ॐ प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ॐ
१३. पालकत्वाधिकरणम्
सूत्रभाष्यम्
सृष्टिसंहारकर्तृत्वमेवास्य न पालकत्वं स्वतः सिद्धेरित्यत आह —
।। ॐ प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ॐ ।। २२ ।।
उक्तं सृष्टिसंहारकर्तृत्वमात्रं प्रतिषिध्य ततोऽधिकं ब्रवीति ।
‘नैतावदेना परो अन्यदस्त्युक्षा स द्यावापृथिवी बिभर्ति’ (ऋ.सं. १०-३१-८) इति । चशब्दात्स्मृतिश्च ।
‘सृष्टिं च पालनं चैव संहारं नियमं तथा ।
एक एव करोतीशः सर्वस्य जगतो हरिः’ इति ब्रह्माण्डे ।।
तत्त्वप्रदीपिका
ननु नास्य सृष्टिसंहारकर्तुः पालकत्वमहिमा विशेषतो वर्णनीयः । सृष्टानां यावन्न संहारस्ताव-त्स्थितेः स्वतः सिद्धत्वात् । अतो मुक्तौ संहाराभावादेव स्थितिसिद्धेर्न पालकत्वमित्यत आह ।। प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ।। ‘अस्येदेषा सुमतिः पप्रथाने’त्यादिनोक्तं सृष्टिसंहारकर्तृत्वम् । ‘अस्य’ विष्णोः सकाशादेव ‘एषा’ ब्रह्मादीनां ‘सुमति’ रतिशयेन प्रथमानाऽ-भवत् । अनेन भूम्ना पूर्वतना ‘गौरभवत्’ । ‘गौरिः’ इति द्यौः पृथिवी चोच्यते । ‘यतो द्यावापृथिवी’ इति ह्युपरि च, ‘अस्य’ विष्णोर्महिम्नैव सुमतिर्गौश्चाभवदिति वा । ‘असुरस्य’ वायो ‘र्योनौ’ भार्यायां आभरणे ‘आ’ समन्ताद्भरणस्थाने ध्रियमाणा देवा ‘अस्य’ सकाशादेव ‘सनीाः’ । अस्मादेव निलीयन्त इत्यर्थः । ‘असुरो’ वायुः । असुत्वेन रमणादसुषु रमणाच्च । ‘महद्देवानाम-सुरत्वमेकम्’ इति श्रुतिः ।
‘या मारुताद्गर्भमधत्त पूर्वं शेषं सुपर्णं गिरिशं सुरेन्द्रम् ।
चतुर्मुखाभांश्चतुरः कुमारान् सा द्रौपदी नाम बभूव भूमौ’ इति च ब्रह्माण्डे ।।
भगवन्महिम्नैव द्युभ्वाद्युत्पत्तिरित्यनङ्गीकारे तन्निर्माणेऽधिष्ठानादि किं स्यादित्याक्षेपः । ‘किं स्विद्वनम्’ इत्यादिरिति ह्यवोचत् । सम्यक्स्थायिन्यौ द्यावाभूमी ‘इतः’ समुद्भूतज्ञानादिके ‘अहान्युषस’श्चेत एव जीर्णा अभूवन् । अनेन भूम्ना विष्णुनैतावदेव न, सर्वोत्तमादस्मादन्यदप्यस्ति । जगतो जलामृतादिभिरुक्षणशीलो द्यावापृथिवी बिभर्ति च । इत्थम्भूतस्य पूर्णानन्दस्य परमस्य स्मृत्या तद्वन्तो भूत्वा शरीरं ‘पवित्रं कृणुत’ । येन पवित्रीकरणेन ‘हरितस्सूर्यम्’ इव सदा भगवन्तमक्लेशेन ‘प्रजा वहन्ति’ति । स आनन्दी शरीरं पवित्रं करोति ध्यातश्चेदिति वाऽर्थः ।।
तत्त्वप्रकाशिका
अत्र ब्रह्मप्राप्तिसाधनभक्त्यर्थं तस्य विश्वपालकत्वसमर्थनादस्ति शास्त्रादिसङ्गतिः । पालकत्व-गुणाभावे तत्र निरतिशयभक्त्यनुदयात्तत्समर्थनीयमेव । सृष्ट्यादिकं जगतो हरिः करोतीत्युक्तम् । तत्र जगत्पालनमेव विषयः । विष्णोर्युक्तमयुक्तं वेति सन्देहः । गुणानामपि युक्तायुक्तत्वदर्शनं सन्देहबीजम् । पूर्वपक्षयति ।। सृष्टीति ।। न पालकत्वं भगवतोऽस्ति । सृष्टिसंहारकर्तृत्वात् । सत्यां च सृष्टौ यावत्संहारं जगत्स्थितेः स्वत एव सिद्धेः । संहर्तुरसंहाराऽतिरिक्तव्यापारस्य रक्षारूपस्यैवाऽ-योगात् । अन्यस्य तु सृष्ट्यादिकर्तृत्वे सम्भवति निवारणादिव्यापारः । एतेनाऽवान्तरोपद्रवनिवारणं च प्रत्युक्तम् । तत्रापि स्वयं कर्तृत्वात् । अतः पालकत्वाऽभावेन महामहिमत्वाऽभावादयुक्ता तत्र निरतिशया भक्तिरिति भावः ।
सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ।। अत इति ।। अस्त्येव हरेः पालकत्वम् । यतो ‘नैतावदेना’ इति श्रुतिः प्रकृतस्य सृष्ट्यादिकर्तृत्वस्य तावन्मात्रत्वं निषिध्य ततोऽधिकं पालनमपि ब्रवीति । तेन ज्ञायते सृष्टिसंहारकर्तुरपि पालकत्वमिति भावः । अनेनेश्वरेण भवत्कार्यमेतावत्प्रागुक्तं सृष्टिसंहारमात्रं न भवति । किं त्वन्यदस्ति । किं तत् । स परो भक्ताऽभिलषितसेचको द्यावापृथिवी धत्ते पुष्णाति चेत्यर्थः । सृष्टिसंहारकर्तुरपि पालकत्वे स्पष्टस्मृतिं चाह ।। चशब्दादिति ।। समुच्चितेति शेषः । अनेन स्थितेः स्वतः सिद्धत्वं च परिहृतम् । धारणपोषणादेरुक्तत्वादिति । अतः पालनादिमहा-महिमि्न हरौ भक्तिर्युक्तेति सिद्धम् ।
गुर्वर्थदीपिका
यद्यपि ‘पराभिध्यानादेव तु तल्लिङ्गात्स’ इति परमात्मनस्संहारकत्वाक्षेपसमाधानयोः पूर्वमेव पालकत्वस्याप्याक्षेपः समाधानं च कर्तव्यम् । अवसरप्राप्तत्वात् । तथापि भक्तिपादेऽस्मिन् जगत्पालकत्ववर्णनेन जगदन्तःपातिनस्स्वस्यापि पालकत्वेन स्वोपकारित्वबुध्या तस्मिन् भक्त्यति-शयो भवति । अतो भक्त्युपयोगित्वात्पालकत्वाख्यमाहात्म्यमत्रैव चर्चितमिति ज्ञेयम् । सम्भवति निवारणादिव्यापार इत्यस्य निवारणं संहर्तुः पुरुषस्य निवारणम् । आदिपदेन स्रष्टारं प्रति सृजेति याचनं गृह्यत इत्यर्थः । एतेनावान्तरोपद्रवनिवारणमित्यस्य संहारं विना पालनसमय एव ये उपद्रवा आन्तराः व्याध्यादयः बाह्याः शत्रुताडनादयः तन्निवारणमेव पालकस्य व्यापार इत्येतदप्येतेन संहर्तुस्स्वस्यासंहरणमेवालं न पृथक् स्थितौ प्रयत्न इति यथा न्यायः तथा स्रष्टुस्स्वस्य व्याध्यादीनामसर्जनमेवालं न पृथक् स्थितौ प्रयत्न इति न्यायस्यात्रापि साम्येन प्रत्युक्तमित्यर्थः । तत्रापि स्वयं कर्तृत्वादित्यस्य तत्र व्याध्याद्युत्पत्तौ बाह्यशत्रुताडनाद्युत्पत्तौ च स्रष्टुस्स्वस्यैव कर्तृत्वादित्यर्थः । अत्रापि सृष्टेरकरणमात्रेण चरितार्थत्वान्न पृथक्पालनं नाम व्यापार इति भावः । ‘किंस्विद्वनं क उ स वृक्ष आस यतो द्यावापृथिवी निष्टतक्षुः । सन्तस्थाने अजरे इत ऊती रहानि पूर्वी उषसो जरन्त’ इति श्रुतौ ‘सुपां सुलुक्’ इति वचनात् न किंस्वित् कस्मात् आस जातं स वृक्षः वनादन्यत्र विद्यमानः एकैकवृक्षश्च कः कस्माज्जात इति प्रश्नः । किंस्विक्तिंकारणकं वनमास । वृक्षोत वृक्षश्च कः किंकारणक आसेति वा । तसेः सार्वविभक्तिकत्वात् । ‘पातालमेतस्य हि पादमूलम्’ इत्यादिस्मृतेर्यतः ये भगवदवयवाः द्यावापृथिवी द्यावापृथिव्युपलक्षितचतुर्दशभुवनानि निष्टतक्षुः नितरां कृतवन्तः । तस्यामेव स्मृतौ ‘लोमानि वृक्षौषधय’ इत्युक्तेस्तेभ्य एव भगवदवय-वेभ्यो वनवृक्षादिकं जातमित्युत्तरम् । इतः भूमेरारभ्याजरे नाशरहिते सन्तस्थाने सम्यक् ते तते वैकुण्ठस्थाने ऊतिर्व्याप्तिर्यस्य परमात्मनः तस्मात्पूर्वीः अहानि उषसश्च जरन्त जीर्णा आसन्निति सृष्टिसंहारयोः प्रस्तुतत्वात् प्रागुक्तं सृष्टिसंहारमात्रमित्युक्तम् । धारणपोषणादेरित्यत्र धारणं कूर्मरूपेण विश्वरूपेण धारणं पोषणमन्नपानादिना दिनेदिने अभिवर्धनमित्यर्थः ।
