्प्रकृत्यभिमानित्वादित्यर्थ ।
ननु जीवानां समुदायरूपेण ब्रह्मशब्दवाच्यत्वात् एकस्मिन्देहे जीवसमुदायाभावादन्योन्तर आत्माऽनन्दमय इति कथमुक्तमित्यत आह तद्देहेति ॥ देहादिसमुदायविवक्षया जीवसमुदायस्यान्योन्तर आत्मेति युक्तिविषयत्वमिति भाव । अन्नमयत्वादेश्र्चेत्येतदवतार्य व्याचष्टे न चेति ॥ साधारण्या-दिति ॥ जात्यादिसाधरण्यादित्यर्थ । न तु विष्णुसाधरण्यादिति भ्रमितव्यम् । यद्यपीति पुन शङ्कनात् । अन्नादिविकारान्नमयादिशब्दितदेहाद्यभिमानित्वेनेत्यर्थ ॥ तत्प्रायपठितेति ॥ तत्सहपठितान्नमयशब्द-विषयत्वेत्यर्थ । न ह्यवयविनं विनेति सङ्गतिग्रन्थसूचितपूर्वपक्षमाह यद्यपीति । एतदनुदाहरणेन कथं तद्ध्याख्यानमित्यत आह सङ्गत्यर्थमुदाहृतेति । आनन्दमयोऽभ्यासादित्यादिनेत्यत्र सङ्गतिशङ्कोत्थापनार्थं वा न ह्यवयविनं विनाऽवयवमात्रस्य जिज्ञास्यतेत्यत आह । आनन्दमयोऽभ्यासादित्यत्र श्रुत्यादिसङ्गति-प्रदर्शनार्थं चोदाहृतसूत्रप्रतिज्ञाभागमित्यर्थ । यद्वा सङ्गत्यर्थं व्याचष्ट इत्यन्वय । आनन्दमय इत्यत्र साध्यस्यानुक्ते पर्वतो धूमवत्वादितिवदभ्यासादानन्दमय इत्येतयोरसङ्गति स्यादत सङ्गत्यर्थं समन्वय-सूत्रात्तदेवेत्यनुवृत्याऽनन्दमय इति प्रतिज्ञाभागं व्याचष्टे इत्यर्थ । भाष्य इत्यादिषु ब्रह्मशब्दाभ्यासा-दित्यन्वयभ्रमं निवारयंस्तदर्थमाह असन्नेवेत्यादिना विष्ण्वेकनिष्ठत्वोक्तेरित्यन्तेन । तदेव ब्रह्मेत्यारभ्य पठितेष्वित्यादिषु वाक्योत्तरेषु तस्मिन्नेव प्रसिद्धब्रह्मशब्दस्य तस्मिन्नानन्दमयविषयतयोदाहृते असन्नेवेति श्र्लोके तस्मिन्नानन्दमयविषये अभ्यासादिति योजनोक्ता भवति । आनन्दमये शब्दाभ्यासादित्युपलक्षणमेतत् । विज्ञानमये चेति ग्राह्यम् । अन्नमयादित्रिके तु ब्रह्मश्रवणादिति च । एतच्च पञ्चानां पृथक् पक्षत्वे अन्नमयादय पञ्च विष्णुरिति प्रतिज्ञायां तु अभ्यासादित्यस्य श्रुतत्वादित्यर्थ । अन्यथा भागासिद्धिप्रसङ्गात् । अत एव येऽन्नं ब्रह्मोपासत इत्यादिब्रह्मशब्दादित्युत्तरभाष्यटीकायां तद्विषयत्वेन ब्रह्मशब्दश्रवणादित्येव वक्ष्यति । स्पष्टं च सुधायाम् । अत्र वक्तव्यमुक्तं मुक्तावल्याम् । श्रुतिसिद्ध-त्वादिति । श्रुतौ तदेव परमं ब्रह्मेत्युक्तेऽन्यममुख्यमिति लाभात् ब्रह्मशब्द परे विष्ण्वाविति स्मृतेश्र्च स्पष्टत्वादिति भाव । ब्रह्मेति परमात्मेतीति भागवतस्थम् ।
बुद्ध्याविहिंसन् पुष्पैर्वा प्रणवेन समर्चयेत् ।
वासुदेवात्मकं ब्रह्म मूलमन्त्रेण वा यतिरिति व्यासस्मृति ।
तत्त्वसुबोधिनी
॥ ॐ आनन्दमयोऽभ्यासात् ॐ ॥ ब्रह्मस्वरूपनिरूपणेऽनवशेषादिति ॥ अथातो ब्रह्मजिज्ञासा इति यस्य ब्रह्मणो जिज्ञासा विहिता तत्स्वरूपं जन्माद्यस्य यत, शास्त्रयोनित्वादिति लक्षणप्रमाणाभ्यां स्वेतरसमस्तवस्तुव्यावृत्ततयाऽवधारितम् । प्रमाणस्यान्यपरत्वशङ्कया लक्षणस्यातिव्याप्ति समन्वयसूत्रेण निराकृता । ब्रह्मणश्र्च सकलशास्त्रप्रमाणकत्वासम्भावनाशङ्का ईक्षत्यधिकरणे निराकृता । न च प्रमाण-निरूपणव्यतिरेकेण वस्तुविचारणं नामास्ति । तत्र च लक्षणप्रमाणाभ्यामेव वस्तुव्यवस्थिते न ब्रह्मस्वरूप-निरूपणे किमप्यवशिष्यते । यदर्थमध्यायशेषप्रवृत्तिरित्याशय । सम्यनिरूपणमिति । अनेन तमेव समन्वयमिति भाष्यगतसमन्वयशब्देन यदि उपक्रमादिलिङ्गग्रहणं तदा अध्यायशेषेण उपक्रमादि-प्रपञ्चनाभावात् प्रकटयतीत्यनुपपन्नम् । सुधोक्तरीत्या शक्तितात्पर्यलक्षणसम्बन्धावगमग्रहणेऽप्येवमेव । तस्मात्सम्यगन्वय शक्तितात्पर्यावगमो येन निरूपणेन भवतीति योगेन वा तद्धेतुभूतोपक्रमादिलिङ्गवाचकेन समन्वयपदेन लक्षणया वा तत्साध्यं निरूपणं ग्राह्यमित्युक्तं भवति । अन्यथेति । प्रकाशनाभाव इत्यर्थ ॥ अन्यदेव ॥ रुद्राद्येव । जगत्कारणमिति शेष । ननु सूत्रोदाहरणं मध्ये कुत इत्यत आह ॥ एतदधिकरणेति ॥ सुत्रानुदाहरणे आनन्दमयरूपविषयापरिज्ञाने अस्य विष्णुत्वसमर्थने का पूर्वसङ्गतिरिति शङ्कानुदयादिति भाव । अन्यत्रैव प्रसिद्धा इति । येषां ब्रह्मण्यप्रसिद्धि अन्यत्र च प्रसिद्धि ब्रह्मपरत्वेत्यशक्यत्वं चेत्येतत्त्रितयं समन्वयविरोधि ते अन्यत्रैव प्रसिद्धा इत्यर्थ । उभयत्र प्रसिद्धा इति ॥ येषां ब्रह्मणि समन्वये अन्यत्र प्रसिद्धिमात्रं विरोधि ते तथोक्ता इत्यर्थ ॥ अन्यत्रेति ॥ येषां ब्रह्मणि समन्वये अन्यत्र प्रसिद्धिब्रह्मण्यप्रसिद्धिभ्यां विरोधस्तेऽन्यत्र प्रसिद्धा इति भाव । चतुर्विध-शब्दसमन्वय पादचतुष्ट्य इति प्रतीतिनिरासायाह ॥ तेष्विति ॥ तेषां भगवत्परत्वस्य सिद्धत्वादिति भाव । नन्वत्र पादक्रम किं महामल्लभङ्गन्यायेन उत सोपानारोहणन्यायेन । नाद्य । तथात्वे अन्यत्रैव प्रसिद्धपादस्य प्राथम्यापातात् । न द्वितीय । उभयत्र प्रसिद्धपादस्य प्राथम्यं स्यात् । तथा चान्यत्र प्रसिद्धानां पूर्वसमन्वय । तत्रापि नाम्नां पूर्वम्, अनन्तरं लिङ्गानां, तदनन्दरम् उभयत्र प्रसिद्धानाम्, अन्ते अन्यत्रैव प्रसिद्धानां इति क्रमानुपपत्तिरित्याशङ्क्य पादत्रये व्युत्पाद्यसमन्वयापेक्षया चतुर्थपादे व्युत्पाद्यस्यान्यत्रैव प्रसिद्धशब्दसमन्वयस्य अत्यधिकत्वेऽपि तस्मिन्महासमन्वये मुख्यतो ब्रह्मण एव अधिकारात् तस्य दुर्गमत्वेन प्रथमं बुद्ध्यारोहासम्भवाच्च सर्वाधिकारिसाधारणं सुगमं चार्थमादा-वभिधायासाधारणं पश्र्चाद्वदिष्यामीत्याशयेन तस्यान्त्यत्वमित्यभिप्रेत्याह । तेष्वन्यत्रैवेत्यादिना ॥ प्रथममबुद्ध्यारोहादित्युपलक्षणम् । असर्वाधिकारिकत्वादित्यपि द्रष्टव्यम् । (नन्वेवं सोपानारोहणन्यायेनाति-प्रयत्नसाध्यस्यैव प्राथम्यमित्याशयेन उभयत्र प्रसिद्धानाम् अन्यत्र प्रसिद्धापेक्षया अन्यत्र प्रसिद्धानामुक्तन्यायेन प्राथम्येऽपि नान्यत्रप्रसिद्धिलङ्गापेक्षया अन्यत्रप्रसिद्धानां प्राथम्यस्य विशेषणनाम्नामेव प्राथम्ये नियामका-भावादित्यतस्तत्रापि महामल्लभङ्गन्यायेनातिप्रयत्नसाध्यतया प्राथम्यं नाम्नां इत्याशयेन नामिलङ्गयो प्राबल्यदौर्बल्ये व्युत्पादयति । अन्यपराणामिति ।) नाम्नां प्रधानभूतधर्मिणि साक्षाद्धीजनकत्वात् यौगिकस्यावयवार्थे रूढ्यपेक्षावत् रूढस्य योगापेक्षाया अभावाच्च नाम्नां लिङ्गापेक्षया प्राथम्यं युक्तमिति भाव । नामात्मकानामिति ॥ अनेन मूले नामात्मकानामिति संयोज्यमित्युक्तं भवति । अत एव लिङ्गात्मकानामिति द्वितीयपादे वक्ष्यतीति भाव ॥ अत्रान्तस्थत्वेति ॥ सूत्राक्षराभिप्रायेणैवमुक्तं फलत तत्रापि नामसमन्वयसिद्ध्यङ्गीकारादिति बोद्धव्यम् । स्वमतेन पादार्थानभिधाय अन्योक्तान् पादार्थान्निराकर्तुं तन्मतमनुवदति ॥ अन्ये त्विति ॥ द्वितीयतृतीययोरिति ॥ सविशेषनिर्विशेषविषयतया च तयोर्भेद इति भाव । उत्तराधिकरणेति ॥ उत्तरपादगताधिकरण इत्यर्थ । यथाश्रुते तु अन्तराधि-करणादौ स्पष्टब्रह्मिलङ्गसमन्वयस्यैव प्रतिपादनेनासङ्गतमेतत्स्यादिति भाव । अन्यत्र प्रसिद्धानन्दमयनाम्न इत्यादि । अत्र टीकायाम् आनन्दमयनाम्न इत्यानन्दमयशब्द आनन्दमयाधिकरणे लिङ्गविचारादिति तत्वप्रदीपानुसारेणानन्दादिनामपरो योज्य । तथा च आनन्दादिनामसमन्वयस्यापि इह समर्थनात् फलत पादसङ्गतिरिति द्रष्टव्यम् । वस्तुत आनन्दमयादिशब्दा योगरूढा । यान्यापाततो रूढान्येव तानि नामानीति पक्षे आनन्दमयादे नामत्वाभावेऽपि यान्यापाततो रूढानि तानि नामानि यानि तु यौगिकानि लिङ्गानीति पक्षे आनन्दमयादिशब्दानाम् उभयात्मकत्वात् तद्विचारस्य पादद्वयसङ्गतिसम्भवेन इहापि विचारसम्भवात् प्रथमातिक्रमे कारणाभावाच्च आद्यपादे तत्समन्वय इति ध्येयम् । ब्रह्मणीति शास्त्रेण, समन्वयेति अध्यायेन, लोकतोऽन्यत्र प्रसिद्धनाम्न इति पादेन च अन्तर्भावलक्षणसङ्गतिरुक्ता । लोकत इति चतुर्थपादीयानां नाम्न इति द्वितीयपादीयानां शब्दानां निरास इति ज्ञेयम् । एवमुत्तरत्रापि ज्ञेयम् । शास्त्राध्यायाभ्यां सहिता