ॐ न प्रयोजनवत्वात् ॐ

९. अथ न प्रयोजनाधिकरणम्

सूत्रभाष्यम्

यत्प्र योजनार्थं सृष्ट्यादिस्तदूनत्वान्न पूर्णतेत्यत आह–

।। ॐ न प्रयोजनवत्वात् ॐ ।। ३३ ।।

अथैष एव परम आनन्द’ (बृ.उ.६-३-३३) इत्यादिना कृतकृत्यत्वान्न प्र योजनाय सृष्टिः ।

तत्त्वप्रदीपिका

ननु सृष्ट्यादावीश्वरस्य प्र योजनमस्ति वा न वा । आद्ये कल्पे यस्य प्र योजनस्य प्राप्तये सृष्ट्यादिस्तत्पूर्वं तदूनत्वान्न पूर्णता । अपूर्णस्य चानीश्वरत्वादसृष्टिः । अन्योऽपि नोपादेयः । प्र योजनार्थं हि लोके सृष्ट्यादि । न हि प्र योजनमनुद्दिश्य बुद्धिमन्तः प्र वर्तन्ते । अतस्तदूनत्वा-न्निष्फलत्वान्न पूर्णता तस्य सृष्ट्यादिप्र वृत्तेः । अतो व्यर्थाया अनारम्भ एव स्यादित्यत आह– न प्र योजनवत्त्वात् ।। न भविष्यत्प्र योजनवत्त्वेन सृष्टिः । प्राप्तप्र योजनत्वात् ।

तत्त्वप्रकाशिका

अत्रेश्वरस्य जगत्कर्तृत्वे निष्फलत्वादियुक्तिविरोधपरिहारादस्ति शास्त्रादिसङ्गतिः । जगत्कर्तेश्वर इत्यभिहितम् । तस्य च युक्तिविरुद्धत्वे लक्षणासम्भवप्र सङ्गादसौ निराकरणीयः । जन्मादिकर्तृत्वं विषयः । ईश्वरस्य युक्तमयुक्तं वेति संशयः । उक्तरीतिरफलत्वं च सन्देहबीजम् । सयुक्तिकं पूर्वपक्षयति ।। यदिति ।। न विष्णोः स्रष्टृत्वादि युक्तम् । तथा हि । किमसौ प्र योजनमपेक्ष्य सृष्ट्यादिकं करोति प्र योजनमनपेक्ष्यैव वा । नोभयथापि सर्वकर्तृत्वम् । प्र योजनापेक्षितत्वे सृष्ट्यादेः पूर्वमपूर्णत्वप्र सङ्गात् । अपूर्णस्य च न सर्वकर्तृत्वं यज्ञदत्तवत् । प्र योजनानुद्देशेन प्र वृत्तिरेव न दृष्टा कुतः सर्वकर्तृत्वम् । अतः प्र कारद्वयेनापि विष्णोः सर्वकर्तृत्वाद्यनुपपत्तेर्विधान्तरस्य चाभावादयुक्तं जन्मादिकारणत्व-लक्षणमिति भावः । सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ।। अत इति ।। युक्तमेव विष्णोः सर्वकर्तृत्वादि । न चोक्तदोषः । तस्य पूर्णानन्दत्वेन प्राप्तप्राप्तव्यत्वात्फलानुद्देशेन प्र वृत्त्यभ्युपगमादित्यर्थः ।

भावबोधः

निष्फलत्वादिति ।। अत्रादिपदेनापूर्णत्वरूपविरोधियुक्तिग्रहणेनानुव्याख्याने बहुशब्द-स्यानेकपरत्वादेतदधिकरणोपधिरपि ‘बहुयुक्तयः’ इत्यनेनैव सङ्गृहीत इति भावः । ‘सर्वोपेत’ इति पूर्वसूत्रे नित्यानन्देत्युक्तपूर्णानन्दत्वलब्धस्य प्र योजनवत्वादिति सिद्धान्तहेतुत्वेनोपादानादनन्तर-सङ्गतिरिति ज्ञातव्यम् ।। ईश्वरस्येति ।। अत्र विष्णोः जगज्जन्मादिकारणत्वं किं युक्तिविरुद्धमुत नेति चिन्ता । तदर्थं कर्तृत्वे सृष्ट्यादिसाध्यादिफलाभावप्राप्त्यापूर्णत्वं प्राप्नोत्युत नेति । तदर्थं किं सृष्ट्यादिकं फलार्थमुत केवललीलारूपमिति । तदर्थं चेतनप्र वृत्तिः प्रेक्षावत्प्र वृत्तिर्वा स्वप्र योजन-वत्त्वेन व्याप्तोत मत्तदयालुप्र वृत्त्यादौ व्यभिचारात्तदव्याप्तेति ।

