ॐ अन्तस्तद्धर्मोपदेशात् ॐ

सूत्रभाष्यम्

७. अन्तस्थत्वाधिकरणम्

"अदृश्येऽनात्म्ये’ इत्युक्तम् । तच्चादृश्यत्वम् "अन्तप्रविष्टं कर्तारमेतम् । अन्तश्र्चन्द्रमसि मनसा चरन्तम् । सहैव सन्तं न विजानन्ति देवा’ (तै.आ.३-११) इत्यन्तस्थस्य कस्य-चिदुच्यते । स च "इन्द्रो राजा’ (तै.आ.३-११-६) "सप्त युञ्जन्ति’ (तै.आ.३-११-८) इत्यादिभिरन्य प्रतीयते । तस्मात्स एवानन्दमय इति न मन्तव्यम् ।

ॐ अन्तस्तद्धर्मोपदेशात् ॐ ॥ २० ॥

अन्त श्रूयमाणो विष्णुरेव । "अन्तस्समुद्रे मनसा चरन्तम् । ब्रह्मान्वविन्दद्दश-होतारमर्णे’ (तै.आ.३-११-१) । "समुद्रेऽन्त कवयो विचक्षते मरीचीनां पदमिच्छन्ति वेधस’ (तै.आ.३-११-११) । "यस्याण्डकोशं शुष्ममाहु’ (तै.आ. ३-११-४) इत्यादितद्धर्मोपदेशात् । स हि क्षीरसमुद्रशायी । तस्य च वीर्यमण्डकोश ।

"सोऽभिध्याय शरीरात्स्वात्सिसृक्षुर्विविधा प्रजा ।

 अप एव ससर्जादौ तासु वीर्यमवासृजत् ॥

 तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् ।

 यस्मिन् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामह ॥

 आपो नारा इति प्रोक्ता आपो वै नरसूनव ।

 अयनं तस्य ता पूर्वं तेन नारायण स्मृत’ ॥ इति व्यासस्मृतौ ।

"अहं तत्तेजो रश्मीन्नारायणं पुरुषं जातमग्रत । पुरुषात्प्रकृतिर्जगदण्डमि’ति चतुर्वेद-शिखायाम् ॥ २० ॥

सत्तकदीपावली

गताधिकरणेनोत्तराधिकरणस्य सङ्गतिं तावदारभते । अदृश्य इत्यादिना । इदमाम्नायते ॥ अन्त-प्रविष्टं कर्तारमेतमिति । अत्रान्तस्थितस्य पुरुषस्यानन्दमयधर्मत्वेन तत्प्रकरणपठितमदृश्यत्वं श्रूयते सहैव सन्तं न विजानन्ति देवा इति । तेनैतद्विचारो गताधिकरणेन सङ्गत । अत्र देवैरविज्ञायमानोऽन्तप्रविष्ट कर्ता इन्द्रो वा सूर्यो वा अग्न्यादिर्वा भवेत् । अन्तप्रविष्टस्य कर्तु प्रकरणे इन्द्रो राजा जगतो य ईशे इतीन्द्रशब्दश्रवणात् । सप्त युञ्जन्ति रथमेकचक्रमिति सूर्यिलङ्गश्रवणात् । ब्रह्मेन्द्राग्न्यादिशब्दश्रवणात् । अतोऽर्थादानन्दमयोऽपि इन्द्राद्यन्यतम इति प्रतिक्षिपत्सूत्रमुपन्यस्यति अन्तरिति । व्याचष्टे । अन्त श्रूयमाण इत्यादिना । अयमर्थ । अन्तप्रविष्टं कर्तारमेतम् इत्येतद्वाक्योक्तो विष्णुरेव तत्प्रकरणवाक्येषु अन्तसमुद्र इत्यादिविष्णुलिङ्गश्रवणात् । एतच्च विष्णोरेव लिङ्गमित्येतद्य्वासस्मृत्या दर्शयति ॥ सोऽभिध्यायेति ॥ एतदेव श्रुत्यन्तरेण द्रढयति ॥ अहं तत्तेज इति ॥ अहेयत्वादहंनामकं रश्मीनीरयति प्रेरयतीति रश्मीच्छब्दवाच्यम् । रश्मीनां मध्ये तपन्तमित्याद्युक्तं जलायनत्वान्नारायणनामकं तत्तेजोऽग्र आसीत् तस्मात्पुरुषशब्दाभिधेयात् प्रकृति जगदण्डं च जातमित्यर्थ । एतेनान्यसिद्धेन विष्णुलिङ्गेनेन्द्रादि-श्रुतिलिङ्गानामन्यथासिद्धानां बाधितत्वान्नेन्द्राद्यन्यतमोऽन्तरित्यादिवाक्ये शङ्कनीय ।

तत्त्वप्रदीपिका

एवं तावदानन्दमयादिशब्दसमन्वयप्रतिपादनमुखेन तैत्तिरीयशाखागतानां तद्रूपशाखान्तरगतानां च नाम-शब्दानां विष्णौ समन्वयो दर्शित । तेषां तद्गतिलङ्गानां वा पुन श्रुतिष्वितरशब्दादियोगेन वृत्तेस्संशयप्राप्तौ विशेषन्यायविवक्षयाऽधिकरणान्तराण्यारभ्यन्त इत्यत्र च सम्बन्ध प्रायस्समन्वयाधिकरणानां विद्यते । तं च क्वचित्क्वचिदाचार्य स्पष्टं दर्शयति । यथेह अदृश्य इत्यादिना । अयमर्थ, "अदृश्येऽनात्म्य’ इत्यानन्द-मयस्यादृश्यत्वमुक्तम् । तच्च अनप्रविष्टस्य चन्द्रादिषु स्वेच्छया चरत प्रतीयते न विजानन्तीति । स च "इन्द्रो राजा जगतो य ईशे सप्तहोता सप्तधा विक्लृप्त,’ "सप्त युञ्जन्ति,’ "ब्रह्मेन्द्रमग्निं जगत प्रतिष्ठां दिव आत्मानं सवितारं बृहस्पतिम्’ इत्यादिष्वन्योऽन्य प्रतीयते । सप्तबुद्धीन्द्रियाणि विषयेषु जीवेन जुहोतीति "सप्तहोता’, विषयानिन्द्रियैर्जीवे वा । सप्तगणा रथं प्रत्यात्मानं युञ्जन्ति, रथे युक्ता इत्यर्थ । एकोऽश्र्वो वेद सप्तच्छन्दोनामा । छन्दोभिमानिनां पृथक्त्वेऽपि वेदाभिमानी सप्तस्वेकोऽस्ति । मास-चतुष्कैस्त्रिभि "त्रिनाभि’ । "अनर्व’मर्वभ्यो दूरस्थचक्रं मानसोत्तरगिरिशिखरवलयपरिवर्ति, अर्वन्तो मेरुमानसोत्तरमध्याकाशगा । अन्तस्तद्धर्मोपदेशात् । "अन्त समुद्रे मनसा चरन्तं ब्रह्मान्वविन्दद्दश-होतारमर्णे’ "समुद्रेऽन्त कवयो विचक्षते मरीचीनां पदमिच्छन्ति वेधस’ । कवय सन्तो वेधस, मरीचीनामाश्रयभूतं विचक्षणायेच्छन्ति । "मरीचिर्मितरुक्त्वत’ इति वचनान्मरीचिर्जीव । "यस्याण्डकोशं शुष्ममाहु प्राणमुल्बं, तेन क्लृप्तोऽमृतेनाहमस्मि’ इति विरिञ्चवाक्यम् । शुष्मं वीर्यम्, उल्बं जरायोरन्त-प्रावरणं, येन सहैव जायते । "अहं तत्तेजो रश्मीन्नारायणं पुरुषं जातमग्रत । पुरुषात्प्रकृतिर्जगदण्डं त्रिपुरुषं मायाबीजं जायत’ इति । रश्मीनिन्दयतीति रश्मीत्, इन्द प्रेरण इति धातो । रति शं च मितमस्येति रश्मिर्जीव । अग्रत पुरुषाज्जातं प्रकृतिर्जगच्च । जगदिति जीवसमुदाय उच्यते । तत प्राप्तविशेषमित्यर्थ । पश्र्चादण्डं त्रिपुरुषयुक्तं प्रकृत्युपादानं जायते । ब्रह्मवायुरुद्रास्त्रय पुरुषा ।

