ॐ तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात् ॐ
८. तदधिगमाधिकरणम्
सूत्रभाष्यम्
।। ॐ तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात् ॐ ।। १३ ।।
ब्रह्मदर्शन उत्तराघस्याश्लेषः पूर्वस्य विनाशश्च ।
‘तद्यथा पुष्करपलाश आपो न श्लिष्यन्त एवमेवंविदि पापं कर्म न श्लिष्यते’ ।
‘तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेतैवं हैवास्य सर्वे पाप्मानः प्रदूयन्त’ इति तद्व्यपदेशात् ।।
तत्त्वप्रदीपिका
एवं पृथुलतरप्रयत्नसञ्जातायां सम्यग्दृष्टौ तस्य को विशेष इत्यत आह– तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात् ।। ब्रह्मदर्शने सञ्जात उत्तरकाले यदघं क्रियते तस्याश्लेषः ।
‘ज्ञानोत्तरस्य पापस्य चतुर्थेऽलेप उच्यते ।
अशुचित्वादिकं चास्य न भवेदिति तत्फलम्’ इति चानुव्याख्याने ।।
तत्त्वप्रकाशिका
अत्र प्रासङ्गिकं समाप्य भगवज्ज्ञानेन कर्मक्षयलक्षणफलसिद्धिसमर्थनादस्ति शास्त्रादिसङ्गतिः । अन्यथा मोक्षाभावप्रसङ्गेनोक्तव्याहतेः समर्थनीयमेतत् । प्रकृतं ज्ञानमेव विषयः । मोक्षं साधयति न वेति सन्देहः । उभयविधार्थदृष्टिः सन्देहबीजम् । न ज्ञानेन मोक्ष इति पूर्वः पक्षः । प्रागापादित-कर्मणां भावात् । न च तानि ज्ञानजन्मनि भुज्यन्ते । बहुशरीरफलकर्मणां भावात् । न च तानि क्रमेण भुज्यन्त इति वाच्यम् । तथा सति बहुकालान्तरितज्ञानस्य जीर्णबीजवदमोक्षहेतुत्वापातात् । न च युगपत्कायव्यूहेन भोगसम्भवः । अनियतदेशकालविपाकत्वात् । न च योगप्रभावेन तादृशा-नामपि भोगः । तथा सति भोगस्याप्यभावप्रसङ्गात् । तद्भोगकाले च पुनः कर्मान्तरसम्भवेना-समाप्तेश्च । न च ज्ञानी न करोति । ‘न हि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत्’ इत्यादि-विरोधात् । न च वाच्यं ज्ञानेनैव प्राचीनकर्मणां क्षयः पश्चात्तनानामलेप इति । ‘नाभुक्तं क्षीयते कर्म’ इति स्मृतिविरोधात् । न च प्रायश्चित्तेनेव ज्ञानेन कर्मक्षय इति । विप्रतिपत्तेः । ‘ब्रह्महा द्वादशाब्दं व्रतं चरेत्’ इत्यादेर्दग्धगेहेष्टिविधिवदुपपत्तेः । अस्तु वा प्रायश्चित्तेन कर्मक्षयो विशेषप्रमाणबलात् । न चात्र तथा प्रमाणमस्ति येन स्मृतिबाधः स्यात् । किं च ज्ञानेनैव कर्मक्षये ज्ञानोदयानन्तरं मोक्षः स्यात् । अथ न ज्ञानानन्तरमेव मोक्षस्तर्हि कर्मक्षय एव न प्राप्नोति । निष्कारणावस्थानायोगात् । न च वक्तव्यमुत्पन्नं ज्ञानं न तदैव कर्म क्षिणोतीति । तथा सति कदापि कर्मक्षयाभावप्राप्तेः । न हि ज्ञानस्य विरम्य व्यापारः सम्भवति । अतो ज्ञानेन मोक्षा-सिद्धेरुक्तमयुक्तमिति । सिद्धान्तयत्सूत्रं पठित्वा व्याचष्टे ।। तदिति ।। सम्भवत्येव ज्ञानेन मोक्षः । ब्रह्मदृष्टिरिति प्रकृतब्रह्माधिगमादेव पूर्वपापविनाशादुत्तरस्याश्लेषाच्च । ‘नाभुक्तं क्षीयते कर्म’ इति स्मृतिविरोध इति चेन्न । यथा खलु प्रायश्चित्तविधिबलादेतत्स्मृतेरकृतप्रायश्चित्तविषयत्वं कल्प्यते तथाऽज्ञविषयत्वस्यापि सम्भवात् । न चात्र बाधकाभावः । ‘तद्यथा’ इति श्रुतिसद्भावादेवेति भावः । यदप्युक्तं प्रायश्चित्तविधिर्दग्धगेहेष्टिविधिवदतत्परिहारार्थं इति तन्न । प्रयोजनान्तराभावेन तद्वैयर्थ्यप्रसङ्गात् । दग्धगेहपदेनाग्निनाशनिमित्तप्रत्यवायवत उपलक्षणात् ।।