ननु यद्यत्र भाष्ये कर्तृत्वेन प्र योजनवत्त्वं प्र साध्यापूर्णत्वसाधनं विवक्षितं स्यात् । तदा प्र थमसूत्रमयुक्तं स्यात् । अपूर्णतासाधकं प्र कृतकृतकृत्यत्वरूपप्र योजनवत्त्वहेतोरसिद्धत्वात् । अथ कर्ता चेत् प्र योजनवान् स्यात्, तथा चापूर्णः स्यादित्यापादनं विवक्षितं तदा व्यर्थमेवेदं सूत्रम् । न चापूर्णस्ततो न प्र योजनवानिति परेणैवाङ्गीकृतत्वात् । अन्यथा विपर्ययापर्यवसानात् । द्वितीयसूत्रं तु पक्षद्वयेऽप्ययुक्तम् । साधनापादनदूषणस्यानुद्भावनादित्याशङ्कापरिहाराय विकल्पं कृत्वाऽद्यपक्षोत्तरत्वेन भाष्यं योजयति– तथा हीत्यादिना ।। द्वितीयपक्षोत्तरत्वेन प्र योजनाभावो कर्तृत्वे कारणमिति न्यायविवरणाभिप्रायमाह– प्र योजनानुद्देशेनेति ।। प्र योजनवत्त्वादिति सौत्रहेतु- व्याख्यानपरम् । कृतकृत्यत्वादिति भाष्यं व्याचष्टे– प्राप्तेति ।। तस्यासिद्धिपरिहारार्थं तत्साधन-प्र दर्शनाय श्रुत्युदाहरणमित्यभिप्रेत्य तस्य पूर्णानन्दत्वेनेत्युक्तम् । नेति सौत्रप्र तिज्ञाभाग-व्याख्यानपरं न प्र योजनाय सृष्टिरिति भाष्यं व्याचष्टे– फलानुद्देशेनेति ।। तथा च द्वितीय-पक्षस्यैवाभ्युपगमान्न प्र थमपक्षोक्तदोषावकाश इति भावः ।

भावदीपः

निष्फलत्वादीति ।। भाष्योक्तापूर्णत्वयुक्तिरादिपदार्थः । अग्न्यादेः स्वभावादेवोर्ध्वज्ज्वलनादि-प्र वृत्तिनिवृत्तिवदप्र योजनसृष्ट्यादेरपि सम्भवेन फलनिर्धारणेन कथं भाष्ये अपूर्णतापादनमित्यतो विकल्प्याद्ये फला(पे)काङ्क्षिणस्त्वपूर्णत्वादेव न सर्वकर्तृत्वादिशक्तिरिति न्यायविवरणरीत्या भाष्यभावमाह ।। किमसावित्यादिना ।। द्वितीये प्र योजनाभावो कर्तृत्वे कारणमिति न्याय-विवरणभावमाह ।। प्र योजनेति ।। प्र वृत्तिरेव न दृष्टेति ।। चेतनस्य प्रेक्षावतो निष्फलप्र वृत्तेर-दर्शनादित्यर्थः ।। अत इति ।। फलोद्देशेऽनुद्देशे च सृष्टेर्युक्तिविरुद्धत्वादित्यर्थः । इतरस्य पूर्णत्वादेवानन्तशक्तित्वाल्लीलयैव कर्तृत्वमिति न्यायविवरणदिशा साध्यमध्याहृत्योक्तशङ्का-निरासकत्वेन भाष्यं योजयति ।। युक्तमिति ।। प्र योजनवत्त्वादिति सौत्रपदस्य भाष्यं कृतकृत्यत्वादिति ।। तस्य व्याख्या प्राप्तप्राप्तव्यत्वादिति ।। अथैष इति वाक्यस्यार्थः पूर्णानन्दत्वेनेति ।। नेत्यस्य भाष्यं न प्र योजनाय सृष्टिरिति । तस्यार्थः फलानुद्देशेनेति ।।

अभिनवचन्द्रिका

निष्फलत्वादियुक्तिपरिहारादिति ।। अत्र निष्फलत्वं उद्देश्यविधुरत्वम् । आदिशब्देना-पूर्णत्वप्रसङ्गो गृहीतः । अत एव भाष्ये तदूनत्वादिति प्रयोजनविशेषशून्यत्वमुक्तम् ।