तत्त्वप्रकाशिका

अत्र परमात्मन्यन्यत्र प्रसिद्धेन्द्रादिनामसमन्वयसिद्ध्यर्थमन्तस्थत्विलङ्गसमन्वयसमर्थनादस्ति शास्त्रादि-सङ्गति । श्रुत्यधिकरणसङ्गती दर्शयति ॥ अदृश्य इति ॥ "अदृश्येऽनात्म्येऽनिरुक्ते’ इत्यानन्दमयस्य यददृश्यत्वमुक्तं तच्चान्तप्रविष्टमिति वाक्ये कस्यचिदन्तप्रविष्टस्य "सहैव सन्तं न विजानन्ति देवा’ इत्युच्यते । सोऽन्तस्थो निर्णेयो भवति । तस्य विष्णोरन्यत्वेऽदृश्यत्वं च तस्यैवेत्यानन्दमयस्यान्यत्व-प्रसङ्गात् । सोऽन्तस्थो विषय । विष्णुरन्यो वेति सन्देह । अदृश्यत्विलङ्गमिन्द्रादिश्रुतिश्च प्राबल्याद्य-विवेकेन सन्देहबीजमिति भाव ।

तत्र सयुक्तिकं पूर्वपक्षयति ॥ स चेति ॥ सोऽन्तस्थोऽन्य इन्द्रादि स्यात् । "इन्द्रो राजा जगतो य ईशे’ इतीन्द्रश्रुते । "सप्त युञ्जन्ति रथमेकचक्रम्’ इति सूर्यिलङ्गात् । "अपां नेतारम्’ इति वरुणिलङ्गात् । "त्वष्टारं रूपाणि विकुर्वन्तम्’ इति त्वष्टृश्रुते । "ब्रह्मेन्द्रम्’ इत्यादिश्रुतिलिङ्गेभ्यश्च । न चेन्द्रादिशब्दा अन्यत्र नेतुं शक्यन्ते । तेषां देवेष्वेव रूढत्वात्तेषामैश्वर्यादिशब्दप्रवृत्तिनिमित्तवत्त्वाच्च । न चादृश्यत्व-लिङ्गेनान्तस्थो विष्णु । श्रुत्यादिभ्यो लिङ्गमात्रस्य दुर्बलत्वात् । अतोऽन्यपरश्रुत्यादिबलादन्तस्थोऽन्य एवेत्यर्थ । पूर्वपक्षफलमाह ॥ तस्मादिति ॥ यतोऽन्तस्थोऽन्यस्तत एवादृश्यत्वं चान्यस्य तस्माददृश्यत्व-युक्तानन्दमयोऽपि कश्चिदिन्द्राद्यन्यतम । तथा चान्यावयवस्य ब्रह्मणो न पृथग्जिज्ञास्यतेत्यर्थ ।

सिद्धान्तयति ॥ इतीति ॥ तत्र हेत्वाकाङ्क्षायां सूत्रमुपन्यस्य व्याचष्टे ॥ अन्तरिति ॥ समुद्रेऽन्तरर्णे जले यथेष्टं चरन्तं दशेन्द्रियेषु विषयहोतारं ब्रह्मा व्यजानात् । मरीचीनां जीवानामाश्रयं वेधसो भूतभविष्य-द्ब्रह्माण इच्छन्ति । ब्रह्माण्डकोशं यस्य वीर्यमाहुरिति समुद्रस्थत्वब्रह्माण्डवीर्यत्वादिविष्णुलिङ्गानामन्त-प्रविष्टनिष्ठतयोपदेशादन्तप्रविष्टं कर्तारमित्यन्तश्रूयमाणो विष्णुरेव । ततश्च तस्यैवादृश्यत्वमानन्दमयत्वं चेति नान्यस्य तन्मन्तव्यमित्यर्थ । अत्र समुद्रस्थत्वं नाम क्षीराब्धिशायित्वं प्रलयसमुद्रशायित्वं च विवक्षितम् । समुद्रस्थत्वादेर्विष्णुधर्मत्वं कुत इत्यत आह ॥ स हीति ॥ अस्तु विष्णो क्षीरसमुद्रशायित्वं लिङ्गम् । प्रसिद्धत्वात् । प्रलयार्णवस्थत्वस्य ब्रह्माण्डवीर्यत्वस्य च कुतो विष्णुधर्मत्वमित्यत आह ॥ स इति ॥ तदहेयं रश्मिप्रेरकं पूर्णषङ्गुणं नारायणाख्यं तेज प्रलये स्थितं तस्मात्पुरुषात्प्रकृतिश्चेतना जगत् ब्रह्माण्डं च जातमित्यर्थ ॥ २० ॥

गुर्वर्थदिपिका

रश्मीन्नयतीति रश्मीन् इति द्वितीयाया अलुक्समासमभिप्रेत्यार्थमाह रश्मिप्रेरकमिति । अन्यथा रश्मिन्निति प्रयोग स्यात् ।

