ॐ समान एवञ्चाभेदात् ॐ

१२. समानाधिकरणम्

सूत्रभाष्यम्

।। ॐ समान एवञ्चाभेदात् ॐ ।। २० ।।

अपूर्वत्वेऽपि समानानामेवोपसंहारः । न तु त्रिविक्रमत्वादीनां कादाचित्कानां पृथक्त्वेन । नित्यविक्रान्त्यादिष्वन्तर्भावात् ।।

तत्त्वप्रदीपिका

सर्वानुपसंहारप्रमाणं सर्वोपसंहारार्थं चोक्तम् । योजनाभेदेन बह्वर्थत्वाद्वेदवाक्यानां ब्रह्मादि-षूत्तमाधिकारिषु तात्पर्याधिक्याच्च गुणानामुपास्तावित्थम्भावश्चोक्तः । इदनीमवान्तरोपसंहारप्रकारं दर्शयति ।। समान एवञ्चाभेदात् ।। अलौकिकत्वविषयस्य सर्वत्रानुचिन्तनीयत्वज्ञापनार्थमपूर्वत्वेऽ-पीत्युपरि चानुवर्णयति । समानानामेवोपसंहारो न तु क्रियासु विशेषोपसंहारः । नित्यक्रियास्वेव विशेषाणां कादाचित्कानामन्तर्भाव्योपास्तिसम्भवात् । अधिकारिविशेषश्चात्र विवेचनीयः ।

ब्रह्मा सर्वैर्गुणैश्चैव क्रियासामान्यतश्च गीः ।

गुणसामान्यतो रुद्रो द्रव्यसामान्यतः परः’ इति ह्यनुव्याख्याने ।।

तत्त्वप्रकाशिका

अत्र भगवद्दर्शनसाधनोपासनस्य स्वसदृशफलप्रदत्वसमर्थनादस्ति शास्त्रादिसङ्गतिः । अन्यथार्थ-सामान्यादित्युक्तोपासनानुपपत्तेस्तत्समर्थनीयम् । प्रकृतगुणोपासनं विषयः । किं स्वानुसारिफलप्रदं न वेति सन्देहः । कृष्यादिक्रियासूभयथादृष्टिः सन्देहबीजम् । नोपासनं स्वानुसारिफलप्रदमिति पूर्वः पक्षः । ब्रह्माणीब्रह्मणोरुपासनस्य तदभावात् । तयोर्हि समं विषमं वोपासनं सम्भवति । न च फलं तादृशम् । स्थानैक्यस्य गुणतारतम्यस्य च सद्भावेन फलस्य समविषमत्वात् । न चोपासनमपि तादृगस्त्विति वाच्यम् । समविषमोपासनस्य विरुद्धत्वेनायुक्तत्वात् । अतो यथोपासनं फला-भावादितरे त्वर्थसामान्यादित्युक्तमयुक्तमिति । सिद्धान्तयत्सूत्रं पठित्वा व्याचष्टे ।। समान इति ।। नोक्तलिङ्गेनोपासनस्य स्वानुसारिफलप्रदत्वाभावः । ब्रह्माणीब्रह्मणोः फलवदुपासनस्यापि समविषम-त्वात् । ब्रह्माण्या हि सर्वगुणोपसंहारः क्रियासु च सामान्यक्रियोपसंहारोऽस्ति हिरण्यगर्भवत् । न तु तद्वत्त्रिविक्रमत्वादि । कदाचिदभिव्यक्तक्रियोपसंहारः सदा पृथक्त्वेनास्ति । किं तु नित्यविक्रान्त्यादिसामान्यक्रियास्वन्तर्भाव एवेति । न च वाच्यं त्रिविक्रमत्वादिक्रियाणां लोकविलक्षणत्वेनात्याश्चर्यत्वात्कथं तदुपासनं ब्रह्माणी हास्यतीति । तासामपूर्वत्वेऽपि योग्यस्यैवो-पास्यत्वात् । ब्रह्माण्याश्च नित्यं तदुपास्तियोग्यताभावादिति भावः ।

