ॐ अथातो ब्रह्मजिज्ञासा ॐ
सूत्रभाष्यम्
ॐ अथातो ब्रह्मजिज्ञासा ॐ
अथशब्दो मङ्गलार्थोऽधिकारानन्तर्यार्थश्र्च । अतशब्दो हेत्वर्थ ।
उक्तं च गारुडे
अथातशब्दपूर्वाणि सूत्राणि निखिलान्यपि ।
प्रारभन्ते नियत्यैव तत्किमत्र नियामकम् ॥
कश्र्चार्थस्तु तयोर्विद्वन्कथमुत्तमता तयो ।
एतदाख्याहि मे ब्रह्मन्यथा ज्ञास्यामि तत्वत ॥
एवमुक्तो नारदेन ब्रह्मा प्रोवाच सत्तम ।
आनन्तर्येऽधिकारस्य मङ्गलार्थे तथैव च ॥
अथशब्दस्त्वतश्शब्दो हेत्वर्थे समुदीरित ।
परस्य ब्रह्मणो विष्णो प्रसादादिति वा भवेत् ॥
स हि सर्वमनोवृत्तिप्रेरकस्समुदाहृत ।
सिसृक्षो परमाद्विष्णो प्रथमं द्वौ विनिसृतौ ॥
ओङ्कारश्र्चाथशब्दश्च तस्मात्प्राथमिकौ क्रमात् ।
तद्धेतुत्वं वदंश्र्चापि तृतीयोऽत उदाहृत ॥
अकारस्सर्ववागात्मा परब्रह्माभिधायक ।
तथौ प्राणात्मकौ प्रोक्तौ व्याप्तिस्थितिविधायकौ ॥
अतश्र्च पूर्वमुच्चार्यास्सर्व एते सतां मता ।
अथातश्शब्दयोरेवं वीर्यमाज्ञाय तत्त्वत ।
सूत्रेषु तु महाप्राज्ञास्तावेवाऽदौ प्रयुञ्जत इति ॥
सत्तकदीपावली
तत्र तावत्प्रथमसूत्रं व्याख्यातुमुपादत्ते ॥ अथेति ॥ तत्राथातशब्दौ व्याचष्टे ॥ अथशब्द इति ॥ उक्तार्थे गारुडवचनमुदाहरति ॥ अथात इति ॥ ओङ्कारश्र्चाथशब्दश्र्च द्वावेतौ ब्रह्मण पुरा । कण्ठं भित्वा विनिर्यातौ तस्मान्माङ्गिलकावुभौ । इत्यादिवचनात् श्रुतमात्रेणाप्यथशब्देन मङ्गलाचरणं भवतीति ज्ञायते । अत्र अकाराद्यर्थकथनम् अथातशब्दयो प्राशस्त्यज्ञापनार्थम् । सर्ववागात्मकत्वं त्वकारस्य तत्प्रतिपाद्यविष्णुवाचित्वात् । तकारथकारौ विष्णोर्व्याप्तिस्थितिवाचिनावित्यर्थ ।
तत्त्वप्रदीपिका
अथशब्द श्रवणकीर्तनाभ्यां मङ्गलफल । विष्णो परममङ्गलस्य वाचकत्वेनातिप्रियत्वात् । अतश्शब्दो हेत्वर्थ । सर्वस्य हि, "दुखं मा भूत्सुखमेव मे स्यादि’ति निश्शेषदुखनिवृत्ति परम-सुखावाप्तिश्र्चेच्छाविषयत्वेन सदा हृदि कृताऽत इत्युच्यते । यस्माद्ब्रह्मजिज्ञासां विना ते न सिध्यत, तया सिध्यतश्र्चात सा कर्तव्या । ""व्याख्यानत्वात्सर्ववाचां सर्ववागात्मता भवेत्’’ इति सामसंहितायाम् । तथौ प्राणात्मकौ प्रोक्तौ प्राणं प्रणेतारं विष्णुं वाचकत्वेनाऽप्तौ ।
तत्त्वप्रकाशिका