भावबोध

॥ ॐ अन्तस्तद्धर्मोपदेशात् ॐ ॥ इन्द्रादिनामसमन्वयसिद्ध्यर्थमिति । तेनान्तर्भावलक्षणपाद-सङ्गतिरप्यस्तीत्युक्तं भवति । श्रुत्यधिकरणसङ्गती दर्शयतीति । अव्यवहितपूर्वाधिकरणस्थ "भेदव्यपदेशात्’ इति सूत्रतदुक्तश्रुतिभ्यामित्यर्थ ॥

यद्वा ""..... देवानां तत्र शक्तताम् । आशङ्क्य तत्र रूढिञ्च तच्छब्दानामपि स्वयम् ॥’’ इत्यनुव्याख्यानरीत्या सन्त्वन्नमयादिशब्दा विष्णुपरास्तेषां गुणिसामान्यवाचिनामित्युक्तत्वेन गुणिविशेषे निरूढत्वाभावात् । इन्द्रादिशब्दास्तु पुरन्दरादिव्यक्तिविशेषे योगरूढिभ्यां प्रवर्तमाना कथं विष्णुपरा इति पूर्वाधिकरणवैषम्येणात्र पूर्वपक्षोत्थानादनन्तरसङ्गतिरिति ज्ञातव्यम् ॥ विष्णुरन्यो वेति ॥ अत्रान्तस्थत्वं किमिन्द्रादीनां सम्भवत्युत विष्णोरेवेति चिन्ता । तदर्थमुभयप्रापकश्रुतिलिङ्गानामन्तस्थैक-निष्ठताप्रतीत्यन्यथानुपपत्त्याऽन्तस्थेन परस्परमभेद उतेन्द्रस्यात्मेत्यादिभेदव्यपदेशाद्भेद इति । तदर्थमुभयप्रापकश्रुतिलिङ्गानां परस्परं साम्यमुत निरवकाशविष्णुलिङ्गेन सावकाशेन्द्रादिश्रुतिबाध इति । तदर्थं श्रुतित्वादिजातिप्रयुक्तप्राबल्यं निरवकाशत्वप्रयुक्तप्राबल्यसममुत ततो दुर्बलमिति । अथवा अन्तस्थ किमिन्द्रादिरुत विष्णुरिति चिन्ता । तदर्थमिन्द्रादिश्रुत्यनुसारेण विष्णुलिङ्गं नेयमुत विष्णुलिङ्गानु-सारेणेन्द्रश्रुत्यादिकं नेयमिति । तदर्थं किं श्रुतिर्निवरकाशा लिङ्गं सावकाशमुत विपरीतम् ? लिङ्गस्य निरवकाशत्वेऽपि किं श्रुतित्वप्रयुक्तप्राबल्यं बलवत्, उत निरवकाशत्वप्रयुक्तप्राबल्यं बलवदिति । प्राबल्याद्यविवेकेनेति । "श्रुतिर्लिङ्गम्’ इति वाक्ये पूर्वं पूर्वं बलीय स्यादित्युक्तश्रुतिलिङ्गगतजातिकृत-प्राबल्यदौर्बल्याविकेनेति वा नामानि सर्वाणीत्यादिना इन्द्रादिश्रुतीनां विष्णौ यत्सावकाशत्वलक्षणं दौर्बल्यम् "अतर्क्यं तर्क्यमज्ञेयम्’ इत्युक्तरीत्या "विवक्षितगुणोपपत्ते’ इत्यादिवक्ष्यमाणरीत्या च यददृश्यत्विलङ्गस्य विष्णोरन्यत्र निरवकाशत्वलक्षणं प्राबल्यं चोक्तं तयोरविवेकेनेत्यर्थ । "इत्यादिभि’ इति भाष्यगतादिशब्दोपात्तमाह अपां नेतारमित्यादिना । ""न च

"ब्रह्मेन्द्रमग्निं जगत प्रतिष्ठां दिव आत्मानं सवितारं बृहस्पतिम् ।

 चतुर्होतारं प्रदिशोऽनुक्लृप्तं वाचो वीर्यं तपसाऽन्वविन्दत्’

इत्यादिशब्दानामन्यविषयत्वम्’’ इति न्यायविवरणं मनसि निधायाऽऽह ब्रह्मेन्द्रमिति । दिव आत्मत्वादिकं वायुलिङ्गमिति ज्ञातव्यम् । "... देवानां तत्र शक्तताम् । आशङ्क्य तत्र रूढिं च तच्छब्दानामपि स्वयम्’ इत्यनुव्याख्यानं मनसि निधायाह । तेषां देवेष्वेवेत्यादि । तस्यार्थो यथेष्टमिति । ब्रह्माण्डवीर्यत्वादि इत्यादिपदेन न्यायविवरणोदाहृतश्रुत्युक्तब्रह्मतपोलभ्यत्वादिलिङ्गग्रहणम् । अत्र समुद्रान्तस्थत्वं नामेति । अत एवार्णवपदोपेततत्वेन विशिष्य प्रलयसमुद्रशायित्वप्रतिपादकवाक्यमुदा-हृतम् । सामान्यत समुद्रस्थत्वप्रतिपादकस्य समुद्रेऽन्तरिति वाक्यस्याप्युदाहरणं भाष्ये कृतम् । तथा च "स हि क्षीरसमुद्रशायी’ इति प्रसिद्ध्युक्ति "आपो नारा’ इति प्रलयसमुद्रशायित्वे प्रमाणोदाहरणञ्च युक्तमिति भाव । प्रसिद्धत्वादिति ॥ अनेन "स हि’ इति "हि’शब्दार्थ उक्तो भवति । प्रलये स्थितमिति । अनेन "जातमग्रत’ इत्येतद्य्वाख्यातं भवति । जातमित्यर्थ इति । अनेन जातमित्येतदनुवर्त्य व्याख्यातं भवति ।