गुर्वर्थदीपिका

इति कार्याख्यानादिति वदता अलौकिककार्याख्यानादिति सूत्रार्थस्सूचितो भवति । एवं च पूर्वोक्तरीत्या गुणानामपूर्वत्वेऽपि समाने स्वयोग्यतायाः समाने ब्रह्मणा क्रियमाणबहुगुणोपासनया च समाने गुणसमूह एवोपसंहारः । न तु स्वायोग्यत्रिविक्रमत्वादिक्रियासु । तासामपि क्रियात्वेन समाने नित्यविक्रान्त्यादावभेदादुपसंहारः । न तु पृथक्त्वेनेति सूत्रस्य फलितार्थमाह अपूर्वत्वेऽपीति ।। एवं च सौत्रश्चशब्दोऽप्यर्थोऽवधारणार्थश्चेत्युक्तं भवति ।

भावबोधः

स्वसदृशेति ।। ‘कार्याख्यानादपूर्वम्’ इत्यत्रोपासनस्य स्वानुसारिफलप्रदत्वनियमेन अलौकिक- मोक्षार्थमलौकिकगुणोपासनं कर्तव्यमित्युक्ते उपासनस्य स्वानुसारिफलप्रदत्वमेव नास्तीत्याक्षेपोत्था-नादनन्तरसङ्गतिरिति भावः । अर्थसामान्यादित्युक्तोपासनानुपपत्तेरिति तु कण्ठोक्ताक्षेपप्रदर्शनपरम् । यद्वा, यद्यपूर्वं भगवद्गुणजातमुपास्यं स्यात् तर्हि त्रिविक्रमत्वादीनामपि अपूर्वत्वाद्ब्रह्माण्युपास्यत्वं स्यात् । ततश्च ब्रह्माणीब्रह्मणोरुपासनयोः साम्ये फलसाम्याभावेन तेनोपासनस्य न स्वानुसारि-फलमित्याक्षेपोत्थानात् अनन्तरसङ्गतिः । अत एवोक्तं भाष्ये अपूर्वत्वेऽपि समानानामेवेति ।। किमित्यादि ।। अत्र भगवद्गुणोपासनं किं स्वानुसारिफलप्रदं न भवत्युत भवतीति चिन्ता तदर्थं ब्रह्माणीब्रह्मणोः फलवदुपासनमपि समविषमं न सम्भवत्युत सम्भवतीति । तदर्थं त्रिविक्रमत्वादि-क्रियाविशेषाणां ब्रह्माणीब्रह्मभ्यामनुपास्योपास्यत्वे न युज्येते उत युज्येते इति । ब्रह्मणश्च ब्रह्माण्याश्च स्थानैक्यं तारतम्यं च यथायोग्यगुणोपासनं मुक्तावाधिक्यं न भवतीत्यत्र लिङ्गमिति न्यायविवरणं मनसि निधाय पूर्वपक्षमाह– नोपासनमिति ।। स्थानैक्यस्येति ।। उभयोरपि सायुज्यभाक्त्वादिति भावः ।। गुणतारतम्यस्येति ।। आनन्दादितारतम्यस्य श्रुतिसिद्धत्वादिति भावः । समविषमोपासनायुक्तेरिति न्यायविवरणं तन्निवर्तनीयाशङ्कानिरासपूर्वकं व्याचष्टे– न चोपासनमपीति ।। तादृक्फलवत्समविषममित्यर्थः ।। विरुद्धत्वेनेति ।। उभयोपासनस्य सर्वगुण-क्रियावतारादौ साम्ये वैषम्यायोगाद्वैषम्ये च साम्यायोगादिति भावः ।

यथाशक्ति स्मृतान् धात्रा गुणान् विष्णोः सरस्वती ।

 स्मरेत् त्रैविक्रमाद्यास्तु नित्यविक्रान्तिपूर्वकाः ।।

 कदाचिल्लोपयेद्देवी स्थानैक्यं न गुणैस्ततः ।

 साम्यं तयोर्यथा विष्णोर्गुणोपासाफलं भवेत् ।।’

इति न्यायविवरणोदाहृतस्मृत्यनुसारेण न तु त्रिविक्रमत्वादीनामित्यादिभाष्यं योजयति– ब्रह्माण्यादीत्यादिना ।। एतच्च ‘क्रियाव्यक्त्यात्मनोः स्थितः’ इत्यनुव्याख्यानानुसारेण बोध्यम् । ‘कादाचित्कात्मनास्थिरः’ इति अनेन अनित्यत्वं क्रियाणामभिधीयते । उत्तरसूत्रविरोधादित्यभिप्रेत्य ‘कदाचिदभिव्यक्तानाम्’ इति व्याख्यातम् । ‘कदाचिल्लोपयेत्’इत्युक्तत्वात् ‘सदा’ इत्युक्तम् । पृथक् तेन त्रिविक्रमत्वादिविशेषाकारेणेत्यर्थः । नित्यविक्रान्त्यादिसामान्यक्रियास्विति । अनेन यथाशक्ति- क्रिया देव्या इति न्यायविवरणमप्युक्ततात्पर्यं भवति ।