भावबोधः
पालकत्वेति ।। अत्र पूर्वं यस्याः स्नेहादिरूपाया भक्तेस्तारतम्यं समर्थितं सा भक्तिरेव विष्णोः पालकत्वाभावे न सम्भवति । लोके स्वपालक एव स्नेहोत्पत्तिदर्शनादित्याक्षेपोत्थानात् पूर्वत्र ‘दर्शनाच्च’ इति सूत्रेण भक्तितारतम्यसाधकानन्दतारतम्ये श्रुतिस्मृतिरूपप्रमाणोपन्यासवदत्रापि विष्णोः पालकत्वे ‘ब्रवीति च’ इति श्रुतिस्मृत्योरुपन्यासाद्वाऽनन्तरसङ्गतिरिति भावः ।। विष्णो-रिति ।। अत्र जगत्पालनं विष्णोर्न युक्तमुत युक्तमिति चिन्ता । तदर्थं पालनसाध्या स्थितिः सृष्टिसंहारकर्त्रीश्वरव्यापारनिरपेक्षोत तत्सापेक्षेति । तदर्थं पालनमसंहारमात्ररूपमुत तद्व्यतिरिक्त-व्यापाररूपमिति । तदर्थं तत्र प्रमाणं नास्त्युतास्तीति । कर्तृत्वादिति कर्तृत्वाभ्युपगमादित्यर्थः । अन्यथा पूर्वपक्षिणः सृष्टिसंहारकर्तृत्वाभ्युपगमस्य व्यर्थत्वादिति भावः । अत एवोक्तमनुव्याख्याने ‘सृष्टिनाशौ तदधीनौ’ इति । ‘ईरित इति स्वभावत्वात् स्थितेः’ इति अनुव्याख्यानानुसारेण जगत्स्थितेरिति भाष्ये शेषोक्तिः । स्थितेरेव पालनरूपत्वादिति भावः । संहारकर्तुः संहारादन्य-रक्षाया अयोग इति न्यायविवरणं मनसि निधायाह– संहारकर्तुरिति ।। अयोगमेवोपपादयति– अन्यस्य त्विति ।। प्रथमादिपदेन संहारः । द्वितीयेन तु सृष्टौ प्रेरणम् । तदुक्तं सुधायाम्– यदि खलु सृष्टिसंहारयोः कर्ताऽन्यः स्यात्तदोदासीनस्य तस्य सृष्टौ प्रेरणाद्यर्थं संहारे प्रवृत्तस्य निवारणार्थं च स्थितावीश्वरापेक्षा सम्भवेदिति ।। प्रागुक्तमिति ।। ‘अस्येदेषा सुमतिः पप्रथाना’ इत्यादिश्रुतौ प्रागुक्तमित्यर्थः । एनेत्यर्थोऽनेनेति ‘सत्’ इत्यस्य च भवमिति कार्यमिति चार्थद्वयम् । ‘उक्षे’ इत्यस्यार्थो भक्ताभिलषितसेचक इति । ‘बिभर्ति’ इत्यस्य धत्ते पुष्णाति चेत्यर्थद्वयम् ।। समुच्चिनोतीति ।। उपलक्षणमेतत् । स सृजतीत्यादिन्यायविवरणोक्तमपि समुच्चितमिति ज्ञातव्यम् ।। धारणपोषणादेरिति ।। अनेनान्नदानाद्युपपत्तेरिति न्यायविवरणमप्युक्तार्थं भवति ।
भावदीपः
विश्वपालकत्वेति ।। पालनरूपव्यापारान्तरसद्भावोक्त्येति भावः । एतेन पूर्वत्र हीश्वरस्य सौख्यदानं प्रस्तुतं न केवलं साधूनां ब्रह्मादीनामेव केषाञ्चित्सौख्यदानं किन्तु विश्वेषामिति वा न केवलं मुक्तावेव किं त्वन्यदापीति वा साधनादवान्तरसङ्गतिः सूचिता । एतेनैतदपि निरस्तम् । यत्पूर्वत्रेश्वरस्य तारतम्येन सौख्यदानमभिमतं तदयुक्तम् । सृष्टिसंहारान्यपालनस्येवा विद्यानिवृत्त्य-न्यानन्ददानस्याभावात् । ध्वंसरूपाविद्यानिवृत्तौ च न तारतम्यं येन भक्तितारतम्यं सिध्येदिति । अत्रत्यसिद्धान्तन्यायेन सृष्टिसंहारान्यपालनस्येवाविद्यानिवृत्त्यन्यस्यानन्ददानस्य सिद्धेः । अत एव च पूर्वत्र वृद्धिह्रासभाक्त्वं फलवशादित्यनुक्त्वान्तर्भावादुभयसामञ्जस्यादेवमित्युक्तम् । अत एव चास्य तदनन्तरं प्रपञ्चः । विवृतमेतत् ‘आनन्ददत्वमानन्ददश्च मुक्तानामित्यत्र