पादसङ्गतिरिति विग्रह । श्रुत्यधिकरणसङ्गती इति । येन केनचित् पूर्वाधिकरणेन तद्विषयश्रुत्याच सङ्गतिरेवापेक्षितेति आद्यसूत्रेण तद्विषयवाक्येन च आक्षेपिकी सङ्गति-रस्तीत्यर्थ । अत एव उत्तरत्र टीकायां किमर्थम् आनन्दमयस्य विष्णुत्वमसर्थनमिति प्रश्र्न । ब्रह्मजिज्ञासासिद्ध्यर्थमिति परिहारश्र्च । एवमुत्तरत्रापि सङ्गतिटीका द्वेधा व्याख्येरा । पूर्वाधिकरणस्थ ""तन्निष्ठस्य मोक्षोपदेशादिति’’ सूत्रोक्तमोक्षजनकज्ञाविषयत्वस्यात्र "नेतरोऽनुपपत्ते’ इति परपक्षप्रतिक्षेप-हेतुत्वेनोपपादनादव्यवहितपूर्वाधिकरणसङ्गतिरपि द्रष्टव्या । अप्रतीतार्थत्वात् विषयवाक्यं व्याचष्टे । तेनेत्यादिना ॥ तस्य पुरुषविधतामनुतस्य पुरुषविधत्वं किं विवक्षितमित्यत आह ॥ तस्मादुद्भूत इति । शरीरिस्थानीयादान्तरान्नारायणाख्यादानन्दमयात् शरीरस्थानीयो बाह्यो वासुदेवाख्यो विज्ञानमय प्रादुर्भूत इत्यर्थ । उपकारजं प्रियमित्यादि । जीवगतवैषयिकसुखाभ्रिपायेणोक्तम् । तच्छब्दवाच्यत्वादिना तज्जातीयं प्रियत्वादिकं विष्णौ बौद्धव्यम् ॥ प्रकृष्टेति ॥ यथायोग्यमन्वय । न तु यथाक्रमम् ॥ आनन्दमयशब्दार्थवदिति ॥ अनेन हिरण्यगर्भ आनन्दमयशब्दवाच्य तत्समानार्थकशतानन्द-शब्दवाच्यत्वात् इति वा आनन्दमयशब्द हिरण्यगर्भवाचक तद्वाचकशतानन्दशब्दसमानार्थत्वादिति वा मूलाभिप्राय इत्युक्तं भवति ॥ इन्द्रबृहस्पत्यादीनामिति ॥ तेषां सूर्यादुत्तमतया तन्नियामकत्वेन अवस्थानं तदधिष्ठातृत्वम् । आदिपदेन "स एक इन्द्रस्यानन्द स एको बृहस्पतेरानन्द’ इति इन्द्रश्रुत्यादिकं साधारणो ब्रह्मशब्दश्र्च विवक्षित । अनेनैवमन्येषामपीत्येतत् भाष्यं चतुर्मुखरुद्रव्यतिरिक्त-सूर्याधिष्ठातृमात्रपरम् । इतरसर्वजीवानामिति पृथगुक्तेरित्युक्तं भवति ॥ बहुभावादेवेति ॥ न त्वभिमानि-त्वेनेत्येवशब्दार्थ ॥ तत्तद्देहगतेति ॥ अनेनान्नमयत्वादेश्र्चेत्युक्तो हेतु देहाभिमानित्वेन जीवे वर्तते इत्युपपादितं भवति । ननु महायोगविद्वद्रूढिभ्यां ब्रह्मशब्दस्य विष्णुपरत्वसमर्थनात् विष्णु ब्रह्मशब्देन कुतो न गृह्यत इत्यत आह ॥ यद्यपीति ॥
अस्तु आनन्दमयावयवत्वं तत किमित्यत आह ॥ तस्य चेति ॥ एकस्यैव अवयवित्वम् अवयवत्वं च विरुद्धमिति भाव । सूत्रानुदाहरणेन कथं तर्हि व्याख्यानमित्यत आह ॥ सङ्गत्यर्थ-मुदाहृतेति ॥ सङ्गतिप्रदर्शनार्थमित्यर्थ । यद्वा सङ्गत्यार्थं व्याचष्टे इत्यन्वय । तथा च किन्तु विष्णुरेवे-त्यनुक्तौ साध्यधर्मांशालाभेन पर्वतो धूमवत्वादित्यनयोरिव आनन्दमयोऽभ्यासादित्यनयोरप्यसङ्गति स्यात्, तदुक्तौ तु वह्निमानित्युक्ते कुत पर्वतो वह्निमानित्याकाङ्क्षया हेतुवाक्यसङ्गतिवत् अत्राभ्यासादित्यस्य आनन्दमय इत्यनेन सङ्गत्यर्थं समन्वयसूत्रात्तदेवेत्यनुवृत्त्य आनन्दमय इति प्रतिज्ञाभागं व्याख्यातीत्यर्थ । एवमन्त श्रूयमाणो विष्णुरेवेत्यादावपि द्रष्टव्यमिति । भाष्ये इत्यादिषु ब्रह्मशब्दाभ्यासादित्यन्वयभ्रमं वारयन् तदर्थमाह ॥ असन्नेवेत्यादिना ॥ आनन्दमये ब्रह्मशब्दाभ्यासादिति । अनेन तस्मिन्नित्य-स्यानन्दमयपरत्वेन आवृत्त्या अभ्यासादित्यत्राप्यन्वय इत्युक्तं भवति । असन्नेवेत्यादे अध्याहारो वाऽर्थलब्धत्वादिति द्रष्टव्यम् । अस्तु ब्रह्मशब्दाभ्यास तावता विष्णु आनन्दमय कुत इत्यत आह ॥ ब्रह्मशब्दस्येति ॥ श्रुतिस्मृतिष्विति ॥ अनेन इत्यादिषु इत्यस्य प्रसिद्धपदेनान्वय प्रदर्शितो भवति । तस्मिन्नेवेत्येतत् विष्णावेवेतिव्याख्यातं भवति । ननु अन्नमयादिपञ्चकस्य ब्रह्मत्वमत्राभिमतम् । तथा च अभ्यासरूपहेतो विज्ञानमयानन्दमययो सत्वेऽपि अन्नमयादित्रिकेऽभावात् हेतु भागासिद्ध इति कथं तेन ब्रह्मत्वसिद्धिरिति चेत् । मैवम् । न ह्यत्र एकप्रकारासकृदुक्तिरूपोऽभ्यासो विवक्षित किन्तु अभ्यासशब्देन तदुक्तिमात्रम् । अत एव भाष्ये येऽन्नं ब्रह्मेति ब्रह्मशब्दादिति, टीकायां च ब्रह्मशब्दश्रवणादित्येवोक्तमिति ध्येयम् ।