गुर्वर्थदीपिका
विप्रतिपत्तेरित्यस्य प्रायश्चित्तस्यापि पापनिर्हरणे विप्रतिपत्तेरित्यर्थः । ब्रह्महा द्वादशाब्दव्रतं चरेदित्यस्य यथा गृहदाहे सति क्रियमाणेष्टिजनितपुण्येन पुनः करिष्यमाणगृहे संव्यवहार एव सम्पद्यते । न तु प्राचीनदग्धगृहस्यैव दाहनिवृत्तिः क्रियते । तद्वत् द्वादशाब्दव्रतचरणजनितपुण्येन स्वस्य लोके संव्यवहार एव भवति न तु ब्रह्महत्यादोषस्यैव निवृत्तिरित्यर्थः । निष्कारणावस्थाना-योगादित्यस्य ज्ञानेन हि मोक्षार्थं कर्मक्षयः कार्यः । स चेन्नास्ति तर्हि अकिञ्चित्करकर्मक्षया-वस्थानमेव नापादनीयमित्यर्थः । एवं सुकर्मणश्चापीति वदता सूत्रेऽप्येवमिति दृष्टान्तोक्त्या दार्ष्टान्तिकेऽप्यसंश्लेषपदं विनाशस्यापि सूचकमिति दर्शितम् ।
भावबोधः
अन्यथा मोक्षाभावप्रसङ्गेनेति ।। यज्ज्ञानिनां ध्यानस्य विहिततया कर्तव्यत्वं मोक्षपर्यन्त-मित्युक्तम्, तन्न; प्रागापादितकर्मणां प्रतिबन्धकानां सत्त्वेन ज्ञानेन मोक्षस्यैवाजननादित्याक्षेपो-त्थानादनन्तरसङ्गतिरिति भावः ।। उक्तव्याहतेरिति ।। ‘अनियमः सर्वेषाम्’ इत्युक्तव्याहतेरित्यर्थः ।। मोक्षमित्यादिना ।। अत्रापरोक्षज्ञानं किं मोक्षं जनयति उत न जनयतीति चिन्ता । तदर्थं प्रागुत्तरं चापादितकर्मणां मोक्षप्रतिबन्धकत्वं सम्भवत्युत न सम्भवतीति । तदर्थं तेषां पूर्वोत्तरकालं कृतानां ज्ञानेन विनाशाश्लेषौ न सम्भवत उत सम्भवत इति । विनाशाश्लेषपक्षेऽपि किं सर्वेषां विनाशाश्लेषावुत प्रारब्धानामेवेति । तदर्थं प्रारब्धानां भोगैकनाश्यत्वे प्रमाणं नास्त्युतास्तीति । अथवा ब्रह्मविषयकापरोक्षसम्यज्ज्ञानमिथ्याज्ञाने मोक्षान्धन्तमसी न साधयत उत साधयत इति चिन्ता । तदर्थं प्रागुत्तरमापादितसम्यज्ज्ञानिमिथ्याज्ञानिपापपुण्यकर्मणां मोक्षान्धन्तमस-प्रतिबन्धकत्वमस्त्युत नास्तीति । तदर्थं तेषां सम्यज्ज्ञानमिथ्याज्ञानाभ्यां विनाशाश्लेषौ न भवत उत भवत इति । विनाशाश्लेषपक्षेऽपि किं सर्वेषां विनाशाश्लेषौ उत प्रारब्धानामेवेति । तदर्थं सम्यग्ज्ञानिमिथ्याज्ञानिनोः पुण्यपापयोर्भोगैकनाश्यत्वे प्रमाणं नास्त्युतास्तीति ।
प्रागापादितेत्यादिना ‘तदधिगमे’ इत्यादिसूत्रसूचितपूर्वपक्षयुक्तिमभिधाय ज्ञानोदय अशेष-कर्मक्षये कृतकृत्यत्वात् तदैव मुक्तिः । अथ न ज्ञानानन्तरमेव मोक्ष इति न्यायविवरणोक्त-पूर्वपक्षयुक्तिमाह– किं चेत्यादिना ।। अथ न ज्ञानानन्तरमेव मोक्ष इति ।। अनेन न्यायविवरणे न चेत्यत्रापि मुक्तिरिति सम्बध्यत इत्युक्तं भवति ।। न च वक्तव्यमित्यादिना ।। अनेन ज्ञानोदयेऽशेषकर्मक्षयो न चेत् कदापि कर्मक्षय इति न्यायविवरणवाक्यं प्रकारान्तरेण व्याख्यातं भवति । पूर्वपापविनाशादुत्तरस्याश्लेषाच्चेति । सूत्रभाष्यस्थक्रमोल्लङ्घनं कर्मक्रमानुसारेणेति ज्ञातव्यम् । स्तुत्यधिकरणे ‘कामचारेण चैके’ इति सूत्रेण ज्ञानिकृतपापानां मोक्षप्रतिबन्धकत्वं नास्तीत्युक्तम् । अत्राश्लेषपदेन ज्ञानिकृतपुण्यपापस्येह लोकेऽशुचित्वादिहेतुत्वं परलोके नरकाद्यनर्थहेतुत्वं नास्तीत्युच्यते । तत्रैव ‘उपमर्दं च’ इति सूत्रेण प्रारब्धजस्य फलस्यैव ज्ञानिनामल्पीयान् भोगो न त्वज्ञवद्यावद्भोग इति उक्तम् । इह तु विनाशपदेन प्रारब्धानामेव स्वरूपविनाश उच्यत इति न ताभ्यामस्य गतार्थतेति ।