तत्रादिसूत्रस्येदं सङ्गत्यादि । अत्र ब्रह्मजिज्ञासाया कर्तव्यत्वसमर्थनादस्ति शास्त्रसङ्गति । अन्यथा शास्त्रस्यानारम्भणीयत्वप्रसङ्गादेतत्समर्थनीयम् । अध्यायपादसङ्गतिस्त्वानन्दमयाधिकरणमारभ्यैव गवेषणीया । ततोऽर्वाक्तनानामधिकरणानामध्यायपादपीठत्वात् । प्रथमाधिकरणत्वाच्छ्रुतिविचारस्याद्याप्यनारब्ध-त्वान्नाधिकरणश्रुतिसङ्गती च । प्रारिप्सिततया चित्तसङ्गतशास्त्रे प्रवर्तनीया ब्रह्मजिज्ञासा विषय । कर्तव्या न वेति सन्देह । उभयविधव्यापारदर्शनं सन्देहबीजम् । न कर्तव्येति पूर्व पक्ष । अधिकारिविषय-प्रयोजनसम्बन्धशून्यत्वात् । न तावद् ब्रह्म विषय । असन्दिग्धत्वात्प्रमाणाभावेन जीवव्यतिरिक्तस्य ब्रह्मणोऽभावात् । जीवस्य च स्वप्रकाशत्वात् । न हि कश्चित्प्रकाशमानेऽर्थे सन्दिग्धे । न चात्मन स्वप्रकाशत्वे विवदितव्यम् । अहमित्यनुभवात् । न चायं मानसोऽनुभव । तस्यापि ज्ञायमानत्वेनानु-भवान्तरान्वेषणेऽनवस्थानात् । कस्यचिदनुभवस्य स्वप्रकाशत्वेऽस्त्वात्मन एव तत् । जिज्ञासायामेवानु-भवोऽनुभूयत इति न वाच्यम् । अनुभवविरोधात् । न ह्यज्ञायमानज्ञानसद्भावे किञ्चिन्मानम् । न च स्वप्रकाशसंविदाश्रयतयाऽऽत्माऽवभासत इति युक्तम् । औत्तरिकानुस्मृतिसिद्धसौषुप्तिकानुभवाभावप्रसङ्गात् । न हि सुषुप्तावात्मातिरिक्ता संविदस्तीति सम्भवति । संविदात्मकत्वाच्चात्मनो न संविद इव संविदाश्रयतया प्रतीति । अत स्वप्रकाशात्मानतिरिक्तस्य ब्रह्मणोऽसन्दिग्धत्वान्न विषयत्वं सम्भवति । न च जिज्ञासाया प्रयोजनमस्ति । ज्ञायमानेऽपि ब्रह्मणि तदनुपलम्भात् । विषयप्रयोजनाभावान्न ब्रह्मजिज्ञासायामधिकारी विद्यते । अत एव न सम्बन्ध । अतो न ब्रह्मजिज्ञासा कर्तव्येति नैतच्छास्त्रमारम्भणीयमिति प्राप्ते सिद्धान्तयत्सूत्रमुपन्यस्यति ॥ अथेति ॥ ग्रन्थादौ मङ्गलाचरणस्यावश्यकर्तव्यत्वात्तत्परतयाऽथशब्दं व्याचष्टे ॥ अथेति ॥ मुक्त्यर्थिमात्रस्य ब्रह्मजिज्ञासायां प्रवृत्तिनिरसनपरतयापि तं व्याचक्षाणस्तस्याभिधेयमर्थमाह ॥ अधिकारेति ॥ अथशब्दस्यानन्तर्यमात्रार्थत्वेऽप्यधिकारस्य योग्यतया सम्बन्ध । ब्रह्मजिज्ञासाया प्रयोजनशून्यताशङ्कानिवर्तकतयाऽतशब्दं व्याचष्टे ॥ अत इति ॥