जिज्ञासाधिकरणसुधायाम् । प्रदर्शितं च प्रागस्माभिरानन्दमयनये । अप्रसक्तचिन्तां निराह ।। सृष्टीति ।। उक्तमिति ।। जन्मादिसूत्र इत्यर्थः ।। गुणानामपीति ।। ज्ञानबलैश्वर्यादिगुणानां मध्ये चैत्रादौ केषाञ्चिद्युक्तत्व-दर्शनं केषाञ्चिदयुक्तत्वदर्शनमित्यर्थः । भाष्येऽस्य न पालकत्वं स्वतः सिद्धेरित्येव पूर्तौ शेषोक्तिस्तदुपपादिकेति भावेन तदुपयोगमाह ।। सृष्टिसंहारकर्तृत्वादिति ।। एतस्य स्वत एव सिद्धेरित्यत्र हेतुतां व्यनक्ति ।। सत्यां चेति ।। स्वत एव पुंव्यापारं विनैव स्वतस्सिद्धेरिति भाष्यस्थो हेतुरपि न साक्षान्न पालकत्वमित्यत्र हेतुरपि तु संहारकर्तृरसंहारादन्यरक्षाया अयोग इत्यन्यत्रोक्तार्थे हेतुः । स एव च साक्षाद्धेतुरिति भावेनाह ।। संहर्तुरिति ।। असंहारातिरिक्तस्येति ।। संहारा-भावातिरिक्तस्य संहारनिवारणरूपस्यायोगादसंहाररूपरक्षायाश्च स्वतस्सिद्धेरित्यर्थः । स्वतस्सिद्धिं सृष्टिसंहारकर्तृत्वयोरुपपाद्योपपादकभावं व्यनक्ति ।। अन्यस्य त्विति ।। निवारणादीति ।। संहारनिवारणं सृष्टिप्रेरणं चेत्यर्थः ।। अत इति ।। रक्षारूपव्यापारस्यैवायोगादित्यर्थः ।।
साध्यमध्याहृत्य तत्र हेतुत्वेन सूत्रभाष्ये व्याचष्टे ।। अस्त्येवेति ।। प्रकृतस्येति ।। पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेनेति गुणेन समासनिषेधेऽपि तदशिष्यं संज्ञाप्रमाण-त्वादित्यादिनिर्देशाज्ज्ञापकात्प्रकृतैतावत्त्वमिति समास इति भावः । अधिकमिति भाष्यानुवादः । पालनमपीति व्याख्या । भाष्योक्तश्रुत्यर्थमाह ।। अनेनेति ।। एनेत्यस्यार्थोऽयम् ।। भवत्कार्यमिति शेषः । यद्वा एना एनदित्यर्थः । तस्य व्याख्याऽनेनेश्वरेण भवत्कार्यमिति ।। प्रागुक्तमिति ।। अस्येदेषा सुमतिः प्रप्रथानाभवत्पूर्व्या भूमना गौः । अस्य सनीा असुरस्य योनौ समान आभरणे बिभ्रमाणाः । किंस्विद्वनं क उ स वृक्ष आस यतो द्यावापृथिवी निष्टतक्षुः । संतस्थाने अजरे इत ऊती अहानि पूर्वीरुषसो जरन्त । नैतावदेनेति पूर्ववाक्योक्तमित्यर्थः । आ नो देवानामिति पूर्वत्र प्रकृतब्रह्मादिदेवानाम् । एषा पप्रथाना अतिशयेन प्रथमाना । सुमतिः शोभनबुद्धिः । अस्येत् अस्यैव प्रकृतविष्णोरेव सकाशादभवत् । भूमना भूम्ना । अस्येत्यस्य विपरिणामेनान्वयः । अनेन भूम्ना परमेश्वरेण । पूर्व्या पूर्वतनी गौरभवत् । गौरिति द्यौः पृथिवी चोच्यते । यतो द्यावापृथिवी निष्टतक्षुरित्युपरि श्रवणात् । असुरस्य असुषु रममाण इति व्युत्पत्त्या वायोः योनौ भार्यायाम् । समाने साधारणे । आभरणे आसमन्ताद्भरणस्थाने । बिभ्रमाणाः ध्रियमाणाः देवाः । अस्य सकाशादेव । सनीाः अस्मादेव निलीयन्ते । या मारुताद्गर्भमधत्त पूर्वं शेषं सुपर्णं गिरिशं सुरेन्द्रम् । चतुर्मुखाभांश्चतुरः कुमारान् सा द्रौपदी नाम बभूव भूमाविति ब्रह्माण्डस्मृतेः वायुभार्यया ध्रियमाणत्वं देवानां प्रसिद्धम् । भगवन्महिम्नैव द्युभ्वाद्युत्पत्तिरित्यनंगीकारे तन्निर्माणे अधिष्ठानादिकं स्यात् । न च तदस्तीति भावेनाधिष्ठानादिकमाक्षिपति । किंस्विद्वनमित्यादिना । सन्तस्थाने सम्यगवस्थायिन्यौ । अजरे