वाक्यार्थमुक्तावली

निष्फलत्वादीति ।। अत्रादिपदेनापूर्णत्वयुक्तिर्गृह्यते । तेन बहुयुक्तय इत्यनुव्याख्याने बहुपदमनेकत्वोपलक्षणमित्येतदधिकरणोपाधिरप्युक्त इत्युक्तं भवति । पूर्वेहेतुमुखयुक्तिविरोधोऽ-पास्तः । इह तु प्र योजनोद्देशेऽनुद्देश इति विशेष इति बहुमुखफलमुखादृढानेकयुक्तिविरोधो निरस्यत इत्यनन्तरसङ्गतिः ।। युक्तमयुक्तं वेति ।। अत्र पूर्वोक्तं विष्णोः स्रष्ट्रत्वादिकं न युक्तमिति चिन्ता । तदर्थं सृष्ट्रत्वे सृष्ट्यादिसाध्यस्य फलस्य पूर्वमभावादपूर्णत्वमापतति उत नेति । तदर्थं किं सृष्ट्यादिकं फलार्थमुत लीलारूपमिति । तदर्थं चेतनस्य प्र वृत्तिः प्रेक्षावत्प्र वृत्ति-वत्स्वप्र योजनवत्वेन व्याप्तोन्मत्तदयालुप्र वृत्तौ व्यभिचारादव्याप्तेति ।

ननु यद्यत्र भाष्ये कर्तृत्वेन प्र योजनवत्वं प्र साध्यापूर्णत्वसाधनं विवक्षितं स्यात्तदा प्र थम-सूत्रमयुक्तं स्यात् । अपूर्णतासाधकं प्र ति कृतकृत्यत्वरूपप्र योजनत्वहेतोरप्यसिद्धत्वात् । अथ कर्ता चेत्प्र योजनवान्स्यात् । तथा चापूर्णः स्यादित्यापादनं विवक्षितं तदा व्यर्थमेवेदं सूत्रम् । न चापूर्णस्ततो न प्र योजनवानिति परेणैवाङ्गीकृतत्वात् । अन्यथा विपर्ययपर्यवसानात् । द्वितीयसूत्रं तु पक्षद्वयेऽप्युक्तम् । साधनोपादानदूषणस्यानुद्भावनादित्याशङ्कापरिहाराय विकल्पं कृत्वा पक्ष-द्वयोत्तरत्वेन भाष्यं योजयति ।। तथा हीति ।। तत्राद्यपक्षोत्तरत्वेन योजयति ।। प्र योजनेति ।। सृष्ट्येश्वरस्य प्र योजनमस्तीति पक्षे यस्य प्र योजनस्य प्राप्तये सृष्ट्यादिस्तत्पूर्वं तदूनत्वादपूर्णतेति भाष्यार्थ इति भावः । द्वितीयपक्षोत्तरत्वेन भाष्यं योजयति ।। फलानुद्देशे इति ।। प्र योजनं नास्तीति पक्षे यत्प्र योजनार्थं लोके सृष्ट्यादिस्तदूनत्वात्तादृशप्र योजनविकलत्वान्निष्फलत्वान्न पूर्णता । सृष्ट्यादिप्र वृत्तेरपर्यवसानमकरणमिति यावदिति तत्वप्र दीपानुसारेण भाष्यार्थ इति भावः । तदुक्तं न्यायविवरणं योजयति फलानुद्देशे इतीत्यवधारितम् ।। न चोक्तदोष इति ।। विकल्प्य पक्षद्वयोक्तदोषो नेत्यर्थः । कुतो नेत्यर्थः । द्वितीयपक्षं सयुक्तिकमभ्युपगमत्सूत्रे प्र योजनवत्वादित्यावर्तते । सृष्टिरिति शेषः । ततश्च प्र योजनवत्वात् प्र योजनत्वेन पूर्णानन्दत्वेन प्र योजनवत्वात् । प्र योजनं कृत्यं प्राप्तव्यं तद्वत्वात् प्राप्तप्राप्तव्यत्वात् । प्र योजनवत्वेन भविष्य-त्प्र योजनत्वेन एष्यत्प्र योजनाय सृष्टिरित्यर्थमभिप्रेत्य अथैष एवेत्यादि भाष्यं प्र वृत्तम् । तत्र कृत-कृत्यत्वादित्यस्य कृतं पूर्णमानन्दो यस्य स कृतकृत्यस्तस्य भावः कृतकृत्यमित्येकोऽर्थः । कृतं प्राप्तं कृत्यं प्राप्तव्यं येनेत्यपरः । तयोश्च हेतुहेतुमद्भावः । पूर्णानन्दस्यासिद्धिपरिहाराय श्रुत्युदाहरणमिति अभिप्रेत्य व्याचष्टे ।। तस्येति ।। न प्र योजनाय सृष्टिरिति प्र तिज्ञाविवरण-परभाष्यस्यार्थः । तस्य फलानुद्देशेनेति ।।