वाक्यार्थविवरणम्
अन्यत्र प्रसिद्धा इत्यस्यान्यत्रैव प्रसिद्धा इत्येवार्थ । न चतुर्थपादसाङ्कर्यम् । श्रुतिलिङ्गादिभिरन्यत्रैव प्रसिद्धास्ते । अत एव श्रुतिलिङ्गादिभिरिति वक्ष्यते । एते तु लोकत इति न साङ्कर्यम् । एवं सति अन्यत्र प्रसिद्धा इत्यस्य यद्यन्यत्रैव प्रसिद्धा इत्यर्थ तदा चतुर्थपादसाङ्कर्यम् । यद्यन्यत्रापीत्यर्थस्तदा तृतीयपादसाङ्कर्यम् इति चोद्यानवकाश इति ।
वाक्यार्थमञ्जरी
ब्रह्मस्वरूपनिरूपण इति ॥ आद्यसूत्रे जिज्ञास्यतयोक्तब्रह्मस्वरूपस्य द्वितीयतृतीयसूत्रोक्तलक्षण-प्रमाणाभ्यां स्वेतरसकलवस्तुव्यावृत्ततया निश्र्चितत्वात्तत्र प्रवृत्तबाधकानां चतुर्थपञ्चमयोर्निरासान्न किमपि निरूप्यमवशिष्टमित्यर्थ । एवकारार्थमाह ॥ कृत्यान्तराभावेऽपीति ॥ अभ्युपगम्येदमुदितम् । ब्रह्मणोऽवयवत्वश्रवणान्न जिज्ञास्यत्वमित्यादिबाधकानां तत्र तत्र परिहारादिति ध्येयम् । समन्वयशब्दार्थ शास्त्रीयशब्दानामुपक्रमाद्यन्वयात्सम्यनिरूपणमिति । अनेन सम्यगन्वय शक्तितात्पर्यावगमो येन निरूपणेन भवतीति योगेन वा हेतुभूतोपक्रमादिलिङ्गवाचकसमन्वयपदेन लक्षणया वा तत्साध्यं निरूपणं ग्राह्यमित्युक्तं भवति । तेनान्वयोपपत्त्यादिलिङ्गमिति भाष्यदिशा समन्वयशब्देनोपक्रमादिलिङ्गग्रहणेऽध्याय-शेषेणोपक्रमादिलिङ्गप्रकटनाभावात्प्रकटयतीत्यस्यानुपपत्ति । सुधोक्तरीत्या शक्तितात्पर्यलक्षणावगम-सम्बन्धज्ञानेऽपि तथैवेति निरस्तम् ॥ प्रतिवाक्यग्रहणेनेति ॥ उदाहरणत्वेनेति शेष । अन्यदेव रुद्राद्येव कारणमिति । शेष ॥ शङ्कोत्थापनायेति ॥ सूत्रानुदाहरणे आनन्दमयरूपविषयपरिज्ञानाभावेन अस्य विष्णुत्वसमर्थने का पूर्वसङ्गतिरित्येवंरूपशङ्कानुदयादिति भाव ॥ चतुर्थपाद इति ॥ आद्यपादत्रये स्पष्टास्पष्टिलङ्गसमन्वय । चतुर्थे तु प्रधानस्य अशब्दत्वनिराकरणमिति परैरङ्गीकारादिति भाव ॥ देवताद्यधिकरणेति ॥ तदुपर्यपि शुगस्येत्यनयो क्रमेण देवशूद्रयोर्वेदविद्याधिकारविचारेण समन्वयानुक्तेरिति भाव ॥ एकेति ॥ समन्वयरूपेत्यर्थ । अस्मिन्पादे अन्यत्र प्रसिद्धनामात्मकशब्दसमन्वयनिरूपणे निमित्तं वक्तुमाह ॥ शब्दास्तावदित्यादिना ॥ नन्वन्यत्र प्रसिद्धा इति कोऽर्थ । किमन्यत्रैव प्रसिद्धा इत्युतान्यत्रापि प्रसिद्धा इति । प्रकारान्तराभावात् । तत्र नाद्य । चतुर्थपादे समन्वेतव्यान्यत्रैव प्रसिद्ध-शब्दसाङ्कर्यात् । नापि द्वितीय । उभयत्र प्रसिद्धशब्दसाङ्कर्यात् । न च लोकतोऽन्यत्रैव प्रसिद्धा अन्यत्र प्रसिद्धा । श्रुत्यादितोऽन्यत्रैव प्रसिद्धा अन्यत्रैव प्रसिद्धा । अत एव लोकप्रसिद्ध्या अन्यत्र निरूढानामिन्द्रादिशब्दानां श्रुतिलिङ्गादिबलाद्विष्णौ समन्वय प्राक् प्रतिपादित । इदानीं श्रुतिलिङ्गादिभिरेवान्यत्रप्रसिद्धानामपि शब्दानां समन्वयनिरूपणान्नैतत्पादवैय्यर्थ्यम् । अनेनैवाभिप्रायेणा-न्यत्रैवेत्युक्तिरिति चतुर्थपादीयटीकेति वाच्यम् । तथात्वे अन्यत्र प्रसिद्धत्वेनाभिमतसर्वगतत्वादेरादित्य-श्रुत्यादिनाऽन्यत्र प्रसिद्धेर्वक्ष्यमाणत्वेन तस्यान्यत्रैव प्रसिद्धतापत्ते । न च प्रबलश्रुतिलिङ्गादिभिरन्यत्र प्रसिद्धा अन्यत्रैव प्रसिद्धा । श्रुतिलिङ्गादिमात्रेणान्यत्र प्रसिद्धा अन्यत्र प्रसिद्धा इति भेद इति वाच्यम् । अन्यत्रैव प्रसिद्धाव्यक्तादिशब्दानामन्यत्र प्रसिद्धिसाधकावरत्वादीनामिवान्यत्र प्रसिद्धगुहाप्रविष्टत्वादेरन्यत्र प्रसिद्धिसाधकद्वित्वादीनामप्येकस्मिन्ब्रह्मण्यसम्भवाद्बलवत्वेन तस्याप्यन्यत्रैव प्रसिद्धतापातात्तस्मान्नान्यत्र प्रसिद्धानामन्यत्रैव प्रसिद्धेभ्यो भेद इति चेत् । उच्यते । श्रुत्यादितो लोकतो वा अन्यत्र प्रसिद्धा अन्यत्र प्रसिद्धा । बलविलङ्गश्रुत्यादिभिरन्यत्र प्रसिद्धा अन्यत्रैवप्रसिद्धा । यथोक्तम्
श्रुत्यादितो लोकतो वाऽपीतरेषु प्रसिद्धता ।
बलवच्छ्रुतिलिङ्गाद्यैरन्येष्वेव प्रसिद्धता । इति ।