‘ज्ञानोत्तरस्य पापस्य चतुर्थेऽलेप उच्यते ।
अशुचित्वादिकं चास्य न भवेदिति तत्फलम् ।।
अत्र ज्ञानफलस्यैव मुक्तेर्नियततोच्यते ।
प्रारब्धकर्मजस्यैव विषभक्षान्मृतेरिव ।।
प्राप्तस्याप्यनिवृत्तस्य किञ्चिद्भुक्तस्य संविदा ।
उपमर्द इह प्रोक्तः... ..... ..... ।।’
इत्यनुव्याख्यान एवोक्तम् । उपपादितं च सुधायाम् । अतत्परिहारार्थ इतीति । यथा दग्धगेहेष्टेः गृहदाहनिमित्तमेव न तु तज्जनितपापपरिहारार्थत्वम् । दग्धस्य पुनः परावृत्त्यभावात् । तथा प्रायश्चित्तस्यापि ब्रह्महननादिनिमित्तकत्वमेव; न तु तज्जनितपापपरिहारार्थत्वम् । ‘‘नाभुक्तं क्षीयते कर्म’’ इति स्मृतिविरोधादिति भावः ।
भावदीपः
वृत्तानुवादपूर्वं वक्ष्यमाणं दर्शयन्नेवान्तर्भावसङ्गतिमाह ।। अत्रेति ।। समाप्येत्युक्त्याऽस्य पूर्वस्मादवसरसङ्गतिः सूचिता । अत्र भगवदित्युक्त्या शास्त्रे कर्मक्षयेत्युक्त्या पादे फले-त्युक्त्याऽध्याये सङ्गतिरुपपादिता ।। अन्यथेति ।। ज्ञानात्कर्मक्षयासिद्धावनियमः सर्वेषामित्युक्त-व्याघात इत्यर्थः ।। प्रकृतमिति ।। एवं निरूपितान्तरङ्गात्यावश्यकसाधनजन्यतया प्रकृतमित्यर्थः । एतेन ज्ञानस्यांतरङ्गसाधनं निरूप्यात्र तत्फलं निरूप्यत इत्यपि सङ्गतिः सूचिता ।। उभयविधेति ।। कुण्ठिताकुण्ठितकुठारयोश्छिदिक्रियारूपफलासाधकसाधकयोर्दर्शनमित्यर्थः । न्यायविवरणे ज्ञानोदय इत्यादिनाऽनारब्धकार्ये एवेति सूत्रव्यावर्त्यमात्रस्योक्तेराद्यसूत्रादिव्यावर्त्यं स्वयं विवृण्वन् हेतुमाह ।। प्रागिति ।। सन्ति हि बहुतरशरीरफलानि कर्माणि सप्त जन्मानि विप्रः स्यादित्यादेरिति द्वितीयगीताभाष्योक्तं सौत्रविनाशपदव्यावर्त्यशङ्कापूर्वं व्यनक्ति ।। न च तानीति ।। यच्छरीरे ज्ञानोदयस्तद्देह एवेत्यर्थः ।। बह्विति ।। तानि कथमेकजन्मन्येव भुज्येरन्निति भावः । पाशुपत-वैशेषिकादयस्तु अनेकशरीरफलानामपि कर्मणां कायव्यूहनिर्माणेन युगपद्भोगमाहुः । तन्निरासा-योक्तं गीताभाष्ये न च कायव्यूहापेक्षेति । तद्धेतूक्त्या व्यनक्ति ।। न च युगपदिति ।। अनियतेति ।। भिन्नदेशकालोपभोग्यानामेककालादावुपभोगायोगादिति भावः ।। तथा सतीति ।। योगप्रभावेन कर्मसामर्थ्यप्रतिबन्धे सतीत्यर्थः । सौत्राश्लेषपदव्यावर्त्यं व्यनक्ति ।। तद्भोगेति ।। गीतावाक्यविरोधमाह ।। न हीति ।। अनारब्धसूत्रसूचितहेतुव्यावर्त्यपूर्वमाह ।। न च वाच्यमिति ।। भोगं विनापि कर्मक्षयमाशङ्कते ।। न चेति ।। यदि प्रायश्चित्तेन कर्मक्षयो विप्रतिपन्नस्तर्हि प्रायश्चित्तशास्त्रस्य गतिरेव न स्यादित्यतो गतिमाह ।। ब्रह्महेति ।। यस्य गृहान् दहत्यग्नये क्षामवते पुरोडाशमष्टाकपालं निर्वपेदित्याहिताग्नेर्गृहदाहे सति क्षामवतीष्टिर्विधीयते । तत्र यथा क्षामवतीष्ट्या गृहदाहस्य क्षयो नास्ति किंतूपरागे स्नायादित्यादिवन्नैमित्तिकत्वेन विधानं तद्वदस्त्वित्यर्थः । चतुर्थाद्यपादे द्रव्यार्जनाधिकरणे गृहदाहेष्टेः भाट्टः फलार्थत्वोक्तावपि गृहदाहक्षयफलकत्वा-भावात्प्राभाकरमते नैमित्तिकानामफलत्वोपगमाच्चेति भावः ।