भावदीप

॥ ॐ अन्तस्तद्धर्मोपदेशात् ॐ ॥ परमात्मनीति समन्वयेति अन्यत्र प्रसिद्धेन्द्रादिनामेति चोक्त्या क्रमेण शास्त्राध्यायपादेष्वन्तर्भाव । सिद्ध्यर्थमित्युक्त्या फलत एव पादान्तर्भाव न साक्षात् । साक्षात्तु लिङ्गस्येति सूचितम् । लिङ्गसमन्वयोक्तेस्तु कृत्यमन्ते व्यक्तम् । सङ्गतिपरत्वेन तावद्भाष्यं विवरितुमुक्त-मित्यन्तस्यार्थमाह ॥ अदृश्य इति ॥ अनिरुक्त इत्यन्तोक्तिरदृश्यत्वमज्ञेयत्वं न त्वप्रत्यक्षत्वं अनिरुक्ते-र्ज्ञानाभावहेतुकत्वादिति द्योतनाय । अन्यथाऽसङ्गते । तच्चेत्यादेरुच्यत इत्यन्तस्यार्थमाह ॥ तच्चेति ॥ इत्युच्यत इति ॥ देवा अपि न जानन्ति किम्वन्य इति कैमुत्येन सर्वाज्ञेयत्वरूपमदृश्यत्वमुच्यत इत्यर्थ । अदृश्यत्वं कात्स्नर्येनाज्ञेयत्वम् । भाष्ये इति न मन्तव्यमित्यतप्राक्प्रसज्यत इति संयोज्य तदन्तभाष्यस्य सङ्गत्यर्थतया तात्पर्यमाह ॥ तस्य विष्णोरिति ॥ अन्यत्व इति ॥ स चेन्द्रो राजेत्यादिभाष्यवाक्योक्तेन्द्रादिश्रुत्या इन्द्रादित्व इत्यर्थ । प्रसङ्गादित्यस्य सोऽन्तस्थो निर्णेयो भवतीति पूर्वेण भाष्येऽध्याहृतसाध्येनान्वय । तथा च पूर्वाधिकरणतद्विषयवाक्याभ्यामाक्षेपिकी सङ्गतिरे-तदधिकरणैतद्विषयवाक्ययोरिति भाव ॥ स इति ॥ अन्तप्रविष्टमित्यादिश्रुत्युक्त इत्यर्थ । अन्य प्रतीयत इति भाष्योक्तेराह ॥ अन्यो वेतीति ॥ प्राबल्यादीति ॥ श्रुति प्रबला लिङ्गं दुर्बलमित्यविवेकेनेति वा । श्रुते श्रुतित्वेन लिङ्गस्य निरवकाशत्वेन प्रबलत्वात्किं तयो प्रबलमित्यविवेकेनेति वाऽर्थ । स चेत्यारभ्य प्रतीयत इत्यन्तं भाष्यं पूर्वपक्षतद्युक्तिपरतयाऽपि व्याचष्टे ॥ सोऽन्तस्थोऽन्य इत्यादिना ॥ जगतो य ईशे ईष्टे स्वामीत्यर्थ ॥ सूर्येति ॥ सप्ताश्वत्वैकचक्ररथत्वरूपिलङ्गद्वयादित्यर्थ । भाष्यस्थादि-पदार्थमाह ॥ अपामिति ॥ अब्नेतृत्विलङ्गादित्यर्थ । अस्य चैकत्वेऽपि अन्ते श्रवणात्परप्राबल्यन्यायेन विष्णुलिङ्गात्पूर्वस्मात्प्राबल्यमिति भाव । विष्णुलिङ्गेभ्य इन्द्रादिश्रुतिलिङ्गयो प्राबल्याय वा अग्न्यादयोऽप्यत्र ग्राह्या इति भावेन वा न च ब्रह्मेन्द्रमग्निं जगत प्रतिष्ठां दिव आत्मानं सवितारं बृहस्पतिम् । चतुर्होतारं प्रदिशोऽनुक्लृप्तं वाचो वीर्यं तपसाऽन्वविन्ददित्यादिशब्दानामन्यविषयत्वमिति न्यायविवरणमत्र योजयति ॥ ब्रह्मेन्द्रमिति ॥ तथा च इन्द्रश्रुतेर्जात्याऽभ्यासेन च सूर्यिलङ्गस्य च सवितृश्रुत्यनुगृहीतत्वेन प्राबल्यमिति भाव । एतेन ब्रह्मश्रुत्या विष्णु किं नेति निरस्तम् । ब्रह्मा तपसाऽन्वविन्ददिति सुधोक्तदिशा वाक्यशेषस्य क्रियापेक्षितकर्त्रर्पकत्वेन प्रथमान्तपुल्लिङ्गत्वेन विरिञ्चिपरत्वादिति । उक्तश्रुत्यादे सावकाशत्वेन दौर्बल्यनिरासाय देवानां तत्र शक्तताम् । आशङ्क्य तत्र रूढिं च तच्छब्दानामपि स्वयम् ।

इत्यनुभाष्यमात्रव्यावर्त्यशङ्कापूर्वं योजयति ॥ न चेति ॥ तत्र रूढिं च तच्छब्दानामित्यस्यार्थ देवेष्विति । देवानां तत्र शक्ततामित्यंशस्य तत्रैश्वर्यादिरूपशब्दप्रवृत्तिनिमित्तवत्तायां शक्ततामित्यर्थकस्य तात्पर्यं तेषामिति । भाष्ये स एवेत्यवधारणादन्य इत्यत्राप्यन्य एवेति संयोज्यमिति भावेन तदवधारण-व्यावर्त्यमाह ॥ न चेति ॥ अदृश्यत्वेति ॥ सिद्धान्तीयिलङ्गानामप्युपलक्षणम् । अतो लिङ्गमात्रस्येत्याह न त्वेकस्येति । एतेन तेषां बहुत्वेन प्राबल्यमिति निरस्तम् । श्रुतित्वरूपस्वभावप्राबल्यस्य बलवत्वादिति । तदप्याह श्रुत्यादिभ्य इति श्रुतिग्रहणेन ॥ अत इति ॥ निर्बाधरूढियोगसद्भावादन्यपरेत्यर्थ । पूर्वपक्षस्य नानाकोटित्वात्सन्देहादविशेष स्यादित्यत उक्तम् ॥ अन्य एवेति ॥ इन्द्रादिप्रापकाणां बलाबलानिर्णयेनेन्द्र एवेत्याद्यनिर्णयेऽपीह विष्णोरन्य एव य कश्चित्सर्वथा विष्णुर्नेति विष्ण्वन्यत्वेन निर्धारणसम्भवादिति भाव । अत एव संशयेऽप्यन्य इत्येवोक्तम् । एवमन्यत्राप्यनेककोटिकस्थले बोध्यम् । सङ्गतिपरतया तात्पर्यतो व्याख्यातमपि भाष्यशेषं पूर्वाक्षेपबीजं वदन्फलपरत्वेनापि व्याचष्टे ॥ पूर्वपक्षेति ॥ तदाक्षेपस्यापि किं फलमित्यत पूर्वभाष्योक्तमाह ॥ तथा चेति ॥ श्रुत्यर्थोक्तिपूर्वं हेत्वर्थं व्यञ्जयन्व्यवहितत्वाद्भाष्ये हेतुसाध्यान्वयमाह ॥ समुद्र इति ॥ वीर्यत्वादीत्यादिपदेन ब्रह्मज्ञेयत्वब्रह्मतपोलभ्यत्वादेर्ग्रह । तद्धर्मेत्यत्र तदिति तन्त्रं षष्ठ्यन्तं सप्तम्यन्ते चेत्युपेत्यार्थमाह ॥ विष्णुलिङ्गानामन्तप्रविष्टनिष्ठतयेति ॥ समन्वय-सूत्रात्तत्त्विति पदं साध्यार्पकं सत् अध्यायसमाप्ति प्रतिनयमनुवर्तत इति भावेन विष्णुरेवेत्युक्ति । एवमग्रेऽपि ज्ञेयम् । वक्ष्यमाणभाष्यानुगुण्यादाह ॥ अत्रेति ॥ हिशब्दार्थमनुवदति ॥ प्रसिद्धत्वादिति ॥ प्रलयेति । अपो नारा इत्यत्र तत्प्रतीतेरिति भाव । स्मृति निगदव्याख्येति श्रुतिमेव व्याचष्टे ॥ तदिति ॥ अहमित्यस्यार्थोऽहेयमिति । नञुपपदादोहाक्त्याग इति धातो कर्मणि डप्रत्यये अहमिति रूपमिति भाव ॥ रश्मिप्रेरकमिति ॥ रश्मीनिन्धयति दीपयतीति रश्मीत् । अग्नीदितिवत् रश्मिप्रेरकमिति यावत् । पुरुषपदार्थ पूर्णेति । जातमग्रत इत्यस्यार्थ प्रलये स्थितमिति । जातमिति पूर्वस्मादनुवृत्तमिति भाव । उत्पन्नमित्यर्थ । एतेन श्रुतिसन्देहे अनन्यथासिद्धिलङ्गेन निर्णयोपपत्तेरिति न्यायविवणोक्त-मनन्यथासिद्धत्वमुपपादितं ज्ञेयम् ॥ २० ॥

