ॐ द्युभ्वाद्यायतनं स्वशब्दात् ॐ
श्री आनन्दतीर्थभगवत्पादाचार्यविरचितम्
ब्रह्मसूत्रभाष्यम्
अथ प्रथमाध्यायस्य तृतीय पाद
सूत्रभाष्यम्
तत्र चान्यत्र च प्रसिद्धानां शब्दानां विष्णौ समन्वयं प्रायेणास्मिन्पादे दर्शयति । विष्णो परविद्याविषयत्वमुक्तम् । तत्र "यस्मिन्द्यौ पृथिवी चान्तरिक्षमोतं मन सह प्राणैश्च सर्वैस्तमेवैकं जानथ आत्मानम्’ (मुं.उ.२-२-५) इत्यत्र "प्राणानां ग्रन्थिरसि रुद्रो माऽऽविशान्तक’ (म.ना.उ.३५) "प्राणेश्वर कृत्तिवासा पिनाकि’ (घृतसूक्त) इत्यादिना रुद्रस्य प्राणाधारत्वप्रतीते । "स एषोऽन्तश्चरते बहुधा जायमान’ (मुं.उ.२-२-६) इति जीविलङ्गाच्च तयो प्राप्तिरित्यत आह
॥ ॐ द्युभ्वाद्यायतनं स्वशब्दात् ॐ ॥ १ ॥
"तमेवैकं जानथ आत्मानम्’ (मुं.उ.२-२-५) इत्यात्मशब्दात् द्युभ्वाद्याश्रयो विष्णुरेव ।
"आत्मब्रह्मादय शब्दास्तमृते विष्णुमव्ययम् ।
न सम्भवन्ति यस्मात्तैर्नैवाप्ता गुणपूर्णता’ ॥ इति ब्रह्मवैवर्ते ॥ १ ॥
श्रीपद्मनाभतीर्थविरचिता ब्रह्मसूत्रभाष्यटीका
सत्तकदीपावली
विष्णौ तदितरत्र प्रसिद्धानां शब्दानां विष्णौ मुख्यवृत्तिरस्मिन्पादे बाहुल्येन प्रदर्श्यत इत्याह ॥ तत्रेति ॥ यस्मिन् द्यौरित्याद्याम्नायते । तत्र श्रूयमाणो द्युभ्वाश्रयो रुद्रस्तावद्भवेत् । "ओतं मन सह प्राणैश्च सर्वै’ इति प्राणाधारत्वेनोच्यमानत्वात् । "प्राणानां ग्रन्थिरसि प्राणेश्वर’ इति च श्रुत्यन्तरेण प्राणाधारत्वस्य रुद्रधर्मत्वेनोक्तत्वात् । ग्रथ्यते तस्मिन्निति ग्रन्थिर्धारक । स एषोऽन्तश्चरते बहुधा जायमान इति परामृष्टत्वात् द्युभ्वाद्याश्रयो जीवो वा भवेद्बहुधा जननस्य जीविलङ्गत्वात् । द्युभ्वाद्याश्रयस्यैव "अथ परा यया तदक्षरमधिगम्यते’ इत्युपक्रम्योक्तत्वाद्यदुक्तं परविद्याविषयत्वं विष्णुधर्म इति प्राक् तदपि न सिद्ध्यति । तदाह ॥ विष्णोरित्यादिना ॥ एतन्निराकर्तुं सूत्रं पठित्वा व्याचष्टे ॥ द्युभ्वेत्यादिना ॥ "तमेवैकं जानथ आत्मानम्’ इत्यात्म-शब्देन विशेषितत्वात् द्युभ्वाद्याश्रयो विष्णुरेव । गुणैराततत्ववाच्यात्मशब्दो न विष्णोरन्यत्र स्वार्थं लभते । तथाहि उक्तम् आत्मब्रह्मेति ॥ अमृतस्यैष सेतुरिति मुक्ताधारत्वेनोच्य-मानत्वादपि द्युभ्वाद्याश्रयो विष्णु ।
श्रीत्रिविक्रमपण्डिताचार्यविरचिता
तत्त्वप्रदीपिका
अथोभयत्र प्रसिद्धानां नामिलङ्गात्मकानां शब्दानां समन्वय कथ्यते । "अथ परा यया तदक्षरमधिगम्यते’ इत्यादिना विष्णो परविद्याविषयत्वमुक्तम् । तत्र परविद्याविषये, तस्यामेव श्रुतौ "यस्मिन्द्यौ पृथिवी चान्तरिक्षमोतं मनस्सह प्राणैश्च सर्वै । तमेवैकं जानथ आत्मानम्’ इत्यत्र द्युभ्वाद्यायतनवाक्यैश्श्रूयमाणं प्राणाधारत्वं श्रुत्यन्तरे रुद्रस्य प्रतीयत इत्यन्वय ।
अयमभिसन्धि विष्णो परविद्याविषयत्वमुक्तम् । तच्च परविद्याविषयत्वं द्युभ्वाद्ययतन-स्योच्यते तमेवैकं जानथ आत्मानमित्यत्र । अनन्ययोगेन प्रधानज्ञेयत्वं ह्यत्रोच्यते । तदेव च परविद्याविषयत्वम् । तस्य च द्युभ्वाद्यायतनस्य प्राणाधारत्वं श्रूयते "ओतं मनस्सह प्राणैश्च सर्वै’ इति । तच्च प्राणाधारत्वं श्रुत्यन्तरे रुद्रस्य प्रतीयते, प्राणानां ग्रन्थिरसीत्यादौ, प्राणेश्वर इत्यादौ च । अस्यामेवोपरि जीविलङ्गं च । वायोश्च तत्र तत्र प्रसिद्धं प्राणाधारत्वम् । तत्र संशय । किमिदं द्युभ्वाद्यायतनं रुद्रस्स्यादुत जीवमात्रमाहोस्विद्वायुरुत विष्णुरेवेति । द्युभ्वा-द्यायतनमिति सूत्रभाष्ये एव सन्देहपदमावेदयत । अस्यैव हि विष्णुत्वं सिद्धान्तत सूत्र्यते भाष्यते च । यस्य च यथात्वं सिद्धान्तयति तस्य तदन्यथात्वं पूर्वपक्षयतीति श्लिष्टम् । पूर्वपक्षसिद्धान्तनिर्णेयधर्मधर्मिण एव च संशयाधिकरणत्वम् । तावेव च धर्मौ सर्वत्र संशयकोटितामाटीकेते । अयमतिप्रसिद्धो न्यायस्सर्वत्रानुसारयितव्यो यद्याद्रियन्ते विद्वांस । न पुनरतिगहनार्थत्वावगाहसन्नाहिनो महदनुसेविन प्रत्यधिकरणं प्रक्रियाप्रकथनरूपां बहिर्मुख-सुखावहामनल्पजल्पमालामाद्रियेरन् । नहि मणिगणमार्गणपरा निपुणधियोऽनुपदं स्वपरगुप्ति-पाटनपटवोऽधिजलधि लहरीपटलपरिवृत्तिपरिगणनकौतुकेन समयमतिपातयन्ति । ननु संशयनिर्णयप्रयोजनादीनामनधिगतौ केयमधिकरणपरिभाषा । किमत्रानधिगतम्? पूर्वोत्तरपक्ष-युक्तिकथनात्मके विचारे विशेषयुक्त्या सिद्धान्तावधारणात्मको निर्णयस्तत्र तत्र प्रसिद्ध । प्रयोजनं च तत्तत्समन्वयसिद्धिस्समन्वयाध्याये । एवमुत्तरत्रापीति दिङ्मात्रमत्र प्रदर्शितम् ।
अनयैव दिशा विषयादयस्तत्र तत्र विशेषतो गवेषणीया । प्रक्रिया च त्रिचतुरेषु स्थानेषु व्याक्रियमाणा किमिति मतिं नारोहेत् । तदेवं विचार्यमाणे द्युभ्वाद्यायतनं रुद्र इति प्राप्तं, जीव इति वा, उक्तयुक्तेरेव । वायुरिति च पक्षान्तरम् । "प्राणभृच्च’ इति सौत्राच्चकारान्न जीवो वायुश्चेति सिद्धान्तभाष्ये प्रतिषेत्स्यमानत्वाच्च । वायो प्राप्तौ तु प्राणाधारत्वं हेतुरिति प्रसिद्धत्वादनुक्ति । अत आह ॐ द्युभ्वाद्यायतनं स्वशब्दात् ॐ । द्युभ्वाद्यायतनं विष्णुरेव, आत्मशब्दात् । विष्णोस्स्वरूपस्यैव साक्षाद्वाचको ह्ययमात्मशब्द।
श्रीजयतीर्थविरचिता श्रीमद्ब्रह्मसूत्रभाष्यटीका
तत्त्वप्रकाशिका
एतत्पादप्रतिपाद्यं दर्शयति ॥ तत्र चेति ॥ हरौ तदितरत्र च श्रुत्यादिप्रसिद्धनाम-िलङ्गात्मकशब्दानां विष्ण्वेकवाचित्वं प्रबलहेतुभि प्रतिपादयत्यस्मिन्पादे सूत्रकार इत्यर्थ । चशब्दौ मिथसमुच्चयार्थौ । देवताद्यधिकरणव्यावृत्त्यर्थं प्रायेणेति । तत्र "रुद्रो वाव लोकाधार वायुना वै गौतम सूत्रेणायं च लोक परश्च लोक सर्वाणि भूतानि संदृब्धानि भवन्ति । आकाश एव तदोतं च प्रोतं च सर्वे वा एते प्राणाश्च प्राणिनश्च देवाश्च दिव्यानि च लोकाश्च लोकिनश्च अलोकाश्चालोकिनश्च विष्णावेवौताश्च प्रोताश्च’ इत्यादिनोभयत्र प्रसिद्धद्युभ्वा-द्यायतनत्विलङ्गस्य भगवति समन्वयप्रतिपादनादस्ति शास्त्रादिसङ्गति । श्रुत्यादिसङ्गतिं विषयवाक्यमुदाहृत्य विषयसंशयसयुक्तिकपूर्वपक्षान् दर्शयति ॥ विष्णोरिति ॥ अदृश्यत्वादि-गुणकाक्षरस्य विष्णो परविद्याविषयत्वमुक्तम् । तत्परविद्याविषयत्वमाथर्वणे यस्मिन्द्यौ-रित्युक्तस्य द्युभ्वाद्यायतनस्योच्यते । "तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथामृतस्यैष सेतु’ इति । स च यदि विष्णोरितर स्यात्तदा परविद्याविषयत्वमन्यस्य प्रसज्येतेत्यवश्यं निर्णेय । तद् द्युभ्वाद्यायतनत्वं विषय । तत्किं विष्णोरन्येषां वेति सन्देह । उक्तसाधारण्यमेव सन्देहबीजम् । द्युभ्वाद्यायतनत्वं रुद्रप्रधानजीववायूनामिति पूर्व पक्ष । अत्रोक्तप्राणाधारत्वस्य "प्राणानां ग्रन्थिरसि’ "प्राणेश्वर’ इत्यादिना रुद्रे प्रतीते । तथा द्युभ्वन्तरिक्षायतनत्वस्य च "रुद्रो वाव लोकाधार’ इति तस्मिन्नुक्तत्वात् । मन आयतनत्वं च तस्मिन् "मनो वै रुद्र ओतं च प्रोतं च’ इति प्रतीयते । न चैतच्छ्रुतीनां विष्णुविषयत्वम् । "अन्तक कृत्तिवासा पिनाकी’ इत्यादिरुद्रिलङ्गात् । दृष्टफलविधायकरुद्रवाक्यदृष्टान्तेन तत्सर्वाश्रयत्वप्रतिपादकवाक्यप्रामाण्यानु-मानेन च तस्य सर्वाश्रयत्वसिद्धे । द्युभ्वादीनां प्रकृतिकार्यत्वात्तदाश्रयत्वं प्रकृतेर्युक्तम् । "यद्भूतं च भवच्च भविष्यच्चेत्याचक्षते आकाश एव तदोतं च प्रोतं च’ इति श्रुतेश्च पूर्ववत्प्रकृते सर्वाश्रयत्वाभिधायककापिलागमप्रामाण्यानुमानाच्च । "अरा इव रथनाभौ संहता यत्र नाड्य स एषोऽन्तश्चरते बहुधा जायमान’ इति द्युभ्वाद्यायतने जीविलङ्गश्रवणाज्जीवस्य तद्युक्तम् । तस्य जीवत्वादेव प्राणित्वप्रसिद्धेश्च । विषयभूतलोकाधारत्वस्य "वायुना वै गौतम सूत्रेण’ इति वायौ श्रुतिसिद्धत्वात्तस्य द्युभ्वाद्यायतनत्वं युक्तम् । तस्य प्राणाधारत्वप्रसिद्धेश्च । विष्णोर्द्युभ्वा-द्यायतनत्वप्रसिद्धावपि नासावत्रोच्यते । बहुधा जन्मबाधात् । परविद्याविषयत्विलङ्गाद्विष्णुरिति चेन्न । जीवेशाभेदेन ब्रह्मगतिलङ्गस्यापि जीवे सम्भवात् । न च तथा बहुधा जन्म सम्भवति । कारणगतस्यैव कार्ये सम्भवात् । अत परविद्याविषयो द्युभ्वाद्याश्रयो विष्णोरितर एवेति तस्यैवादृश्यत्वादिगुणकत्वमिति भाव । सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ॥ अत इति ॥ द्युभ्वाद्यायतने स्वशब्दपर्यायात्मशब्दश्रवणाद्द्युभ्वाद्यायतनं विष्णुरेवेत्यर्थ । आत्मशब्दादपि कुतो विष्णुरित्यत आह ॥ आत्मेति ॥
श्रीवादिराजतीर्थविरचिता
गुर्वर्थदीपिका
ननु "हेयत्वावचनात्’ इति सूत्रे निर्गुणात्मपरतया निर्णीतैवेयं श्रुति । पुन कथमाशङ्केति चेत्सत्यं "स एषोऽन्तश्चरति बहुधा जायमान’ इति निरवकाशजीविलङ्गात्पुनराशङ्का । तत्रोक्तहेयत्वावचनस्य च जीवब्रह्मणोरैक्याज्जीवेऽपि सावकाशत्वादित्यधिकाशङ्का च पुनरधिकरणान्तरारम्भे बीजम् । आदिपादद्वये नामिलङ्गात्मकतया ज्ञातशब्दद्वैविध्यान्प्रति पुनस्तद्द्वैविध्यप्रदर्शनं व्यर्थमिति मन्वानस्सूत्रकृदुत्तरपादद्वये सङ्कलय्यैवाहेति भावेनोक्तं नामिलङ्गात्मकशब्दानामिति ॥ रुद्रप्रतिपादकपाशुपतागमस्य प्रामाण्यं प्रसाध्य तेनापि रुद्रस्य द्युभ्वाद्यायतनत्वसिद्धिरिति शङ्कते दृष्टफलेति ॥ श्रीरुद्रपाठाद्धनप्राप्तिरित्यादिपाशुपतवाक्यदृष्ट-फलविधायकरुद्रवाक्यम् । तत्सर्वाश्रयत्वप्रतिपादकवाक्येत्यत्र रुद्रस्य सर्वाश्रयत्वप्रतिपादकं यत्तस्य पशुपतेर्वाक्यं तत्सर्वाश्रयत्वप्रतिपादकवाक्यमित्युच्यते । तत्त्वाभिमानिजीवविशेषेषु द्युभ्वाद्यायतनत्वस्यापि सम्भावितत्वात् जीवस्य तद्युक्तमित्युक्तम् । अल्पाक्षरत्वलाभाय क्वचित् श्रुतौ स्वशब्दे सति तेनापि सिद्धान्त कार्य इति सूचयितुं च सूत्रकृत् स्वशब्दादित्याहेति भावेन टीका ॥ स्वशब्दपर्यायात्मशब्दश्रवणादिति ॥
श्रीरघूत्तमतीर्थविरचित
भावबोध
रुद्रादेरिव प्रकृतेरपि लोकाधारत्वप्रतिपादकश्रुतेर्विद्यमानत्वात् तदुदाहरणपूर्वकं न्यायविवरणोदाहृतश्रुतिभि द्युभ्वाद्यायतनत्वस्य साधारण्यं प्रतिपादयति ॥ अत्र रुद्रो वाव लोकाधार इत्यादिना ॥ न्यायविवरणे तदनुदाहरणं तु विष्णुव्यतिरिक्ते क्वचिदपि द्युभ्वा-द्यायतनत्वादे श्रुत्यादिप्रसिद्धिमात्रेणोभयत्र प्रसिद्धत्वसम्भवेन यावत्पूर्वक्ष्यभिप्रेते िलङ्गस्य श्रुतिसिद्धत्वस्य आवश्यकत्वाभावाभिप्रायम् । अत एव जीवे समन्वेतव्यिलङ्गप्रतिपादक-श्रुत्यभावो न दोषाय । पूर्वपक्षस्तु नोभयत्र प्रसिद्धिद्योतकेनैवेति नियम । सर्वत्र तथा दर्शनादिति भाव ।
यद्वा, न्यायविवरणे आदिपदेनैव "आकाश एव तदोतं च प्रोतं च’ इति प्रकृते लोकाधारत्वप्रतिपादकश्रुतिसङ्ग्रह।
नन्वन्यत्र प्रसिद्धशरीरित्वसाहित्यादन्तर्यामिवद् द्युभ्वाद्यायतनत्वमप्यन्यत्र प्रसिद्ध-जायमानत्वादिसाहित्यादन्यत्र प्रसिद्धं युक्तम् । न च वाच्यं िलङ्गपादीयन्यायैर्जायमानत्वादि-िलङ्गस्य विष्णौ समन्वयस्योक्तप्रायत्वेन अन्यत्र प्रसिद्धिर्नेति । तथात्वे जायमानत्विलङ्गेन पूर्वपक्षोक्त्ययोगादिति चेत्, न, अन्यत्र प्रसिद्धिसाहचर्येण परतोऽन्यत्र प्रसिद्धत्ववत् न्यायविवरणोदाहृतश्रुतिभिरुभयत्र प्रसिद्धिसाहचर्यं विना स्वत उभयत्र प्रसिद्धस्यापि सत्त्वात्तेनैव रूपेणैतत्पादान्तर्भावस्य सूत्रभाष्यकारयोरभिमतत्वादिति भाव ॥ श्रुत्यादिसङ्गतिमिति ॥ अव्यवहितपूर्वाधिकरणसङ्गतिस्तु वैश्वानरस्य विष्णुत्वसाधकात्मशब्दस्येवात्रापि द्युभ्वाद्यायतनस्य विष्णुत्वसाधकत्वेनोपपादनादिति ज्ञातव्यम् ॥ तत्किं विष्णोरिति ॥ अत्र द्युभ्वाद्यायतनत्वं किं रुद्रादेरुत विष्णोरिति चिन्ता । तदर्थं रुद्रादिप्रापकश्रुतििलङ्गादिना विष्णुप्रापकश्रुतििलङ्गबाध । उत विष्णुप्रापकश्रुतििलङ्गै रुद्रादिप्रापकश्रुतििलङ्गबाध इति । तदर्थं रुद्रादिश्रुतिरन्तकत्वादििलङ्गं च किं विष्णावनवकाशमात्मशब्दमुक्तोपसृप्यत्वादििलङ्गं जीवेशाभेदेन रुद्रादौ सावकाशमुत रुद्रादिश्रुत्यादिकं विष्णौ सावकाशमात्मशब्दादिकं जीवेशभेदेन निरवकाशमिति । तदर्थं जीवेशभेदे रुद्रादिश्रुत्यादेर्विष्णुपरत्वे आत्मशब्दादेर्विष्णुमात्रनिष्ठत्वे च प्रमाणं नास्त्युतास्तीति । तदर्थम् "अन्यमीशम्’ इति भेदप्रतिपादकवाक्यगत "ईश’शब्द किमविवक्षितसमर्थपर उत विष्णुपर इति । तदर्थमेतद्वाक्योपेतमिदं प्रकरणं किं विष्णुपरं न भवति, उत भवतीति । तदर्थमेतत्प्रकरणस्य वैष्णवत्त्वे ज्ञापकं नास्त्युतास्तीति ॥ उक्तसाधारण्यमेवेति ॥ उपलक्षणं चैतत् । जायमानत्वस्यापि जीवरूपकाद्युपस्थापकत्वेन ग्राह्यत्वात् ।