अत एव पूर्वं क्वचित् श्रुत्यादिनैवान्यत्र प्रसिद्धशब्दसमन्वयोक्तावपि एतत्पादीयश्रुत्यादीनां प्राबल्यादियमुक्तिरिति चतुर्थपादीयटीका । बलवत्त्वं च मुख्यतो भगवत्परत्वेऽपि अमुख्यतोऽन्यपरत्वं विनाऽनुपपद्यमानत्वम् । यथेन्द्रियेभ्य परा ह्यर्था इत्यत्रेन्द्रियादिशब्दानां मुख्यतो भगवत्परत्वेऽपि अमुख्यत इन्द्रियाद्यभिमानिदेवतापरत्वम् । अन्यथा देवतातारतम्याद्यसिद्धे । न चैवं गुहाप्रविष्टत्वादेरन्यत्र प्रसिद्धत्वसम्पादकद्वित्वस्यान्यपरत्वं विनाऽनुपपद्यमानत्वमस्ति । येन तस्य प्राबल्यं स्यात् । अथवा येषां शब्दानां ब्रह्मण्यप्रसिद्धि अन्यवस्तुषु प्रसिद्धिश्र्चेति द्वयं समन्वयविरोधि ते अन्यत्र प्रसिद्धा । येषां ब्रह्मण्यप्रसिद्धिरन्यत्र प्रसिद्धिर्ब्रह्मपरत्वेऽत्यशक्यतेति त्रयं समन्वयविरोधि ते अन्यत्रैव प्रसिद्धा । यथोक्तम्
"येषां ब्रह्मण्यप्रसिद्धि प्रसिद्धश्र्चान्यवस्तुषु ।
विरोधिन्योहितेऽन्यत्र प्रसिद्धा कथिता इह ॥
येषामुक्तद्वयं ब्रह्मपरत्वस्यात्यशक्यता ।
इति तिस्रोविरोधिन्यस्तेऽन्यत्रैव प्रसिद्धका’ ॥ इति ।
तत्र प्रसिद्धा इति ॥ तत्रैव प्रसिद्धा इत्यर्थ । तत्रापीत्यर्थत्वे उभयत्र प्रसिद्धिसाङ्कर्यात् । अत एव सुधायां ब्रह्मण्येव प्रसिद्धेत्युक्तम् ॥ नामिलङ्गात्मकतयेति ॥ साक्षाद्धर्म्युपस्थापका नामात्मका धर्मद्वारा धर्म्युपस्थापका लिङ्गात्मका ॥ न तत्रेति ॥ ननु तत्रैव प्रसिद्धानामपि जनितोत विष्णो-रित्यादाविवान्यपरत्वशङ्कायां समन्वयो व्युत्पाद्यत एवेति चेन्न । तत्र प्रसिद्धेत्यनेन अन्यपरत्वशङ्का-राहित्यस्योक्तत्वात् । नन्वत्र कथं पादक्रम । किं महामल्लभङ्गन्यायेन अथ प्रथममल्पसोपानमारोहति अनन्तरं स्थूलमनन्तरं स्थूलतरं तत स्थूलतममिति सोपानारोहणन्यायेन । नाद्य । तथात्वे अन्यत्रैव प्रसिद्धानां समन्वयस्य बहुप्रयत्नसाध्यत्वेन तस्यैव प्राथम्यप्रसङ्गात् । न द्वितीय । उभयत्र प्रसिद्धस्य अल्पप्रयत्नसाध्यत्वेन तस्यैव प्राथम्यप्रसङ्गादित्यत आह ॥ तेष्वन्यत्रेति ॥ त्रिविधेष्वित्यर्थ । तथा च महामल्लभङ्गन्यायेनान्यत्रैव प्रसिद्धसमन्वयस्य प्रथमं प्राप्तत्वेऽपि प्रथमं बुद्ध्यनारोहादेव तत्परित्याग इति भाव । पादत्रये महामल्लभङ्गन्यायेन क्रम इत्याह । उभयत्र प्रसिद्धानामित्यादिना । पराकरण-मात्रस्य अमुख्यत्वेनेति सम्बन्ध । अयमर्थ । उभयत्र प्रसिद्धानां हि शब्दानां अन्यपरत्वमात्रं निरसनीयम् । न तु भगवत्परत्वमुपपादनीयं स्वत सिद्धत्वात् । अन्यत्र प्रसिद्धानां चान्यपरत्वं निरस्य भगवत्परत्वञ्च व्युत्पादनीयं तस्यासिद्धत्वात् । अन्यत्र प्रसिद्धिनिरासपूर्वकं भगवत्प्रसिद्धिव्युत्पाद-नापेक्षया अन्यप्रसिद्धिनिरसनमात्रपरत्वममुख्यमिति तृतीये तदुक्तिरिति ॥ अमुख्यत्वेनेति ॥ धर्मधर्मिणोर्धर्मिण एव प्रधानत्वादिति भाव । तत परिशेषात् । अन्ये मायावादिन ॥ उत्तराधि-करणेति ॥ उत्तरपादीयाधिकरणेत्यर्थ । एतदुत्तराधिकरणे एतद्वाक्योदाहरणाभावात् । शास्त्राध्यायपाद-सङ्गति शास्त्राध्यायपादेष्वन्तर्भाव । तेन नैकवचनानुपपत्ति शङ्क्या । अत्र ब्रह्मणीति शास्त्रे, समन्वय इत्यध्याये, अन्यत्र प्रसिद्धानामिति पादेऽन्तर्भाव । तत्रापि लोकत इति चतुर्थादन्यत्रेति तृतीयान्नामेति द्वितीयाद्भेद सूचित । एवमग्रेऽपि । अत इत्यस्य विवरणं सङ्गतिसद्भावादिति ।