तद्व्यपदेशादित्येतद्व्यावर्त्यमाह ।। अस्तु वेति ।। अप्रारब्धापेक्षयाऽयमभ्युपगमः ।। स्मृतीति ।। नाभुक्तमिति स्मृतीत्यर्थः ।। स्यादिति ।। अङ्गीकार्यः स्यादित्यर्थः । ज्ञानोदयेऽशेषकर्मक्षये कृतकृत्यत्वात्तदैव मुक्तिः न चेत्कर्माक्षय इति न्यायविवरणोक्तं अनारब्धकार्ये एवेति सूत्रव्यावर्त्यं व्यनक्ति ।। किं चेति ।। अवस्थानेति ।। कर्मक्षये ज्ञानिनोऽवस्थानायोगादित्यर्थः । कर्म-निबन्धनत्वादवस्थितेरिति भावः । श्रुताविषीकतूलदृष्टान्तोक्तिव्यावर्त्यमाह ।। न चेत्यादिना ।। तथा सतीति ।। ज्ञानात्क्रमेण कर्मक्षये सतीत्यर्थः । अप्राप्तिमेव व्यनक्ति ।। न हीति ।। अत इति ।। कर्मक्षयायोगादित्यर्थः । पूर्वपक्षनिरसनहेतुतया भाष्यं व्याचष्टे ।। सम्भवत्येवेति ।। सौत्र-तत्पदस्याप्रकृतपरामर्शित्वं निराह ।। ब्रह्मेति ।। पूर्वत्र दृष्टिपदस्योपासनार्थत्वेनापरोक्ष-ज्ञानार्थत्वाभावादधिगम इत्युक्तिरिति भावः । अत्राश्लेषो नाम ज्ञानोत्तरस्य पापस्य चतुर्थेऽलेप उच्यते । अशुचित्वादिकं वास्य न भवेदिति तत्फलमित्यनुभाष्योक्तदिशा बोध्यः । आनन्दह्रास-करत्वलेपस्तु विद्यत एव । अतो न स्तुतयेऽनुमतिर्वेत्यधिकरणविरोध इति भावः । ‘तथोपास्याञ्जसा दृष्टं ब्रह्म पापं च भस्मसात् । करोति निखिलं पूर्वं पाश्चात्यस्याप्यसङ्गताम्’ । करोतीत्यनु-भाष्यदिशा पौर्वापर्यक्रममनुसृत्य भाष्यादिस्थक्रमत्यागः । तद्यथेति भाष्यशेषमस्तु वेत्यादिप्रागुक्त-शङ्कानिवर्तकत्वेन व्याचष्टे ।। नाभुक्तमिति ।। तद्वैयर्थ्येति ।। क्षामेष्टिवैयर्थ्येत्यर्थः ।। अग्नि-नाशेति ।। अग्निहोत्रगृहदाहे सति वैदिकाग्नेर्लौकिकाग्निसम्पर्केणाहितगार्हपत्यादिवैदिकाग्निनाशात् यस्य गृहान् दहतीत्यस्य यो गृहदाहनिमित्ताग्निनाशजन्यप्रत्यवायवानित्यर्थं विवक्षित्वा प्रत्यवाय-परिहारार्थत्वस्य क्षामेष्टौ वाच्यत्वादित्यर्थः । तथा च ज्ञानस्यापि निषिद्धकरणादिजन्यप्रत्यवाय-निवर्तकत्वं स्यादेवेति भावः । उक्तं च पूर्वतन्त्रे चतुर्थाद्यपादे द्रव्यार्जनाधिकरणे क्षामेष्टेः फलार्थत्वम् ।
अभिनवचन्द्रिका
उभयविधार्थदृष्टिरिति ।। लोकसाध्यत्वेनाभिमतस्य साधकाः केचनार्था दृष्टाः । अन्ये पुनरसाधका दृष्टाः इति दर्शनं सन्देहबीजमित्यर्थः ।। अनियतदेशकालेति ।। ननु अनियत-कालविपाक एव युगपत्कायव्यूहविरोधी न त्वनियतदेशविपाकः । युगपदनेकदेशेषु कायव्यूहसम्भवात् । ततश्च देशग्रहणं व्यर्थमिति चेत् सत्यम्, अनियतकालविपाक एव युगपदनेककायव्यूहविरोधी, तथापि छत्रिन्यायेन नियतदेशविपाकोऽपि युगपत्कायव्यूहविरोधित्वेनोक्त इति ध्येयम् ।। विप्रतिपत्तेरिति ।। दृष्टान्त इति शेषः । प्रायश्चित्तावध्यन्यथानुपपत्त्या कर्मक्षयनिश्चय इत्यत आह– ब्रह्मेति ।। यथा गृहदाहानन्तरं गृहदाहेष्ट्यधिकारः, तथा ब्रह्महत्याप्राप्तौ द्वादशाब्दव्रताधिकार इत्यर्थकत्वात् न कर्मक्षयसिद्धिरिति भावः ।। न हि ज्ञानस्येति ।। आशु विनाशित्वादिति भावः ।
वाक्यार्थमुक्तावली