नन्वथातशब्दपूर्वकत्वं सूत्राणां किंनिमित्तं मङ्गलोक्त्यादे (मङ्गलाचरणादे) शब्दान्तरेणापि सम्भवादित्याशङ्कां पुराणवचनेनैव परिहरति ॥ उक्तं चेति ॥ अत्र प्रथमप्रयोज्यत्वे नियामकेन भाव्यं तत्किं नियामकम् । न चैतत्प्राथम्यं यादृच्छिकम् । यतोऽखिलान्यपि नियत्यैव तत्पूर्वकाणीत्यर्थ । नियामकं च भवत् द्विविधं भवेत् । अवश्यवक्तव्यार्थत्वमाधिक्यं चेति । आधिक्यं च स्वरूपतोऽर्थतश्चेति द्वेधा भवति । तत्रादिपक्षे पृच्छति ॥ कश्र्चेति ॥ कोऽसाववश्यवक्तव्योऽर्थो येन प्राथम्यमित्यर्थ । द्वितीयमाक्षिपति ॥ कथमिति ॥ शब्दान्तरस्य स्वरूपोत्तमत्वादर्शनात्कथमनयोस्तदिति भाव । तृतीये पृच्छति ॥ कथमिति ॥ अवश्यवक्तव्यार्थत्वात्प्रथमप्रयोग इति परिहारमभिप्रेत्यावश्यवक्तव्यार्थत्वं तयोर्दर्शयति ॥ आनन्तर्य इति ॥ अत्रातशब्दस्याऽवश्यवक्तव्यमर्थान्तरं चाह ॥ परस्येति ॥ अकारवाच्याद्विष्णोस्तत्प्रसादात्तज्जिज्ञासादि कार्यमिति वाऽतशब्दार्थो भवेदित्यर्थ । "अ इति ब्रह्म’ (ऐ.आ. २-३-८-७) इत्यादिश्रुतिं सूचयति परब्रह्मग्रहणेन । किं जिज्ञासाद्यर्थं भगवत्प्रसादेनेत्यत आह ॥ स हीति ॥ ननु मङ्गलोक्त्यादे शब्दान्तरेणापि सम्भवात्किमेतत्प्रयोगनियत्येत्यत स्वरूपाधिक्यं चास्तीत्याह ॥ सिसृक्षोरिति ॥ प्रथमं विनिसृतावत स्वरूपोत्तमौ तस्मात्प्राथमिकावित्यर्थ । यत्स्वजातौ प्रथमं हरेर्निस्सरति तत्तत्रोत्तममिति न्यायोऽनुसन्धेय । अतश्च तृतीयतया प्राथमिक उदाहृत । यतस्तृतीयतयोदाहृतो विष्णुनेत्यत उत्तम इत्यर्थ । तद्धेतुत्वं तस्य विष्णोर्जिज्ञासादौ हेतुत्वं तस्य जिज्ञासादेर्मोक्षहेतुत्वं वा वदन्नित्यनुवाद । न केवलमाधिक्यं स्वरूपत एव किन्त्वर्थतश्चेत्यतोऽपि प्रथमप्रयोग इत्याह ॥ अकार इति ॥ सर्ववागर्थपूर्णताभिधायकतया परब्रह्माभिधायक इत्यर्थ ॥ प्राणात्मकाविति ॥ प्राणदैवत्यौ भगवद्वाचकौ । अभिमान्यभिमन्यमानयोरैक्यव्यपदेशो महतश्चतुर्मुखादित्यादौ प्रसिद्ध । वाच्यवाचकयोरैक्यव्यपदेशो "अयं वै लोक प्रथमा महानाम्नी’ इत्यादौ दृष्ट । अत इत्युपसंहार । वीर्यं स्वरूपाधिक्यादिमाहात्म्यम् ।
गुर्वर्थदीपिका
अस्ति शास्त्रसङ्गतिरित्यत्र साक्षात्परम्परया वा विष्णुमीमांसारूपो ग्रन्थसमुदायोऽत्र शास्त्रमित्युच्यते । अन्यथा साधनफलाध्यायार्थयोरसङ्ग्रह स्यात् । तेन च सङ्गति कथञ्चिद्विष्णुमीमांसारूपत्वे सति स्यात् । प्रथमाधिकरणं च विष्णुजिज्ञासाया कर्तव्यत्वमीमांसारूपत्वात्परम्परया विष्णुमीमांसा-शास्त्रेऽस्मिन्नन्तर्भावलक्षणसङ्गत्या सङ्गतमिति भाव । प्रथमाध्यायस्य नामसमन्वयप्रतिपादकत्वा-त्प्रथमपादस्य