अभिनवचन्द्रिका

अस्ति शास्त्रादिसङ्गतिरिति ॥ अस्याधिकरणस्य शास्त्राध्याययोरन्तर्भाव, पादेन त्वौपोद्धातिकी सङ्गति । एतदधिकरणस्य लिङ्गसमन्वयद्वारा अन्यत्रप्रसिद्धेन्द्रादिनामसमन्वयसिध्द्युपयोगित्वादिति भाव । एतेन अस्याधिकरणस्य पादसङ्गतिर्नास्तीति भाष्यकृतैवोक्तत्वात् पादसङ्गतिसूचकस्य "इन्द्रादिनाम-समन्वयसिध्द्यर्थ’मिति विशेषणस्य वैयर्थ्यमिति परास्तम् । भाष्यकारोक्तांऽतर्भावलक्षणसङ्गत्यभावमङ्गीकृत्य सङ्गत्यन्तरसूचनाय विशेषणस्य प्रयुक्तत्वात् । इत्युच्यत इति ॥ अनेन आनन्दमयाधिकरणतद्विषय-वाक्योक्तस्यानन्दमयस्यैतदधिकरणोक्तान्तस्थस्य चाऽदृश्यत्वरूपैकधर्माक्रान्तन्त्वमेवाऽस्याधिकरणस्य पूर्वाधिकरणतद्विषयवाक्याभ्यां सङ्गतिरुक्तेति ज्ञातव्यम् । एवमुत्तरत्रापि द्रष्टव्यम् । एतेन अदृश्यत्व-मन्तस्थस्योच्यते इत्युक्त्या सङ्गतिविशेषस्यानिरूपणात् श्रुत्यधिकरणसङ्गती दर्शयतीत्ययुक्तमिति परास्तम् । अस्तु सङ्गति तथापि नेदमधिकरणमारम्भणीयम् । अन्तस्थो विष्णुरिति निर्णयस्याऽनावश्यकत्वात् इत्यत आह तस्येति ॥ अन्तस्थस्य विष्णोरन्यत्वे अन्तस्थवाक्योक्तमदृश्यत्वं च तस्यैव स्यात् । ततश्र्च अदृश्यत्वेनोक्तानन्दमयस्य प्रत्यभिज्ञानात् विष्ण्वन्यत्वप्रसङ्ग स्यादित्यर्थ । एतेन तस्य विष्णोरन्यत्वे अदृश्यत्वं च अन्यस्यैवेत्ययुक्तं, घटपटयोरदृश्यत्ववत् अन्तस्थानन्दमययोरुभयोरपि अदृश्यत्वसम्भवात् । अत एव आनन्दमयस्याप्यन्यत्वप्रसङ्गादित्ययुक्तमिति परास्तम् । अन्तस्थवाक्योक्तमदृश्यत्व-मन्यस्यैवेत्याशयात् । आनन्दमयस्याऽन्यत्वं तु प्रत्यभिज्ञावशेन । प्रत्यभिज्ञाया तादात्म्यसाधकत्व-मित्यङ्गीकारात् । पूर्वाधिकरणोक्तब्रह्मशब्दाभ्यासादे प्रत्यभिज्ञातो दुर्बलत्वशङ्काप्रतिरुद्धत्वेन अबाधकत्वात् । विष्णोरन्यो वेतीति ॥ अन्यो वेत्यनेन इन्द्रो वा, सूर्यो वा, वरुणो वा, त्वष्टा वा, अग्न्र्विा, बृहस्पतिर्वेति कोटीनां ग्रहणम् । अन्य प्रतीयते इति भाष्ये अन्तस्थ इन्द्र, अन्तस्थ सूर्य, अन्तस्थो वरुण, अन्तस्थस्त्वष्टा, अन्तस्थोऽग्न्,ि अन्तस्थो बृहस्पति इति पूर्वपक्षा प्रतिज्ञाता इत्यभिप्रायेण अन्यशब्दं व्याचष्टे  अन्य इन्द्रादिरिति ॥ आद्यपूर्वपक्षे हेतुरिन्द्रेति । एतेन इन्द्रश्रुतेरित्यस्य इन्द्रादि स्यादित्यनेन अनन्वय इति परास्तम् । इन्द्रश्रुतेरित्यस्य इन्द्रादि स्यादिति प्रतिज्ञवाक्यं इन्द्र स्यादिति रूपेण विभज्य अङ्गीकारात् । एवमुत्तरत्रापि द्रष्टव्यम् । द्वितीय आह सप्तेति ॥ तृतीय आह अपामिति ॥ चतुर्थे त्वाह त्वष्टेति ॥ "ब्रह्मेन्द्रमग्न्िं जगत प्रतिष्टां दिव आत्मानं सवितारं बृहस्पतिम्, चतुर्होतारं प्रदिशोनुक्कृप्तं वाचो वीर्यं तपसा अन्वविन्द’(तै.आ.)-दित्यादिशब्दानामन्यविषयत्वमिति न्यायविवरणानुसारेण अग्न्रिेव अन्तस्थ इति पूर्वपक्षे अग्न्श्रिुति जगत्प्रतिष्ठापकत्वं च लिङ्गं साधकम् । बृहस्पतिरेव अन्तस्थ इति पूर्वपक्षे तु बृहस्पतिश्रुति, वाग्वीर्यत्वं च, लिङ्गं साधकम् । इन्द्र एवांतस्थ इति प्रागुक्तपूर्वपक्षे सवितृश्रुति "दिव आत्मान’ मित्युक्त-दिवस्पतित्वं च साधकमित्यभिप्रेत्याह ब्रह्मेन्द्रमिति ॥ अत्रापि इन्द्रादि स्यादिति प्रतिज्ञावाक्यं बुद्ध्या विभज्य इत्यादिश्रुतिलिङ्गेभ्यश्र्चेति हेतुवाक्यमपि विभज्य यथासम्भवमन्वयो द्रष्टव्य । प्रागुक्तपूर्वपक्षे हेत्वन्तराभिधायकत्वाच्चशब्द । एतेन  "ब्रह्मेन्द्रमग्न्’िमित्यादिश्रुतिलिङ्गेभ्यश्र्च इन्द्रादि स्यादित्ययुक्तम् । एकस्य अनेकतादात्म्यायोगेन अन्तस्थस्य इन्द्रत्वे सूर्यादित्वस्य, सूर्यादित्वे तु इन्द्रादित्वस्य च अयोगादिति परास्तम् । न केवलमिन्द्रादिशब्दानामिन्द्रादौ रूढि अपि तु योगोऽप्यस्ति इत्याह केषामिति ॥ पूर्वपक्षफलमाहेति ॥ सर्वेषां पूर्वपक्षाणां फलमाहेत्यर्थ । तस्मादिति ॥ यस्माददृश्यत्वमन्यस्य प्राप्तं, तस्मादेव आनन्दमयत्वं प्राप्नोति प्रत्यभिज्ञानादेवेत्यर्थ । एतेन इन्द्रादीनामदृश्यत्वेऽपि आनन्दमयस्य नेन्द्रादित्वं साधकाभावात् । न हि घट इत्येतावता पार्थिवत्वेनोक्ता पटादयोऽपि घटा भवन्ति । येनेन्द्रादीनामदृश्यत्वे अदृश्यत्वेनोक्तानन्दमयस्य इन्द्रादित्वं स्यादिति परास्तम् । प्रत्यभिज्ञाप्रत्यक्षस्य साधकत्वेनेहाभिमतत्वात् । "अन्त समुद्रे मनसा चरन्त’मिति श्रुत्युदाहरणेनैव समुद्रस्थत्विलङ्गलाभात्, "समुद्रे अन्त कवयो विचक्षते’ इति श्रुत्युदाहरणं व्यर्थमित्यत आह अत्रेति ॥ अत्र सूत्रे विष्णुत्व-साधकतया क्षीराब्धिशायित्वं प्रलयोदकशायित्वं च लिङ्गत्वेन विवक्षितम् । प्रलयोदकशायित्विलङ्गदशनाय "अन्त समुद्रे मनसे’ति श्रुत्युदाहरणम् । तत्र जलवाच्यर्णवशब्दसद्भावात् । क्षीराब्धिशायित्विलङ्गप्रदर्शनाय "समुद्रेऽन्त कवय’ इति श्रुत्युदाहरणम् । क्षीरसमुद्रशायिन कविभिरीड्यत्वादिति भाव ।

