ॐ विपर्ययेण तु क्रमोऽत उपपद्यते च ॐ

८. अथ विपर्ययाधिकरणम्

सूत्रभाष्यम्

अत एव हीदं परात्क्रमादुत्पद्यते क्रमाद्विलीयते नासावुदेति नास्तमेति’ इति भाल्लवेयश्रुतौ क्रमाल्लयः प्रतीयते ।

अक्षरात्परमादेव सर्वमुत्पद्यते क्रमात् ।

 व्युत्क्रमाद्विलयश्चैव तस्मिन्नेव परात्मनि’ ।।

इति चतुर्वेदशिखायां व्युत्क्रमाल्लयः प्रतीयते । अत आह–

।। ॐ विपर्ययेण तु क्रमोऽत उपपद्यते च ॐ ।। १४ ।।

क्रमवचनमपि विपरीतक्रमापेक्षया ।

कर्ता प्राणादिकस्यास्य हन्ता भूम्यादिकस्य च ।

 यः क्रमाद्व्युत्क्रमाच्चैव स हरिः पर उच्यते’ ।।

इत्यत एव भाल्लवेयश्रुतिवचनात् ।

अनुरूपः क्रमः सृष्टौ प्रतिरूपो लये क्रमः ।

 इति क्रमेण भगवान्सृष्टिसंहारकृद्धरिः’ ।। इति च पाद्मे ।

पूर्वेषां पूर्वेषां सामर्थ्याधिक्यादुपपद्यते च । वामने च –

पूर्वे पूर्वे यतो विष्णोः सन्निधानं क्रमाधिकम् ।

 सामर्थ्याधिक्यमेतेषां पश्चादेव लयस्तथा ।

 व्याप्तिश्चाभ्यधिका तेषामत एव न संशयः’ ।। इति च ।

।। इति विपर्ययाधिकरणम् ।।

तत्त्वप्रदीपिका

अतः सृष्टिक्रमाद्विपर्ययेणैव लयस्य क्रम एष्टव्यः । कुतः? क्रमादुत्पद्यते क्रमाद्विलीयत इति क्रमवचनं विपरीतक्रमापेक्षयेति यतः । क्रममात्रं हि तत्रोक्तम् । तदक्रमव्यावृत्तये । न सृष्टिक्रमत्वा-पत्तये । विपरीतक्रमस्यापि क्रमत्वादतो लयेऽपि क्रमोऽस्ति । स तु सृष्टिक्रमाद्विशेषवान् । विपर्ययेणेति कुत एतदवगम्यते ? ‘‘यः क्रमाद्व्युत्क्रमाच्चैवे’’त्यत एव भाल्लवेयश्रुतिवचनात् । यतस्सृष्टिक्रमं लयेऽप्याशङ्कसे । नान्याऽपि श्रुतिः श्रुतिं विरुणद्धीति हि साम्प्रतं समभिदध्महे, किमुत स्वयमियं भाल्लवेयश्रुतिः स्वात्मानमित्यत एव भाल्लवेयश्रुतिवचनादित्युक्तम् । स्वयमेव हीयं सामान्योक्तं क्रमं विशेषयतीत्यर्थः ।