ननु निर्णीतस्थले समानोक्ति समाख्या । यस्मिन् द्यौरित्युक्तलोकमनप्राणाधारत्व-प्रतिपादकप्रमाणानां "ग्रन्थिरसि रुद्रो वाव लोकाधार । मनो वै रुद्र ओतं च प्रोतं च’ इत्यादिश्रुतिषु कथं रुद्रादिप्रतिपादकत्वनिर्णय । येन तासां समाख्यारूपत्वेन निर्णायकत्वं स्यादित्यतस्तत्साधनार्थं भाष्ये "रुद्रो मा विशान्तक । कृत्तिवासा पिनाकी’ इति तत्त-द्वाक्यगतश्रुतििलङ्गात्मकशब्दोदाहरणमित्यभिप्रेत्य व्याचष्टे ॥अत्रोक्तप्राणाधारत्वस्येत्यादिना॥ अनेन यस्मिन् द्यौरित्यादिशब्दबाहुल्यमित्यन्तं न्यायविवरणमुक्ततात्पर्यं भवति । न्यायविवरणोक्तिलङ्गानि अन्तक इत्यादिना उक्तानि । श्रुतिबाहुल्यं च "रुद्रो वाव लोकाधार’ इत्यादौ रुद्रादिशब्दस्य तत्र तत्र समाख्याश्रुतौ विद्यमानत्वेन द्रष्टव्यम् । इदं च श्रुतििलङ्ग-बाहुल्यं समाख्याश्रुते रुद्रपरत्वव्यवस्थापकत्वेन पूर्वपक्षप्रापकम्, न साक्षात् । विषयवाक्ये तदभावादिति ज्ञातव्यम् । एतच्च श्रुतििलङ्गबाहुल्यं प्रकृतिजीववायुषु यथासम्भवं ग्राह्यमित्यभि-प्रेत्य प्रकृतौ लोकोपादानत्वरूपिलङ्गोदाहृतश्रुती वायौ प्राणाधारत्विलङ्गोदाहृतश्रुती अभिहिते । जीवे तु जायमानत्वप्राणाधारत्विलङ्गे एव अभिहिते इति ज्ञातव्यम् । "नानुमानमतच्छब्दात्’ इति सूत्रव्याख्यानरूप"नानुमानात्मकागमपरिकल्पितरुद्र’ इति भाष्यसूचितमाह ॥दृष्टफल-विधायकेति ॥ पूर्ववत् प्रकृतेरिति च । अत एव प्राणभृच्छब्दवाच्यजीववायुपूर्वपक्षे दृष्टफल-विधायकेत्यादियुक्त्यनुक्ति । सौत्रप्राणभृत्पदसूचितयुक्तिमाह तस्य जीवत्वादेवेति ॥ तस्य प्राणाधारत्वप्रसिद्धेश्चेति च ॥ जीवेशाभेदेनेति ॥ एतच्च "भेदव्यपदेशात्’ इति सूत्रानु-रोधेनोक्तमिति ज्ञातव्यम् । सूत्रे स्वशब्दादित्येतत् स्वेतिशब्द स्वशब्द इति विग्रहाश्रयणे विषयवाक्ये स्वशब्दाभावात् तात्पर्यायात्मशब्दादित्युक्तमिति भावेन आत्मशब्दादिति भाष्यं व्याचष्टे ॥ स्वशब्दपर्यायात्मशब्दश्रवणादिति ॥ आत्मशब्दादित्युक्तौ तु यद्यप्यार्जवं प्रतिपत्ति-लाघवं च शब्दलाघवाद्वरम् । तथापि तस्य विष्णावसाधारण्यं न ज्ञापितं स्यात् । तस्य शब्द तच्छब्द इति विग्रहं विवक्षित्वा तच्छब्दादित्युक्तौ, तुशब्दविशेषो नोपात्त स्यात् । अत उभयार्थं स्वशब्दादित्युक्तम् । एवमुक्ते हि उक्तिवक्रत्वावक्रत्वावैयर्थ्याय स्वस्य विष्णोरेव शब्द स्वशब्द इत्यपि विग्रहस्य विवक्षणीयत्वात् असाधारण्यं ज्ञापितं भवति । षष्ठीसमासमात्रविवक्षा चेत् "तद्धर्मोपदेशात्’ "तल्लिङ्गात्’ इत्यादौ इत्यत्रापि तच्छब्द प्रयुज्येत । अथवा यथा लोके अन्यत्र प्रसिद्धोऽपि स्वशब्दो विष्णो सकाशात् सम्भूते चतुर्मुखे स्वभूरिति प्रयोगादिवशात् विष्णौ मुख्य तथा लोकेऽन्यत्र प्रसिद्धोऽपि आत्मशब्द चतुर्मुखे आत्मभूरिति प्रयोगात्
"आत्मेति मुख्यतो विष्णुस्तदन्ये तूपचारत ।
तथैव स्व इति प्रोक्तस्तस्माद् ब्रह्मात्मभू स्वभू ॥’
इति वचनाच्च विष्णौ मुख्य इत्यभिप्रेत्य सूत्रे स्वशब्दादित्युक्तमिति भाव ।
श्रीराघवेन्द्रयतिविरचित
तत्त्वप्रकाशिकाभावदीप
पूर्वोक्तदिशा पादार्थत्वाप्रतीतेराह ॥ एतदिति ॥ हराविति ॥ एषां शब्दानां लोके हराविवान्यत्राप्रयोगात् व्यक्तिविशेषनिर्णयाय श्रुत्यन्तरान्वेषणे श्रुत्यन्तरेऽन्यत्रेव हरावपि प्रयोगात् श्रुतिसाधारण्येन वा आदिपदोक्तेन भूमाक्षरादिनये वक्ष्यमाणदिशा प्रक्रमसमाख्या-साधारण्येन वा प्रवृत्तिनिमित्तसाधारण्येन वा पूर्वोक्तन्यायलोकप्रयोगाभ्यां वा प्रसिद्धानामेकोप-स्थापनदशायामन्यस्याप्युपस्थापकानामिति यावत् साक्षाद्धर्मिवाचिनां धर्मद्वारा धर्मिवाचिनां च शब्दानामित्यर्थ । पूर्वं नामिलङ्गानां प्राधान्याप्राधान्याभ्यां पौर्वापर्यात्पादभेदेन समन्वयोक्तावपि इह नाम्नां प्राधान्यात् िलङ्गानां समन्वितत्वेन बुद्धिस्थत्वात् उभयानुरोधेनोभयेषामप्येकत्रैव समन्वयोक्तिरिति भाव । प्रागेव विष्णौ दत्तपदत्वात् किमत्र कार्यमित्यत समन्वयपदार्थं व्यनक्ति ॥ विष्ण्वेकवाचित्वमिति ॥ "तत्रान्यत्र प्रसिद्धानां िलङ्गनाम्नां पुनर्हरि । विशेषा-न्मुख्यतो वृत्तिं स्वस्मिन्नेवात्र वक्त्यज’ इत्यनुव्याख्यानोक्ते । अन्यथा तत्त्वित्यवधारणायोग इति भाव । श्रुत्यादिप्रसिद्धेत्युक्तं श्रुतिसाधारण्येनोभयत्रप्रसिद्धत्वं न्यायविवरणोक्तश्रुत्युक्त्या व्यञ्जयन्नस्य पादान्तर्भावमाह ॥ तत्रेति ॥ एवं पादार्थे सतीत्यर्थ । अत्रेति पाठे अधिकरण इत्यर्थ । साधारण्योक्तिपरन्यायविवरणे रुद्रो वै लोकायतनमिति वाक्योक्तावपि पूर्वपक्षन्याय-विवरणे रुद्रो वाव लोकाधार इति वाक्यदर्शनात्तस्यैवात्रोक्ति स्यूतमस्मिन् जगदिति सूत्रम् । संदृब्धानि सङ्गतान्येव । तदाधारतया स्थितान्येवेति । न्यायविवरणस्थादिपदोपात्तां श्रुतिमाह ॥आकाश इति ॥ प्रकृतावित्यर्थ । आकाशशब्द प्रकृतिपर इत्यक्षरनये स्पष्टमिति भाव । विष्णुपरत्वेन साक्षादुपात्तश्रुतिमाह ॥ सर्वे वा इति ॥ प्राणा इन्द्रियाणि । प्राणिनो देहिन । प्राणिग्रहणेन गृहीतानामपि देवानां प्राधान्यज्ञापनाय पुनर्ग्रहणम् । दिवि भवानि दिव्यानि कल्पतरुप्रभृतीनि वस्तूनि । लोका भूरादय । तदभिमानिनो लोकिन । पूर्ववत्पुनर्ग्रहणम् । भूरादिभ्योऽन्ये वैकुण्ठादयोऽलोका । तद्गता मुक्ता अलोकिन ॥ ओताश्च प्रोताश्चेति ॥ अत्यन्तमाश्रिता इत्यर्थ इत्यन्यत्र टीकाकृद्य्वाख्यातेयं श्रुति ॥ उभयत्रेति ॥ हरौ तदितरत्र चेत्यर्थ । विष्ण्वितरकोटेरनेकत्वेऽपि विष्ण्वितरत्वेनैकीकरणादुभयत्रेत्युक्ति । जीवस्यापीतर-कोटित्वेनात्राभिमतत्वेऽपि जीवपरसमाख्याभावेन तत्साधारण्याभावेऽपि पूर्वपक्षकोटिषु रुद्रवायु-प्रकृतिषु क्वचित्प्रसिद्धिमात्रेणोभयत्रप्रसिद्धिसम्भवादिति भाव ।
यद्वा इत्यादिनेत्यादिपदेन जायमानत्विलङ्गग्रह । अधिकं चन्द्रिकायां बोध्यम् । भाष्ये प्रकृतिकोटेरनुक्तावपि तत्वनिर्णये न प्रकृतिजीवावित्युक्त्या भाष्येऽपि सा उपलक्ष्येति भाव । तथा च वक्ष्यत्यभाषितमित्यादिना स्वयमेव ॥ शास्त्रादीति ॥ भगवतीत्युक्त्या शास्त्रे समन्वये-त्युक्त्याऽध्याये उभयत्रप्रसिद्धिरित्युक्त्या पादे अन्तर्भावसङ्गतिरुपपादितेति व्यक्तम् । एवमग्रेऽपि। इत्यन्तभाष्यं सङ्गतिपरत्वेन तावद्य्वाचष्टे ॥ अदृश्यत्वादीति ॥ उक्तमित्यन्तभाष्यस्यायमर्थ । आत्मानमित्यत्रेत्यन्तवाक्यार्थस्तत्परविद्याविषयत्वमित्यादि । अत्र भाष्यानुक्तवाक्यशेषोक्ति सिद्धान्तोपयोगाय वा मुक्तिहेतुज्ञानस्यैव परविद्यात्वात् जानथ इत्युक्तज्ञानस्यामृतपदलब्धमुक्ति-हेतुत्वसूचनाय वेति भाव । तत्वप्रदीपे तु अनन्ययोगेन प्रधानज्ञेयत्वं ह्यत्रोच्यते । तदेव च परविद्याविषयत्वमिति यथाश्रुतभाष्येणैव परविद्याविषयत्वलाभो व्याख्यात । प्राणानां ग्रन्थि-रसीत्यादिकृत्स्नभाष्यशेषस्य तात्पर्यम् ॥ स चेति ॥ द्युभ्वाद्यायतनभूत आत्मेत्यर्थ । द्युभ्वाद्यायतनस्योच्यत इत्युक्तस्य तच्चेति पदेन परामर्शे कार्येऽपि स चेति तादृशात्मपरामर्शस्तु परविद्याविषयत्वाक्षेपसौकर्याय ॥ इतरस्स्यादिति ॥ रुद्रादिसमाख्याबलात् रुद्रादिरित्यर्थ । उक्तमित्यन्तभाष्यस्य भावमाह ॥ तदेति ॥ इति सङ्गतिसम्भवादित्यर्थ । सूत्रे धर्मिनिर्देशेऽपि तयोरिति भाष्यानुरोधात् द्युभ्वाद्यायतनत्वं विषय इत्युक्तम् । आदिपदेनान्तरिक्षप्राणमनसां सङ्ग्रह । भाष्ये तयोरिति द्विवचनोक्तावपि अग्रे वायुश्च इत्युक्तेरन्येषामित्युक्तम् । तदेव भाष्यं पूर्वपक्षतद्युक्तितत्फलोक्तिपरतया व्याकुर्वन् तयो प्राप्तिरिति प्रतिज्ञांशं व्याचष्टे ॥ द्युभ्वादीति ॥ तयोरित्युपलक्षणमिति भाव । एतत्कोटिचतुष्टयं द्विशो द्विश क्रमेण नानुमानं प्राणभृच्चेति सूत्रद्वयव्यावर्त्यं बोध्यम् । अत एवैवं निर्देश । यस्मिन्नित्यादे प्रतीतेरित्यन्तस्यार्थ अत्र-ेत्यादि। यस्मिन् द्यौरित्यादिवाक्योक्तेत्यर्थ । अत्र श्रुतौ जानथ आत्मानमिति विवृति सर्ववैलक्षण्यप्रदर्शनायेति तत्वप्रदीपोक्ति । अतच्छब्दादिति सौत्रखण्डव्यावर्त्योक्तिपरं प्राणाना-मित्यादिभाष्यं व्याकुर्वन् प्राणाधारत्वप्रत्यायकांशमाह ॥ प्राणानामिति ॥ श्रुत्यर्थस्तु तदभिध्यानादेव तु तल्लिङ्गात्स इत्यत्राग्रे टीकायां व्यक्त । न्यायविवरणे यस्मिन्द्यौरित्यत्रोक्तानां िलङ्गानामन्यत्र रुद्रादिविषयत्वे शब्दबाहुल्यमित्युक्तिलङ्गत्रये समाख्यात्रयमुक्तम् । तत्रैकत्र प्राणाधारत्विलङ्गे वाक्यद्वयोक्त्या एका समाख्या भाष्ये प्रकटिता । शिष्टं द्वयं स्वयमाह ॥तथेति ॥ लोकाधार इति समाख्यया ऐकार्थ्याय द्युभ्वन्तरिक्षेत्येतावदंशोक्ति ।
यद्वा द्युभ्वाद्यायतनस्येत्युक्ते पूर्वत्रेवाऽऽदिपदेन प्राणमनसोरपि ग्रहणशङ्का स्यादित्यतो द्युभ्वन्तरिक्षेत्युक्ति । तस्मिन्निति स्ववचनम् । प्रतीयत इत्यन्वय । मनो वै रुद्र इति तु समाख्याश्रुति । भाष्ये श्रुतिशेषोक्तेरुपयोगं शङ्कापूर्वमाह ॥ न चेति ॥ अन्तर्नये आधिदैविक-सर्वशब्दानां महायोगविद्वद्रूढिभ्यां विष्णुनिष्ठत्वोक्तेरिति भाव । अनेकश्रुत्युक्तििलङ्ग-बाहुल्योक्त्यर्थेति मत्वोक्तमित्यादीति । एतेनान्यत्रोक्तसमाख्यात्रये प्राणाधारत्वसमाख्याया एव भाष्ये पाठ श्रुत्युज्जीवकिलङ्गोक्त्यर्थ । बाहुल्यं िलङ्गशब्दानामित्यनुव्याख्याने िलङ्गोक्ति शब्दोज्जीवनायेति च दर्शितम् । तथा चात्र समाख्याश्रुतौ विष्णुिलङ्गाभावात् प्रत्युतान्यिलङ्गा-नामेव श्रवणेनान्तर्नयन्यायाविषयत्वात् श्रुतयोऽपि निरवकाशा इति भाव । नानुमानात्मकागम- परिकल्पितरुद्रोऽत्र वाच्य इति भाष्योक्तां सौत्रानुमानपदलब्धां युक्तिमाह ॥ दृष्टफलेति ॥ रुद्रवाक्येति ॥ पाशुपतादिरूपेत्यर्थ ॥ अनुमानेन चेति ॥ न केवलं श्रुतििलङ्गबाहुल्येन रुद्रपरत्वेन सिद्धसमाख्यानादिति चार्थ । तथा च नैव शास्त्रं कुवर्त्म तदिति पूर्वं तदप्रामाण्य-मुक्तमिति न शङ्क्यमिति भाव । यद्यपि शैवाद्यागमसम्प्राप्तदृष्टगेन फलेन च । तद्वाक्योप-मयान्यच्च प्रमाणत्वेऽनुमीयते । ईशवाक्यत्वत इति चेत्तद्गव्यभिचारिणा । अप्रामाण्यानुमा च स्यात् इति शास्त्रयोनिनयानुव्याख्याने एवैषा युक्तिराशङ्क्य निरस्ता । तथापीह श्रुतििलङ्ग-बाहुल्येन प्रबलसमाख्यारूपहेत्वन्तरेण पूर्वपक्षे तद्बलेनेयमभ्युच्चयत्वेनोक्ता । यथा सर्वत्र प्रसिद्धे-त्यत्रार्भकौकस्त्वेन सिद्धे चोद्येऽभ्युच्चयत्वेन चक्षुर्मयत्वाद्युक्तिस्तद्वत् । अत एवात्र सूत्रादाव-तच्छब्दादिति रुद्रश्रुतििलङ्गासत्त्वोक्त्या समाख्याया सावकाशत्वमेवोच्यते न त्वागमा-प्रामाण्यमिति भाव ।
यद्वा रुद्रो वाव लोकाधार इत्यादिश्रुत्या रुद्रादे सर्वाधारत्वप्राप्तौ तद्बलेन तादृशागमस्यापि प्रामाण्यसम्भवेनाप्रामाण्यानुमानस्य बाधितत्वात्तदवष्टम्भेन पूर्वपक्षो युक्त । समाधिस्तु समाख्याया विष्णुपरत्वसाधनेनैव सेत्स्यतीति भाव । तत्त्वनिर्णयोक्तप्रकृतिकोटिमपि सोपपत्तिकमुपपादयति ॥ द्युभ्वादीनामिति ॥ खण्डितं रूपमेवात्र विकारोऽपि विकारिण इत्युक्त्या भेदस्यापि भावेनाश्रयाश्रयिभावो न विरुद्ध इत्युपेत्य युक्तमित्युक्तम् । यत्किञ्च जगत्यां जगदिति निर्देशवदिति भाव ॥ पूर्ववदिति ॥ दृष्टफलेत्यादिपूर्वोक्तदिशेत्यर्थ । स एषोऽन्तरिति भाष्यं सर्वनामपरामर्शं दर्शयन् व्याचष्टे ॥ अरा इवेति ॥ प्राणभृच्चेति सौत्रपद-सूचितां युक्तिमाह ॥ तस्येति ॥ जीवप्राणधारण इति धातोरिति भावेन जीवत्वादेवेत्युक्ति । प्राणभृच्चेति चशब्दसूचितकोटिं सयुक्तिकं व्यनक्ति ॥ विषयेति ॥ प्रसिद्धेश्चेति ॥ एवमेवैष प्राण इतरान् प्राणान् पृथक्पृथगेव सन्निधत्त इत्यादावित्यर्थ ॥ विष्णोरिति ॥ प्रागुक्तश्रुताविति भाव ॥ बहुधा जन्मेति ॥ जीवे तु ज्ञोऽत एवेत्यत्रत्यन्यायेन देहाभिप्रायेण जन्मनो योगेऽपि देहतोऽप्यजायमाने हरौ जन्मायोगादिति भाव । प्रागुक्तदिशा निरवकाशत्वेन प्रबलरुद्र-समाख्याबाधाच्चेत्यपि ज्ञेयम् । भेदसूत्रव्यावर्त्यमाह ॥ जीवेशेति ॥ ब्रह्मगतेति ॥ तथा च प्रागुक्तहेयत्वावचनादिकं जीवे सम्भवतीति न तेनापि विष्णोरवकाश इति भाव ॥ अत इति॥ उक्तरीत्या निरवकाशसमाख्याऽऽगमप्रामाण्यानुमानजायमानत्वप्राणाधारत्विलङ्गरूपाणामितर-प्रापकाणां विष्णौ बाधकानां सत्त्वात् । अभेदेन परविद्याविषयत्वादिब्रह्मिलङ्गानां जीवे सम्भवाच्चेत्यर्थ । तयोरित्युपलक्षणं मत्वा चतुर्णामुपसंहारो विष्ण्वितर इति । एवेत्युक्तिस्तु चतुर्णां मध्येऽन्यतमानिर्णयेऽपि पूर्वपक्षस्य न सन्देहादविशेष । विष्ण्वितर एवेत्यवधारण-सम्भवादिति दर्शयितुम् । उक्तमित्यन्तभाष्यतात्पर्यमाह ॥ तस्यैवेति ॥ तमेवेति भाष्यं हेतुसाध्ययोर्वैय्यधिकरण्यनिरासाय व्याचष्टे ॥ द्युभ्वादीति ॥ सूत्रविसंवादनिरासाय स्वशब्द-पर्यायात्मशब्दाच्च न प्रकृतिजीवावभिधीयेते इति तत्वनिर्णयोक्तमर्थमाह ॥ स्वशब्देति ॥ श्रुतौ स्वशब्दाभावाद्वाचकशब्दान्तरस्याप्यदर्शनादिति तट्टीकोक्तं तात्पर्यं ध्येयम् । अधिकं चन्द्रिकायाम् । तत्त्वित्यनुवृत्तस्यार्थो विष्णुरेवेति ॥
श्रीमत्सत्यनाथतीर्थयतिविरचितायां
श्रीमत्तत्वप्रकाशिकाव्याख्याऽभिनवचन्द्रिका
अभिनवचन्द्रिका
