ॐ आत्मेति तूपगच्छन्ति ग्राहयन्ति च ॐ
२. आत्मोपगमाधिकरणम्
सूत्रभाष्यम्
।। ॐ आत्मेति तूपगच्छन्ति ग्राहयन्ति च ॐ ।। ३ ।।
आत्मेत्युपदेश उपासनं च मोक्षार्थिभिः सर्वथा कार्यमेव । ‘नान्यं विचिन्तय आत्मानमेवाहं विजानीयामात्मानमुपास आत्मा हि ममैष भवति’ इति ह्युपगच्छन्ति । ‘आत्मेत्येवोपास्व आत्मेत्येव विजानीहि नान्यं किञ्चन विजानथ आत्मा ह्येवैष भवति’ इति ग्राहयन्ति च ।
‘आत्मेत्युपासनं कार्यं सर्वथैव मुमुक्षुभिः ।
नानाक्लेशसमायुक्तोऽप्येतावन्नैव विस्मरेत्’ इति भविष्यत्पर्वणि ।।
‘आत्मा विष्णुरिति ध्यानं विशेषणविशेष्यतः ।
सर्वेषां च मुमुक्षूणामुपदेशश्च तादृशः ।।
कर्तव्यो नास्य हानेन कस्यचिन्मोक्ष इष्यत’ इति ब्राह्मे ।। ३ ।।
।। इति आत्मोपगमाधिकरणम् ।। २ ।।
तत्त्वप्रदीपिका
अथात्यशक्तौ किमाचरणीयमित्याकाङ्क्षायामाह– आत्मेति तूपगच्छन्ति ग्राहयन्ति च ।। आत्मा विष्णुरित्येतावानुपदेश उपासनं चातिमन्दस्याप्यधिकारिणः कार्यम् । आदत्त इत्यात्मा स्वामीत्यर्थः । सर्वाधिकारिणां नानाक्लेशेऽप्येतावदुपासनं कार्यमेव । तत्तद्गुणानां तत्रान्तर्भावात् ‘अत्र ह्येते सर्व एकं भवन्ति’ इति श्रुतेः ।।
‘आप्तव्याप्तेरात्मशब्दः परमस्य प्रयुज्यते ।।’
‘आत्मब्रह्मादयः शब्दास्तमृते विष्णुमव्ययम् ।
न सम्भवन्ति यस्मात्तैर्नैवाऽप्ता गुणपूर्णता’ इत्यादेश्च ।।
नात्मशब्दः स्वरूपवाचीत्याशङ्कनीयम् । ‘‘स्वशब्दादि’’त्यादिना विष्णुवाचकत्वात् । ‘आत्मेशब्रह्मसम्भवान्’ इति च भागवते । अपरथा स्वरूपस्य स्वप्रकाशस्य निरंशस्य निर्विशेष-त्वेनाभ्युपगतस्य सदा सिद्धत्वेन तदुपास्तौ प्रयोजनाभावात् ।।
तत्त्वप्रकाशिका
अत्र भगवज्ज्ञानसाधनात्मत्वोपासनस्य नित्यशः कार्यत्वसमर्थनादस्ति शास्त्रसङ्गतिः । स्वस्वामिभावसम्बन्धस्य नित्यमुपास्यत्वाभावे वेदानां तत्र महातात्पर्यमयुक्तं स्यादिति समर्थनीयमेतत् । प्रकृतात्मत्वं विषयः । नित्यश उपास्यं न वेति सन्देहः । उपासनस्य नित्यशः कर्तव्यत्वं गुणान्तरसाम्यप्रतीतिश्च सन्देहबीजम् । तत्रात्मत्वं न सर्वथा सदोपास्यमिति पूर्वः पक्षः । हरेर्जगत्स्वामित्वस्य शश्वदतिप्रसिद्धत्वात् । शश्वदतिप्रसिद्धस्य नित्यमुपासनं व्यर्थमेव किं त्वप्रसिद्धगुणोपासनस्य ज्यायस्त्वेन तदेव नित्यशः कर्तव्यम् । अतः स्वामित्वस्य नित्यमनुपास्य-त्वाद्वेदानां