तत्त्वप्रकाशिका

अत्रेश्वरे वेदसमन्वयसिद्ध्यर्थमधिभूतादिसंहारविषयश्रुतिविरोधपरिहारादस्ति शास्त्रादि सङ्गतिः । सर्वं भगवता लीयत इत्युक्तम् । तद्विषय एव श्रुतीनां विरोधे समन्वयानुपपत्तेरवश्यनिरसनीयोऽसौ भवति । प्रकृताधिभूतादीनि विषयः । किमुत्पत्तिक्रमानुसारेण लीयन्ते व्युत्क्रमेण वेति सन्देहः । किमस्य बीजमिति श्रुतिविगानं दर्शयति ।। अत एवेति ।। उत्पत्तिक्रमेणैव लीयन्त इति पूर्वः पक्षः । अत एवेति श्रुतेः । न च पक्षान्तरेऽपि श्रुतिरस्तीति वाच्यम् । उत्पत्तिक्रमानुसारेणैव लयाङ्गीकारे लोकानुकूलत्वगुणेन क्रमश्रुतेः प्राबल्यात् । न च लोके व्युत्क्रमादपि लयो दृश्यत इति वक्तव्यम् । क्रमस्यैव प्रायिकत्वात् । क्रमादुत्पद्यते क्रमाद्विलीयते क्रमेणैवोत्पत्तिर्विलयश्च क्रमेणैवास्योत्पत्ति-विलयावित्यादि बहुश्रुत्यनुसारित्वाच्च । अतो बलवत् श्रुतिविरुद्धासौ श्रुतिरप्रमाणमेवेति समन्वयानुपपत्तिरित्येवं प्राप्ते सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ।। अत इति ।। उत्पत्तिक्रमवैपरीत्येनैव लयः । क्रमवाचिश्रुतेरप्युत्पत्तिक्रमविपरीतक्रमापेक्षत्वात् । कुतोऽर्थान्तरकल्पनं क्रमश्रुतेः । यस्यामेव श्रुतौ क्रमाल्लयः श्रूयते तस्यामेव व्युत्क्रमाल्लयस्य श्रुतत्वादित्यर्थः । श्रुतित्वाविशेषाद् व्युत्क्रमश्रुत्या क्रमश्रुतेः कुतोबाधोविपरीतमेव किं न स्यादित्यत आह अनुरूप इति ।। अस्तिक्रमव्युत्क्रमयोः क्रमपदप्रवेशो न तु व्युत्क्रमपदप्रवेशः । अतो निरवकाशया व्युत्क्रमश्रुत्या सावकाशक्रमश्रुतिबाधो युक्त इति भावः । तथा च श्रुत्यन्तरम् । ‘द्विविधः क्रम उद्दिष्टो व्युत्क्रमोऽनुक्रमस्तथा । सृष्टावन्यो लये चान्य इति वेदविदो विदुः’ इति । एतेन बह्वीनामपि श्रुतीनां विरोधः परिहृतः । व्युत्क्रमाल्लयाङ्गीकारे लोकविरोधान्नासौ युक्त इत्यत आह ।। पूर्वेषामिति ।। लौकिकानां प्रायः सामर्थ्यसाम्यात्क्रमाल्लयेऽपि नासौ प्रकृते भवति । अत्र पूर्वोत्पन्नानां सामर्थ्याधिक्यात् । एवं च लोकविरोधस्यैव गुणत्वादिति भावः । ननु पूर्वोत्पन्नानां सामर्थ्याधिक्यमेव कुतो येन पश्चाल्लयः स्यादित्यत आह ।। वामने चेति ।। पूर्वे पूर्वोत्पन्ने । प्रथमा वा । सन्निधीयतेऽत्रेति सन्निधानं प्रतिमा । तस्मात् श्रुत्यविरोधेन व्युत्क्रमाल्लयसिद्धेर्युक्तो हरौ समन्वय इति सिद्धम् ।

गुर्वर्थदीपिका

लोकानुकूलत्वगुणेनेत्यस्य प्रागुत्पन्नपितामहस्य प्राङ्मरणदर्शनान्मध्योत्पन्नपितुर्मध्ये मरणदर्शना-दन्तोत्पन्नपुत्रस्यान्ते मरणदर्शनादित्यर्थः । लौकिकानां प्रायस्सामर्थ्यसाम्यादित्यत्र शतवर्षपर्यन्तं जीवनसामर्थ्यस्य पितामहे पितरि पुत्रे च साम्यात्प्राचीनपितामहम्याऽऽयुश्शतसमाप्तौ तदनन्तरोत्पन्नपितुरायुस्समाप्त्यभावात्प्राक् पितामहः नश्यति न तु पिता । प्रकृते तु पितामह-पराख्यायुःप्रमाणस्य तदुत्पन्नरुद्रेऽभावेन रुद्रायुःप्रमाणस्येन्द्रेऽभावेन पूर्वपूर्वकालीनानां बहुकाले जीवित्वसामर्थ्यादुत्तरोत्तरेषां तदभावाच्च प्रतिलोम्नैव संहार इति भावः । लोकविरोधस्येत्यत्र लोके दृष्टस्य विरोधस्य शिशुत्वब्रह्माण्डोदरत्वादिविरोधस्येत्यर्थः ।