वाक्यार्थमुक्तावली

ॐ अन्तस्तद्धर्मोपदेशात् ॐ ॥ नामसमन्वयसिद्ध्यर्थमिति । प्रकृतनामसमन्वयसिद्ध्यर्थं लिङ्गसमन्वयचिन्तनादौपोद्धातकी पादसङ्गतिर्न पादान्तर्भावरूपा । चिन्तां प्रकृतसिद्ध्यर्थामुपोद्धातं प्रचक्षत इति वचनादिति भाव । अदृश्येऽनात्म्येऽनिरुक्त इति । अत्रानिरुक्त इत्यन्तोक्तिस्तु अदृश्यत्वमज्ञेयत्वमेव न त्वप्रत्यक्षत्वम् । अनिरुक्तेर्ज्ञानाभावहेतुकत्वादिति द्योतनाय, न विजानन्ति देवा इति भाष्ये तच्च दृश्यत्वमित्यर्थ । न च तत्रादृश्यत्वसामान्यमुक्तमत्र तु देवाज्ञेयत्वमत कथं तदेवादृश्यत्वमत्रोच्यते । तथा चान्तस्थस्य विष्ण्वन्यत्वे आनन्दमयस्य विष्ण्वन्यत्वं कथमिति वाच्यम् । देवा अपि कात्स्नर्येन न जानन्ति किम्वन्य इति कैमुत्येनात्रापि साकल्येन सर्वाज्ञेयत्वमेवोच्यत इति तदाक्षेपो युज्यत एवाप्रसङ्गादिति । तथा च पूर्वाधिकरणेनास्याक्षेपकी सङ्गतिरिति भाव । विष्णुरन्यो वेति । अत्रान्तस्थ किमिन्द्रादिरुत विष्णुरिति चिन्ता । तदर्थं विष्णुप्रापकिलङ्गानां समुद्रान्तस्थत्वादीनां सावकाशत्वेन स्वभावदौर्बल्येन किं पूर्वपक्षप्रापकेन्द्रादिश्रुतिलिङ्गेभ्यो दौर्बल्यमुत निरवकाशत्वेन प्राबल्यमिति । तदर्थं किमिन्द्रादीनामन्तस्थेनाभेद उत भेद इति ॥ प्राबल्याद्यविवेकेनेति ॥ श्रुति प्रबला लिङ्गं दुर्बलमिति जातिकृतप्राबल्याद्यविवेकेनेत्यर्थ । यद्वा नामानीत्याद्युक्तरीत्या इन्द्रादिश्रुतीनां सावकाशतया विवक्षितगुणोपपत्तेश्र्चेति वक्ष्यमाणन्यायेन चाज्ञेयत्विलङ्गस्य विष्णोरन्यत्र निरवकाशत्वेन प्राबल्यमिति तयोरविवेकेनेत्यर्थ । ईशे ईष्टे अतो राजेत्यर्थ । इत्यादिभिरित्यादिशब्दार्थमाह अपामित्यादिना । एवं विशकिलतानेकवाक्यस्थश्रुतिलिङ्गान्युक्त्वा तत्प्राबल्याय देवतान्तरग्रहणाय वा एकवाक्यगृहीतानि दर्शयति ब्रह्मेति ॥ एतेन न च ब्रह्मेन्द्रमग्निं जगत प्रतिष्ठां दिव आत्मानं सवितारं बृहस्पतिम् । चतुर्होतारं प्रदिशोऽनुक्लृप्तं वाचो वीर्यं तपसाऽन्वविन्ददित्यादिशब्दानामन्यविषयत्वमिति न्यायविवरण-मप्यादिशब्दार्थतया योजितं भवति । तथा चेन्द्रश्रुतेर्जत्या अभ्यासेन च सूर्यिलङ्गयोश्र्च सवितृश्रुत्यनुगृहीतत्वेन प्राबल्यमिति भाव । ब्रह्मेन्द्रमिति श्रुतौ ब्रह्म तपसाऽन्वविन्ददिति सुधोक्तरीत्याऽन्वय । तेन ब्रह्मश्रुते-रन्तस्थो विष्णुरिति चोद्यानवकाश इति ज्ञेयम् । नन्वतीताधिकरणे ब्रह्मशब्दाद्धिरण्यगर्भस्य प्राप्तिरित्यादिना पदार्थान्तरविषयौ रूढियोगावाश्रित्य पूर्वपक्षितेऽन्नमयादिशब्दानां महायोगविद्वद्रूढिभ्यां विष्णुपरत्वं सिद्धान्तितम् । तथा च तन्न्यायेनेन्द्रादिशब्दसमन्वयलाभात्किमनेनाधिकरणेनेत्याशङ्क्य देवानां तत्र शक्ततामित्यनुव्याख्यानानुसारेणाभ्यधिकाशङ्कामाह । न चेत्यादिना देवेष्वेव रूढत्वादिति । विद्वद्रूढत्वा-दित्यर्थ । इन्द्रस्य नु वीर्याणि प्रवोचमित्यादिमन्त्रेषु बहुलप्रयोगदर्शनेन रूढेर्विद्वत्सम्बन्धित्वादन्यथा तद्यजनादौ विधिनियोगानुपपत्तेरिति भाव । तेषामैश्र्वर्यादीति ॥ तेषां देवत्वेन निरवधिकापरायत्तैश्र्वर्यादि-मत्वेन महायोगस्यैवाभावादशक्तेषु खलु सामन्तादिषु ऐश्र्वर्यादिकमल्पं परायत्तं भवति । देवास्त्वप्रतिहत-शक्तय कथमेवं भवेयु । तथा च श्रुति । इन्द्रो वै देवानामोजिष्ठतम इत्येवं जातीयका । अन्नौषध्या-दीनां त्वदेवत्वेन प्रवृत्तिनिमित्तस्य तत्र पौष्कल्यं परायत्तत्वं सम्भवतीति भाव । मनसेत्यस्यार्थो यथेष्टमिति । मरीचीनां जीवानामिति । मरीचिभिर्मरुत्व इति भाव । ब्रह्माण्डवीर्यत्वादीत्यादिपदेन ब्रह्मज्ञेयत्वब्रह्मतपोलभ्यत्वादेर्ग्रह । तद्धर्मेत्यत्र तदिति तन्त्रं षष्ठ्यन्तं सप्तम्यन्तं चोपेत्यार्थमाह । विष्णुलिङ्गानाम् अन्तप्रविष्टतयेति । स हि क्षीरसमुद्रशायी आपो नारा इति वक्ष्यमाणमनुस्मृत्यार्थमाह समुद्रान्तस्थत्वं नामेति । रश्मिप्रेरकमिति ॥ रश्मीनिन्धयति दीपयतीति रश्मीत् । अग्नीदितिवत् । प्रेरितमिति फिलतकथनम् । अग्रत इत्यस्यार्थो प्रलय इति । जातमित्यस्य स्थितमिति पुरुषात्प्रकृति-र्जगदण्डमित्यत्रार्थविशेषस्तु मुक्तावल्यां बोध्य । भावबोधे तु ब्रह्माण्डं च जानातीत्यनेन जातमित्यस्यानुवृत्यार्थ इत्युक्तम् ।

तत्त्वसुबोधिनी

ॐ अन्तस्तद्धर्मोपदेशात् ॐ ॥ इन्द्रादिनामसमन्वयसिद्ध्यर्थमिति । तेनान्तर्भावलक्षणा पादसङ्गतिरप्यस्तीत्युक्तं भवति । श्रुत्यधिकरणसङ्गती इति । अव्यवहितपूर्वाधिकरणस्थ ""भेदव्यपदेशात्’’ इति सूत्रतदुपात्तश्रुतिभ्यामित्यर्थ । अत्रानन्दमयधर्मस्यादृश्यत्वस्य अन्तस्थे श्रवणात् तस्य चाविष्णुत्वात् आनन्दमयत्वमपि अन्यस्यैवेति नान्यावयवस्य ब्रह्मणोजिज्ञास्यत्वं युक्तमिति पूर्वाधिकरणाक्षेपेण पूर्वपक्षोत्थानात् अनन्तरसङ्गति ॥ प्राबल्याद्यविवेकेनेति ॥ श्रुतिर्लिङ्गमिति वाक्ये पूर्वं पूर्वं बलीय स्यादित्युक्तश्रुतिलिङ्गगतजातिकृतप्राबल्यदौर्बल्याविवेकेनेत्यर्थ । यद्वा श्रुते स्वतो बलवत्वात् इदं दुर्बलम् इदं प्रबलम् इति प्राबल्याद्यविवेकेनेत्यर्थ । इत्यादिभिरिति भाष्यगतादिशब्दार्थमाह । अपां नेतारमिति ॥ ननु इन्द्रादिशब्दानां विष्णुपरत्वात् न तत्प्रापकश्रुतिविरोध इत्यत आह ॥ न चेति ॥ कुतो देवेष्वेव रूढ इत्यत आह ॥ तेषामिति ॥ मनसेत्यर्थो यथेष्टं चरतामिति । शुष्ममित्यस्यार्थो वीर्यमिति । ब्रह्माण्डवीर्यत्वादि इत्यादिपदेन न्यायविवरणोदाहृतश्रुत्युक्तब्रह्मतपोलभ्यत्वादिलिङ्गग्रहणम् । नन्वग्रिमभाष्ये प्रलयसमुद्रशायित्वे प्रमाणकथनम् अयुक्तं प्रलयसमुद्रस्थत्वस्य पूर्वमुक्तत्वादित्यत आह ॥ अत्र समुद्रान्तस्थत्वं नामेति ॥ तथा च स हि क्षीरसमुद्रशायीति प्रसिद्ध्युक्ति । आपो नारा इति प्रलयसमुद्रशायित्वे प्रमाणोदाहरणं च युक्तमिति भाव । प्रसिद्धत्वादिति ॥ अनेन स हीति हिशब्दार्थं उक्तो भवति । जातमग्रत इत्यस्यार्थ प्रलये स्थितमिति ॥ जातमित्यर्थ इति ॥ अनेन जातमित्येतदनुवर्त्य व्याख्यातं भवति ।

