ॐ फलमत उपपत्तेः ॐ

२०. फलोपपत्त्यधिकरणम्

सूत्रभाष्यम्

कर्माऽपेक्षत्वात्फलदानस्य तदेव ददातीति न वाच्यम् । कुतः?—

।। ॐ फलमत उपपत्तेः ॐ ।। ३९ ।।

अत एवेश्वरात्फलं भवति । न ह्यचेतनस्य स्वतः प्रवृत्तिर्युज्यते ।

तत्त्वप्रदीपिका

वैषम्यादिपरिहारार्थमीश्वरस्य फलदाने कर्मसापेक्षत्वमुक्तम् । अतस्तत्र कर्मणः प्राधान्यम् । तत्र कथमनेनैव सर्वं प्रवर्तत इत्यत आह– फलमत उपपत्तेः ।। अत एव ‘सर्वत्र सर्वमेतस्मात्’ इत्युक्तेरेव । तस्मादेवेश्वरात्फलं भवति तस्यैव सर्वेशितृत्वात् । चेतनस्याप्यन्यस्य स्वतः प्रवृत्ति-र्नास्तीत्युक्तं किं पुनरचेतनस्येत्यर्थः ।

तत्त्वप्रकाशिका

अत्र भगवत्प्राप्तिसाधनभक्त्यर्थं तस्य कर्मफलदातृत्वसमर्थनादस्ति शास्त्रादिसङ्गतिः । तदभावे निरतिशयैश्वर्यायोगेन तत्र निरतिशयभक्त्यनुदयात्तत्समर्थनीयम् । प्रकृतो हरिरेव विषयः । किं कर्मफलदाता न वेति सन्देहः । विप्रतिपत्तिः सन्देहबीजम् । पूर्वपक्षयति ।। कर्मेति ।। कर्मैव फलदातृ नेश्वरः । यैः फलदातृत्वमीश्वरस्योच्यते तैरपि तस्य कर्मापेक्षया फलदातृत्वस्यावश्य-मङ्गीकार्यत्वात् । अन्यथा कर्मवैयर्थ्यापातात् । ततश्च वेदाप्रामाण्यप्रसङ्गाद्वैषम्यादिदोषानुषङ्गाद-कृतकर्मणः फलादर्शनाच्च । एवं च सति फलस्य कर्मान्वयव्यतिरेकित्वात्तदेव फलप्रदं नेश्वरः । अतो न तद्भक्तिः कार्येति भावः ।

सिद्धान्तयन्नेतत्प्रतिषेधति ।। इति न वाच्यमिति । हेतुं पृच्छति ।। कुत इति ।। तदुत्तरत्वेन सूत्रमुपन्यस्य व्याचष्टे ।। फलमिति ।। ईश्वर एव फलदाता न कर्म । तस्य चेतनत्वेन फलदानोपपत्तेः । इतरस्याचेतनत्वेनानुपपत्तेः । यत एवमतो न वाच्यमिति भावः ।

भावबोधः

प्रकृतो हरिरेवेति । ‘अनेन’ इति पूर्वसूत्रे सर्वदेशकालीनसृष्ट्यादिकर्तृतया प्रकृत इत्यर्थः । तथा च फलदातृत्वाभावे पूर्वोक्तसकलसृष्ट्याद्यष्टककर्तृत्वासम्भव इति पूर्वाक्षेपेण प्रवृत्तेरनन्तर-सङ्गतिरिति भावः ।। किमिति ।। अत्र कर्मैव फलदातृ उत हरिरेवेति चिन्ता । तदर्थं कर्मब्रह्मणोः फलदातृत्वे वा उपपत्त्यनुपपत्ती स्त उत ब्रह्मकर्मणोः फलदातृत्व इति । तदर्थम् ‘रातिर्दातुः’ इति विशेषश्रुतिः ब्रह्मणः फलदातृत्वसाधिका न भवत्युत भवतीति । तदर्थं फलस्य कर्मान्वय-व्यतिरेकानुविधायित्वं ब्रह्मणः फलदातृत्वविरोध्युत नेति । तदर्थं ब्रह्मकर्मणोः कर्तृकरणभावे हेतुर्नास्त्युतास्तीति ।। तदेवेति ।। भाष्यगतैवकारव्यावर्त्यमाह– नेश्वर इति ।। अनेनेश्वरः फलदातेति प्रलोभमात्रमिति न्यायविवरणांशोऽपि व्याख्यातो भवति । फलस्य कर्मान्वयानु-विधायित्वप्रतिपादनपरतया कर्मापेक्षत्वात् फलदानस्येति भाष्यं व्याचष्टे– यैरिति ।। अपेक्षापदोक्तमावश्यकत्वं विपक्षबाधकमुखेनोपपादयति– अन्येथेति ।।