भावबोधः

अनन्तरसङ्गतिमाह– सर्वं भगवतेति ।। पूर्वाधिकरणे इति शेषः । कर्तुर्विशेषनिर्धारणेन लये निर्धारित एव तत्र क्रमव्युत्क्रमरूपप्रकारविचारावसर इति भावः ।। किमिति ।। अत्राधिभूतादीनि किमुत्पत्तिक्रमेणैव लीयन्त उत तदपेक्षया व्युत्क्रमेणेति चिन्ता । तदर्थं व्युत्क्रमश्रुतिः क्रमश्रुत्यनु-गृहीतत्वेन प्रबलोत नेति । तदर्थं बहुश्रुतिगतः क्रमशब्दः किमनुक्रमरूपक्रमपर उत व्युत्क्रमरूप-क्रमपर इति । तदर्थं लोके पूर्वोत्पन्नानां पूर्वं लये पूर्वोत्पन्नत्वं प्रयोजकमुत सामर्थ्याभाव एव प्रयोजक इति । लोकानुसारित्वमिति न्यायविवरणोक्तयुक्तिमाह– उत्पत्तिक्रमानुसारेणेति ।। न्यायविवरणो-दाहृताः श्रुतीराह– क्रमादुत्पद्यत इति ।। अवधारणार्थक तुशब्दस्य यथाश्रुत एव सम्बन्धः । लय इति सप्तम्यन्तपदाध्याहार इत्यभिप्रे त्य ‘विपर्ययेण तु क्रम’ इति सूत्रांशं प्रतिज्ञाप्रदर्शनपरतया तावत् स्वयं व्याचष्टे– उत्पत्तिक्रमेति ।। क्रमस्तु विपर्ययेणेति सम्बन्धे ‘अत एव ही’ति श्रुतिगति-प्रदर्शकश्च सूत्रांश इति प्रवृतं क्रमवचनमपि विपरीतक्रमापेक्षयेति भाष्यं व्याचष्टे ।। क्रमवाचि-श्रुतेरपीति ।। अनेन क्रमवाक्यस्य सावकाशत्वादिति न्यायविवरणमपि व्याख्यातं भवति । अवधारणार्थकतुशब्दस्य अत इत्यनेनापि सम्बन्धमभिप्रेत्य प्रवृत्तमत एव भाल्लवेयश्रुतिवचनादिति भाष्यं व्याचष्टे– यस्यामेवेत्यादिना । यस्यामेव तस्यामेवेत्यनेन पूर्वपक्षिणा साधकत्वेनोदाहृता तत एव श्रुतिवचनादेवेति भाष्याभिप्राय उक्तो भवति । बहुप्रकारत्वं क्रमस्येति न्यायविवरणानुसारेण स्मृत्यभिप्रायमाह– अस्ति क्रमव्युत्क्रमयोरिति ।। अनुक्रमव्युत्क्रमयोरित्यर्थः । न्यायविवरणो-दाहृतश्रुतिमाह– तथा च श्रुत्यन्तरमिति ।। परिहृत इति ।। तत्रापि क्रमशब्दस्य व्युत्क्रम-परत्वादिति भावः । लौकिकानां सामर्थ्यसाम्यादिति । अनेन पूर्वोत्पन्नत्वहेतुः सामर्थ्याभाव-लक्षणोपाधियुक्त इत्युक्तं भवति । सन्निधानमिति पदस्वारस्यात् पूर्वोत्पन्न इति व्याख्यायैतेषामिति बहुवचनानुरोधेनाह– प्रथमा वेति ।। पूर्वव्याख्याने तु वीप्सयैव बहुवचनोपपत्तिरिति भावः ।