तत्र महातात्पर्यं व्यर्थमिति । सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ।। आत्मेति ।। विष्णुरात्मेत्युपासनं सदा सर्वथा कार्यमेव । तस्यैव मोक्षसाधनत्वात् । अन्यथा तदसिद्धेः । न केवलं तथोपासनमावश्यकं किं तु तथोपदेशश्च कर्तव्यः । तदभावेऽपि मोक्षासिद्धेः । न केवलमात्म-त्वोपासनोपदेशान्वयव्यतिरेकित्वात्तस्य सर्वदा सर्वथोपास्यत्वं किं तर्हि ‘नान्यं विचिन्तये’ इति तस्य सर्वथोपास्यत्वोपदेश्यत्वयोः श्रुतिसद्भावाच्चेति भावः । आत्मा हि ममैष भवतीत्याद्यविद्य-मानोपासनं नैतदिति वक्ति । उपगच्छन्त्युपासते । ग्राहयन्त्युपदिशन्ति । न च शश्वदतिप्रसिद्धत्वा-त्सदा सर्वथोपास्यत्वाभावः । उपासनस्य फलार्थस्य प्रसिद्ध्यप्रसिद्धिभ्यां कर्तव्यत्वाद्यसिद्धेः । आत्मत्वोपासनस्य मुक्तिहेतुत्वात्तत्सर्वथा कर्तव्यमित्येतत्कुत इत्यत आह ।। आत्मेति ।। विष्णुरात्मतया जीवत्वेनोपास्य इत्यहङ्ग्रहं केचनात्र वर्णयन्ति तदयुक्तमिति भावेनाह ।। आत्मेति ।। आत्मत्वं विष्णुविशेषणमित्येवोपासनं कार्यं न तु तज्जीवत्वविधानेनेति भावः । अतो विष्णोः सर्वस्वामित्वस्य सर्वदा सर्वथोपास्यत्वाद्युक्तं तत्र वेदानां तात्पर्यमिति सिद्धम् ।।
गुर्वर्थदीपिका
सर्वगुणसाधारण्येन श्रवणाद्यावृत्तिमुक्त्वा पुनरात्मत्वाख्यगुणस्य ततोऽप्यवश्यापेक्षितत्वज्ञापना-योत्तराधिकरणमिति भावेनाह आत्मत्वोपासनस्येति ।। उपासनस्य फलार्थस्येत्यत्र राजमन्दिर-गमनादेः राजप्रसादाख्यफलार्थिभिस्सर्वदा करणदर्शनादिति भावः ।।
भावबोधः
आत्मत्वोपासनस्येति ।। पूर्वमज्ञानादिनिवृत्त्यर्थं श्रवणाद्यावृत्तिः कर्तव्येत्युक्ते तथा सत्यात्म-त्वस्य शश्वदतिप्रसिद्धत्वेन तद्विषयकाज्ञानाभावान्न तदुपासनं नित्यशः कर्तव्यमित्याक्षेपोत्थाना-दनन्तरसङ्गतिरिति भावः । यद्वा पूर्वाधिकरणे सामान्यतः श्रवणाद्युपासनस्य नित्यशः कर्तव्यत्वं समर्थ्यात्र तद्विशेषस्यात्मत्वोपासनस्य नित्यशः कर्तव्यत्वं समर्थ्यत इत्यनन्तरसङ्गतिरिति भावः ।। नित्यश इति ।। अत्रात्मशब्दोदितस्वामित्वोपासनं किं नित्यशो न कर्तव्यमुत कर्तव्यमिति चिन्ता । तदर्थं स्वामित्वस्य शश्वदतिप्रसिद्धिर्नित्यमुपास्यत्वप्रयोजिका न भवत्युत भवतीति । तदर्थमात्मत्वस्य नित्यश उपास्यत्वे प्रमाणं नास्त्युतास्तीति । शश्वदतिप्रसिद्धत्वादात्मशब्दोदितस्वामित्वं न नित्यश उपास्यमिति न्यायविवरणानुसारेण पूर्वपक्षमाह तथात्मत्वं न सर्वथेत्यादिना । ‘स्वामी मे विष्णुरित्येव नित्यदोपास्यमञ्जसा’ इत्यनुव्याख्यानानुसारेण आत्मेत्युपासनमित्यादिभाष्यं व्याचष्टे– विष्णुरात्मेत्युपासनमिति ।। अनेन सौत्रात्मशब्दस्यावृत्तिः । तत्रैकस्याविवक्षितावयवार्थस्य विष्णुवाचकत्वम् । एकस्य स्वामित्वार्थकत्वमित्युक्तं भवति । तस्यैव मोक्षसाधनत्वादित्यादिना तदभावेऽपीत्यन्तेन च मोक्षार्थिभिः सर्वथेत्येतदुक्ततात्पर्यकम् । अन्वयव्यतिरेकित्वादिति । मोक्षार्थिभिः सर्वथेत्यादिना तस्योक्तत्वादिति भावः ।। अविद्यमानोपासनं नैतदिति ।। ‘हि’ यस्मादेष विष्णुर्ममात्मा स्वामीति विष्णौ स्वामित्वस्य श्रुतावुपासने हेतुत्वेनोक्तेरिति भावः ।
सूत्रभाष्ययोः श्रुतिसमानार्थत्वायाह– ‘उपगच्छन्त्यु’पासते । ‘ग्राहयन्त्यु’पदिशन्तीति । अन्येभ्योऽधिकफलत्वेन सविशेषत्वादात्मत्वस्येति न्यायविवरणाभिप्रायमाह– उपासनस्य फलार्थ-स्येत्यादिना ।।
भावदीपः
आत्मत्वेति ।। स्वामित्वेत्यर्थः ।। नित्यशः कर्तव्यत्वेति ।। कर्तव्यत्वमात्रस्यानन्दादय इत्यत्रैव सिद्धत्वादिति भावः । चिन्ताफलमाह ।। स्वस्वामीति ।। महातात्पर्यमिति ।। समन्वय-सूत्राद्यभिमतं सर्वोत्कर्षे देवदेवस्य विष्णोर्महातात्पर्यमित्यादिश्रुत्याद्युक्तमिति भावः । पूर्वसङ्गतिं सूचयन्विषयमाह ।। प्रकृतेति ।। आत्मा वा अर इत्यादिश्रुतौ यदात्मज्ञानार्थं श्रवणादिकर्मा-वर्तनीयमित्युक्तम् । तदात्मत्वमत्र चिंत्यत इति सङ्गतिरिति भावः ।। उपासनस्येति ।। श्रवणादेः ।। गुणेति ।। ज्ञानादिगुणान्तरेत्यर्थः । उपासनं सर्वथा कार्यमेवेति भाष्यव्यावर्त्यं स्वामित्वं न नित्यश उपास्यमित्यन्यत्रोक्तप्रतिज्ञांशमाह ।। तत्रात्मत्वमिति ।। एवं सन्देहे सतीत्यर्थः । सर्वथा गुणान्तर-प्रहाणेनापीत्यर्थः । नित्यश इत्यस्यार्थः सदेति ।। नानाक्लेशयुक्ततादशायामपीत्यर्थः । अन्यत्रोक्तमेव हेतुमाह ।। हरेरिति ।। हेतोरप्रयोजकत्वं निराह ।। शश्वदिति ।। चित्ते स्थिरीकरणार्थं ह्युपासनम् । तच्च प्रसिद्धतया प्रागेव सिद्धमिति विपक्षे फलाभावो बाधकमिति भावः । एवं तर्हि उपासनैव न स्यादित्यत आह ।। किंत्विति ।। ज्यायस्त्वेनेति ।। चित्ते स्थिरीकरणरूपफलवत्त्वादिति भावः ।। अत इति ।। अतिप्रसिद्धतया