यत्कर्मनाशाख्यप्रथमभाविफलार्थमियता प्रबन्धेन दर्शनार्थं तत्साधनश्रवणाद्यनुष्ठानं सप्रकारं प्रपञ्चितं तदधुना चिन्त्यत इत्यनन्तरसङ्गतिः । आप्रायणादित्यव्यवहितनये मोक्षस्य स्मारितत्वाच्च ।। उक्तव्याहतेरिति ।। अनियमः सर्वेषामित्युक्तस्य आप्रायणादित्युक्तस्य च व्याहतेरित्यर्थः ।। मोक्षमिति ।। ज्ञानं किं मोक्षं न साधयत्युत साधयतीति चिन्ता । तदर्थं प्रायश्चित्तवत्तस्य पूर्वोत्तर-भाविकर्मनाशकत्वसामर्थ्यमप्रामाणिकमुत प्रामाणिकमिति । तदर्थं ज्ञानेनैव कर्मक्षये उत्तरकाल एव मोक्षः स्यादिति तर्कबाधः । प्रमाणाभिमतस्य प्राप्नोति न वेति सङ्ग्रहः सूत्रोक्तसमाधानमेव पूर्वपक्षनिरसनक्षममिति भावेन वाद्यन्तरोक्तं भोगेन कर्मक्षयप्रकारमाशङ्क्य निराकुर्वन् पूर्वपक्ष-मुपोद्बलयति ।। न च तानीत्यादिना ।। कायव्यूहेन कायविभागेन वा । अनेककायैरिति यावत् ।। अनियतेति ।। विपाकः फलौन्मुख्यम् । अनियतौ देशकालौ यस्य सोऽनियतदेशकालः । स च विपाको येषां तान्यनियतदेशकालविपाकानि । तेषां भावस्तस्मादित्यर्थः । भवेदेतद्यदि कर्मणामेकस्मिन् काले देशे च फलप्रदत्वं स्यात् । न चैवं । फलदानाय देशकालनियमाभावादिति भावः । न च नियतकालविभाग एव युगपत् कायव्यूहविरोधी न त्वनियतदेशविपाकः । युगपदेक-देशेषु कायव्यूहसम्भवात् । न च व्यूहः समुदायः । अनियतदेशत्वं तद्विरोधितयोपात्तमिति वाच्यम् । युगपदनेकदेहैरेव कर्मक्षयस्यैव वक्तव्यत्वेन समुदायोक्त्यनुपयोगादिति चेन्न । वस्तुतः कर्मभोगस्य देशकालनियमो नास्तीति वस्तुस्थितिप्रदर्शनार्थत्वात् । तथा सतीति योगसामर्थ्यात् कर्मणां भिन्नकालौ फलार्जनतिरोधानस्वाभाव्ये सति पुण्यपापयोः फलदानेन नाशस्यैव सम्भवात् भोगस्याप्यभावः स्यादित्यर्थः । न चेष्टापत्तिः । ‘नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि’ इति स्मृतिविरोधादित्यर्थः । सूत्रप्रतिज्ञाभागोक्तं समाधानमाशङ्क्य निषेधति ।। न च वाच्यमित्यादिना ।। विप्रतिपत्तेरिति ।। प्रायश्चित्तेन कर्मक्षये विप्रतिपत्तेरित्यर्थः । प्रायश्चित्तविधेर्नियामकस्य सत्वान्न विप्रतिपत्तिरित्यत आह ।। ब्रह्महेति ।। दग्धगेहेति ।। दग्धगेहस्य यजमानस्य क्षामेष्टिर्विधीयते । तत्र गेहदाहनिमित्ते सतीष्टिः कर्तव्या । अन्यथा प्रत्यवायादित्येव तात्पर्यम् । न गेहदाहनिवृत्यर्थ-मिष्टिकरणेऽपि तदनिवृत्तेः । एवं ब्रह्महेति विधेरपि हत्यानिमित्ते सति द्वादशाब्दव्रतं चरेदित्यत्रैव तात्पर्यान्न प्रायश्चित्तविधिवैय्यर्थ्यमिति भावः । ननु ब्रह्महा द्वादशाब्दव्रतं चरेदित्यत्र गत्यन्तर-कल्पनेऽपि ‘सेतुं दृष्ट्वा समुद्रस्य ब्रह्महत्यां व्यपोहति’ इत्यादौ साक्षात् पापनिवृत्तिश्रवणात् सेतुदर्शनस्येव ब्रह्मदर्शनस्यापि पूर्वकर्मनिवर्तकत्वं किं न स्यादित्यत आह ।। अस्तु वेति ।।
तद्यथा पुष्करफलाश इत्यादिप्रमाणसद्भावात् स कथं तदभाव इत्याशङ्क्य तर्कविरोधात् प्रमाणस्य ज्ञानप्राशस्त्ये तात्पर्यमिति भावेनारब्धकार्ये एव त्विति सूत्रनिरस्यं कृतकृत्येत्युक्तन्यायं न च ज्ञानोदये शेषकर्मक्षये कृतकृत्यत्वात्तदैव मुक्तिरिति न्यायविवरणानुसारेण व्यनक्ति ।। किं चेति ।। ज्ञानेनैवाशेषकर्मक्षयेऽङ्गीक्रियमाणे मोक्षाय यत्कर्तव्यं तस्य सर्वस्य कृतत्वात्तदैव ज्ञानोत्तर क्षण एव मुक्तिः स्यादित्यर्थः । ननु भवतु ज्ञानेन कर्मक्षयः, मा भूत् ज्ञानानन्तरं मोक्षः, अप्रयोजकस्तर्क इत्यतः कृतकृत्यता चेति न्यायमालायां चशब्दसूचितं