द्यावाभूमी । इत ऊती । अस्मादेवोद्भूतज्ञानादिके । अहानि । पूर्वीः पूर्व्यः । उषसश्च यतो हरेः सकाशात् अजरन्त जीर्णा अभवन्निति पूर्वमन्त्रार्थस्तत्वप्रदीपोक्तो ध्येयः । उक्षा स इत्यत्र स इत्यस्यानुवादेनार्थमाह ।। स पर इति ।। उक्षेत्यस्यार्थो भक्तेत्यादि उक्ष सेचन इति धातोेः । बिभर्तीत्यस्यार्थो धत्त इति । अन्यथा सृष्ट्यनन्तरं पुरुषेण धारणाभावे स्वरूपस्रवणप्रसङ्गः । ‘यदा भारं तन्द्रयते स भर्तुं निधाय भारं पुनरस्तमेति’ इति श्रुतेरिति भावः । अन्नदानाद्युपपत्तेश्चेति न्यायविवरणोक्तिमनुरुध्याह ।। पुष्णाति चेति ।। त्वचं पवित्रं कृणुत स्वधावान्यदीं सूर्यं न हरितो वहंतीत्युत्तरार्धस्य तु इत्थंभूतस्य परस्य स्वधावान् स्वधावन्तो भूत्वा स्मृतिमन्तो भूत्वा त्वचं शरीरं पवित्रं कृणुत कुरुत । यद्वा स्वधावान् सुखवान् स परः परमात्मा त्वचं शरीरं पवित्रं कृणुत करोति । ध्यातश्चेदित्यर्थः । येन पवित्रीकरणेन हरितः दिशः सूर्यमिव सदा भगवन्तमक्लेशेन प्रजा वहन्तीत्यर्थः । स्मृत्युक्तेरुपयोगमाह ।। स्पष्टेति ।। अनेनेति ।। श्रुतिस्मृतिकथनेनेत्यर्थः ।। पोषणादेरिति ।। तदीयदुरदृष्टप्राप्तावान्तरक्षुद्रोपद्रवनिवारणादिरादिपदार्थः ।। अत इति ।। धारणादिरूपपालनव्यापारवत्त्वे श्रुतिस्मृतिसत्त्वादित्यर्थः ।
अभिनवचन्द्रिका
सृष्टिसंहारकर्तृत्वादिति ।। ननु किमिदं हेतुद्वयं सृष्टिकर्तृत्वात्, संहारकर्तृत्वादिति, आहोस्वि-त्सृष्टिसंहारकर्तृत्वादिति विशिष्टं हेतुः । नाद्यः सृष्टिकर्तुरपि पालकत्वस्य, तथा वनस्पत्यादि-संहारकस्यापि प्रागुदकदानादिना पालकत्वस्य दर्शनेन व्यभिचारात् । अत एव न द्वितीयः कृषीवलादौ सस्योत्पत्तिविनाशकर्तृत्वेऽपि पालकत्वदर्शनात् । न च नासौ पालक इति शक्यते वक्तुम् । गोगवयादिभ्यस्तद्रक्षणस्याऽनुभवसिद्धत्वादिति चेत्, न ब्रूमो वयं पालकत्वाभावे सृष्टिसंहारकर्तृत्वं हेतुरिति । येनोक्तदोषः स्यात् । किंनाम ‘जगत्स्थितेः स्वत एव सिद्धेः’ इति वक्ष्यमाणहेतोरुपपादकमिति ।। स्वत एव सिद्धेरिति ।। उत्पत्त्युत्तर भाविनाशात्प्राग्-भाविकालसम्बन्धस्यैव स्थितित्वेन तस्य कालमहिम्नैव सिद्धेरित्यर्थः ।। अन्यस्य सृष्ट्यादिकर्तृत्व इति ।। आदिशब्देन संहारग्रहणम् । अन्यस्य उत्पन्नपदार्थविनाशहेतुभूतार्थान्तरसर्जकत्वे, साक्षा-द्विनाशकत्वे वा, तन्निवारणाय व्यापारोऽन्यस्य सम्भवति । स्वस्यैव तथात्वे तु न निवारणव्यापारः सम्भवतीति भावः । एतेन अन्यस्य संहारकर्तृत्वे, सम्भवति निवारणादिव्यापार इति वक्तव्यम् । संहारनिवारणस्यैव स्थित्युपयोगित्वात्, न तु सृष्टिग्रहणं तन्निवारणस्य स्थित्यनुपयोगादिति परास्तम् । बिभर्तीत्येतव्द्याचष्टे धत्ते पुष्णाति चेति ।। भृञ्धातोर्डु भृञ् धारणपोषणयोः’ इत्यर्थद्वयश्रवणादिति भावः ।। अनेनेति ।। ‘उक्षा स द्यावापृथिवी बिभर्ति’ति श्रुतिग्रहणेनेत्यर्थः ।