भावदीपः

स्वसदृशेति ।। पर्यवसितार्थोऽयमर्थसामान्यादित्यस्याक्षेपसमाधानरूपप्रयोजनाय वक्ष्यमाण-न्यायविवरणानुरोधेनोक्तः । मुखतस्तु पूर्वत्रानन्दादिरूपगुणक्रियादिभगवद्धर्मोपास्तावलौकिकत्व-रूपेत्थंभाव उक्तोऽत्र तु भगवत् क्रियारूपधर्मेष्वलौकिकेष्वप्यधिकारिभेदेन सामान्यरूपेत्थंभाव उच्यते । अत एव पूर्वानन्तर्यमस्येति ध्येयम् । अत्र न्यायविवरणे ब्रह्मणश्च ब्रह्माण्याश्च स्थानैक्यं गुणतारतम्यं च यथागुणोपासनं मुक्तावाधिक्यं न भवतीत्यत्र लिङ्गं समविषमोपासनाऽयुक्तेरिति ब्रह्माणीब्रह्मसम्बन्धिनोः फलोपासनयोर्वैरूप्यमुपासनायाः स्वानुसारिफलदत्वाभावे लिङ्गमित्युक्तं तत्प्रयोगेण व्यनक्ति ।। नोपासनमिति ।। तदभावात् स्वानुसारिफलदत्वाभावादित्यर्थः । कथ-मित्यतस्तदुभयसम्बन्ध्युपासनं तावदेकरूपमित्याह ।। तयोर्हीति ।। सममिति ।। द्वयोरपि सर्वभगवद्गुणक्रियादिविषयमित्यर्थः ।। विषमं वेति ।। ब्रह्मणः सर्वगुणादिविषयं देव्यास्ततो न्यूनकतिपयगुणादिविषयमिति वा सम्भवतीत्यर्थः । उपासकेषु तथा दर्शनादिति भावः । समं विषमं नोपासनं सम्भवतीत्यपपाठः । तथात्वे न चोपासनमपीत्याद्युत्तरवाक्यास्वारस्यात् । किं तु समं विषमं वोपासनं सम्भवति इत्येव पाठः साधुः ।। तादृशमिति ।। द्वयोः समरूपमेवेति वा विषमरूपमेवेति वा एकैकं रूपं न भवतीत्यर्थः । कुत इत्यतः स्थानैक्यं गुणतारतम्यं चेत्यस्य भावमाह ।। स्थानैक्यस्येति ।। सायुज्यभाजामेकत्रैव भगवति स्थितेः प्राणो वा आशाया भूयान्, इत्यादिश्रुत्यादिना ज्ञानानन्दादिगुणतारतम्यस्य सिद्धेरिति भावः । प्रागुक्तहेतोरसिद्धिशङ्का-निरासकतया समविषमोपासनाऽयुक्तेरित्येतद् व्यनक्ति ।। न चेति ।। तादृशमिति ।। समं विषमं चेति द्विरूपमित्यर्थः । फलोक्त्योपसंहरति ।। अत इति ।। ब्रह्माणीब्रह्मसम्बन्ध्युपासनाफलयो-र्वैरूप्यरूपलिङ्गादित्यर्थः । पूर्वपक्षप्रतिक्षेपरूपसाध्यहेतू अध्याहृत्य हेतूपपादकत्वेन समाना-नामित्यादिभाष्यार्थमाह ।। नोक्तलिङ्गेनेति ।। भाष्यस्य क्रियामात्रविषयत्वं मत्त्वा यथाशक्ति स्मृतान्धात्रा गुणान् विष्णोः सरस्वती । स्मरेदित्यन्यत्रोक्तस्मृत्यनुरोधेन गुणविषये साम्यमाह ।। सर्वगुणेति ।। हिरण्यगर्भवदितीहाप्यन्वेति ।