भावदीपः

श्रुतीति ।। श्रुतीनां परस्परविरोधेत्यर्थः । अस्य समन्वयसिद्ध्यर्थत्वं पूर्वोक्तदिशा ध्येयम् । पूर्वसङ्गतिमाह ।। सर्वं भगवतेति ।। तद्विषय एव लयविषय एव । विपर्ययेणेति सौत्रपदव्यावर्त्य-पूर्वपक्षमाह ।। उत्पत्तीति ।। श्रुतिप्राबल्याय लोकानुसारित्वमित्यन्यत्रोक्ता उपपद्यते चेति सौत्रपदव्यावर्त्यां युक्तिं शङ्कापूर्वमत्र योजयति ।। न चेति ।। ऋमादुत्पद्यते क्रमाद्विलीयते क्रमेणैवोत्पत्तिर्लयश्च क्रमेणैवास्योत्पत्तिविलयावित्यादिलोकानुसारिबहुवाक्यानुरोधश्चेत्यन्यत्रोक्त-युक्त्यन्तरं चोपयोगोक्तिपूर्वमाह ।। न च लोक इत्यादिना ।। अत इति ।। क्रमलयश्रुतेर्युक्ति-द्वयसहितत्वादित्यर्थः ।। समन्वयेति ।। सर्वसमन्वयेत्यर्थः । यद्वैतच्छ्रुतिवदन्यत्राप्यनाश्वासा-पातादिति भावः । भाष्यस्थापिपदसूचितार्थमाह ।। उत्पत्तिक्रमेति ।। एतेन सूत्रे पूर्वप्रकृतो लयोऽन्वेति अतः शब्दश्च प्रकृतसृष्टिक्रमपर इति सूचितम् । न चैवं क्रमश्रुतिविरोध इत्यतो भाष्यं हेतुत्वेन व्यनक्ति ।। क्रमवाचीति ।। एतेन सूत्रे क्रमस्तु श्रौतक्रमस्तु अतः उत्पत्तिक्रमा-द्विपर्ययेणेत्यपि योजना सूचिता । भाष्यस्थात एवेति पदस्योपयोगं दर्शयन्नर्थमाह ।। कुत इत्यादिना ।। यस्यामिति ।। भाल्लवेयश्रुतावित्यर्थः । एतेन सौत्रातः पदमन्यथापि व्याख्यातं ध्येयम् ।। इत्यत आहेति ।।

ननु कथमनया स्मृत्या शङ्कानिरास इत्यतः क्रमवाक्यस्य सावकाशत्वादित्यन्यत्रोक्त्यनुरोधेन स्मृतितात्पर्यमाह ।। अस्तीति ।। अनुक्रमव्युत्क्रमयोः क्रमपदप्रवेश इत्यत्र न केवलं सम्भावना-मात्रमिति भावेन न्यायविवरणोक्तश्रुतिमाह ।। तथा चेति ।। बहुश्रुत्यनुरोधश्च यथोत्पत्तिलये इत्यन्यत्रोक्तद्वितीय युक्तिंनिराह ।। एतेनेति ।। क्रमश्रुतेः सावकाशत्वोक्तिपरपाद्मवचनेनेत्यर्थः । अन्यत्रोक्ताद्ययुक्तिनिरासकतया सूत्रखण्डभाष्य मवतारयति ।। व्युत्क्रमादिति ।। कथमनेन लोकविरोधनिरास इत्यतो भावमाह ।। लौकिकानामिति ।। लयेऽप्येवं पूर्वे पूर्वे गुणाधिका इति ऋग्भाष्यानुरोधेनाह ।। प्रथमा वेति ।। तथा चैतेषामित्यग्रेतनबहुवचनोपपत्तिरिति भावः । पूर्वादिभ्यो नवभ्यो वेति सर्वनामसंज्ञाया विकल्पेन पूर्वे पूर्वे इत्यस्य पूर्वोत्पन्न इति सप्तम्यन्तत्वेन व्याख्यानपक्षे सन्निधानपदस्यान्वयेऽपि न प्रथमपक्षेऽन्वय इत्यत आह ।। सन्निधीयत इति ।। अधिकरणे ल्युडिति भावः ।। तस्मादिति ।। क्रमश्रुतीनां सावकाशत्वाद् व्युत्क्रमलयस्य श्रौतत्वात्सामर्थ्याधिक्ये-नोपपन्नत्वाच्चेत्यर्थः ।