पूर्वपक्षस्तु नेश्वरः पालकः जगत्सृष्ट्वा स्थितस्येश्वरस्य विनाशप्रवृत्त्यभावमात्रेण काल-विशेषसम्बन्धरूपस्थितिसम्भवेन पालनरूपतव्द्यापारानपेक्षणात् । न चावान्तरोपद्रवनिरासाय ईश्वरव्यापारोऽपेक्षित इति वाच्यम् । ईश्वरस्यैवावान्तरोपद्रवकर्तृत्वेन तदकरणमात्रेण समीहित-सिद्धेः । अन्यस्य हि उपद्रवादिकर्तृत्वे तन्निवारणादिव्यापारत्त्वरूपं पालकत्वमन्यस्य सम्भवति । न चेश्वरादन्यः संहारकर्ता येन तन्निवारणेनेश्वरस्य पालकत्वं स्यात् । विरोधाभावेन स्वस्य स्वनिवारकत्वायोगात् । ततश्च पालकत्वाभावेन महामहिमत्वाभावात् न तत्र भक्तिरिति ।
सिद्धान्तस्तु भवत्येवेश्वरः पालकः ‘नैतावदेनापरो अन्यदस्त्युक्षा स द्यावापृथिवी बिभर्ति’ इति श्रुत्या सृष्टिसंहारमात्रकर्तृत्वं प्रतिषिध्य पालकत्वस्याप्यभिधानात् । ‘सृष्टिं च पालनं चैव संहारं नियमं तथा । एक एव करोतीशः सर्वस्य जगतो हरिः’ इति स्मृतेश्च । न चोपद्रव-संहारविलम्बमात्रेणैव स्थितिसिद्धेः न तदर्थमीश्वरापेक्षेति वाच्यम् । सर्वस्य धारणार्थं चेतनानामन्न-पानाद्यर्थमीश्वरव्यापारस्यावश्यकत्वात् । अतः पालनादिमहामहिमि्न हरौ भक्तिर्युक्तेति सिद्धम् ।
वाक्यार्थमुक्तावली
निरतिशयभक्त्यनुदयादिति ।। ब्रह्मशिवादौ मनसाप्यसम्भाव्यमानगुणातिशयज्ञानाद्धि निरतिशया भक्तिरुदेति । पालकत्वरूपमहामहिमाभावे तद्विशेषज्ञानायत्तभक्त्याधिक्यायोगादिति भावः । एतेन भक्तितारतम्यं पूर्वं निरूपितम् । तच्च माहात्म्यज्ञानतारतम्यायत्तम् । माहात्म्यविशेषाभावे तदयोगादिति तदाक्षेपेणोत्थानादनन्तरसङ्गतिरिति चोक्तं भवति । अतो जगत्पालकत्वं विष्णोरयुक्तमुत युक्तमिति चिन्ता । तदर्थं जगत्स्थितिः ईश्वरव्यापारमन्तरेण स्वत एव भवति न वेति । तदर्थं संहर्तुरसंहारव्यतिरिक्तो रक्षारूपव्यापारो नास्त्युतास्तीति । ननु सृष्टिसंहारकर्तृत्वमेवास्येति भाष्यमयुक्तम् । सृष्टिसंहारकर्तृत्वाभ्युपगमस्यापि व्यर्थत्वात् । स्वतः सिद्धेरित्यत्रास्येत्यप्रतीतेः स्थितेरित्यध्याहारेऽपि स्वभाववादाश्रयणस्य सृष्टिसंहारयोरपि साम्येन तत्कर्तृत्वाभ्युपगमानुपपत्तेः इत्यतो योग इति न्यायप्रदर्शकं पूर्वपक्षभाष्यं ‘सृष्टिनाशौ तदधीना-वितीरितौ । स्वभावत्वात्स्थितेर्नैतदपेक्षेति न युज्यते’ इत्यनुव्याख्यानं मनसि निधाय व्याचष्टे ।। न पालकत्वमिति ।। कुतः स्वतःसिद्धेरित्यंशमध्याहारेण योजयति ।। तत्स्थितेरिति ।। कथं स्थितेः स्वतः सिद्धिरित्यतस्तदुपपादनाय सृष्टिसंहारकर्तृत्वाभ्युपगम इति भावेनाह ।। सृष्टिसंहार-कर्तृत्वादिति ।। सृष्टिसंहारकर्तृत्वमात्रेण जगत्स्थितेः कथं स्वत एव सिद्धिरित्यत आह ।। सत्यां सृष्टौ यावत्संहारमिति । अयमाशयः । ईश्वर एव हि विश्वस्य सृष्टिसंहारयोः कर्ता नान्य इत्यभ्युपगतम् । तथा च सृष्ट्वा यावन्न संहरेत्तावत्संस्थितिः स्वभावसिद्धैव न परव्यापारमपेक्षत इति । ननु सृष्ट्वा संहारपर्यन्तमीश्वरो न रक्षतीति परव्यापारोऽपेक्षत इत्यतोऽयोग इत्युक्तन्यायं विवृणोति ।। संहर्तुरिति ।। अयोगमेवोपपादयति ।। अन्यस्य त्विति ।। प्रथमादिपदेन संहारः । द्वितीयेन सृष्टौ प्रेरणम् । तदुक्तं सुधायां । यदि खलु सृष्टिसंहारयोः कर्ताऽन्यः स्यात्तदोदासीनस्य तस्य सृष्टौ प्रेरणार्थं संहारे प्रवृत्तस्य निवारणार्थं स्थितावीश्वरापेक्षासम्भवो न चैतदस्तीति ।। एतेनेति ।। ईश्वरस्यैवावान्तरोपद्रवकर्तृत्वे न तदकरणमात्रेण समीहितसिद्धेः । अन्यस्यैव ह्युपद्रवकर्तृत्वे तन्निवारणादिव्यापारो युज्येतेति भावः ।