यद्वा अत प्रथमाधिकरणादित्यर्थ । अत्र विप्रकीर्णनानाशाखास्थवाक्यविचारपराधिकरणेषु नाव्यवहितपूर्वाधिकरणसङ्गतिनियम । किन्तु येन केनचित्पूर्वाधिकरणेनापीत्यतोऽत्र जिज्ञासाधि-करणतद्विषयवाक्याभ्यामेवाक्षेपिकी सङ्गतिरुक्ता । प्रत्यधिकरणमव्यवहितपूर्वाधिकरणसङ्गतिरपि चन्द्रिकाभावबोधयोर्व्यक्ता तत्रैवानुसन्धेया । निश्छिद्रतया निरवकाशतया । तस्य पुरुषविधतामन्वेतस्य पुरुषविधत्वं किं विवक्षितमित्यत आह ॥ तस्मादुद्भूत इति ॥ प्रादुर्भूत इत्यर्थ । परेषामुपकारे तत्कृतप्रत्युपकारेण यत्सुखमुत्पद्यते तत्प्रियम् । क्षीरपानादिप्रकृष्टविषयज प्रमोद । जलपानाद्यप्रकृष्टविषयजन्यो मोद । अत्रेदं बोध्यम् । प्रतीयमानेऽन्नविकारे पुरुषशरीरे अन्नमयनामाऽ-निरुद्धो वर्तते । तन्मध्ये प्राणमयनामक कोश तत्र प्राणमयनामा प्रद्युम्न । तन्मध्ये मनोमयनामक कोश तत्र मनोमयनामा सङ्कर्षण । तन्मध्ये विज्ञानमयनामक कोश तत्र विज्ञानमयनामा वासुदेव । तन्मध्ये चानन्दमयनामक कोश तत्रानन्दमयनामा नारायण । तत्र पूर्वपूर्वोक्तानां देहत्वम् । उत्तरोक्तानां देहित्वम् । तत्रानन्दमयो देही विज्ञानमयाख्यं देहं व्याप्य तिष्ठति । एवमन्येऽपि । तत्रानन्दमयाद्विज्ञानमयस्यावतार ॥ एवमन्येषामपीति ॥ ततश्र्चायमर्थ । ब्रह्मविदाप्नोति परमित्युक्त-ब्रह्मण सत्यं ज्ञानमनन्तमिति लक्षणमुक्तम् । तत्र सत्यत्वमन्नमयप्राणमयप्रकरणाभ्यां ज्ञानत्वं मनोमय-विज्ञानमयप्रकरणाभ्यां व्याख्यातम् । अनन्तत्वं गुणतोऽपरिच्छिन्नत्वमित्याशयेन तत्प्रतिपादनायानन्दमय-प्रकरणं प्राप्तम् । तस्माद्वा एतस्मादित्यादि । तस्मात्सत्यत्वादिलक्षणोपेतादेतस्मात्प्रकृताद्विज्ञानमयात् अन्य आनन्दमय विज्ञानमयस्यान्तर अन्तर्विद्यमान । अभेदेऽपि विशेषबलाद्भेदव्यवहार । तेनानन्द-मयेनैव विज्ञानमय पूर्ण ईषदवकाशराहित्येन व्याप्त । स एष आनन्दमय पुरुषाविध पुरुषाकार एव । वाशब्द प्रसिद्धौ । अयं विज्ञानमय तस्यानन्दमयस्य पुरुषविधतां पुरुषाकारताम् अनु अनुसृत्य पुरुषविध पुरुषाकार तस्मात्प्रादुर्भूत इति यावत् । तस्यानन्दमयस्य प्रियं शिर मोदो दक्षिणबाहु प्रमोदो वामबाहु आनन्दो मध्यभाग ब्रह्म पुच्छाख्योऽवयव । पुच्छं न लाङ्गूलमित्याह । प्रतिष्ठेति ॥ प्रतितिष्ठात्याभ्यामिति प्रतिष्ठा पादौ । सुपां सुलुगिति द्विवचनस्याकार इति ॥ ब्रह्मणो न्य इति ॥ अनन्यत्वे त्वेकैकावयवं ध्यायेदित्युक्तरीत्या नानुपत्तिरिति भाव ॥ अयोगादिति ॥ अवयवमात्रस्य फलदानासमर्थत्वादिति भाव । अयुक्ता चेन्मास्तु ब्रह्मजिज्ञासेत्यत आह ॥ ब्रह्मजिज्ञासेति ॥ यतोऽत इति ॥ अनेनेत्यत आहेति भाष्यम् इति यत शङ्का प्राप्ता अत आहेति यतशब्दाध्याहारेण योजितं भवति । ब्रह्माणि जीवा सर्वेऽपि परब्रह्माणि मुक्तिगा इति श्रुति । ब्रह्माणि ब्रह्मशब्दवाच्या इत्यर्थ । "मम योनिर्महद्ब्रह्म तस्मिन्गर्भं दधाम्यहम्’ इतिगीतावचनम् । महद्ब्रह्म चित्प्रकृति । "महती ब्रह्मणी द्वे तु प्रकृतिश्र्च महेश्वर’ इत्युक्ते । मम योनिर्भार्या । योनिर्भार्येति गीतातात्पर्योक्ते । तस्मिन्ब्रह्मणि अहं गर्भं दधामीत्यर्थ ।
"पञ्चभि पञ्चभिर्ब्रह्म चतुर्भिर्दशभिस्तथा ।
एतच्चतुर्विंशतिकं गणं प्राधानिकं विदु’
इति भागवतवचनम् । पञ्चभि महाभूतै । पञ्चभि तन्मात्राभि । चतुर्भि महदहङ्कारमनो-बुद्धिभि । दशभिरिन्द्रियैश्र्च ब्रह्म पूरितमेतच्चतुर्विंशतिकं गणं प्रधानकार्यं विदुरित्यर्थ । तदेव ब्रह्म परमं कवीनामिति हरौ प्रयोग स्फुट इत्यादिशब्देन तद्ग्रहणम् । इत्यादिना क्रमेण जीवादिषु प्रसिद्ध-ब्रह्मशब्दस्य आनन्दमये प्रयोग इत्यर्थ । अधिकृत्य उद्दिश्य ॥ आनन्दमयशब्दार्थवदिति ॥ आनन्दमय-शब्दस्य बह्वानन्दत्वं तद्युक्तेत्यर्थ ॥ मयतशब्दयो बह्वर्थकत्वादिति भाव ॥ हिरण्यगर्भे विद्यमाने-नेति ॥ शतानन्द शतधृतिरित्युक्तेरिति भाव ॥ सूर्याधिष्ठातृत्वादिनेति ॥ तेषां सूर्यादुत्तमत्वेन नियामकतया तदन्तर्गतत्वादिनेत्यर्थ । आदिशब्देन साधारणब्रह्मशब्दो विवक्षित । अनेनैवमन्येषां इत्येतच्चतुर्मुखरुद्रव्यतिरिक्तसूर्याधिष्ठातृमात्रपरम् । अन्येषां सर्वजीवानामिति पृथगुक्तेरित्युक्तं भवति । बहुधा विकारित्वाख्यबहुभाव कथं निर्विकारचित्प्रकृतौ सम्भवतीत्यत आह ॥ तदभिमानित्वादिति । बहुभावादेवेति ॥ न त्वभिमानित्वेनेत्येवार्थ ॥ तत्तद्देहगतेति ॥ अनेन अन्नमयात्वादेश्र्चेत्युक्तो हेतुर्देहाभि-मानित्वेन जीवे वर्तत इत्युपपादितं भवति ॥ प्रायपठितेति ॥ सहपठितेत्यर्थ ॥ विरोधादिति ॥ अवयवावयविभावस्य भेदव्याप्तत्वादिति भाव ॥ अब्रह्मत्वेनेति ॥ एतेनेदं निरस्तम् । अत्र चतुर्मुखादि-ष्वेक एवेति न पूर्वपक्ष । अनेकप्रापकसद्भावे निर्णयायोगात् । नापि सर्वेऽपीति विरोधात् । न तेष्वन्यतम इति अनिर्धारणे संशयविशेषप्रसङ्गादिति । विशिष्टनिर्णयायोगेऽपि ब्रह्मान्यत्वप्रकारेणान्य एवेति निर्णयोपपत्ते । सूत्रमनुपन्यस्य व्याख्याने न्यूनता स्यादित्यत उक्तम् ॥ उदाहृतेति ॥ तत्र व्याख्यानस्याकृतत्वादुदाहरणं व्यर्थमित्यत उक्तम् ॥ सङ्गत्यर्थमिति ॥ श्रुत्यधिकरणसङ्गतिप्रदर्शनार्थ-मित्यर्थ ।
ॐ आनन्दमयोऽभ्यासात् ॐ ॥ आनन्दमय इत्युपलक्षणम् । अन्नमयादय पञ्च ब्रह्मैव अभ्यासात् ब्रह्मशब्दाभ्यासात् । अभ्यासशब्दार्थं चाग्रे विवेचयाम । भाष्ये इत्यादिषु ब्रह्मशब्दाभ्यासादित्यन्वयभ्रमं वारयंस्तदर्थमाह ॥ असन्नेवेत्यादिना ॥ ब्रह्म जीवादन्यं नास्तीति वेद जानाति चेत्सोऽधिकारी । असन् दुख्येव भवति यदि ब्रह्म जीवातिरिक्तमस्तीति वेद तत एव एनमधिकारिणं सन्तं सुखिनं विदुरित्यर्थ । बुद्ध्याऽविहिंसन् पुष्पैर्वा प्रणवेन समर्चयेत् । वासुदेवात्मकमिति व्यासस्मृति ।
विवृति
सम्यनिरूपणमिति ॥ तमेव समन्वयमिति भाष्ये समन्वयशब्देन यद्युपक्रमादिलिङ्गग्रहणं तदाऽध्याय शेषेणोपक्रमादिप्रपञ्चनाभावात् प्रकटयतीत्यनुपपन्नम् । सुधोक्तरीत्या शक्तितात्पर्य लक्षणसम्बन्धावगम-ग्रहणेऽप्येवमेव । तस्मात्सम्यगन्वय शक्तितात्पर्यावगमो येन निरूपणेन भवति, इति योगेन वा, तद्धेतुभूतोपक्रमादिलिङ्गवाचकेन समन्वयपदेन लक्षणया वा तत्साध्यं निरूपणमित्युक्तं भवति । प्रकाशनं किमर्थं कर्तव्यमत आह ॥ अन्यथेति ॥ प्रकाशनाभाव इत्यर्थ ॥ अन्यदेव रुद्राद्येव, जगत्कारणमिति शेष । ननु भाष्यकारेणानन्दमयोऽभ्यासादिति सूत्रोदाहरणं मध्ये कुत इत्यत आह ॥ एतदधिकरणेति ॥ सूत्रानुदाहरणे आनन्दमयरूपविषयाज्ञाने अस्य विष्णुत्वसमर्थने का पूर्वसङ्गतिरिति शङ्कानुदयादिति भाव । चतुर्विधशब्दसमन्वय पादचतुष्टय इति प्रतीतिनिरासायाह ॥ तेष्विति ॥ तेषां भगवत्परत्वस्य सिद्धत्वादिति भाव । नन्वत्र पादक्रम महामल्लभङ्गन्यायेन, उत, सोपानारोहणन्यायेन ॥ नाद्य तथात्वेऽन्यत्रैव प्रसिद्धपादस्य प्राथम्यापातात् । न द्वितीय । उभयत्र प्रसिद्धपादस्य तथात्वापातादित्या-शङ्क्य, पादत्रये महामल्लभङ्गन्यायेन पादक्रम । अन्यत्रैव प्रसिद्धपादस्य तु चतुर्थत्वमित्युत्पाद्य समन्वये मुख्यतो ब्रह्मण एवाधिकारात् तस्य दुर्गमत्वेन प्रथमं बुध्यारोहाभावाच्चेत्यभिप्रेत्याह ॥ तेष्वन्यत्रै-वेत्यादिना ॥ ननु प्रथमपादे लिङ्गसमन्वय एव किं न प्रतिपाद्यत इत्यत आह ॥ अन्यपराणामिति ॥ अनेन धर्मवाचित्वं लिङ्गत्वं धर्मिवाचित्वं नामत्वमित्यनयोर्लक्षणमुक्तं भवति ॥ नामात्मकानामिति ॥ अनेन मूले नामात्मकानामिति संयोज्यमित्युक्तं भवति ॥ अत एव लिङ्गात्मकानामिति द्वितीयपादे वक्ष्यतीति भाव ॥ अत्रान्तस्थत्वेति ॥ सूत्राक्षरार्थाभिप्रायेणैवमुक्तम् । फलतस्तत्रापि नामसमन्वय-सिध्यङ्गीकारादिति बोध्यम् । स्वमतेन पादार्थानभिधायान्योक्तान् पादार्थान्निराकर्तुं तन्मतमनुवदति ॥ अन्ये त्विति ॥ उत्तराधिकरण इति ॥ उत्तरपादगताधिकरण इत्यर्थ ॥ यथाश्रुते तु, अन्तरधिकरणादौ स्पष्टब्रह्मिलङ्गानां समन्वयस्यैव प्रतिपादनेनासङ्गतमेतत्स्यादिति भाव ॥ अन्यत्र प्रसिद्धेति ॥ ब्रह्मणीति शास्त्रेण, समन्वयेत्यध्यायेन, लोकतोऽन्यत्र प्रसिद्धनाम्न इति पादेन चान्तर्भावलक्षणा सङ्गतिरुक्ता ॥ लोक इति चतुर्थपादीयानां (शब्दानां) नाम्न इति द्वितीयपादीयानां शब्दानां निरास इति ज्ञेयम् ॥ एवमुत्तरत्रापि ज्ञातव्यम् ॥ शास्त्राध्यायाभ्यां सहिता पादसङ्गतिरिति विग्रह ॥ श्रुत्यधिकरणसङ्गती इति ॥ येनकेनचित्पूर्वाधिकरणेन तद्विषयश्रुत्या च सङ्गतिरेवापेक्षितेति आद्यसूत्रेण तद्विषयवाक्येन चाक्षेपिकी सङ्गतिरस्तीत्यर्थ । यद्वाऽत्र पूर्वपक्षे आद्यसूत्रे तद्विषयवाक्योक्तजिज्ञासाक्षेपात्सिद्धान्ते च तत्समाधानात्तत्सङ्गती स्त इति प्रयोजनवानेवायं विचार इत्यर्थ । अत एवोत्तरत्र टीकायां किमर्थमानन्दयस्य विष्णुत्वसमर्थनमिति प्रश्न, ब्रह्मजिज्ञासासिध्यर्थमिति परिहारश्र्च । एवमुत्तरत्रापि सङ्गतिटीका द्वेधा व्याख्येया । पूर्वाधिकरणस्थ, तन्निष्ठस्य मोक्षोपदेशादिति, सूत्रोक्त-मोक्षजनकज्ञानविषयत्वस्यात्र नेतरोनुपपत्तेरिति परपक्षप्रतिपक्षहेतुत्वेनोपादानादव्यवहितपूर्वाधिकरणसङ्गतिरपि द्रष्टव्या । अप्रतीतार्थत्वाद्विषयवाक्यं व्याचष्टे ॥ तेनेत्यादिना ॥ तत्पुरुषविधतामनु एतत्पुरुषविधत्वं किं विवक्षितमित्यत आह ॥ तस्मादुद्भूत इति शरीरस्थानीयादान्तरान्नारायणाख्यादानन्दमयाच्छरीरस्थानीयो बाह्यो वासुदेवाख्यो विज्ञानमय प्रादुर्भूत इत्यर्थ ॥ उपकारजं प्रियमित्यादि ॥ जीवगत-वैषयिकसुखाभिप्रायेणोक्तं तच्छब्दवाच्यत्वादिना तज्जातीयं प्रियादिकं विष्णौ बोद्धव्यम् ॥ प्रकृष्टेति ॥ यथायोग्यमन्वय न तु यथाक्रमम् । आनन्दमयशब्दार्थवदिति ॥ अनेन हिरण्यगर्भ, आनन्दमय-शब्दवाच्य, तत्समानार्थकशतानन्दशब्दवाच्यत्वादिति वा, आनन्दमयशब्द हिरण्यगर्भवाचक, तद्वाचकशतानन्दशब्दसमानार्थत्वादिति वा मूलभिप्राय इत्युक्तं भवति ॥ इन्द्रबृहस्पत्यादीनामिति ॥ तेषां सूर्यादुत्तमतया तन्नियामकत्वेनावस्थानं तदधिष्ठातृत्वम् । आदिपदेन ""स एक इन्द्रस्यानन्द स एको बृहस्पतेरानन्द इतीन्द्रश्रुत्यादिकं, साधारणो ब्रह्मशब्दश्र्च विवक्षित । अनेन ""एवमन्येषामपि’’ इत्येतद्भाष्यं, चतुर्मुखरुद्रव्यतिरिक्तसूर्याधिष्ठातृमात्रपरम् । इतरेषां "सर्वजीवानाम्’ इति पृथगुक्तेरित्युक्तं भवति ॥ बहुभावादेवेति ॥ न त्वभिमानित्वेनेत्येवशब्दार्थ । तत्तद्देहगतेति ॥ अनेनान्नमयत्वादेश्र्चेत्युक्तो हेतुर्देहाभिमानित्वेन जीवे वर्तत इत्युपपादितं भवति । ननु महायोगविद्वद्रूढिभ्यां ब्रह्मशब्दस्य विष्णुपरत्व-समर्थनाद्विष्णुर्ब्रह्मशब्देन कुतो न गृह्यत इत्यत आह ॥ यद्यपीति ॥ अस्त्वानन्दमयत्वं तत किमित्यत आह ॥ तस्य चेति ॥ एकस्यैवावयित्वमवयवत्वं च विरुद्धमिति भाव । सूत्रानुदाहरणेन कथं तद्य्वाख्यानमित्यत आह ॥ सङ्गत्यर्थमुदाहृतेति ॥ सङ्गतिप्रदर्शनार्थमित्यर्थ । यद्वा सङ्गत्यर्थं व्याचष्ट इत्यन्वय । तथा च "किं तु विष्णुरेव’ इत्यनुक्तौ साध्यधर्मांशालाभेन पर्वतो धूमवत्वादित्यनयोरिवानन्द-मयोऽभ्यासादित्यनयोरप्यसङ्गति स्यात् । तदुक्तौ तु वह्निमानित्युक्ते कुत पर्वतोऽग्न्मिानित्याकांक्षायां हेतुवाक्यसङ्गतिवदत्राप्यभ्यासादित्यस्यानन्दमय इत्यनेन सङ्गत्यर्थं समन्वयसूत्रात्तदेवेत्यनुवर्त्यानन्दमय इति प्रतिज्ञाभागं व्याख्यातीत्यर्थ । एवमन्त श्रूयमाणो विष्णुरेवेत्यादावपि द्रष्टव्यमिति भाव । भाष्ये ""इत्यादिषु ब्रह्मशब्दाभ्यासात्’’ इत्यन्वयभ्रमं वारयन् तदर्थमाह ॥ आनन्दमये ब्रह्मशब्दाभ्यासादिति ॥ अनेन तस्मिन्नित्यस्यानन्दमयपरत्वेनावृत्याऽभ्यासादित्यत्राप्यन्वय इत्युक्तं भवति । अस्तु ब्रह्मशब्दाभ्यास, तावता विष्णुरानन्दमय कुत इत्यत आह ॥ ब्रह्मशब्दस्येति ॥ श्रुतिस्मृतिष्विति ॥ अनेन इत्यादिष्वित्यस्य प्रसिद्धपदेनान्वय प्रदर्शितो भवति । तस्मिन्नेवेत्येतद्विष्ण्वैकेति व्याख्यातं भवति । नन्वन्नमयादिपञ्चकस्य ब्रह्मत्वमत्राभिप्रेतम् । तथा चाभ्यासरूपहेतो विज्ञानानन्दमययो सत्वेऽपि अन्नमयादित्रिकेऽभावात् हेतुर्भागासिद्ध इति कथं तेन तेषां ब्रह्मत्वसिद्धिरिति चेत् मैवम् । न ह्यत्रैकप्रकारासकृदुक्तिरूपोऽभ्यासो विवक्षित किं त्वभ्यासशब्देन तदुक्तिमात्रम् । अत एव भाष्ये येऽन्नं ब्रह्मेति ब्रह्मशब्दादिति, टीकायां ब्रह्मशब्दश्रवणादिति चोक्तम् ॥