अभिनवचन्द्रिका

असौ श्रुतिरप्रमाणमेवेति ।। ननु अप्रमाणमेवेत्ययुक्तम् । अपौरषेयत्वेना-प्रामाण्यकारणीभूतपुरुषदोषशून्यस्य वेदवाक्यस्य अकारणकार्योत्पत्तिप्रसङ्गेनाऽप्रामाण्याऽयोगात् । न हि विरोधशतेनापि अप्रमाण्यकारणाभावे अप्रामाण्यं वक्तुं युक्तमिति चेत्, न । अप्रामाण्यव्याप्येन प्रमाणविरुद्धत्वेनाऽप्रामाण्यसिद्धौ कार्यबलात् पुरुषदोषसम्भवे तदतिरिक्तस्य नित्यदोषस्य कल्पयितुं शक्यत्वात् । न हि पीनस्य दिवाऽभुञ्जानस्य कस्यचित् कारणतया दिवाभोजनकल्पनासम्भवे रात्रिभोजनं न कल्प्यते । येनेह प्रसिद्धदोषासम्भवे दोषान्तरकल्पनं न स्यादिति ।। एवं चेति ।। गुणत्वादित्यतः परम् ‘उक्तं युक्तम्’ इति शेषः । एतेन पञ्चम्यन्तस्यानन्वय इति परास्तम् ।

पूर्वपक्षस्तु – न श्रुतिसमन्वयेन परमात्मनो व्युत्क्रमेण संहर्तृत्वं युक्तम् । व्युत्क्रमप्रतिपादक-श्रुतेरप्रामाण्यात् । तथा हि अस्ति तावत्क्रमाल्लयप्रतिपादिका ‘अत एव हीदं परात्क्रमादुत्पद्यते, क्रमाद्विलीयते’ इति श्रुतिः । सा च प्रत्यक्षानुगुणाः ‘क्रमादुत्पद्यते क्रमाद्विलीयते क्रमेणैवोत्पत्ति-र्विलयश्च’ इत्याद्याश्च श्रुतयोऽस्मिन्नर्थे भवन्ति । अतो बलवदेतच्छ्रुतिविरोधेन व्यत्क्रमप्रतिपादक-श्रुतेरप्रामाण्यमेवेति समन्वयो न युक्त इति ।

सिद्धान्तस्तु – व्युत्क्रमेणैव लयो युक्तः । क्रमश्रुतेः सावकाशत्वेनाऽबाधकत्वात् । अस्ति हि व्युत्क्रमशब्देऽपि क्रमप्रवेशः । क्रमाल्लयाभिधायकभाल्लवेयश्रुतावेव’ कर्ता प्राणादिकस्याऽस्य हन्ता भूम्यादिकस्य च’ इति व्युत्क्रमेण लयाभिधानाच्च, ‘अनुरुपक्रमः सृष्टौ प्रतिरूपो लये क्रमः’ इति वचनाच्च । न च लोकविरोधेन व्युत्क्रमाल्लयसिद्धेः युक्तो हरौ श्रुतिसयन्वय इति सिद्धम् ।