एतत्पादप्रतिपाद्यं दर्शयतीति ॥ "अध्यायस्यैकार्थत्वात्पादभेदः किंनिबन्धन इत्यतः समन्वयेऽप्यवान्तरभेदेनेति भावेन’ इति वर्तते । तस्य "एतत्पादप्रतिपाद्यं दर्शयति’ इत्यनेन सम्बन्धः ॥ सर्वे वा इति ॥ प्राणा इन्द्रियाणि, प्राणिनः देहिनः, देवाः प्रसिद्धाः, दिव्यानि दिवि भवानि कल्पतरुप्रभृतीनि, लोका भूरादयः, तदभिमानिनो लोकिनः, आलोका प्रसिद्धालोकविलक्षणा वैकुण्ठादय आलोकिनो मुक्ताः, एते विष्णौ ओताश्च प्रोताश्चेति श्रुत्यर्थः ॥ उभयत्र प्रसिद्धेति ॥ विष्णौ, तदन्येषु रुद्रजीववाय्वाकाशशब्दाभिधेयप्रकृतिषु प्रसिद्धद्युभ्वाद्यायतनत्विलङ्गस्येत्यर्थः ॥ अदृश्यत्वादिगुणकेति ॥ परविद्याविषयत्वं अदृश्यत्वाधिकरणविषयवाक्ये विष्णोरुक्तमिति ज्ञापनाय अदृश्यत्वादिगुणकाऽक्षरस्येति विष्णो-र्विशेषणम् । अनेन अदृश्यत्वाधिकरणतद्विषयवाक्याभ्यामस्याधिकरणस्य परविद्याविषयत्वेन प्रतीयमानार्थप्रतिपादकत्वमेव सङ्गतिरित्युक्तं भवति । ननु अदृश्यत्वाधिकरणप्रतिपाद्यस्य परविद्याविषयत्वाप्रतीतेः कथं पूर्वाधिकरणेन सङ्गतिरित्यत आह ॥ तत्परविद्याविषयत्वमिति ॥ अनेन भाष्ये तत्रेत्येतत्तदिति व्याख्यातम् । "तमैवैकं जानथ आत्मानम्’ इत्यतः परं "आथर्वणे द्युभ्वाद्याश्रयस्योच्यत’ इति शेष इति द्रष्टव्यम् । ततश्चैवं भाष्यवाक्ययोजना विष्णोः परविद्याविषयत्वमुक्तं तच्च "यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्च सर्वैः तमैवेकं जानथ आत्मानम्’ इति आथर्वणे द्युभ्वाद्याश्रयस्योच्यत इति ।
नन्वस्याधिकरणस्याथर्वणवाक्यमेव विषयवाक्यम्, उत इदमुदाहरणमात्रतयोदाहृतम् "रुद्रो वाव लोकाधार’ इत्यादिसर्वमपि विषयवाक्यम् । नाद्यः । "रुद्रो वाव लोकाधार’ इत्यादि-वाक्यानां समन्वयाप्रसिद्धिप्रसङ्गात् । न द्वितीयः तेषामपि वाक्यानां सन्दिग्धत्वेन द्युभ्वा-द्यायतनत्वस्याऽन्यत्र प्रसिध्द्यभावेनोभयत्रप्रसिद्धत्वाभावापातात् । किं च । तेषामपि वाक्यानां सन्दिग्धत्वेन एतस्य िलङ्गस्य श्रुत्यादिना तत्र चान्यत्र च प्रसिद्धत्वं स्यात् किं तर्हि तत्र प्रसिद्धिरेव श्रुत्या, अन्यत्र प्रसिद्धिस्तु आपातत इति स्यात् । एवं चापातत प्रतीत्यपेक्षया श्रौतप्रसिद्धेः प्रामाणिकत्वेन बलवत्त्वात् संशयादयो न स्युरिति चेत्, उच्यते । आथर्वण-वाक्यमेव विषयवाक्यम् । न चैवं सति "रुद्रो वाव लोकाधार’ इत्यादीनां समन्वयासिद्धिप्रसङ्ग इति वाच्यम् । अनेनाधिकरणेन द्युभ्वाद्यायतनत्वस्य भगवल्लिङ्गत्वे प्रसिद्धे "अन्तस्तद्धर्मोप-देशात्’ इत्यादिना इन्द्रादिनामसमन्वयसिद्धिवत् "रुद्रो वाव लोकाधार’ इत्यादिवाक्यगत-रुद्रादिशब्दस्यापि समन्वयसिद्धिसम्भवात् । नन्वथापि नेदं विषयवाक्यं घटते । अस्मिन्वाक्ये हेतुतयोक्तस्वशब्दाभावात् । न च सूत्रकारस्य स्वशब्दो हेतुत्वेन न विवक्षितः, किं तु स्वशब्दपर्यायात्मशब्दो हेतुत्वेन विवक्षित इति वाच्यम् । तथा सति "द्युभ्वाद्यायतनमात्म-शब्दात्’ इत्येव सूत्रं विदध्यादिति चेत् । नात्र सूत्रकारस्य आत्मशब्दोपेतमिदमेकमेव वाक्यं विषयवाक्यमित्यभिमतम्, किं तु एवं जातीयकानि बहूनि । न च सर्वत्राप्यात्मशब्दो विद्यते । येन द्युभ्वाद्यायतनमात्मशब्दादिति ब्रूयात् किंतु तत्र प्रसिद्धाः ब्रह्मात्मादयः शब्दाः सर्वेषां सङ्ग्रहाय स्वशब्दादित्युक्तम् । स्वशब्दादित्यभिधाने हि एवं विज्ञायते । नात्र विषयवाक्ये स्वशब्दः श्रूयते । अतः स्वशब्दः सूत्रकारस्य हेतुत्वेनानभिमतः किं तु स्वशब्दपर्यायाः शब्दाः विवक्षिता इति । आत्मशब्दादित्यभिधाने तु अयमेक एवात्मशब्दः हेतुत्वेन विवक्षित इति विज्ञायेत । ततश्च भागासिद्धिशङ्का स्यात् । सा मा भूदिति स्वशब्दादित्युक्तम् । अनैनेवाभि-प्रायेण "आनन्दमयोऽभ्यासात्’ इत्यादौ सामान्येन प्रयोगः ।
नन्वथापि "शब्दादेव प्रमित’ इत्यादाविव "द्युभ्वाद्यायतनं शब्दात्’ इत्येव वक्तव्यं किं स्वशब्दग्रहणेनेति चेत्, न । व्याप्तिसूचनार्थत्वात् । स्वशब्दो हि विष्णुमात्रवाचकत्वात् विष्णुत्वव्याप्त इति सुप्रसिद्धः । नैवमात्मादयः शब्दाः । तेषामन्यत्रापि प्रयोगदर्शनात् । तेषां स्वशब्दपर्यायत्वोक्तौ तु व्याप्तिः प्रसिद्धा भवति । अनयैव दिशा "शब्दादेव प्रमित’ इत्यादौ व्याप्तिरनुसन्धेया ॥ पूर्वः पक्ष इति ॥ अत्र बुध्या विवेकेन रुद्रस्य द्युभ्वाद्यायतनत्व-मित्यादिरूपेण प्रतिज्ञावाक्यचतुष्टयमूह्यम् । भाष्ये अत्र "प्राणानां ग्रन्थिरसीति ॥ अत्र विषयवाक्ये, तयो रुद्रजीवयोः प्राप्तिरिति सम्बन्धः । प्राणानां ग्रन्थिरसीत्यादिप्रतीतेरित्यन्तं रुद्रप्रापकम् । तत्रापि "प्राणानां ग्रन्थिरसि रुद्रो माविशांतक’ इत्यन्तं रुद्रस्य प्राणाधारत्वसिद्धये समाख्यारूपेण तैत्तिरीयश्रुत्युदाहरणम् । "प्राणेश्वर’ इति प्राणेश्वरशब्दघटितशाखान्तरस्थश्रुतेः प्रतीकेनोदाहरणम्, "कृत्तिवासा’ इति तच्छब्दघटित "रुद्रो वाव लोकाधार’ इति श्रुतेः प्रतीकेनोदाहरणम् । "पिनाकि’ इति तच्छब्दघटित"रुद्रे वै मन ओतं च प्रोतं च’ इति श्रुतेः प्रतीकेनोदाहरणम् । "स एषोऽन्तश्चरत’ इत्यादि जीविलङ्गप्रदर्शनायेति विवेकः । भाष्ये "प्राणानां ग्रन्थिरसि प्राणेश्वर’ इत्यादिना रुद्रस्य प्राणाधारत्वप्रतीतेरिति सम्बन्धमभिप्रेत्याह टीकायाम् ॥ अत्रोक्तप्राणाधारत्वस्येति ॥ "कृत्तिवासा’ इति प्रतीकेनोपात्तश्रुतेः साध्यं पूरयन् तमुदाहरति ॥ मन आयतनत्वं चेति ॥ एतद्वाक्योपक्रमे यत इति ग्राह्यम् । प्रतीयत इत्यतः परं तस्मादिति ग्राह्यम् । तस्य च "द्युभ्वाद्यायतनत्वं रुद्रस्येति पूर्वपक्ष’ इति बुध्या विविक्तेन पूर्ववाक्येन सम्बन्धः ॥ नैतच्छ्रुतीनामिति ॥ "प्राणानां ग्रन्थिरसि, रुद्रो वाव लोकाधारः, रुद्रे वै मन ओतं च प्रोतं च’ इति श्रुतीनामित्यर्थः । "अन्तक’ इति आद्यश्रुतौ अन्तकत्विलङ्गस्य, द्वितीयश्रुतौ कृत्तिवासस्त्विलङ्गस्य, तृतीयश्रुतौ पिनाकित्विलङ्गस्य सद्भावात् न श्रुतीनां विष्णुपरत्वमिति भावः । यद्यपि "रुद्रो वाव लोकाधारः, रुद्रे वै मन ओतं च प्रोतं च’ इति श्रुत्योः शाखान्तरगतत्वात् तत्र कृत्तिवासस्त्व, पिनाकित्व, िलङ्गसद्भावनिर्णयो दुर्घटः, तथापि भाष्यकारवचनप्रामाण्यात् तन्निश्चय इति द्रष्टव्यम् ॥ प्रामाण्यानुमानेन चेति ॥ वाक्य-प्रामाण्यानुमानेन वाक्यप्रामाण्ये सिद्धे तेन सर्वाश्रयत्वासिद्धिरिति भावः ॥ अरा इवेति ॥ नाभ्याश्रयत्वबहुधाजायमानत्विलङ्गश्रवणेऽपि न जीवस्य द्युभ्वाद्यायतनत्वमङ्गीकार्यम् । असम्भावितत्वात् । सम्भावितस्यैव साधनीयत्वादित्यत उक्तम् ॥ तद्युक्तमिति ॥ तत् द्युभ्वाद्याश्रयत्वं सम्भावितमिति भावः । कथं सम्भावितमित्यत आह ॥ तस्येति ॥ सम्भावितस्य पूर्वोक्तसाधनसमुच्चये चशब्दः । साधकसद्भावात्, सम्भावकसद्भावाच्च जीवस्यैव द्युभ्वाद्याश्रयत्वमिति द्युभ्वाद्येकदेशप्राणाश्रयत्वदर्शनात् द्युभ्वाद्याश्रयत्वं सम्भावितमिति भावः । एतेनैकदेशाश्रयत्त्वस्य समग्राश्रयत्वेन व्याप्त्यभावात् तेन तत्साधनमयुक्तमिति परास्तम् । श्रुतिबलेन वायोर्द्युभ्वाद्याश्रयत्वं प्रसाध्य प्रसिद्धेः प्राणाधारत्वं सिद्धमित्याह तस्येति ॥ बहुधा जन्मबाधादिति ॥ ननु पूर्वपक्षविषयत्वेनाङ्गीकृतेषु रुद्रप्रधानजीववायुषु बहुधा जन्मास्ति न वा। आद्ये न तेषां द्युभ्वादिसर्वाश्रयत्वम् । एतेषामुत्पत्तेः पूर्वमेतान्विना द्युभ्वादीनां स्थितिवत्, उत्तरत्रापि स्थितिसम्भवात् । नेति पक्षे विष्णोरिव बहुधा जन्मबाधेन द्युभ्वाद्यायतनत्वाभावप्रसङ्ग इति चेत्, उच्यते अस्ति तावत् रुद्रवायुजीवानां बहुधा जन्म । प्रमाणसिद्धत्वात् । न च तदभावदशायां द्युभ्वादिस्थितिवत् अन्यदापि स्थितिसम्भवेन न तेषां द्युभ्वाद्यायतनत्वं स्यादित्युक्तमिति वाच्यम् । तेषां देहलाभस्यैवोत्पत्तित्वात् । स्वरूपसदातनत्वेन तदभाव-दशाभावात् । प्रधानस्य कार्यात्मना परिणामाङ्गीकारेण बहुधा जन्मबाधाभावात् ।
ननु परविद्याविषयत्वबाधेऽपि यथा बहुधा जन्मरूपसाधकबलात् जीवस्य द्युभ्वाद्यायतनत्व-मङ्गीक्रियते, तथा परविद्याविषयत्विलङ्गबलेन बहुधा जन्मबाधेऽपि विष्णोर्द्युभ्वाद्यायतनत्व-मङ्गीक्रियतामिति शङ्कते ॥ परविद्येति ॥ न मया परविद्याविषयत्विलङ्गबाधेऽपि साधकमात्रेण जीवस्य द्युभ्वाद्याश्रयत्वमभ्युपगम्यते, अपि तु परविद्याविषयत्वं जीवे व्युत्पाद्य िलङ्गबाधं निरस्य साधकबलात् जीवस्य द्युभ्वाद्याश्रयत्वमभ्युपगम्यत इत्याह ॥ जीवेशाभेदेनेति ॥ ब्रह्मगतस्य परविद्याविषयत्वािलङ्गस्य जीवे िलङ्गव्यपदेशसम्भवादित्यर्थः । एतेन जीवस्य परविद्यासु प्रतिपाद्यत्वाऽदर्शनेन परविद्याप्रतिपाद्यत्वाऽभिधानमयुक्तमिति परास्तम् । अस्माकमपि परविद्या-विषयत्वव्यपदेशस्यैवाभिलषितत्वेन परविद्याविषयत्वस्यानभिलषितत्वात् । न च तथा बहुधा जन्मेति ॥ तथा बहुधा जन्मव्यपदेश ईशे न सम्भवतीत्यर्थः । कुतो नेत्यत आह ॥कारणगतस्यैवेति ॥ कारणगतस्य धर्मस्यैव कार्ये व्यपदेशो दृष्टचरः न तु कार्यगतस्य धर्मस्य कारण इति भावः ॥ अतः परविद्याविषय इति ॥ परविद्याविषयत्वेनोक्तः द्युभ्वाद्याश्रयः विष्णोरितरत्वेन भवदङ्गीकृतो जीवादिरित्यर्थः ।
एतेन जीवेशाभेदस्य पूर्वपक्षिणाऽनभिधानात् विष्णोरितर एवेति पुनः विष्णोरितर-त्वाभिधानमयुक्तमिति परास्तम् ।
ताम्रपर्णीश्रीनिवासविरचिता
वाक्यार्थमुक्तावली
श्रुत्यादिप्रसिद्धेति ॥ आदिपदेन भूमाक्षरादिनये वक्ष्यमाणदिशोपक्रमसमाख्यासाधारण्येन वा, प्रवृत्तिनिमित्तसाधारण्येन वा, पूर्वोक्तन्यायलोकप्रयोगाभ्यां वा, प्रसिद्धानाम्, एकोप-स्थापनदशायाम् अन्यस्याप्युपस्थापकानां ग्रहणम् । न्यायविवरणोदाहृतश्रुत्या द्युभ्वाद्यायतन-त्वस्य साधारण्यमाह ॥ अत्रेत्यादिना ॥ स्यूतमत्र जगदिति सूत्रं तेन संदृब्धानि सङ्गतानि तदाधारकाणीति यावत् ॥ आकाश एवेति ॥ तदिति यद्भूतं च भवच्च भविष्यच्चेत्याचक्षत इति पूर्ववाक्योक्तपरामर्श । प्राणा इन्द्रियाणि । दिवि भवानि कल्पतरुप्रभृतीनि । लोकाभिमानिनो लोकिन । भूरादिलोकविलक्षणा वैकुण्ठादयोऽलोका । मुक्ता अलोकिन । ओताश्च प्रोताश्चेति सूत्रे कंथापटवदत्यन्तमाश्रिता इत्यर्थ । ननु द्युभ्वाद्यायतनत्वस्योक्तश्रुतिसाधारण्येन रुद्रप्रधानवायुषु विष्णौ च साधारणत्वेऽपि जीवे तत्प्रापकश्रुत्यभावात् कथं जीवसाधारण्ये-नोभयत्र प्रसिद्धत्वम् । न च जायमानत्विलङ्गेन विष्णुप्रापकेण चेति जीवविष्णुसाधारण्ये-नोभयत्रप्रसिद्धिरिति वाच्यम् । तथात्वे सर्वशब्दानामपि पादद्वयसमन्वितानामुभयत्र प्रसिद्धता-प्रसङ्गात् । सर्वत्रापि पूर्वपक्षसिद्धान्तप्रापकयो सत्वादिति चेन्न । िलङ्गपादीयन्यायेन जायमानत्वादितत्प्रसिद्धं जीवे स्वतप्रसिद्धं चादाय जायमानत्विलङ्गस्योभयत्र प्रसिद्धत्वेन तत्साहचर्यात् द्युभ्वाद्यायतनत्वस्योभयत्र प्रसिद्ध्युपपत्ते । अत एव जायमानत्वादिति िलङ्गेन साधारण्येन जीवस्यापि द्युभ्वाद्यायतनत्वमिति पूर्वपक्षोपपत्तेश्च । नन्वस्मिन् पादे उभयत्र प्रसिद्धसाहचर्यं विना स्वत उभयत्र श्रुत्यादिप्रसिद्धशब्दसमन्वयस्य सूत्रभाष्ययोर्विवक्षितत्वादन्य-साहित्येनोभयत्र प्रसिद्धिरनुपयुक्तेति चेन्न । निषेधे कारणाभावात् ।
यद्वा, प्राणित्वादेव मन प्राणाधारत्वस्यादृष्टद्वारा द्युभ्वाद्यायतनत्वस्य स्वत एव लोके जीवे प्रसिद्धत्वात् विष्णावेवौताश्च प्रोताश्चेति श्रुत्या विष्णौ प्रसिद्धत्वात्स्वत एवोभयत्र प्रसिद्ध्युपपत्ति । अत्र जीवपदेन ब्रह्मादीनामपि विवक्षितत्वात्तददृष्टेन सर्वजगद्धारणमुपपद्यते । तेनासदाद्यदृष्टेन कथं सर्वजगदवस्थानादि ऐतरेयभाष्ये "देवानां कर्मणा चैव जायन्ते सर्वमानुषा’ इत्युक्तत्वादिति निरस्तम् । उत्तमजीवानामदृष्टद्वारा तदविरोधादिति ज्ञेयम् । टीकायां जीवे साधारण्यप्रदर्शनं तु रुद्रादौ तत्र दर्शनमात्रेणोभयत्र प्रसिद्धतोपपत्तेरित्याशयेन न तु जीवे अप्रसिद्धत्वेन, तथात्वे पूर्वपक्षदशायां जीवोक्त्ययोग । अत एव न्यायविवरणटीकायां प्रकृत्यादिनिष्ठत्वे च प्रमाणमुदाहार्यमित्युक्तमिति ज्ञेयम् ॥ श्रुत्यादिसङ्गतिमिति ॥ वैश्वानरस्य मूर्धैव सुतेजाश्चक्षुर्विश्वरूप प्राण पृथग्वर्त्मा, पृथिव्येव पादावित्यादिना द्युभ्वाद्यायतनत्व-मुक्तम्। सुतेज आदिशब्देन द्य्वादीनामुक्ते तज्जनकत्वेन तदाश्रयत्वेन चाङ्गानां तन्नाम-वाच्यत्वस्योक्तत्वात् । अत एव यस्माद्यज्जायते चाङ्गादिति पूर्वभाष्ये यदाश्रित्य तिष्ठतीति चशब्दार्थ इति तत्वप्रदीपे निरूपितम् । तथा च यदीदं द्युभ्वाद्यायतनमन्यत्स्यात्तदा द्युभ्वाद्यायतनतयोक्तो वैश्वानरोऽप्यन्य स्यादिति तदाक्षेपेण पूर्वपक्षोत्थानादनन्तरसङ्गति । विष्णोरित्यारभ्य विमुञ्चथेत्यन्तभाष्यं सङ्गतिप्रदर्शनपरतया व्याचष्टे ॥ अदृश्येति ॥ तत्रेत्यस्यार्थस्तत्परविद्याविषयत्वमिति ॥ तत्रेत्यस्यार्थान्तरम् आथर्वण इति । उक्तमित्यस्यावृत्तिं मत्वा कस्येत्यपेक्षायामाह ॥ यस्मिन्द्यौरित्युक्तस्य द्युभ्वाद्यायतनस्योच्यत इति ॥ तथा चादृश्यत्वाधिकरणे तदुपात्तश्रुतौ च यत्परविद्याविषयत्वमुक्तं तदेव तस्मिन्नेवाथर्वणे यस्मिन् द्यौरित्युच्यत इत्यर्थ ॥ किं विष्णोरिति ॥ द्युभ्वाद्यायतनत्वं किं विष्णोरुत रुद्रादीनामिति चिन्ता । तदर्थम् आत्मशब्दस्य मुक्तोपसृप्यत्वादेर्विष्णुिलङ्गस्य चाभेदेनान्यत्र सावकाशत्वमुत भेदेन निरवकाशत्वमिति । रुद्रप्रधानयो नानुमानमित्यनेन जीववाय्वो प्राणभृच्चेत्यनेन क्रमेण व्यावृत्तत्वात्तेन क्रमेण रुद्रप्रधानेत्यादिनिर्देश । अत एव भाष्ये एकैकसूत्रव्यावृत्तयोर्द्वयो-र्द्वयोर्मध्ये तयो प्राप्तिरित्येकैकग्रहणम् । लोकप्राणानामनाधारकत्वलक्षणिलङ्गत्रयमध्ये प्राणा-धारत्वमात्रे भाष्ये समाख्योक्ता । न्यायविवरणानुसारेण शिष्टद्वयं स्वयमाह ॥ तथेति ॥ विष्णु-