वैषम्यं निर्घृणत्वं च वेदाप्रामाण्यकारणम्’ ।। इत्युक्तेरिति भावः ।

व्यतिरेकानुविधायित्वमाह– अकृतकर्मण इति ।। फलितमाह– एवं चेति ।। अनेन कर्मान्वयव्यतिरेकात् फलस्येति न्यायविवरणं व्याख्यातं भवति । भाष्ये सौत्र ‘अतः’ शब्दं सावधारणं व्याख्याय ‘फलमतः’ इत्यत्रोपपत्तेरिति हेतोः स्फुटप्रतिभासादवधारणव्यावर्त्य एव न हीत्यनेन हेतुरुक्तः । स्वयं त्वीश्वर एवेत्यादिना प्रतिज्ञाभागं व्याख्यायोपपत्तेः सौत्रहेतुव्याख्यान-पूर्वकं न हीत्यादिभाष्यं व्याचष्टे– तस्य चेतनत्वेनेत्यादिना । उपलक्षणमेतत् । तस्यैव स्वातन्त्र्यादिति न्यायविवरणानुसारेण स्वातन्त्र्यात् फलदानोपपत्तेरित्यपि ग्राह्यम् ।

भावदीपः

तस्य कर्मफलदातृत्वेति ।। कर्मणस्तत्कर्तृत्वनिरासेनेति भावः । तेन पूर्वत्र भगवतैव सर्वसृष्ट्यादीत्युक्तमयुक्तम् । कर्मफलसृष्ट्यादेः कर्माधीनत्वादिति शङ्कासमाधानात् पूर्वसङ्गति-स्सूचिता ।। विप्रतिपत्तिरिति ।। कर्मतः फलमिति निरीश्वरप्रभृतयः ब्रह्मतः फलमिति तत्वविदो वदन्तीति वादिविप्रतिपत्तिरित्यर्थः । बादरायणजैमिन्योर्वा विप्रतिपत्तिरित्यर्थः । तथात्वे आपातत इति ध्येयम् । वस्तुत एकार्थत्वेन विप्रतिपत्त्यभावात् । तदेव ददातीत्यंशं व्याचष्टे ।। कर्मैवेति ।। ईश्वरः फलदातेति प्रलोभमात्रमित्यन्यत्रोक्त्यनुरोधेनैवकारव्यावर्त्यमाह ।। नेश्वर इति ।। कर्मेत्यादि-पूर्वांशं व्याचष्टे ।। यैरिति ।। कर्मापेक्षत्वमेव विपक्षेऽनेकबाधकोक्त्या द्रढयति ।। अन्यथेति ।। कर्माभावेऽपि फलदान इत्यर्थः । प्राणिभिः क्रियमाणं कर्म व्यर्थमापद्येतेत्यर्थः । अस्त्वित्यत आह ।। ततश्चेति ।। कर्मणो वैयर्थ्यतश्च स्वर्गादिफलोद्देशेन तद्विधायकवेदस्याप्रामाण्यप्रसङ्गादित्यर्थः । न च तदिष्टम् । अपौरुषेयतया प्राप्तप्रमाणभावस्य तदयोगात् ।। वैषम्येति ।। अन्यथेत्यनुकर्षः । वैषम्यनैर्घृण्ये न सापेक्षत्वादित्यत्र कर्मसापेक्षत्वेनैव वैषम्यादिदोषपरिहारादिति भावः । दोषपद-प्रयोगेन वेदाप्रामाण्यानापादकस्य वैषम्यादेरदोषत्वस्योपपद्यते चाप्युपलभ्यते चेति सूत्रेणा-भ्युपेतत्वेऽपि तदापादकं वैषम्यादि तु दोष एवेति सूचयति । अत एवाप्रामाण्यापादनानन्तरं तदुक्तिः । कर्मापेक्षत्वादिति भाष्यं कर्मान्वयव्यतिरेकादिति न्यायविवरणं च हेतुहेतुमद्भावापन्नमिति भावेनान्यत्रोक्तं हेतुमपि संयोज्य भाष्यमुपसंहरति ।। एवं च सतीति ।। फलदानवेलायां सर्वदेश्वरस्य कर्मसापेक्षत्वे सतीत्यर्थः ।। तदेवेति ।। ईश्वरस्तु कर्मशेषत्वात्पुमर्थदातेत्युच्यत इति भावः । अतः फलदातृत्वाभावादित्यर्थः ।। भाष्यं व्याचष्टे ।। ईश्वर एवेति ।। न हीत्यंशस्य न कर्मेत्यर्थमात्रोपपादकत्वेनेश्वरात्फलमित्यर्थोपपादकत्वाय मध्ये सौत्रहेतुमाह ।। तस्येति ।। उपपत्तेरित्युक्तिलब्धार्थमाह ।। इतरस्येति ।। यद्यप्युपपत्तेरित्यस्य तस्यैव स्वातन्त्र्यादित्यन्यत्रोक्त-दिशा ईश्वरस्यैव स्वातन्त्र्यादन्यस्यास्वातन्त्र्यादित्युपपत्तेरित्येवोपपत्तिपदं व्याख्यातुं शक्यम् । तथापि श्रुतत्वाच्चेत्युत्तरसूत्रस्वारस्याय तद्व्यावर्त्य शङ्कोत्थापनाय जीवसाधारणचेतनत्वरूपोपपत्ति-परत्वेन व्याचख्यौ ।