सूत्रे परस्येत्यनुवर्तते । अस्त्येव पालकत्वमिति ततो भूय इत्युक्तिमहिम्ना लभ्यते । हिशब्दो यस्मादित्यर्थे इत्यभिप्रेत्य व्याचष्टे ।। अस्त्येवेति ।। प्रकृतस्येति ।। श्रुतौ पूर्वं प्रकृतस्येत्यर्थः । तावन्मात्रत्वमिति ।। पालनरूपगुणान्तरासाहित्यमित्यर्थः ।। न ज्ञायत इति ।। विशेषवाक्ये-नेत्यर्थः । अनेन विशेषवाक्यमित्युक्तन्यायः सूत्रारूढो दर्शितः । येनेत्यस्यार्थोऽनेनेश्वरेणेति । कर्तरि तृतीयाबलादध्याहरति भवत्कार्यमिति ।। प्रागुक्तमिति ।। अस्येदेषा सुमतिः प्रप्रथानेति श्रुतौ प्रागुक्तमित्यर्थः । श्रुत्यर्थस्तु तत्त्वप्रदीपवाक्योदाहरणपूर्वमन्यत्रो ज्ञेयः । उक्षा स द्यावापृथिवी बिभर्तीत्यत्र स इति तच्छब्दस्य स पर उक्षेत्यन्वयं प्रदर्शयन्नुक्षेति व्याचष्टे ।। स पर इति ।। भावबोधे तु । उक्षासदिति पदमभिप्रेत्य व्याख्यातम् । सदित्यस्य भवत्कार्यमिति चार्थद्वयमिति । बिभर्तीत्यस्य धत्ते पुष्णाति चेत्यर्थद्वयम् ।। धारणपोषणादेरिति ।। द्यावापृथिवी बिभर्तीति धारणम् । उक्षेत्यन्नपानादिना पोषणम् । अभिमतैश्वर्यादिदानं चोक्तमिति भावः ।
तत्त्वसुबोधिनी
पालकत्वेति ।। अत्र पूर्वं यस्याः स्नेहादिरूपाया भक्तेः तारतम्यं समर्थितं सा भक्तिः विष्णोः पालकत्वाभावे न सम्भवति । लोके स्वपालक एव स्नेहोत्पत्तिदर्शनादित्याक्षेपोत्थानात् पूर्वसूत्रे दर्शनाच्चेति सूत्रेण भक्तितारतम्यसाधकानन्दादितारतम्ये श्रुतिस्मृतिरूपप्रमाणोपन्यासवदत्रापि विष्णोः पालकत्वे ब्रवीति चेति श्रुतिस्मृत्योरुपन्यासाद्वानन्तरसङ्गतिरिति भावः । सृष्टिसंहार-कर्तृत्वादिति ।। कर्तृत्वाभ्युपगमादित्यर्थः । पूर्वपक्षिणः सृष्टिसंहारकर्तृत्वाभ्युपगमस्य व्यर्थत्वा-दित्यवधेयम् । अस्तु सृष्टिसंहारकर्तृत्वं तथापि पालकत्वं कुतो नेत्यत आह ।। सत्यां चेति ।। जगत्स्थितेरिति भाष्ये शेषोक्तिः । स्थितेरेव पालनफलत्वादिति भावः ।। अयोगमेवोपपादयति ।। अन्यस्य त्विति ।। प्रथमादिपदेन संहारः द्वितीयेन तु सृष्टौ प्रेरणम् । एवं च यदि सृष्टि-संहारकर्तृत्वमन्यस्य स्यात् तर्ह्युदासीनस्य तस्य सृष्टौ प्रेरणार्थं संहारे प्रवृत्तस्य निवारणार्थं च स्थितावीश्वरापेक्षा सम्भवेत् । न चैवमिति भावः । ननु तथापि ईश्वरस्यावान्तरोपद्रवनिवारकत्वा-द्रक्षकत्वमित्येदप्यतिदेशेन दूषयति ।। एतेनेति ।। तत्रापीति ।। अवान्तरोपद्रवकरणेऽपीत्यर्थः । तथा च न पालकत्वमिति भावः । तावन्मात्रत्वं सृष्टिसंहारकर्तृत्वमात्रम् ।। प्रागुक्तमिति ।। अस्येदेेषा सुमतिः प्रप्रथानेत्यादिश्रुतौ प्रागुक्तमित्यर्थः । येनेत्यस्यार्थो तेनेति । अस्तीत्यस्य भवदिति कार्यमिति चार्थद्वयम् । उक्षेत्यस्यार्थो भक्ताभिलषितसेचक इति । धत्ते पुष्णातीति चेति अर्थद्वयम् ।। समुच्चिनोतीति ।। उपलक्षणमेतत् । स सृजतीति श्रुतिरपि समुच्चितेति ज्ञातव्यम् ।
वाक्यार्थविवरणम्