वाक्यार्थमुक्तावली

अनन्तरसङ्गतिमाह ।। सर्वं भगवतेति ।। कर्तृविशेषनिर्धारणेन लयो निर्धारित एव । तत्र क्रमव्युक्त्रमरूपप्रकारविचारावसर इति भावः । तत्राधिभूतादीन्युत्पत्तिक्रमेणैव लीयन्ते व्युत्क्रमेणेति चिन्ता । तदर्थं व्युत्क्रमाद्विलयश्चेति श्रुतिः किं क्रमाद्विलीयत इत्यादिश्रुत्या लोकेप्रायेणोत्पत्ति-क्रमेणैव लयदर्शनयुक्त्यनुगृहीततया बाधितोत नेति । तदर्थं क्रमादिश्रुतौ क्रमशब्दः किमनुक्रमपरः किं वा व्युत्क्रमपर इति । तदर्थं लोके प्रथमोत्पन्नानां प्रथमं नाशे किं प्रथमोत्पत्तिः प्रयोजिकोत सामर्थ्यविशेषाभाव इति । श्रुतिप्राबल्याय लोकदृष्ट्यनुसारित्वमित्युक्तन्यायमुपपद्यतेचेति सौत्रपद-व्यावर्त्यमाह ।। उत्पत्तिक्रमानुसारेणैवेति ।। युक्तियुक्तत्वेन श्रुतेः प्राबल्यमुपपाद्य बहुत्वेनापि प्राबल्यमाह ।। क्रमादुत्पद्यत इत्यादिना ।। उक्तं च न्यायविवरणे । लोकानुसारिबहुश्रुत्यनुरोध-श्चेति । अत एव सिद्धान्ते विपर्ययेण तु क्रम इति । बह्वीनामपि सावकाशत्वं वक्ष्यत इति भावः ।

सूत्रे तुशब्दोऽवधारणार्थेप्यर्थेच । व्युक्त्रमश्रुत्या क्रमश्रुतेः सावकाशत्वरूपविशेषद्योतकश्च । ततश्च क्रमो लयक्रमः । अतः प्रकृतादुत्पत्तिक्रमाद्विपर्येण वैपरीत्येनैव नतु मत्यनुसारीति प्रतिज्ञार्थं मत्वा व्याचष्टे ।। उत्पत्तीति ।। क्रमः क्रमाद्विलीयत इति पूर्ववाद्युदाहृतभाल्लवेयश्रुतिवचनमपि अतो विपर्ययोत्पत्तिक्रमविपरीतक्रमापेक्षयेति वृत्यन्तरपरत्वेन भाष्यं व्याचष्टे ।। क्रमवाचिश्रुतेरिति ।। अत एव भाल्लवेयश्रुतिवचनादित्यस्य भावमाह यस्यामेवेति ।। इत्यत आहेति ।। इत्यतः पूर्वपक्षश्रुतेः सावकाशत्वाख्यविशेषद्योतकतुशब्दव्याख्यानाय पुराणवचनेन सावकाशत्वमाहेत्यर्थः ।। एतेनेति ।। तुशब्देन सावकाशत्वप्रदर्शनेनेत्यर्थः इत्यत आहेति ।। उपपद्यते चेति ।। सूत्रार्थमिति शेषः ।। सामर्थ्यसाम्यादिति ।। शतवर्षजीवित्वरूपसामर्थ्यसाम्यादित्यर्थः ।। नासाविति ।। एतेनोपपद्यते इति सूत्रखण्डस्य विपर्यय इत्यनुवृत्तेनान्वय इत्युक्तं भवति । वैरूप्यमित्युक्तसिद्धान्तन्यायं सूत्रखण्डारूढं करोति ।। एवञ्चेति ।। इत्यत आहेति ।। उपपद्यते चेति चशब्दसूचित-स्मृतिमुदाहरतीत्यर्थः । सन्निधानमिति पदस्वारस्यात्सप्तम्यंततया पूर्व इत्येतद्व्याख्यायैतेषामिति बहुवचनानुरोधेनाह ।। प्रथमा वेति ।। पूर्वव्याख्याने तु वीप्सयैव बहुवचनोपपत्तिरिति भावः । प्रथमाविभक्तिपक्षे सन्निधानशब्दार्थमाह ।। सन्निधीयत इति ।। अधिकरणेऽपि ल्युडिति भावः ।