अभिनवचन्द्रिका

भाष्ये ‘कर्मापेक्षत्वात्फलदानस्य’ इति सापेक्षफलदातृत्वं हेतूकृत्य तदेव फलं ददाती-तीश्वरस्य फलदातृत्वाभावसाधनमयुक्तं व्याहतत्वादित्यत आह– यैरिति ।। लाघवात्कर्मण एव फलदातृत्वं न तु कर्मसापेक्षस्येश्वरस्य गौरवादिति भावः । एतेन व्याहतिः परास्ता । पूर्वपक्षिणा लाघवप्रदर्शनाय परोक्तसापेक्षफलदातृत्वानुवादमात्रस्य कृतत्वात् । ननु न मया कर्मसापेक्षस्येश्वरस्य फलदातृत्व- मुच्यते येन लाघवात्कर्मण एव फलदातृत्वं स्यात् । ईश्वर एव सुखदुःखदिकं ददाति । तच्च न कर्मफलमित्यत आह– अन्यथेति ।। नेश्वर इति ।। अन्यथासिद्धत्वादिति भावः । इतरस्या-चेतनत्वेनेति ।। अवश्यक्लृप्तनियतपूर्ववर्तिनैव कार्यसम्भवे हि ईश्वरस्याऽन्यथासिद्धत्वं स्यात् । तदेव नास्तीति भावः । यत एवमिति ।। यतः कर्मणैव फलसम्भवो नास्ति अतोऽन्यथा-सिद्धत्वरूपहेतोरसिद्धत्वादीश्वरो न फलदातेति न वाच्यमित्यर्थः । ‘तिष्टमानस्य तद्विद’ इति वाक्यशेषगत ‘तिष्टमानस्य’ इति पदमनूद्य व्याचष्टे तिष्टमानस्येति ।। द्विधा व्याख्यातमिति ।। अतः ईश्वराद्धर्ममेवेति, अतः=‘एष ह्येव’ इति श्रुतेरेवेति, द्विधा व्याख्यातमित्यर्थः । ननु फलकारणं कर्म ईश्वराद्भवतीति वदता जौमिनिना ईश्वरस्य फलकारणत्वाभाव उक्तः । भगवता बादरायणेन तु ईश्वरस्यैव फलदातृत्वमुक्तम् । ततश्च विरोध इत्यत आह– सामान्यत इति ।। कर्मणः सामान्यतः दण्डादिसाधारण्येन कर्तृप्रयोज्यतया कारणत्वं जैमिनेरभिप्रेतम् । नन्वीश्वरस्या-कारणत्वं कर्तृप्रयोज्यताज्ञापनायेव ‘यतः कर्मणः सकाशात् फलं भवति, तत्कर्म ईश्वराद्भवति’ इत्यभिहितम् । नन्वीश्वरस्य फलहेतुत्वाभावाभिप्रायेण श्रुतिविरुद्धस्य मुनिमतत्वायोगात् एतत्सर्वं बादरायणेनाभ्युपगतमेवेति न विरोध इति भावः ।