ननु कादाचित्कानां नित्यविक्रान्त्यादिष्वन्तर्भावादित्यागन्तुकविशेषाणां नित्यक्रियास्वन्त-र्भावोक्तिरयुक्ता भाष्ये इत्यतोऽभिव्यक्तित एव न स्वरूपत एव कादाचित्कत्वम् । येनोक्तदोषः स्यादिति भावेनाह ।। कदाचिदभिव्यक्तेति ।। शक्त्यात्मना स्थिरत्वादिति भावः । अपूर्वत्वेऽ-पीत्यनुवादसूचितशङ्कां व्यक्तीकृत्य निराह ।। न च वाच्यमिति ।। समानानामित्यस्य साधारणा-नामित्यर्थमुपेत्य व्याख्या कृता इदानीं योग्यानामित्यर्थमुपेत्याह ।। योग्यस्यैवेति ।। अत्र यद्यपि ब्रह्माणीब्रह्मणोरिव सायुज्यभाजामशेषाणामपि स्थानैक्यगुणतारतम्ययोः सत्वेन समविषमफलानु-रोधेनोपासनस्यापि ‘ब्रह्मा सर्वैर्गुणैश्चैव क्रियासामान्यतश्च गीः । गुणसामान्यतो रुद्रो द्रव्यसामान्यतः परः’ इत्यनुव्याख्यानोक्तदिशा समविषमत्वमप्यस्ति तथापि सम्बन्धादिति सूत्रे क्रियानित्यत्वोपपादनात्तदनुरोधेन ब्रह्माणीब्रह्मणोरेवोक्तिरित्याहुः ।

अभिनवचन्द्रिका

नोपासनमिति ।। ब्रह्मोपासनं स्वानुसारिफलप्रदस्वभावं नेत्यर्थः । तत्र हेतुमाह ब्रह्माणी-ब्रह्मणोरिति ।। स्वानुसारिफलाजनकत्वादित्यर्थः । यज्जातीयेषु किञ्चित् असत्यपवादे यज्जनकं न भवति, तज्जातीयं सर्वं तज्जननस्वभावं न भवति । यथा कदीकाण्डजननस्वभावविधुरं वेत्रबीजमिति । व्याप्तिसद्भावात् स्वानुसारिफलप्रदत्वाभावहेतोः पक्षव्यापित्वाभावो न दोषाय । व्याप्तिसद्भावे पक्षमात्रव्यावृत्तस्यापि नदीपूरस्य वृष्ट्यनुमापकत्वदर्शनादिति भावः । स्वानुसारिफलाजनकत्वहेतोःसमुचितदेशे सिद्धिं व्युत्पादयितुं पीठिकामारचयति– तयोर्हीति ।। न च फलमिति ।। समं वा, विषमं वा, न भवतीत्यर्थः ।। विरुद्धत्वेनेति ।। आत्मशब्देन यावन्तो ब्रह्मधर्मा युगपत्प्रतीयन्ते, तेषामुपासनं ब्रह्माणीब्रह्मभ्यां कर्तव्यम् । तत्रात्मशब्देन ब्रह्मवदेव ब्रह्मधर्मा ब्रह्माण्याः प्रतीयन्ते चेत्, उभयोरुपासनं सममेव स्यात् न चेत्, विषममेव स्यात् । अतः सम-विषमत्वमुपासने विरुद्धमिति भावः ।। यथोपासनमिति ।। उपसनानुसारिफलनियमाभावादित्यर्थः ।