तत्त्वसुबोधिनी

अनन्तरसङ्गतिमाह ।। सर्वं भगवतेति ।। पूर्वाधिकरणे कर्तृविशेषनिर्धारणेन लये निर्धारिते एव तत्र क्रमव्युत्क्रमरूपप्रकारविशेषचिन्तावसर इति भावः ।। न च पक्षान्तरेऽपीति ।। उत्पत्तिक्रम-विपरीतक्रमेणैव लय इति पक्षान्तरेऽपीत्यर्थः । उत्पत्तिक्रमानुसारेणैव लय इत्यत्र श्रुतिबाहुल्यमाह ।। क्रमादिति ।। अवधारणार्थकतुशब्दस्य यथाश्रुत एव सम्बन्धः । लय इति सप्तम्यन्तपदाध्याहार इत्यभिप्रे त्य विपर्ययेण तु क्रम इति सूत्रांशं प्रतिज्ञाप्रदर्शनपरतया तावत्स्वयं व्याचष्टे ।। उत्पत्ति-क्रमेति ।। ननु तर्ह्युत्पत्तिक्रमेणैव लय प्रतिपादकश्रुतेः का गतिरित्यत आह ।। क्रमवाचिश्रुते-रपीति । तथा च क्रमवाक्यं सावकाशमिति भावः । शङ्कते कुत इति ।। उत्तरमाह ।। यस्या-मेवेति ।। क्रमव्युत्क्रमयोः क्रमपदप्रवेश इति ।। अनुत्क्रमव्युत्क्रमयोः क्रमपदवाच्यतया प्रवेश इत्यर्थः ।। एतेनेति ।। क्रमश्रुतेः सावकाशत्वकथनेनेत्यर्थः ।। परिहृत इति ।। तत्रातिक्रमशब्दस्य व्युत्क्रमपरत्वादिति भावः ।। लौकिकानामिति ।। अनेनाकाशादयः पूर्वं विलीयन्ते पूर्वोत्पन्नत्वा-दित्यनुमाने सामर्थ्याभाव एवोपाधिरित्त्युक्तं भवति । सन्निधानमिति पदार्थस्वारस्यात् पूर्वोत्पन्न इति व्याख्याय एतेषामिति बहुवचनानुरोधेनाह ।। प्रथमा वेति ।। सप्तमी पक्ष इति प्रथमापक्षेऽपि सन्निधानशब्दान्वयो नेत्यत आह ।। सन्निधीयत अत्रेति ।।

सूत्राक्षरार्थस्तु क्रमाद्विलीयत इति श्रुत्युक्तक्रमस्तु अतः प्रकृतात् सृष्टिक्रमात्, विपर्ययेण भवति । ‘अत एव व्युत्क्रमाद्विलयश्चैव’ इति वाक्यशेषादेव उपपद्यते च विपर्ययः । पूर्वोत्तरोत्पन्नानां सामर्थ्याधिक्यादिति भावः ।