पूर्वपक्षस्तु ईश्वरो न फलदाता अवश्यकृप्तनियतपूर्ववर्तिना कर्मणैव फलसम्भवेनाऽन्यथा-सिद्धत्वात् । ततश्च न तद्भक्तिः कार्येति ।

सिद्धान्तस्तु अचेतनत्वात्कर्मणैव फलसम्भवाभावेन अन्यथासिद्धत्वहेतोरसिद्धत्वेन बाधका-भावात् । ‘विज्ञानमानन्दं ब्रह्म रातिर्दातुः परायणम्’ इति फलदातृत्वस्य श्रुतत्वाच्च, ईश्वर एव फलदाता । ननु नैतच्छ्रुतिबलेनेश्वरस्य फलदातृत्वमभ्युपगन्तुं शक्यम् । फलकारणस्य कर्मण ईश्वरजन्यत्वेन श्रुतावीश्वरस्य फलदातृत्वस्योपचारेणैवोक्तत्वात् । किं च एवमाप्ततमो जौमिनिर्मन्यत इति चेत्, स्यादेतच्छ्रुतेरौपचारिकत्वकल्पनम्, यदीश्वरं विना केवलेन कर्मणा फलं भवेत् । न च तत्सम्भवति अचेतनस्य स्वतःप्रवृत्त्ययोगात् । एवं च श्रुत्यन्वयव्यतिरेकबलादुभयोरपि कारणत्वे सिद्धे कर्मैवेश्वरप्रयोज्यमित्यभ्युपगन्तव्यम् । ‘पुण्येन पुण्यं लोकं नयति पापेन पापम्’ इति हेतुव्यपदेशात् जैमिनेरपि कर्मादेरीश्वराधीनकारणत्वमभिमतमिति न तन्मतमप्रमाणम् । अतः परमेश्वरस्यैव कर्मफलदातृत्वात् निरतिशयमहिमि्न तस्मिन् भक्तिः कर्तव्येति सिद्धम् ।

।। इति श्रीसत्यनिधितीर्थश्रीचरणचरणाराधकश्रीमत्सत्यनाथयतिविरचितायां श्रीमत्तत्त्वप्रकाशिकाव्याख्याऽभिनवचन्द्रिकायां तृतीयाध्यायस्य द्वितीयः पादः समाप्तः ।।