न चेत्कर्माक्षय इति न्यायविवरणोक्तं न्यायमाह ।। अथेति ।। यदीत्यर्थः । ननु ज्ञानानन्तरं मोक्षाभावे कर्मक्षयाभावः कुत इत्यत आह ।। निष्कारणेति ।। कर्मक्षये सति ज्ञानानन्तरं देहादीनामवस्थानं न सम्भवति । तदवस्थाने कर्मणामेव हेतुत्वाद्वर्तते चावस्थानमतः कर्मक्षय एव नेति भावः । चशब्दसूचितं न्यायान्तरं ज्ञानान्तरमेव कर्माक्षयो न चेत्कदापि कर्मक्षय इति न्यायविवरणस्यार्थान्तरं व्यनक्ति ।। तथा सतीति ।। न हीति ।। ज्ञानस्य विरम्यव्यापारेऽज्ञाननिवृत्तिरपि विलम्बेन स्यात् ।
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावर ।।
इति श्रुतौ दृष्ट एवात्मनीश्वर इति स्मृतौ च संशयादिनिवृत्तिकर्मक्षययोस्तुल्ययोगक्षेमत्वे माना-भावादिति भावः । ज्ञानस्याशुतरविनाशित्वाद्विरम्य व्यापारायोग इति वा ।। पूर्वपादेति ।। अत्र सूत्रभाष्यक्रमोल्लङ्घनं ज्ञानेन भगवत्कार्यक्रमानुसारेण ज्ञेयम् ।। अतत्परिहारार्थ इति ।। यथा दग्धगेहस्य क्षामेष्टिविधिर्गेहदाहपरिहारार्थो न भवति तथा द्वादशाब्दविधिरपि ब्रह्महत्यादोष-परिहारार्थो न भवतीति यदुक्तं तन्नेत्यर्थः । कुत इत्यत आह ।। प्रयोजनेति ।। द्वादशाब्द-वृतविधेर्ब्रह्महत्यादोषपरिहारार्थत्वाभावे प्रयोजनान्तराभावेन तद्वैय्यर्थ्यप्रसङ्गात् । व्यर्थविधेरनवधेय-त्वादिति भावः । ननु गेहदाहापरिहारकमोक्षेष्टिविधेः प्रयोजनान्तराभावेऽपि नाविश्वसनीयत्वम् । दाहाख्यनिमित्ते प्राप्ते तत्कर्तव्यमित्यत्रैव तात्पर्यात् प्रकृतेऽपि तथोपपत्तेरित्यत आह ।। दग्धगेहपदेन चेति ।। दग्धगेहः इष्टिं कुर्यादित्यत्र दग्धगेहपदेनाग्निहोत्रशालादाहे आहवनीयादिवैदिकाग्ने-र्लौकिकाग्निसम्पर्केण तन्नाशे सति तन्निमित्तकप्रत्यवायवान् यजमान इति प्रत्यवायवत उपलक्षणात् । तत्प्रयुक्तप्रत्यवायपरिहारार्थत्वेन विधिपर्यवसानात् दृष्टान्ते प्रयोजनाभावो न सम्मत इति भावः । यद्यपि दग्धगेहपदं न तत्र श्रूयते तथापि यस्य गेहान् हन्तीति वाक्यस्य यो गृहदाहवान् भवतीत्यर्थकत्वात् दग्धगेहपदेनेत्यनुवादः कृतः ।
तत्त्वसुबोधिनी
अन्यथा मोक्षाभावप्रसङ्गेनेति । यद्ज्ञानिनां ध्यानस्य विहिततया कर्तव्यत्वं मोक्षपर्यन्त-मित्युक्तत्वात्तत्र प्रागापादितकर्मणां प्रतिबंधकानां सत्वेन ज्ञानेन मोक्षस्यैवाजननादित्या-क्षेपोत्थानादनंतरसङ्गतिरिति भावः ।। उक्तव्याहतेरिति ।। एवं मुक्तिफलानियमेत्युक्तव्याहतेः । अनियमः सर्वेषामित्युक्तव्याहतेरित्यर्थः । कायव्यूहेन । अनेकशरीरनिर्माणेनेत्यर्थः । अनियत-देशकालविपाकत्वादिति । नियतकालदेशभोग्यत्वाभावादित्यर्थः ।। तथा सतीति ।। योग-प्रभावबलादिति भावः ।। विप्रतिपत्तेरिति ।। प्रायश्चित्ते कर्मक्षय इत्यत्र विप्रतिपत्तेरित्यर्थः । ननु प्रायश्चित्तेन कर्मक्षयाभावे ब्रह्महत्यारूपक्षयमुद्दिश्य प्रायश्चित्तविधानमनर्थकं स्यादित्यत आह ।। ब्रह्महत्येति ।। दग्धगेहेष्टिवदिति ।। तत्र दग्धगेहे गेहदाहपरिहारार्थत्वं दग्धस्य प्रत्यावृत्ययोगात् । किंतु गेहदाहरूपनिमित्ते सति कर्तव्यत्वमात्रमित्यर्थः । स्मृतिबाधः स्यात् इति । नाभुक्तं क्षीयते कर्म इति स्मृतिबाधः स्यादित्यर्थः । ज्ञानानन्तरं मोक्षाभावे तदनन्तरं कर्मक्षयोऽपि