वाक्यार्थमुक्तावली

स्वसदृशेति ।। एतेन कार्याख्यानादित्यत्र मोक्षाख्यकार्यस्यालौकिकत्वात् अलौकिकगुणोपासनं कार्यम् । उपासनस्य स्वसदृशफलप्रदत्वादिति यदुक्तं तस्याक्षेपेण समाधानात् अनन्तरसङ्गतिरिति भावः । यद्वा यद्यपूर्वगुणजातमुपास्यं स्यात् तर्हि त्रिविक्रमत्वादीनामप्यपूर्वत्वात् ब्रह्माण्युपास्यत्वं स्यात् ततश्च ब्रह्माणीब्रह्मणोरुपासनासाम्ये फलसाम्याभावेन नोपासनस्य स्वानुसारिफलप्रदत्व-मित्याक्षेणोत्थानादनन्तरसङ्गतिः । अत एवोक्तं भाष्ये । अपूर्ववत्वेऽपि समानानामेवेति ।। किमिति ।। अत्र भगवद्गुणोपासनं स्वानुसारिफलप्रदं न भवत्युत भवतीति चिन्ता । तदर्थं ब्रह्माणीब्रह्मणोः फलवदुपासनमपि समविषमं न भवत्युत भवतीति । तदर्थं त्रिविक्रमत्वादिक्रियाणां ब्रह्माण्या नित्यमुपास्यत्वं ब्रह्मणोपास्यत्वमिति विशेषो नास्त्युतास्तीति । सिद्धान्ते लिङ्गस्या-सिद्ध्युक्त्या सूचितं लिङ्गमित्युक्तन्यायं दर्शयन्पूर्वपक्षयति ।। नोपासनमिति ।। ब्रह्मोपासनं स्वानुसारिफलप्रदस्वभावं नेत्यर्थः । कुतो नेत्यतो यद्ब्रह्मोपासनं तत्स्वानुसारिफलप्रदमिति व्याप्तेः ब्रह्माणीब्रह्मोपासने व्यभिचारादित्यत आह ।। ब्रह्माणीति ।। तदुपपादयति ।। तयोरिति ।। स्थानैक्यस्येति ।। व्याप्तिस्थानैक्यस्येत्यर्थः । तदुक्तम् । ‘ब्रह्मा सरस्वती वायुः मन आद्यभि-मानिनः । त्रय एते समा व्याप्तौ ब्रह्मेरौ गुणतोऽधिकौ’ इति बृहद्भाष्ये । सत्यलोकादौ सर्वाधि-पत्येन स्थानैक्यस्येति वा । भावबोधे तु उभयोरपि सायुज्यभाक्त्वादिति भाव इत्युक्तम् ।। विरुद्ध-त्वेनेति ।। वैषम्ये साम्यायोगात्साम्ये वैषम्यायोगादिति भावः । पूर्वपक्षं प्रतिक्षिपन् सूत्रतात्पर्यमाह ।। नोक्तलिङ्गेनेति ।। ब्रह्माणीब्रह्मणोरुपासनव्यभिचारदर्शनलिङ्गेनेत्यर्थः ।। उपासनस्यापीति ।। तथा चोपासनस्य विषमत्वेन तत्समविषमफलं ददातीति व्यभिचारदर्शनमिति भावः ।

उपासनस्य समविषमत्वं दर्शयितुं सूत्रम् । तत्र चोऽप्यर्थेऽवधारणे च । चशब्दः समानेत्यनेनान्वेति । विषयसप्तमी चेयम् । उपसंहार इत्यनुवर्तते इत्याशयेन भाष्ये समानानामेव उपसंहार इत्युक्तम् । अवधारणव्यावर्त्यप्रदर्शनाय । न तु त्रिविक्रमत्वादीनां कादाचित्कानां पृथक्त्वेनेति । तत्र समानानामेवेत्यनेनोपसंहारस्योभयोः साम्यमुक्तं नन्वित्यादिना वैषम्यमिति भावेन समानशब्दस्य विशेष्यं दर्शयन् व्याचष्टे ।। ब्रह्माण्या हीति ।। सर्वेति ।। स्वज्ञेयसर्वेत्यर्थः ।। सामान्यक्रियोपसंहार इति ।। नित्यविक्रान्त्यादिसामान्यक्रियोपसंहार इत्यर्थः । त्रिविक्रमत्वा-दीत्यादिपदेन रावणहनननवनीतभक्षणादि गृह्यते । उत्तरसूत्रानुसारेण कादाचित्कानामित्यस्यार्थमाह ।। कदाचिदभिव्यक्तानामिति ।। ‘गुणांस्त्रैविक्रमाद्यांस्तु नित्यविक्रान्तिपूर्वकैः । कदाचि-ल्लोपयेद्देवी’इति न्यायविवरणानुसारेणाध्याहृतम् ।। सदेति ।। पृथक्त्वेनेति ।। त्रिविक्रमत्वादि-विशेषाकारेणेत्यर्थः ।