विषयत्वमिति ॥ अन्तस्तद्धर्मोपदेशादित्यत्र देवतावाचिशब्दसमन्वयस्योक्तत्वात्तन्यायेनेति शेष ।
इदमुक्तं भवति । रुद्रो माऽऽविशान्तक इत्यादौ प्राणाद्याधारतयोच्यमानो रुद्र प्रसिद्ध एवं तत्र तदसाधारणान्तकत्वादििलङ्गश्रवणात् । तथा च तत्समाख्यया यस्मिन् द्यौरित्यादावपि द्युभ्वाद्याश्रयो रुद्र एवेति । नानुमानमिति सूत्रव्याख्यानरूपेण नानुमानात्मकागमकल्पित-रुद्रोऽत्रेति भाष्येण सूचितां युक्तिमाह दृष्टफलेति ॥ अनुमानेन चेति ॥ न केवलं प्राणानां ग्रन्थिरसीत्यादिश्रुतिसमाख्यानात् किंत्वनुमानसिद्धप्रामाण्यकपाशुपतागमसमाख्यानाच्चेत्यर्थ ॥ द्युभ्वादीनामिति ॥ द्युभ्वादिकं प्रकृत्याश्रितं तदुपादानकत्वात् । यद्यदुपादानकं तत्तदाश्रितं यथा पटस्तन्तुष्वित्यनुमानमनेनोपन्यस्तं भवति ॥ श्रुतेश्चेति ॥ श्रुतिसमाख्यानाच्चेत्यर्थ । अत्राकाशशब्दस्य प्रकृतिपरत्वेन निर्णीतत्वादिति भाव ॥ पूर्ववदिति ॥ दृष्टफलविधायकं यत्क्वापि श्रुतिवाक्यं तस्य फलसंवादेन प्रामाण्ये सिद्धे तद्दृष्टान्तेन विमतं प्रधानस्य सर्वाश्रयत्व-प्रतिपादकं वाक्यं प्रमाणं कपिलवाक्यत्वादिति तत्प्रामाण्ये सिद्धे तत्समाख्यानात् द्युभ्वा-द्याश्रयत्वं प्रदानस्य सिद्ध्यतीत्यर्थ । ननु नैव शास्त्रं कुवर्त्म तदिति पाशुपतकापिलाद्यप्रामाण्य-स्योक्तत्वात् कथं तत्समाख्ययेष्टसिद्धिरित्यतोऽनुमानेन तत्प्रामाण्यं साधितं स्मृतिस्तु युक्ति-विरोधादप्रमाणमिति भाव । यद्यपि शास्त्रयोनित्वाधिकरण एवैषा युक्तिराशङ्क्य दूषिता । यथोक्तमनुव्याख्याने ।
"शैवाद्यागमसम्प्राप्तदृष्टगेन फलेन तु ।
तद्वाक्योपमयाऽन्यच्च प्रमाणत्वेऽनुमीयत’
इत्यादिना । तथापि इह सति हेत्वन्तरे पाशुपतादिसमाख्याभ्युच्चयेनोक्तेत्यदोष । सौत्रप्राणभृत्पदसूचितां युक्तिमाह ॥ जीवत्वादेवेति ॥ "जीव प्राणधारणे’ इति धातोरिति भाव ॥ विषयभूतेति ॥ विषयवाक्ये लोकाधारकत्वं प्राणधारकत्वं चोक्तम् । तत्र लोका-धारकत्वं वायो श्रुत्यैव सिद्धमित्यर्थ । प्राणभृत्पदसूचितयुक्तिमप्याह ॥ तस्य प्राणाधार-त्वेति॥ भेदसूत्रव्यावर्त्यमाह ॥ जीवेशेति ॥ कारणगतस्येति ॥ घटे मृत्वदर्शनेऽपि मृदि घटव्यवहारादर्शनादिति भाव । भाष्यस्य सूत्रविसंवादनिरासाय सूत्रस्य श्रुतिविसंवादनिरासाय च स्वशब्दपर्यायात्मशब्दादिति विष्णुतत्वनिर्णयं मनसि निधाय व्याचष्टे ॥ स्वशब्देति ॥ "सभाराजामनुष्यपूर्वा’ इत्यत्र पाणिनीये राजपर्यायपूर्वो अमनुष्यपूर्वश्च सभान्तस्तत्पुरुषो नपुंसकं स्यात् । इनसभमीश्वरसभम् अमनुष्यशब्दो रूढ्या रक्ष पिशाचादीनाह रक्षसभं पिशाच-सभमिति राजशब्देन तत्पर्यायशब्दग्रहणस्याभियुक्तैर्व्याख्यातत्वात् तद्वत्प्रकृतेऽपि स्वशब्देन तत्पर्यायग्रहणोपपत्तेरिति भाव । ननु शब्दलाघवात्प्रतिपत्तिलाघवस्य परत्वेनात्मशब्दादित्येव कुतो नोक्तमिति चेन्नैष दोष । द्युभ्वाद्यायतनत्वपरे सजातीयशाखान्तरे सर्वत्रात्मशब्दाभावा-द्भागासिद्धि स्यात् । स्वशब्दादित्युक्ते तु स्वस्य शब्द स्वशब्द इति विग्रहोपपत्या आत्म-ब्रह्मादितत्तच्छाखास्थशब्दग्रहणं च कृतं स्यात् । न हि, आत्मन शब्द इत्यपि विग्रह-सम्पत्याऽत्मशब्दादित्युक्तेऽपि विवक्षितसिद्धिरिति वाच्यम् । प्रसिद्धविषयवाक्ये आत्मशब्द-श्रवणेनात्मेति शब्द इत्येव भानप्राप्ते । अत एव आत्मब्रह्मादय शब्दा इति स्मृत्युदाहरणम् । तत्र शाखान्तरस्थब्रह्मादिशब्दानां तदसाधारणस्य चोक्ते । अत एव अन्तस्तद्धर्मोपदेशात्, शब्दादेव प्रमित शब्दविशेषादित्यादौ भागासिद्धिनिवृत्यर्थमेव सामान्यहेतूपादानं निरव-काशत्वप्रदर्शनं च कृतम् । अत्रापि तथोक्तिसम्भवेऽप्युदाहरणनिष्ठतया श्रुतिविशेषसूचनाय ग्रहणमित्यलम् । सूत्रार्थस्तु तत्त्वित्यनुवृत्या टीकायामेव स्पष्ट ।
पाण्डुरङ्गिश्रीनिवासाचार्यविरचिता
तत्त्वसुबोधिनी
न चान्यत्र प्रसिद्धशरीरित्वसाहित्यादन्तर्यामित्वमिवान्यत्र प्रसिद्धजायमानत्वसाहित्यात् द्युभ्वाद्यायतनत्वमपि अन्यत्र प्रसिद्धमिति पादासङ्गतमेतदिति वाच्यम् । अन्यत्र प्रसिद्धि-साहचर्येण परतोऽन्यत्र प्रसिद्धत्ववत् उभयत्र प्रसिद्धिसाहचर्यं विनोभयत्र प्रसिद्धत्वस्यापि सत्त्वात् तेन रूपेण एतत्पादान्तर्भावस्य सूत्रभाष्ययोरभिमतत्वादिति भाव ॥ श्रुत्यादिप्रसिद्धेति ॥ अनेन श्रुतििलङ्गादिभिस्तुल्यत्वमुभयत्र प्रसिद्धत्वमित्युभयत्र प्रसिद्धानां लक्षणम् उक्तं भवति । पूर्वपादद्वय इवात्रापि भिन्नपादयोरेव नामिलङ्गसमन्वय इति स्यात्तदर्थमाह ॥ नाम-िलङ्गात्मकानामिति ॥ तत्र श्रुतित साधारण्येन उभयत्र प्रसिद्धत्वं दर्शयति ॥ अत्रेति ॥ गौतमेति सम्बुद्धि । वायुलक्षणेन सूत्रेण "सर्वाणि भूतानि संदृब्धानि बद्धानि । आकाशे प्रकृतौ प्राणा इन्द्रिया प्राणिनो जीवा । दिव्यानि दिवि भवानि वस्तूनि । पूर्वत्रेवात्रापि आत्मशब्देन सिद्धान्तादातिदेशिकी अवान्तरसङ्गति ॥ उक्तसाधारण्यमेवेति ॥ श्रुति-साधारण्यमित्यर्थ । उपलक्षणं चैतत् । जायमानत्वस्यापि जीवरूपकाद्युपस्थापकत्वेन ग्राह्यत्वात् ।
ननु निर्णीतस्थले समानोक्ति समाख्या । यस्मिन्द्यौरित्युक्त लोकमन-प्राणाधारत्वप्रतिपादक "प्राणानां ग्रन्थिरसि रुद्रो वाव लोकाधार’ १इत्यादिषु कथं रुद्रादिप्रतिपादकत्वनिर्णय । येन तासां समाख्यानत्वरूपत्वेन निर्णायकत्वं स्यात् इत्यतस्तत् साधनार्थं भाष्ये "रुद्रो मा विशान्तक’ इत्यादे उदाहरणमित्यभिप्रेत्य व्याचष्टे ॥ अत्रोक्त-प्राणेति ॥ नन्वत्र सर्वाधारत्वमुच्यते । श्रुत्यन्तरे तु रुद्रस्य प्राणाधारत्वमात्रम् । तथाच कथं सौत्र पूर्वपक्षी क्रियत इत्यत आह ॥ तथेति ॥ तथापि मनस आधारत्वं रुद्रे केन प्रमाणेन सिद्धमत आह ॥ मन इति ॥ नन्वेतच्छ्रुतयो विष्णुविषया इति कथं ताभिर्निर्णय इत्यत आह ॥ न चैतदिति ॥ किं च सर्वाश्रयत्वप्रतिपादकरुद्रवाक्येनापि रुद्रस्य सर्वाश्रयत्वसिद्धि । न च तत् रुद्रवाक्यं अप्रमाणं दृष्टफलविधायकरुद्रवाक्यदृष्टान्तेन तस्य प्रामाण्यानुमानादित्याह ॥ दृष्टफलेति ॥ द्युभ्वादीनामिति ॥ उपादानस्योपादेयाश्रयत्वादिति भाव । तत्र श्रुतिमप्याह ॥ यद्भूतमिति ॥ कपिलागमेनापि सर्वाश्रयत्वं सिध्यतीत्याह ॥ पूर्ववदिति ॥ जीवस्यैव द्युभ्वाद्यायतनत्वमित्याह ॥ अरा इवेति ॥ रथनाभौ अरा कीला इव यत्र शरीरे नाड्य संहता । तत्र एष जीव अन्त बहुधा जायमान सन् चरति । ननु तस्य प्राणाधारत्वं कथम् इत्यत आह ॥ तस्य जीवत्वादेवेति ॥ जीव प्राणधारण इति धातोरिति भाव । वायो वैतदित्याह ॥ विषयभूतेति ॥ यस्मिन्द्यौरित्यत्र प्रतिपाद्यभूतस्येत्यर्थ । ननु विष्णोरपि द्युभ्वाद्यायतनत्वस्य श्रुत्यादिसिद्धत्वात् स एव द्युभ्वाद्यायतनं किं न स्यादित्यत आह ॥ विष्णोरिति ॥ ननु जीवेशाभेदेन परविद्याविषयत्वादिब्रह्मिलङ्गानां जीवे सम्भवा जीविलङ्ग-स्यापि जायमानत्वस्य विष्णौ सम्भव किं न स्यादित्यत आह ॥ न च तथेति ॥ अत्र सूत्रे स्वेति शब्द स्वशब्द इति विग्रहाश्रयणेन विषयवाक्ये स्वशब्दाभावात् तत्पर्यायात्मशब्दा-दित्यर्थकथनत्वेन भाष्यविष्णुतत्वनिर्णयानुसारेण व्याचष्टे ॥ स्वशब्देति ॥ यद्यपि आत्मशब्दादित्युक्तौ लाघवं तथापि विष्णावसाधारण्यं तस्य न ज्ञापितं स्यात् । तच्छब्दा-दित्युक्तौ शब्दविशेषेणोपात्त स्यादत उभयार्थम् स्वशब्दादित्युक्तम् । एवमुक्तौ स्वस्य शब्द इत्यपि विग्रहस्य विवक्षणीयत्वादसाधारण्यं ज्ञापितं भवति । षष्टीसमासमात्रविवक्षायान्तु तल्लिङ्गादित्यादाविवात्रापि शब्दविशेष प्रयुज्येत । अथवा यथा लोके अन्यत्र प्रसिद्धोऽपि स्वशब्दो विष्णो सकाशात् सम्भूते चतुर्मुखे स्वभूरिति प्रयोगादिवशात् विष्णौ मुख्य तथा लोके अन्यत्र प्रसिद्धोऽपि आत्मशब्द चतुर्मुखे आत्मभूरिति प्रयोगात् ब्रह्मात्मभू स्वभूरिति वचनाच्च विष्णौ मुख्य इत्यभिप्रेत्य सूत्रे स्वशब्दादित्युक्तमिति भाव ।
श्रीनिवासतीर्थविरचितम् तत्त्वप्रकाशिकावाक्यार्थविवरणम्
वाक्यार्थविवरणम्
॥ तस्य सर्वाश्रयत्वसिद्धिरिति ॥ पाशुपतशास्त्रेणेत्यर्थ इति शेष । तस्याप्रामाण्यात् कथं तेन तत्सिद्धिरित्यत उक्तं दृष्टफलेत्यादि ॥ रुद्रवाक्यत्वहेतुनेति शेष ॥ पूर्ववदिति ॥ दृष्टफलविधायककपिलवाक्यदृष्टान्तेन कपिलवाक्यत्वहेतुनेत्यर्थ । तथा च कापिलागमा-दाकाशशब्दवाच्यप्रकृते सर्वाश्रयत्वसिद्धिरिति शेष ।
शकराश्रीनिवासविरचिता
वाक्यार्थमञ्जरी
श्रुत्यादिप्रसिद्धेति ॥ अनेनोभयश्रुतििलङ्गादिभिस्तुल्यप्रसिद्धिमत्त्वमुभयत्र प्रसिद्धिमत्त्वमिति सूचितम् । एतेनान्यत्र प्रसिद्धपृथिवीशरीरत्वसाहित्यादन्तर्यामित्वस्यान्यत्र प्रसिद्धत्ववदन्यत्र प्रसिद्धजायमानत्वादिसाहित्यात् द्युभ्वाद्यायतनत्वमप्यन्यत्र प्रसिद्धं स्यादिति निरस्तम् । समाख्याश्रुत्यादितौल्याभावस्यान्यत्र प्रसिद्धलक्षणान्तर्गतत्वेन तत्तौल्यवतोऽस्यान्यत्र प्रसिद्धत्वा-भावात् । उभयत्र प्रसिद्धत्वेनैव विष्णुवाचित्वमपि सिद्धमेवेत्यत उक्तम् ॥ विष्ण्वेक-वाचित्वमिति ॥ श्रुत्यादिभिरन्यत्र प्रसिद्धत्वे विष्ण्वेकवाचित्वप्रतिपादनमशक्यमित्यत उक्तम् ॥ प्रबलहेतुभिरिति ॥ अत्रास्ति शास्त्रादिसङ्गतिरित्यन्वय ॥ रुद्र इति ॥ रोगद्रावकत्वेन रुद्रनामा भगवान्सर्वलोकाधारो वाव प्रसिद्ध इत्यर्थ ॥ वायुनेति ॥ हे गौतम स्यूतमत्र सर्वं जगदिति सूत्रं तेन ज्ञानादिमत्त्वाद्वायुशब्दितेन भगवताऽयं भूलोक परोऽन्तरिक्षादिलोक सर्वाणि भूतानि च संदृब्धानि सङ्गतानि धृतानीत्यर्थ ॥ आकाश इति ॥ अतीतानागतवर्तमानं यदा चक्षते विद्वांसस्तत्सर्वमाकाशे भगवदाश्रिताकाशाख्यप्रकृतौ ओतं प्रोतं सूत्रे पटवत् अत्यन्तमाश्रितं इत्यर्थ । लोका सप्तलोका लोकिनस्तदभिमानिन अलोका वैकुण्ठादय अलोकिनस्तद्गता मुक्ता । उक्तम् अथ परा ययेत्यनेन । मोक्षाय भगवज्ज्ञानं कुत इत्यत उक्तम् ॥ अमृतस्येति ॥ एष भगवानमृतस्य मुक्तवर्गस्य सेतुरिव सेतुराश्रय इत्यर्थ । अत्र द्युभ्वाद्यायतनस्य मोक्षसाधनविद्याविषयत्वोक्त्या परविद्याविषयत्वमुच्यते । मोक्षसाधनविद्याया एव परविद्यात्वादिति भाव इत्यादिना समाख्यावाक्येन ॥ प्राणानाङ्ग्रन्थिरसीति ॥ मेत्यस्या-वृत्ति । हे विष्णो रुद्रशब्दवाच्य त्वं प्राणानामिन्द्रियाणां ग्रन्थि ग्रथ्यन्ते अस्मिन्निति ग्रन्थिराश्रयोऽसि त्वमन्तक संहर्ता सन्मा मां मा विश न प्रविशेत्यर्थ ॥ प्राणेश्वर इति ॥ प्राणानामिन्द्रियाणामीश्वर कृत्त्यात्मके चर्मात्मके देहे नियामकतया वसते तिष्ठतीति कृत्तिवासा । नाकं सुखं पिबतीति पिनाका मुक्ता ते अस्य सन्तीति पिनाकी मुक्ताश्रय इत्यर्थ ॥ रुद्रिलङ्गादिति ॥ संहर्तृत्वगजचर्माम्बरवत्त्वपिनाकचापवत्त्वादीनां तत्रैव प्रसिद्ध-त्वादिति भाव । किञ्च रुद्रस्य सर्वाधारत्वप्रतिपादकपाशुपताद्यागमेनापि तस्य सर्वाधारत्वं सिद्ध्यति ॥ न च तस्याप्रामाण्यम् ॥ विमतं वाक्यं प्रमाणं रुद्रवाक्यत्वात् दृष्टफल-विधायकरुद्रवाक्यवदिति तस्य प्रामाण्यानुमानादित्याह ॥ दृष्टफलेति ॥ प्रत्यक्षसंवादिफलाभि-धायकेत्यर्थ । विमतं प्रमाणं कपिलवाक्यत्वात् दृष्टफलाभिधायककपिलवाक्यवदित्यनुमित-प्रामाण्योपेतकापिलागमेनापि प्रधानस्य सर्वाश्रयत्वसिद्धिरित्याह ॥ पूर्ववदिति ॥ अरा इवेति ॥ रथनाभौ चक्रे अरा दलानीव यत्र शरीरे नाड्य संहता संबद्धा तत्र शरीरे स एष सर्वजीवनियामकत्वेन सर्वजीवहृदयस्थितो विष्णु स्वयमेक एव स्वेच्छयैव बहुधा जायमानो विश्वतैजसादिरूपेण बहुधा भगवान् शरीरान्तश्चक्षुरादिस्थानेषु सञ्चरतीत्यर्थ ॥ जीवत्वा-देवेति॥ जीव प्राणधारण इति धातोरिति भाव ॥ प्रसिद्धेरिति ॥ प्राणान्पृथक् पृथगेव सन्निधत्त इत्यादाविति शेष ॥ तथेति ॥ जीवेशाभेदेन यथेशिलङ्गं जीवे सम्भवति तथेत्यर्थ । कारणम् उपादानम् । व्यावहारिकमात्रस्य ब्रह्मोपादानकत्वं वदतोऽद्वैतिनो मते जीवस्यापि व्यावहारिकत्वान्नानुपपत्ति । ॐ द्युभ्वाद्यायतनं स्वशब्दात् ॐ । यस्मिन्द्यौरित्यादि-द्युभ्वन्तरिक्षाद्याश्रयत्वेनोक्तं ब्रह्मैव न रुद्रादि कुत जानथ आत्मानमिति स्वशब्दपर्यायात्म-शब्दसद्भावादित्यर्थ । विषयवाक्ये स्वेतिशब्दाभावात् भाष्ये आत्मशब्दादित्युक्तमित्याशयेनाह ॥ स्वशब्दपर्यायेति ॥ उभयोरपि साक्षाद्विष्णुस्वरूपवाचकत्वादत एव चतुर्मुखस्यात्मभू स्वयम्भूरिति नामेति भाव । सूत्रे आत्मशब्दादित्युक्तौ तस्यापि विष्णुपरत्वं पृथग्वक्तव्यं तच्छब्दादित्युक्तौ च शब्दविशेषप्रतीतिर्न स्यादतस्तदुभयलाभाय स्वशब्दादित्युक्तम् । एवमुक्तौ स्वस्य विष्णोरेव शब्द स्वशब्द इत्यपि विग्रहस्य विवक्षणीयत्वादसाधारण्यं ज्ञापितं न स्यादेतदेवाभिप्रेत्योक्तं तत्त्वप्रदीपे । विष्णो स्वरूपस्यैव साक्षाद्वाचको ह्यात्मशब्द इति ।