न स्यादित्यत आह ।। न हीति ।। कुत इत्यतः किं ज्ञानं स्वोदयानन्तरमेव कर्म नाशयति किं वा किंचित्कालं तूष्णीं स्थित्वाऽनन्तरं नाद्य इत्याह ।। निष्कारणेति ।। सति हि ज्ञानानन्तरं कर्मक्षये अवस्थानकारणीभूतकर्मणः क्षीणत्वेन तदभावावस्थानमेव स्यात् । अस्ति च अवस्थानमिति तदन्यथानुपपत्या कर्मक्षय एव प्राप्नोतीत्यर्थः । ननु न ज्ञानोदयानन्तरमेव कर्मक्षयः किन्तु ज्ञानं किञ्चित्कालं विवृत्वा कर्म क्षिणोतीत्यङ्गीकारादितीदमाशङ्कते ।। न चेति ।। न हीति ।। तस्य चेतनधर्मत्वादिति भावः । पूर्वपापविनाशादुत्तरस्याश्लेषाच्चेति सूत्रभाष्यस्य क्रमोल्लङ्घनं कर्मक्रमानु-सारेणेति ज्ञातव्यम् ।। एतत्स्मृतेरिति ।। ‘नाभुक्तं क्षीयते कर्म’ इति स्मृतेरित्यर्थः । अतत्परिहारार्थ इतीति । यथा दग्धगेहेष्टेः गृहदाहनिमित्तत्वमेव । न तु तत्परिहारार्थत्वं दग्धस्य पुनः परा-वृत्यभावात् । कर्तुः तथा प्रायश्चित्तस्यापि ब्रह्महत्यादिनिमित्तकत्वमेव । न तु जनितपाप-परिहारार्थत्वम् । ‘नाभुक्तं क्षीयते कर्म’ इति स्मृतिविरोधादिति भावः ।
वाक्यार्थविवरणम्
उक्तेति ।। अनियम इत्युक्तेत्यर्थः ।। उभयविधेति ।। मोक्षसाधनासाधनेत्यर्थः ।। ज्ञान-जन्मनीति ।। यस्मिन् जन्मनि ज्ञानमुत्पन्नं तस्मिन्नेव जन्मनीत्यर्थः ।। भावादिति ।। तानि चैकस्मिन्जन्मनि न भोक्तुं शक्यन्त इति भावः ।। बहुशरीरेति ।। बहुशरीरफलानां कर्मणां तस्मिन्नेकस्मिन् जन्मनि भोगासम्भवादिति भावः ।। क्रमेणेति ।। क्रमेण जन्मान्तरप्राप्त्येत्यर्थः ।। कायव्यूहेनेति ।। ज्ञानजन्मन्येवेत्यर्थः ।। विपाकत्वात् ।। फलजनकत्वात् । तथा च देशान्तरे कालान्तरे च फलजनकतया क्लृप्तानां कर्मणां कायव्यूहेनैकदा भोगासम्भवादिति भावः ।। योगप्रभावेण योगसामर्थ्येन ।। तादृशानामपीति ।। अनियतदेशकालविपाकानामपीत्यर्थः ।। तथा सतीति ।। योगसामर्थ्येन भोगाभावेऽपि कर्मणां क्षपयितुं नाशयितुं शक्यत्वादित्यर्थः । भोग-मङ्गीकृत्यापि दूषणमाह ।। तद्भोगकाले चेति ।। तेषां कर्मणां भोगकालेऽपीत्यर्थः । ननु ज्ञानी भोगकाले कर्माणि न करोतीति युक्ता भोगेन कर्मणां समाप्तिरित्याशङ्क्य निषेधति ।। न चेति ।। करोत्येवेत्येर्थः । ज्ञानी न करोतीत्यङ्गीकारे बाधकमाह ।। न हीति ।। ओपः फलाभावः ।। नाभुक्तमिति ।। ‘नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि’ इति स्मृतिविरोधेन पश्चात्तनानामलेपो न युक्त इति भावः । ननु यथा प्रायश्चित्तेन कर्मणां भोगाभावेऽपि क्षयो भवति । एवं ज्ञानिनामपि कर्मणां भोगाभावेऽपि कर्मक्षयः सम्भवतीत्याशङ्क्य निषेधति ।। न च प्रायश्चित्तेनेवेति ।। विप्रतिपत्तेरिति ।। प्रायश्चित्तेन कर्मणां क्षयो भवतीत्यस्यास्माकं विप्रतिपन्नत्वात् । तर्हि प्रायश्चित्तविधीनां वैय्यर्थ्यमिति चेन्न । अशुचित्वासम्भाष्यत्वादिपरिहारमात्रत्वादिति भावः । ननु ब्रह्महा द्वादशाब्दव्रतं चरेत्’ इत्युक्तरीत्याकरे कपालास्थिमालाधारणादिना द्वादशवर्षव्रतरूप-प्रायश्चित्तचरणे ब्रह्महत्यानिवृत्तिर्भवत्येवेति कथं प्रायश्चित्तेन कर्मक्षये विप्रतिपत्तिरित्यत आह ।। ब्रह्महेति ।। दग्धगेहेष्टिविधिवदिति ।। यस्याहिताग्नेरग्निर्गृहान् दहेत्, तदा