ननु त्रैविक्रमादिक्रियाणां तत्त्वेनानुपासने वाण्यास्तदनुपासनमेव भवेदित्याशङ्क्य तत्परि-हारायाभेदादपृथक्करणादन्तर्भावादिति प्रवृत्तं भाष्यं व्याचष्टे ।। किन्त्वित्यादिना ।। नित्य-विक्रान्तिर्नाम नित्यसञ्चारः । नित्यं चरन्ती लोकसाक्षिणावित्यादेः । आदिपदेन रमारमणादि-नित्यव्यक्तक्रियान्तरग्रहणम् । एतेषां सामान्यत्वं नाम सर्वदा फलोन्मुखत्वेन व्यक्तत्वम् । त्रिविक्रमत्वादि कदाचिद्व्यक्तमिति विशेषक्रिया । यद्वा नित्यविक्रान्त्यादिरूपासु नित्यमनन्तक्रियाः सन्तीति सामान्यत उपास्यासु क्रियासु त्रिविक्रमत्वादीनामन्तर्भावात्सामान्याकारेणैवोपास्तिः । न तु पृथक्त्वेन विशेषाकारेणेत्यर्थः । तदुक्तं नयचन्द्रिकायाम् । घटस्रष्टा पटस्रष्टेत्यादिविहाय स्रष्टे-त्यादीति । सूत्रे एवं चेत्यनेनापूर्वमित्युक्तमपूर्वत्वं परामृश्यत इति भावेन प्रवृत्तमपूर्वत्वेति भाष्यं गुणानां सामान्यक्रियाणां चोपसंहार इति विशेष्यमनुक्त्वा समानानां स्वयोग्यतासमानासु अशक्यानामिति समानपदप्रयोगे च निमित्तं वदन् यथाशक्तिक्रियेत्युक्तन्यायं योग्यतानुसार्येवोपासा क्रियेति सूत्रभाष्यारूढं दर्शयति ।। न च वाच्यमित्यादिना ।। त्रिविक्रमत्वं लोकमानार्थं भगवत्कृतपादविक्षेपक्रिया ।

तत्त्वसुबोधिनी

कार्याख्यानादपूर्वमित्यत्रोपासनस्य स्वानुसारिफलप्रदत्वनियमेनालौकिकमोक्षार्थं अलौकिक-गुणोपासनं कर्तव्यमित्युक्ते उपासनस्य च अनुसारिफलप्रदत्वमेव नास्तीत्याक्षेपोत्थानादनन्तर-सङ्गतिरिति भावः । अर्थसामान्यादिति तु कण्ठोक्ताक्षेपप्रदर्शनपरम् । यद्वा यद्यपूर्वं भगवद्गुण-जातमुपास्यं तर्हि त्रिविक्रमत्वादीनामप्यपूर्वत्वात् ब्रह्माण्युपास्यत्वं स्यात् ततश्च ब्रह्माणीब्रह्मणो-रुपासनासाम्ये फलसाम्याभावेन नोपासनस्यानुसारिफलप्रदत्वमित्याक्षेपोत्थानादनन्तरसङ्गतिः । अन्यथेति स्वसदृशफलदत्वासमर्थने इत्यर्थः । तदभावात् । स्वानुसारिफलप्रदत्वात् ।। स्थानैक्यस्येति ।। उभयोरपि सायुज्यभाक्तत्वादिति भावः ।। गुणतारतम्येति ।। आनन्दादि-तारतम्यस्य श्रुतिसिद्धत्वादिति भावः । तादृक् फलवत्समविषयमित्यर्थः ।। विरुद्धत्वेनेति ।। उभयोपासनस्य सर्वगुणक्रियावत्तारादौ साम्ये वैषम्यायोगादित्यर्थः । कथमुपासनस्य समविषयत्व-मित्यतः तद्दर्शयति ।। ब्रहाण्या हीति ।। कादाचिक्तामिति उक्तनित्यत्वप्रतीतिः स्यादतः तदर्थमाह ।। कदाचिदभिव्यक्तेति ।। कदाचित्तस्यापि विशेषमूलक्रियोपसंहारोऽस्तीत्यत सदेवेत्युक्तम् । पृथक्त्वेन त्रिविक्रमत्वादिविशेषाकारेणेत्यर्थः ।