तदुपासनस्य व्यर्थत्वा-दित्यर्थः ।। व्यर्थमिति ।। आध्यानाय प्रयोजनाभावादित्युक्तदिशा महातात्पर्येण स्वामित्व-प्रतिपादनस्योपासनार्थत्वादिति भावः । आत्मा विष्णुरिति ध्यानमिति स्मृत्यनुरोधेन भाष्यं व्याचष्टे ।। विष्णुरिति ।। आत्मा स्वामीत्यर्थः । नास्य हानेन कस्यचिन्मोक्ष इति स्मृतिशेषपर्यवसानलब्धं मोक्षार्थिभिरिति भाष्यसूचितं हेतुमाह ।। तस्यैवेति ।। नञ्द्वयार्थ एवेति । हेतोरसिद्धिं निराह ।। अन्यथेति ।। उपदेशश्च तादृश इति स्मृत्यनुरोधेनैव भाष्यखण्डं व्याचष्टे ।। न केवलमिति ।। चशब्दो भिन्नक्रम इति भावः । स्मृतिशेषोक्तमेव हेतुमाह ।। तदिति ।। नान्यमित्यादि भाष्यशेषं व्याचष्टे ।। न केवलमिति ।। अन्वयव्यतिरेकौ च सर्वेषां च मुमुक्षूणामिति स्मृतिसिद्धाविति भावः । श्रुतिशेषोक्तेरुपयोगमाह ।। आत्मा हीति ।। आदिपदेन आत्मा ह्येष भवतीति वाक्य-ग्रहः । सौत्रपदानुकारिभाष्यपदयोः प्राप्त्याद्यर्थकत्वभ्रमनिरासाय श्रुत्यनुसार्यर्थमाह ।। उपगच्छ-न्तीति ।। प्रागुक्तहेतुद्वयमनूद्य निराह ।। न चेति ।। अतिप्रसिद्धत्वात्तत एव वैयर्थ्याच्चेत्यपि ध्येयम् । फलार्थस्येति हेतुगर्भम् । अकर्तव्यत्वादीत्यादिपदेन व्यर्थत्वग्रहः । अहङ्ग्रहं प्रत्यगर्थस्यात्मत्व-ग्रहमित्यर्थः ।। न तु तज्जीवत्वविधानेनेति ।। आत्मशब्दश्च न स्वरूपपर इत्यनुभाष्ये प्रपञ्चित-मिति भावः ।। अत इति ।। अन्वयव्यतिरेकाभ्यां तस्यैव मोक्षहेतुत्ववचनात् । श्रुतिबलाच्चेत्यर्थः ।।
भिनवचन्द्रिका
आत्मत्वोपासनस्येति ।। उपलक्षणमेतत् । उपदेशस्येत्यपि ग्राह्यम् । एवमेव सन्देहे पूर्वपक्षे च द्रष्टव्यम् ।
पूर्वपक्षस्तु न नित्यश आत्मत्वस्य उपदेश उपासनं च कार्यम् । अतिप्रसिद्धत्वात् । किं तु अप्रसिद्धस्यैव कस्यचिद्गुणस्य । ततश्च न तत्र वेदस्य महातात्पर्यं युक्तमिति ।
सिद्धान्तस्तु विष्णुरात्मेत्युपदेश उपासनं च, नित्यशः कार्यं मोक्षसाधनाभिज्ञैस्तथानुष्ठीय-मानत्वात् । तत्कुत इति चेत्, ‘नान्यं विचिन्तय’ इत्यादिश्रुतेः । ‘आत्मेत्युपासनं कार्यम्’ इति स्मृतेश्व । न च प्रसिद्धत्वादनुपास्यत्वं, उपासनस्य फलहेतुतायाः प्रामाणिकत्वेन प्रसिद्धेर-प्रयोजकत्वात् । न हि राजप्रीतिसाधनमतिसिद्धत्वात् राजप्रीत्यर्थिभिः न वर्ण्यते । येनेह तथा स्यात् । अतो विष्णोः स्वामित्वस्य सदा सर्वथोपास्यत्वात् युक्तं तत्र वेदानां तात्पर्यमिति सिद्धम् ।।