वाक्यार्थविवरणम्

तद्विषय एवेति ।। लयविषय एवेत्यर्थः । अस्य सन्देहस्य इति शङ्कायाम् दृश्यत इति । पितुः पुरतः पुत्रस्य मरणदर्शनादित्यर्थ । क्रमवाचिश्रुतेः । क्रमाल्लयवाचिन्या ‘अत एव’ इति श्रुतेरित्यर्थः । ततश्च सावकाशतेति भावः  ।। अर्थान्तरकल्पनम् ।। व्युत्क्रमरूपम् । यस्यामेव श्रुतौ । क्रमाद्विलीयत इत्यनेन क्रमाल्लय श्रूयत इत्युच्यते इति शेषः ।। व्युत्क्रमश्रुत्या ।। अक्षरादित्यादिश्रुत्या । भाष्ये क्रमेणेत्यस्य क्रमद्वयेनेत्यर्थः ।। क्रमव्युत्क्रमयोः ।। अनुत्क्रम-व्युत्क्रमशब्दयोरिति व्याख्येयम् । तेन व्युत्क्रमे क्रमशब्दप्रवेशसत्त्वेऽपि क्रमशब्दे कथमनुक्रमशब्द-प्रवेश इति शङ्काऽनवकाशः । क्रमशब्दस्यानुक्रमार्थत्वात् ।। सावकाशेति ।। क्रमशब्दस्य व्युत्क्रमपरत्वेनापि सावकाशत्वादिति भावः । सृष्टावन्योऽनुक्रमः । लये चान्यो व्युत्क्रमः ।। पूर्वोत्पन्नानामिति ।। यो यदपेक्षया आदिसृष्टौ पूर्वमुत्पन्न स तदपेक्षया सामर्थ्यातिशयादिगुणसंपन्न इति नियमादिति भावः । सन्निधानमिति पदस्वारस्याय पूर्व इत्येतत्सप्तम्यन्तमित्यभिप्रे त्य व्याचष्टे ।। पूर्व इति ।। एतेषामिति पदस्वारस्यायाह ।। प्रथमा वेति ।। प्रथमाबहुवचनं वेत्यर्थः । तथा च पूर्वे पूर्वोत्पन्ना विष्णोः सन्निधानमित्यसङ्गतमित्यत आह ‘सन्निधीयत’ इति । तथा च पूर्वे पूर्वोत्पन्ना क्रमेणाधिकं यथा स्यात्तथा विष्णोः सन्निधानं विष्णुप्रतिमाभूता इत्यर्थो द्रष्टव्यः । अधिकरणे ल्युडन्तस्य त्रिलिङ्गत्वात् नपुंसकत्वं युक्तमिति ध्येयम् ।

वाक्यार्थमञ्जरी

उत्तरयति ।। श्रुतिविगानमिति ।। लयक्रमः विपर्ययेण तु सृष्टिक्रमाद्विपर्ययेणैव भवति । कुतः । अतो यतः क्रमाद्युत्क्रमाच्चेति श्रुतेरेव । तर्हि लोकविरोध इत्यत उक्तम् ।। उपपद्यते चेति ।। पूर्वोत्पन्नानां सामर्थ्याधिक्याद्विपर्यय उपपद्यते चेत्यर्थः । उत्तरमाह ।। यस्यामिति ।। सावकाशेति ।। नामैकदेशन्यायेन क्रमशब्देन व्युत्क्रमग्रहणसम्भवादिति भावः ।। एतेनेति ।। क्रमशब्दस्य व्युत्क्रमपरत्ववर्णनेनेत्यर्थः । तत्रापि क्रमशब्दस्य व्युत्क्रमपरत्वादिति भावः ।। लौकिकानामिति ।। अनेन पूर्वोत्पन्नत्वात्पूर्वं लय इत्यत्र सामर्थ्याभाव उपाधिरित्युक्तं भवति ।। सन्निधानमिति ।। पदार्थस्वारस्यानुसारेणोक्त्वा तेषामिति बहुवचनानुरोधेनाह ।। प्रथमा वेति ।। पूर्वव्याख्याने तु वीप्सयैव बहुवचनोपपत्तेरिति भावः । सन्निधीयते सन्निहितो भवति ।

।। इति विपर्ययाधिकरणम् ।।