तत्त्वसुबोधिनी

निष्फलत्वादीत्यत्रादिपदेनापूर्णत्वरूपयुक्तिविरोधपरिग्रहः । अत्र सर्वोपेतेति सूत्रे नित्यानन्दे-त्युक्तपूर्णानन्दत्वेन लब्धस्य कृतकृत्यत्वरूपप्र योजनवत्वस्यात्र प्र योजनवत्वादिति सिद्धान्त-हेतुत्वेनोपादानादनन्तरसङ्गतिः इति भावः । ननु यद्यत्र भाष्ये कर्तृत्वेन प्र योजनवत्त्वं प्र साध्य पूर्णत्वसाधनं विवक्षितं स्यात्तदा प्र थमसूत्रमयुक्तं स्यात् । अपूर्णतासाधकं प्र ति कृतकृत्यत्व-रूपप्र योजनवत्वहेतोः असिद्धत्वात् । अथ कर्ता चेत् प्र योजनवान् स्यात् तथा चापूर्णः स्यादित्यापादनं विवक्षितं तदा व्यर्थमेवेदं सूत्रं, न चापूर्णः ततो न प्र योजनवान् इति परैणै-वाङ्गीकृतत्वात्, अन्यथा विपर्ययापर्यवसानात् । द्वितीयसूत्रं तु पक्षद्वयेऽप्ययुक्तम् । साधना-पादनदूषणस्यानुद्भावनादित्याशङ्कापरिहाराय विकल्पं कृत्वाद्यपक्षोत्तरत्त्वेन भाष्यं योजयति ।। तथा हीत्यादिना ।। द्वितीयपक्षोत्तरमाह ।। प्र योजनानुद्देशेनेति ।। प्र योजनमपेक्ष्यैवेति पक्षे प्र योजनाभावे कारणमेव, आद्यपक्षे तु तदभावेऽपि कारणमिति भावः । उभयथापि प्र योजनापेक्षा आगतेति न पक्षद्वयं युक्तमित्याह ।। नोभयथापीति ।। ननूक्तप्र कारद्वयेन स्रष्ट्रत्वासम्भवेऽपि प्र कारान्तरेण स्रष्ट्रत्वं (सं)भविष्यति इत्यत उक्तम् विधान्तरस्येति ।। प्र योजनवत्त्वादिति सौत्रहेतुव्याख्यानपरं कृतकृत्यत्वादिति भाष्यं व्याचष्टे ।। प्राप्तेति ।। तस्यासिद्धिपरिहारार्थं तत्साधकप्र दर्शनाय श्रुत्युदाहरणमित्यभिप्रेत्य तस्य पूर्णानन्दत्वेनेत्युक्तम् । तेनेति सौत्रप्र तिज्ञा-व्याख्यानपरं, न प्र योजनाय सृष्टिरिति भाष्यं व्याचष्टे ।। फलानुद्देशेनेति ।। तथा च द्वितीय-पक्षस्यैवाभ्युपगमात् न प्रथमपक्षोक्तदोषावकाशः इति भावः ।

वाक्यार्थविवरणम्

अपूर्णत्वप्र सङ्गादिति ।। ततः किमित्यत उक्तम् ।। अपूर्णस्य चेति ।।

वाक्यार्थमञ्जरी

अपूर्णत्वप्रसङ्गादिति ।। सृष्ट्यादिना यत्प्र योजनं तदूनत्वादिति भावः । नेश्वरप्र वृत्तिः स्वप्र योजनार्था कुतः प्र योजनवत्वात् । प्र वृत्त्या यत्प्र योजनं प्रागेव तद्वत्वादिति भावः ।। प्राप्त-प्राप्तव्येति ।। प्राप्तं प्राप्तव्यं येनासौ तथोक्तस्तस्मादित्यर्थः ।

Load More