वाक्यार्थमुक्तावली
वेदानामिति ।। वेदानां सर्वोत्कर्षे साधनं न स्यात् । उपासनार्थं खलु ऐतदात्म्यमिदं सर्वमित्यादावभ्यासेन सर्वस्वामित्वोक्तिरिति भावः ।। प्रकृतेति ।। असकृदुपदेशादित्यत्रोपदेश्यतया प्रकृतमैतदात्म्यमिदं सर्वमात्मेत्युक्तमात्मत्वमित्यर्थः । तथा चानन्तरसङ्गतिरिति भावः । यद्वा सामान्येन भगवद्गुणविषयकश्रवणादित्रयस्य नित्यशः कर्तव्यत्वोक्तत्वाद्गुणमध्ये प्रसक्तात्मत्व-मित्यर्थः । तथा च प्रकृतात्मतोपासनं नित्यं न कर्तव्यमित्याक्षेपादनन्तरसङ्गतिरिति भावः ।। नित्यशः इति ।। आत्मत्वं नित्यशो नोपास्यमुतोपास्यमिति चिन्ता । तदर्थमात्मत्वापरपर्याय-स्वामित्वस्य प्रसिद्धत्वात्तदुपासनं व्यर्थमुत सार्थकमिति ।। उपासनस्येति ।। नित्यशः श्रवणं चैवेत्युक्तप्रकारेणोपासनस्य नित्यशः कर्तव्यत्वमित्यर्थः ।। गुणान्तरेति ।। आनन्दबलादिगुणानां नानाक्लेशेन चित्तविक्षेपेऽपि स्मरणनियमाभावादात्मत्वस्यापि तत्साम्यमिति प्रतीतिरित्यर्थः ।। न सर्वथा सर्वदेति ।। सर्वदा सर्वप्रकारेण चित्तक्षोभादिप्राप्तावपि नियमेनोपास्यं न भवतीत्यर्थः । मोक्षार्थिभिः इत्याद्युत्तरभाष्ये नित्यशः कर्तव्यत्वे महाफलस्यैव प्रयोजकत्वात् प्रसिद्धेश्चाप्रयोजकत्व-वर्णनात् सूचितं शश्वदतिप्रसिद्धिरित्युक्तन्यायं व्यनक्ति ।। हरेरिति ।। आत्मशब्द आवर्तते । आद्यस्य रूढ्या विष्णुपरत्वम् । द्वितीयस्य आदत्ते स्वीयतया भृत्यमिति स्वामित्वार्थकत्वम् । चशब्दोऽवधारणे । उपासनं उपदेशश्च कार्य इत्यध्याहृतेन सम्बध्यते । सर्वदा सर्वथेति गुणान्तरोपासनावश्यकत्वद्योतनार्थश्च । तस्यैव मोक्षसाधनत्वादिहेतुसमुच्चायकोऽप्यर्थश्चेति भावेन प्रवृत्तमात्मेत्युपदेश इत्यादिभाष्यमाकाङ्क्षाक्रमेण विभज्य व्याचष्टे ।। विष्णुरित्यादिना ।। तथोपदेश इति व्याख्यानस्य शास्त्रावमर्शनरूपत्वे श्रवणाद्यन्तर्गतत्वात् । शिष्यस्य श्रवणार्थत्वाच्चेति भावः ।