गुणानामपि ।। मध्य इत्यर्थः ।। युक्तायुक्तेति ।। गुणेत्यर्थः । अनित्यज्ञानादयो दुःखादयश्च धर्माः हरावयुक्ताः । नित्यज्ञानसुखाद्या धर्मा युक्ता दृष्टा इत्यर्थः । यावत्संहारम् । संहारपर्यन्तम् । स्वतः सिद्धःरक्षारूपस्यायोगादित्यादौ योज्यम् । ननु संहर्तुः कथं रक्षारूपव्यापारस्यायोगः । संहारोदासीनत्वमेव रक्षारूपव्यापार इत्यत उक्तम् ।। असंहारव्यतिरिक्तेति ।। संहारोदासीनत्व-मसंहार इति सुधोक्तरीत्या व्याख्येयम् । ननु कथमयोगः भगवदन्यस्मिन् कस्मिंचित्पुरुषे संहरणाय उद्युक्ते सति त्वया न संहर्तव्यमित्येवं तन्निवारणारूप एव व्यापारोऽसंहारव्यतिरिक्तो रक्षारूपः पालनापरपर्यायोऽस्तीति चेत् । सत्यम् । स्यादेवम् । यद्यन्यः संहर्ता स्यात् । न चैवम् । भगवत एव संहर्तृत्वाङ्गीकारात् । अतः स भगवान् जगत् सृष्ट्वा यावन्न संहरेत्तावत्पर्यन्तं जगत्स्थितिः स्वतः एव सिद्धेत्याह ।। अन्यस्य त्विति ।। अवान्तरोपद्रवः ।। व्याधिचोरादिप्रयुक्तः । तदेव चासंहारव्यातिरिक्तं रक्षारूपं पालनमस्तीत्यर्थः । कथं प्रत्युक्तमित्यत एतेनेत्युक्तं विशदयति ।। तत्रापीति ।। अवान्तरोपद्रवसर्जनेऽपीत्यर्थः ।। अयमर्थः ।। यद्यवान्तरोपद्रवकर्ता अन्यः स्यात्तदा तन्निवारणमनेन क्रियमाणं पालननामकं स्यात् । न चैवम् । अवान्तरोपद्रवेऽपि स्वस्यैव कर्तृत्वात् । अतः स्वसृष्टस्य जगतोऽवान्तरोपद्रवं यावन्न सृजेत्तावत्पर्यन्तं अवान्तरोपद्रवो-दासीनत्वरूपं पालनं स्वयमेव सिद्धमिति । डु भृञ् धारणपोषणयोरित्यतो धत्ते पुष्णाति चेत्युक्तम् । अन्नदानादिना पुष्णातीत्यर्थः ।। धारणेति ।। श्रुतौ बिभर्तीत्युक्तसंहारव्यतिरिक्तस्य धारण-पोषणरूपपालनकर्तृत्वस्य भगवत उक्तत्वेन न धारणापरपर्यायस्थितेः स्वतः सिद्धत्वमित्यर्थः ।
वाक्यार्थमञ्जरी
गुणानामपीति ।। आकाशे गन्धादेरयुक्तत्वदर्शनादिति भावः ।। कर्तृत्वादिति ।। कर्तृत्वा-भ्युपगमादित्यर्थः । यावत्संहारं संहारपर्यन्तम् ।। जगत्स्थितेरिति ।। स्थितेरेव पालनफलत्वादिति भावः । ननु रक्षारूपपालनाभावे कथमसंहारमात्रेण स्थितिरित्यत आह ।। संहारकर्तुरिति ।। अयोगमेवोपपादयति ।। अन्यस्य त्विति ।। एतेनेत्युक्तं विशदयति ।। तत्रापीति ।। अवान्तरोपद्रवदानेऽपीत्यर्थः ।। ॐ प्रकृतैतावत्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ॐ ।। विष्णोः पालकत्वं पृथगस्त्येव । कुतः ? हि यस्मान्नैतावदिति श्रुतिः प्रकृतस्य सृष्टिलयकर्तृत्वस्य एतावत्त्वं तावन्मात्रत्वं प्रतिषेधति । ततः सृष्टिलयकर्तृत्वाद्भूयः अधिकं पालकत्वमपि ब्रवीतीत्यर्थः ।। प्रागुक्तमिति ।। अस्ये देषा सुमतिः प्रपथानेत्यादिपूर्ववाक्योक्तमित्यर्थः । तदर्थस्त्वतो देवानामिति पूर्वप्रकृतदेवानामेषा प्रपथानातिशयेन प्रथमानषा सुमतिः शोभना बुद्धिरस्त्येव प्रकृतविष्णोरेव सकाशादभवदिति । एनेत्यस्यार्थोऽनेनेति । सदित्यस्य भवदिति कार्यमिति चार्थद्वयम् । उक्षेत्यस्य भक्ताभिलषितसेचक इति । बिभर्ति चेत्यस्य धत्ते पुष्णाति चेत्यर्थद्वयम् । अनेन श्रुतिस्मृत्युदाहरणेन ।
।। इति पालकत्वाधिकरणम् ।। १३ ।।