वाक्यार्थमुक्तावली

ननु यदुक्तं सर्वत्र सर्वमेतस्मात् सर्वदा सर्ववस्तुष्विति सर्ववस्तुविषयस्य सृष्ट्यादेः सर्वस्य भगवदायत्तत्वमिति । तदयुक्तम् । फलादानेऽस्य तदभावादित्याक्षिप्य पूर्वसिद्धान्तन्यायेनैव समाधानादाक्षेपिक्यातिदेशिक्यनन्तरसङ्गतिः ।। किमिति ।। अनेनेश्वरः कर्मफलदाता न भवत्युत भवतीति चिन्ता । तदर्थं फलस्येशायत्तत्वप्रतिपादकश्रुतिः फलस्य कर्मान्वयव्यतिरेकित्वदर्शनात् फलकारणकर्मकारयितृत्वेनोपचरिता उत बाधिता । उपपत्तिबलादन्वयव्यतिरेकयोः करणत्वमात्र-विषयत्वेनान्यथासिद्धत्वात् ।। मुख्येति ।। भाष्ये कर्मापेक्षत्वात्फलदानस्येति सापेक्षफलदातृत्वं हेतूकृत्य तदेव फलं ददातीतीश्वरस्य फलदातृत्वाभावसमर्थनमयुक्तं व्याहतत्वादनुवादोऽयमित्याह ।। यैरिति ।। अवर्जनीयसन्निधितया कर्म मयाङ्गीक्रियते । अतोऽन्वयोऽन्यथासिद्ध इत्यत उक्त-मवश्यमिति । आवश्यकत्वं विपक्षे बाधकमुखेनोपपादयति । अन्यथेति ।। अवर्जनीयसन्निधित्व-परिहाराय व्यतिरेकानुविधायित्वमप्याह ।। अकृतमिति ।। फलितमाह ।। एवं चेति ।। तदेवेति ।। अवश्यमपेक्षणीयेनैव पूर्णत्वादीश्वरस्याप्यङ्गीकारे गौरवमिति भावः । धर्ममित्यागामिसूत्रादेवानुकृष्यत इति भावेनोक्तं भाष्ये ।। अत एवेति ।। अचेतनत्वेति ।। अचेतनत्वेन फलदानकर्तृतानुपपत्तेरिति भावः । भाष्येऽपि स्वतः प्रवृत्तिरिति कर्तृतोच्यते ।

तत्त्वसुबोधिनी

प्रकृतो हरिरेवेति ।। अनेनेति पूर्वसूत्रे सर्वदेशकालीनसृष्ट्यादिकर्तृतया प्रकृत इत्यर्थः । तत्फलदातृत्वाभावे पूर्वोक्तसकलसृष्ट्याद्यकर्तृत्वसम्भव इति पूर्वाक्षेपेण प्रवृत्तेरनन्तरसङ्गतिरिति भावः । तदेवेति भाष्यगतैवकारव्यावर्त्यमाह ।। नेश्वर इति ।। कुत इत्यतः फलस्य कर्मान्वयव्यति-रेकित्वादित्याशयेनान्वयं तावदुपपादयति ।। यैरिति ।। अन्यथा कर्मापेक्षाभाव इत्यर्थः । अस्तु कर्मवैय्यर्थ्यं ततः किमित्यत आह ।। ततश्चेति ।। किञ्च कर्मानपेक्षयैवेश्वरः फलं ददाति चेत् तर्हि कारणमन्तरेण कस्यचित् सुखं कस्यचिद्दुःखं प्रयच्छतीति वैषम्यनैर्घृण्ये स्यातामित्याह ।। वैषम्यादीति ।। अन्वयानुविधायित्वमुक्त्वा व्यतिरेकानुविधायित्वमाह ।। अकृतेति ।। फलितमाह ।। एवं चेति ।। भाष्ये सौत्रातःशब्दं सावधारणं व्याख्याय फलमत इत्यत्रोपपत्तेरिति हेतोः स्फुटप्रति-भासादवधारणव्यावर्त्य एव न हीत्यनेन हेतुरुक्तः । स्वयमीश्वर एवेत्यादिना प्रतिज्ञाभागं व्याख्यायोपपत्तेरिति सौत्रहेतुव्याख्यानपूर्वकं न हीति भाष्यं व्याचष्टे ।। तस्य चेतनत्वेनेति ।।

वाक्यार्थविवरणम्

वेदेति ।। पुण्येन पुण्यं लोकं नयतीत्यादिवेद इत्यर्थः । कर्मणो वैय्यर्थ्ये दोषान्तरमुच्यते । वैषम्यादीत्यादिना ।। अनुषङ्गात् ।। हरेरिति शेषः ।

वाक्यार्थमञ्जरी

कुत इत्यतस्तदन्वयव्यतिरेकित्वादित्याशयेन तावदन्वयानुविधायित्वमाह ।। यैरिति ।। अपेक्षापदोक्तावश्यकत्वमेव विपक्षे बाधकत्वेनोपपादयति ।। अन्यथेत्यादिना ।। व्यतिरेकानु-विधायित्वमाह ।। अकृतकर्मण इति ।। फलितमाह ।। एवमिति ।। ॐ फलमत उपपत्तेः ॐ ।। अतःपरमात्मन एव फलं भवति तस्य चेतनत्वेन फलदानोपपत्तिरित्यर्थः ।

 

 

Load More