उपगच्छन्ति उपासते इति ।। गुरूपदेशेन जानन्ति चेति द्रष्टव्यम् । अन्यथोपासत इति प्रसिद्धपदपरित्यागायोगाच्छतावात्मानमेवाहं विजानीयामात्मानमुपास इत्युभयाभिधानाच्च । उक्तं च सुधायां उपगच्छन्तीत्येतद् ज्ञानार्थमुपासनार्थं चेति । तत्र ज्ञानार्थत्वस्य स्पष्टमित्येक एवार्थो व्याख्यातः । अत एव प्रज्ञातव्ये उपासश्चेत्युक्तमिति । मोक्षार्थिभिरिति भाष्योक्त्यैव सूचितं प्रविभक्ततेत्युक्तसिद्धान्तन्यायं व्यञ्जयन् पूर्वपक्षन्यायोऽप्यप्रयोजकतयाऽपोढव्य इत्याह ।। न च शश्वदिति ।। फलार्थस्येति ।। मुक्तावपेक्षितानन्दबलादिफलकगुणान्तरोपासनफलाद्विविक्तं सर्वा-पेक्षितं बन्धनिवृत्तिलक्षणं यत् प्रधानफलं तदर्थस्येत्यर्थः ।। विष्णुरात्मतयेति ।। विष्णुः जीवेन स्वव्यतिरिक्ततयोपास्यः दुःख्यदुःखिनोरैक्येनोपासनायोगादिति प्राप्ते विष्णुरात्मेति जीव इत्युपास्यः ‘अहं ब्रह्मास्मि’ ‘अयमात्मा ब्रह्म’ इत्यादिमहावाक्यैः तत्वत आत्मत्वेनैव ब्रह्मोपगच्छन्ति गृह्णन्ति तथा तत्त्वमसीत्यादिमहावाक्यैः स्वशिष्यान् ग्राहयन्तीत्यपीत्यहङ्गृहमैक्योपासनं कर्तव्यतयाऽत्रोच्यते इति केचिद्वर्णयन्तीत्यर्थः । आत्मत्वमिति स्वामित्वमित्यर्थः ।
वाक्यार्थविवरणम्
उपासनस्येति ।। ‘आत्मेत्युपासनं कार्यं सर्वदैव मुमुक्षुभिः ।’ आत्मेत्येवोपासीतेति ।। आत्मत्वोपासनस्य कर्तव्यताविधानादिति भावः ।। गुणान्तरेति ।। सम्भृत्यादिगुणानामनु-पास्यत्वादस्यापि भगवद्गुणत्वेन साम्यादनुपास्यत्वमित्यर्थः ।। तज्जीवत्वविधानेनेति ।। तस्य विष्णोः जीवत्वविधानेनेत्यर्थः ।
वाक्यार्थमञ्जरी
।। स्वस्वामिभावसम्बन्धस्येति ।। आत्मशब्दोक्तस्येत्यर्थः ।। अयुक्तमिति ।। विष्णोः सर्वस्वामित्वस्योपास्यत्व एव एतदर्थं सर्वोत्कर्षे देवदेवस्य विष्णोर्महातात्पर्यमित्यादिना तत्र तात्पर्योक्तिः सार्थिका स्यादन्यथा व्यर्थेति भावः ।।
ॐ आत्मेति तूपगच्छन्ति ग्राहयंति च ॐ ।। आत्मशब्दस्यावृत्तिः आद्यो रूढो विष्णुपरः अंत्य आदत्ते भृत्यानिति योगेन स्वामिवाचोतुरेव तथा चात्मा विष्णुरात्मा मम स्वामीत्येवोप-गच्छन्त्युपासते ग्राहयन्ति शिष्येभ्य उपदिशन्ति च सज्जना इत्यर्थः ।। आत्मा हीति ।। यस्मादेष ममात्मा स्वामी भवत्यतो नाविद्यमानोपासनमेतदित्यर्थः ।। अहङ्ग्रहमिति ।। अहमिति गृह्यमाण-त्वेनोपासनमित्यर्थः ।। अयुक्तं स्यादिति ।। प्रतीकभूतनामादौ तस्य स्वामित्वासम्भवेन सर्वस्वामित्वायोगादिति भावः ।। नामब्रह्मेत्युपास्त इति ।। यो नाम ब्रह्मेत्युपास्ते तस्याधिकारिणो नाम्नो यावद्गतं गमनमस्ति तत्र लोके यथा योग्यतानातिक्रमेण कामतः संचारो भवतीत्यर्थः ।।
।। इति आत्मोपगमाधिकरणम् ।। २ ।।