वाक्यार्थविवरणम्

तदभावादिति ।। स्वानुसारिफलप्रदत्वाभावादित्यर्थः । तदुपपादयति ।। तयोरिति ।। तादृशं समं विषमं वा फलं कुतो वक्तुं न सम्भवतीत्यत आह ।। स्थानैक्येति ।। ब्रह्माणीब्रह्मणोरुभयोरपि सायुज्यभाक्त्वेन तल्लक्षणं फलं तावत्सममस्ति । सरस्वत्यपेक्षया शतगुणाधिक्यं ब्रह्मणः श्रुतिसिद्ध-मस्तीति गुणातारतम्यलक्षणं फलं विषममप्यस्ति । एवं च यदि तयोः सममुपासनं स्यात्त-दोपासनानुसारिस्थानैक्यलक्षणफलस्य युक्तत्वेऽपि गुणातारतम्यलक्षणविषमफलसम्भवेऽपि स्थानैक्यरूपसमफलासम्भवादित्यर्थः । एवं तर्हि समविषमोभयफलानुरोधादुपासनमपि तयोः समविषमरूपमेवास्त्वित्याशङ्कते ।। न चेति ।। उक्तलिङ्गेन । फलस्य समविषमत्वरूपलिङ्गेन । नन्वेकविषयकोपासनस्य समत्वं विषमत्वं च विरुद्धमित्यतो गुणविषये समोपासनम् । क्रियाविषये च विषमोपासनमिति विषयभेदान्न विरोध इत्याह ।। ब्रह्माण्या हीति ।। ब्रह्माण्या हिरण्यगर्भ-वत्सर्वगुणोपसंहारोऽस्तीत्यन्वयः । तथा च तयोः स्थानैक्यलक्षणं समफलं युक्तमिति हृदयम् । सामान्यक्रियापदग्रहणव्यावर्त्यमाह ।। न त्विति ।। तद्वत् ।। हिरण्यगर्भवत् ।। पृथक्त्वेन ।। सामान्यक्रियान्तर्भावेन । ‘कदाचिल्लोपयेद्देवी’ इति नित्यविक्रान्त्यादिष्वन्तर्भावलोपेन त्रिविक्रमत्वादिविशेषाकारेण कदाचित्क्रियोपसंहारस्य श्रुतिसिद्धत्वात् सदेत्युक्तम् ।। नित्येति ।। हे नित्यविक्रान्त, इत्येव सामान्यतः क्रियोपसंहारस्तन्मध्ये त्रिविक्रमत्वादिकादाचित्कक्रियाणा-मप्यन्तर्भाव इति ध्येयम् । अपूर्वत्वेऽपि लोकविलक्षणत्वेऽपि । सूत्रे चशब्द एवार्थे । एवम् ।। अभेदात् ।। भेदाभावात् । भेदेनोपसंहाराभावात् । तथा च त्रिविक्रमत्वादिक्रियाणामपूर्वत्वेऽपि समान एव योग्यक्रियाविषय एवोपसंहारः । तद्व्यावर्त्यमाह ।। एवमिति ।। एवं ब्रह्मवत् त्रिविक्रमत्वादीनां भेदेन पृथक्त्वेनोपसंहारस्याभावादिति सूत्रार्थः ।

वाक्यार्थमञ्जरी

इत्युक्तोपासनेति ।। तदुक्तफलोपासनेत्यर्थः ।। समं विषमं वेति ।। समविषमयोरन्यतर-दित्यर्थः । तादृशमुभयान्यतरत् ।। स्थानैक्यस्येति ।। उभयोरपि सायुज्यभाक्त्वादिति भावः ।। गुणतारतम्यस्येति ।। आनन्दादितारतम्यस्य श्रुतिसिद्धत्वादिति भावः ।। तादृशमिति ।। फलवत्समविषमोभयरूपमित्यर्थः ।। विरुद्धत्वेनेति ।। उभयोपासनस्य सर्वगुणक्रियावतारादौ साम्ये वैषम्यायोगात्, वैषम्ये साम्यायोगादिति भावः ।

ॐ समान एवं चाभेदात् ॐ ।। एवञ्च एवमपि त्रिविक्रमादिक्रियाविशेषाणामपूर्वत्वेऽपि समाने नित्यविक्रान्त्यादिसामान्यक्रियायामभेदादन्तर्भावेनैवतद्ध्यानं ब्रह्माण्याकार्यं न पृथगित्यर्थः ।। उक्तलिङ्गेनेति ।। स्थानैक्यगुणतारतम्यरूपेणेत्यर्थः । त्रैविक्रमाद्यास्तु नित्यविक्रान्तिपूर्वकं कदाचि-ल्लोपयेद्देवीत्युक्तत्वादाह ।। सदेति ।। पृथक्त्वेनेति ।। त्रिविक्रमत्वादिविशेषाङ्गीकारेणेत्यर्थः ।

 

 

Load More