दग्धगेहे इष्टिं कुर्यादिति विधीयते । दग्धः गेहः यस्य असौ पुमान् दग्धगेहः । स काञ्चन इष्टिं कुर्यादिति तदर्थः । न हि इष्टिकरणेन गेहदाहो निवर्तते । दग्धस्य पुनरनिवृत्तेः । तथात्वे गृहोन्मज्जनप्रसङ्गात् । किन्तु तादृशेष्टिकरणे दग्धगेहः पुमान् अधिकारी सम्पद्यत इत्येव । न तु तेन तत्परिहारः । एवं द्वादशाब्दव्रतचरणे ब्राह्मणहननवानेवाधिकारी सम्पद्यते । न तु तेन ब्रह्महत्यापरिहारो भवति । ‘नाभुक्तं क्षीयते कर्म’ इति श्रुतिविरोधादिति भावः ।
कर्मक्षय इति ।। भोगाभावेऽपीत्यर्थः ।। विशेषप्रमाणेति ।। ब्रह्महत्यादिविशेष-प्रमाणबलादित्यर्थः ।। अत्रेति ।। ज्ञानेन भोगाभावेऽपि कर्मक्षये इत्यर्थः ।। स्मृतिबाधः स्यादिति ।। नाभुक्तमिति स्मृतेः बाधः स्यादित्यर्थः ।। निष्कारणेति ।। ज्ञानानन्तरमेव मोक्षाभावे ज्ञानिनोऽवस्थानं प्राप्तम् । न च देहेनावस्थानं कर्माभावे सम्भवति । निष्कारणमवस्थानायोगात् । तथात्वे कदापि मोक्षाभावप्रसङ्गात् । न च कर्मातिरिक्तं कारणमस्तीति । कर्माक्षय एव प्राप्नोतीति भावः ।। न तदैवेति ।। अतोऽवस्थानं न युक्तमिति भावः ।। विरम्य व्यापार इति ।। ज्ञानं स्वयमुत्पद्य किञ्चित्कालं स्थित्वा पश्चात् कर्म क्षिणोतीत्यङ्गीकारे ज्ञानस्य स्थित्वा स्थित्वा व्यापाररूपविरम्यव्यापारः स्यात् । न चासौ ज्ञाने वक्तुं युक्तः । तस्य चेतनधर्मत्वेन जडे ज्ञानेऽसम्भवादिति । ननु नाभुक्तमिति श्रुतेरज्ञविषयत्वं कल्प्यते । ज्ञानिविषयत्वेऽपि बाधका-भावादित्याशङ्क्य निषेधति ।। न चात्रेति ।। ननु ज्ञानिविषयत्वे बाधकाभावः कुतो न चेत्यतो ज्ञानिविषयत्वे श्रुतेरेव बाधिकायाः सत्त्वादित्याह ।। तद्यथा इतीति ।। भाष्ये प्रदूयते इति दूञ् परितापे । तप्तं नष्टं भवेदित्यर्थः ।। अतत्परिहारार्थ इति ।। गेहदाहपरिहारार्थो न भवति । किं नाम । इष्टेर्गृहदाहनिमित्तकत्वमेव । एवं ब्रह्महेत्युक्तद्वादशाब्दव्रतचरणरूपप्रायश्चित्तस्यापि ब्रह्महनननिमित्तकत्वमेव । न तु तत्परिहारार्थत्वम् । नाभुक्तमिति स्मृतिविरोधादिति भावः ।। प्रयोजनान्तरेति ।। ब्रह्महत्यापरिहाररूपप्रयोजनं विना प्रयोजनानन्तराभावादित्यर्थः ।। तद्वैय्यर्थ्येति ।। द्वादशाब्दं व्रतं चरेदिति विधिवैय्यर्थ्यमेव स्यात् । अतो ब्रह्महत्यापरिहारफलकत्वमेवेति भावः । ननु यद्यपि द्वादशाब्दव्रतचरणस्य ब्रह्महत्यानिवृत्तिः प्रयोजनं सम्भवति । तथापि दग्धगेहेष्टेर्गृहदाह-निवृत्तिप्रयोजनकत्वं न सम्भवतीति चेत्तत्राह ।। दग्धगेहपदेनेति ।। तथा च दग्धगेहः गेहदाहेन तदन्तर्गताग्निनाशजनितप्रत्यवायवान् पुरुष इष्टिं कुर्यादित्यर्थः । तथा चेष्ट्या स प्रत्यवायो निवर्तत इति तदर्थो द्रष्टव्यः ।
वाक्यार्थमञ्जरी
तस्य ब्रह्मण अधिगमे दर्शने सत्युत्तरपूर्वाघयोरश्लेषविनाशौ उत्तरपापस्याश्लेषः पूर्वपापस्य च विनाशो भविष्यति । कुतः । तद्व्यपदेशात् तयोरश्लेषविनाशयोः क्रमेण तद्यथा पुष्करपलाशे तद्यथैषीकातूलमग्नाविति श्रुतिद्वय उक्तत्वादिति भावः । परत्र च नरकाद्यहेतुत्वम् ।। तदिति ।। प्रायश्चित्तविधीत्यर्थः ।। अग्निनाशेति ।। आहिताग्निनाशेत्यर्थः । तथा च प्रत्यवाय-निवृत्तिफलहेतुत्वेन न वैय्यर्थ्यमिति भावः ।