वाक्यार्थमञ्जरी

नामसमन्वयसिद्ध्यर्थमिति ॥ अत एव तत्पादान्तर्भाव इति भाव । श्रुते स्वभावत प्राबल्याल्लिङ्गस्यापि वक्ष्यमाणरीत्या निरवकाशत्वेन श्रुतित प्राबल्यादन्यतरनिर्णय एव स्यान्न सन्देह इत्यत उक्तम् ॥ प्राबल्याद्यविवेकेनेति ॥ ईशो ईष्टा स्वामी य तं न विजानन्तीत्यन्वय । अदृश्यत्वाद्यभिधायि पदं नास्तीत्यत आह ॥ सहैवेति ॥ स्वै सहैवेत्यर्थ ॥ सूर्यिलङ्गादिति ॥ एकचक्ररथं प्रति सप्तनामाऽश्र्व सम्बध्यत इति सप्ताश्र्ववत्वैकचक्ररथित्वरूपादित्यर्थ ॥ वरुणिलङ्गादिति ॥ जलनियामकत्वरूपादित्यर्थ ॥ त्वष्टारमिति ॥ रूपाणि विविधतया कुर्वन्तं त्वष्टारं निचिक्युरित्यन्वय ॥ ब्रह्मेन्द्रमित्यादीति ॥ ""ब्रह्मेन्द्रमग्निं जगत प्रतिष्ठां दिव आत्मानं सवितारं बृहस्पतिम्’’ इत्यादीत्यर्थ । अत्र दिव आत्मत्वं वायुलिङ्गम् । योगेनैतेषां विष्णुपरत्वमित्यत आह ॥ न चेति ॥ तेषामित्यादि ॥ तथा च योगरूढिभ्यां योगमात्रस्य बाध इति भाव । पृथक् स्वातन्त्र्येण ।

ॐ अन्तस्तद्धर्मोपदेशात् ॐ ॥ अन्तप्रविष्टमित्यादौ अन्तप्रविष्टतया श्रुतं ब्रह्मैव । तस्य ब्रह्मणो धर्माणां समुद्रस्थत्वब्रह्माण्डवीर्यत्वादीनाम् अन्त श्रुतेरन्त समुद्रे यस्याण्डकोशमित्यादिनाऽभिधा-नादित्यर्थ । होतारं दातारं "हू’तुदानादनयोरिति धातो । बहुवचनं घटयति ॥ भूतेति ॥ न चात्र समुद्रस्थत्वं नाम क्षीरसमुद्रशायित्वं वा प्रलयसमुद्रशायित्वं वा । नाद्य । अपो नारा इति प्रमाणो-दाहरणासङ्गते । न द्वितीय । स हि क्षीरसमुद्रशायीति प्रतिज्ञासङ्गतेरित्यत आह ॥ अत्रेति ॥ भाष्ये अभिध्याय ध्यात्वा । अहमित्यस्यार्थ अहेयमिति । नञुपपदादोहाक्त्याग इत्यस्मात्कर्मणि डप्रत्यय इति भाव । रश्मीनिन्धयति दीपयतीति रश्मीत् । तत्फिलतप्रदर्शनं रश्मिप्रेरकमिति ।

विवृति

इन्द्रादिनामसमन्वयसिद्धर्थमिति ॥ तेनान्तर्भावलक्षणपादसङ्गतिरप्यस्तीति सूचितं भवति ॥ श्रुत्यधिकरणसङ्गतीति ॥ अव्यवहितपूर्वाधिकरणस्य भेदव्यपदेशादिति सूत्रतदुपात्तश्रुतिभ्यामित्यर्थ । आनन्दमयधर्मस्यादृश्यत्वस्यान्तस्थे श्रवणात्तस्य चाविष्णुत्वादानन्दमयत्वमप्यन्यस्यैवेति । नान्यावयवस्य ब्रह्मणो जिज्ञास्यत्वं युक्तमिति पूर्वाधिकरणाक्षेपेण पूर्वपक्षोत्थानादनन्तरसङ्गति ॥ प्राबल्याद्यविवेकेनेति ॥ श्रुतिर्लिङ्गमिति पूर्ववाक्ये पूर्वं पूर्वं बलीय स्यादित्युक्तश्रुतिलिङ्गगतजातिकृतप्राबल्यदौर्बल्याद्यविवेकेनेत्यर्थ । यद्वा श्रुते स्वतो बलवत्वाल्लिङ्गस्य च निरवकाशत्वेन प्रबलत्वादिदं प्रबलं इदं दुर्बलमिति प्राबल्याद्य-विवेकेनेत्येत्यर्थ ॥ इत्यादिरिति । भाष्यगतादिशब्दार्थमाह ॥ अपां नेतारमिति ॥ नन्विन्द्रादिशब्दानां विष्णुपरत्वान्न तत्प्रापकश्रुतिविरोध इत्यत आह ॥ न चेति ॥ तथापि योगेन विष्णुपरं किं न स्यादित्यत आह ॥ तेषामिति ॥ मनसेत्यस्यार्थो यथेष्टं चरन्तमिति ॥ ब्रह्माण्डवीर्यत्वादीत्यादिपदेन श्रुत्युक्तब्रह्मतयोपलभ्यत्वादिति ग्रहणम् । नन्वग्रिमभाष्ये प्रलयसमुद्रशायित्वे प्रमाणकथनमयुक्तम् । प्रलयसमुद्रस्थत्वस्य पूर्वमनुक्तत्वादित्यत आह ॥ अत्र समुद्रान्तस्थत्वं नामेति ॥ तथा च स हि क्षीरसमुद्रशायीति प्रसिध्या धिशयोऽनारायण इति प्रलयसमुद्रशायित्वे प्रमाणोदाहरणं च युक्तमिति भाव ॥ प्रसिद्धत्वादिति ॥ अनेन सहीतिशब्दार्थ उक्तो भवति ॥ जातमग्रत इत्यस्यार्थो प्रलये स्थितमिति ॥ जातमित्यर्थ इति ॥ अनेन जातमित्येतदनुवृत्या व्याख्यातं भवति ॥

Load More