चान्यत्र प्रसिद्धनाम्नां समन्वयप्रतिपादकत्वात्तस्य चानन्दमयाधिकरणमारभ्यैव क्रियमाणत्वेन तत प्राक्तनाधिकरणपञ्चके चाभावात् अध्यायपादसङ्गतिस्त्वानन्दमयाधिकरणमारभ्यैव गवेषणीयेत्युक्तम् । पूर्वाधिकरणे विचारितश्रुत्यर्थमाक्षिप्योत्तराधिकरणे तत्समाधाने हि श्रुत्यधिकरणसङ्गती वक्तव्ये । अस्य च प्रथमाधिकरणत्वेनेत पूर्वमाक्षेप्यश्रुतेरेवानारब्धत्वान्नाधिकरणश्रुतिसङ्गती चेति भावेनोक्तं प्रथमाधिकरण-त्वादिति । मनोवेद्यत्वे सुप्तौ मुक्तौ च मनसोऽभावेनाऽऽत्मनोऽपि ज्ञातत्वासम्भवात्स्वप्रकाश-त्वेनैवाऽऽत्मसिद्धिरिति भावेनोक्तं जीवस्य स्वप्रकाशत्वादिति । स्वात्मन एव तदित्यत्र तत् स्वप्रकाशानु-भवत्वं स्वात्मन एव जीवस्यैवेत्यर्थ । अनन्त कस्यचिज्जडमानसानुभवस्य स्वप्रकाशत्वे प्राचीनानुभवस्यैव कुतो न तत् । अतोऽनवस्थापरिहाराय कस्यचिदनुभवस्य स्वप्रकाशत्वमभिलषता प्राचीनानुभवाद्वैलक्षण्य-मवश्यं वाच्यम् । तच्च चिद्रूपत्वमेवेति भावेन स्वात्मन एव तदित्युक्तम् । जिज्ञासायामेवेत्यत्र बुभुत्सैव जिज्ञासा । एकेनाज्ञायमाने घटे तदैवान्येन ज्ञायमानत्वस्य स्थिरतया अन्येद्युर्वा ज्ञायमानत्वस्य सम्भवेऽपि त्रिक्षणावस्थायिनि परप्रत्यक्षाविषये ज्ञाने स्वप्रत्यक्षस्याप्यभावेऽप्रामाणिकत्वमेव स्यादिति भावेनोक्तं न हीति । अतीतकालेऽनुभूतार्थविषयत्वमात्रेण स्मृतिसारूप्यात् साक्षिरूपपरामर्शात्मकज्ञानमप्यनुस्मृतिरिति भावेनोक्तम् औत्तरिकानुस्मृतिसिद्धेति । अन्यथा स्मृतेरप्यतीतार्थसाधकता न स्यादित्यतिप्रसङ्गसूचनायेत्थं प्रयोग । एतावन्तं कालं सुखमहमस्वाप्समित्यौत्तरिकपरामर्शबलादस्ति सुप्तावप्यनुभव । स च सकलकरणोपरतिदशायां विद्यमानत्वान्न जन्य । अजन्यस्य चानुभवस्याऽऽत्मातिरिक्तस्य कल्पने गौरवात् । ""बलमानन्द ओजश्र्च सहो ज्ञानमनाकुलम् । स्वरूपाण्येव जीवस्ये’’ति स्मृतिविरोधा-च्चाऽऽत्मरूप एव वाच्य इति भावेनोक्तं न हि सुप्तावात्मातिरिक्तेति ।
अथशब्दस्य शङ्खनिनादवच्छ्रवणत एव मङ्गलत्वान्मङ्गलमर्थ प्रयोजनं यस्य स मङ्गलार्थ । अधिकारस्तु योग्यतया लभ्यते । ""अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिष्वि’’त्यभिधानम् । अतशब्दो हेत्वर्थ इत्यस्य ""यतो नारायणप्रसादमृते न मोक्ष । न च ज्ञानं विनाऽत्यर्थप्रसाद । अतो ब्रह्मजिज्ञासा कर्तव्ये’’ति स्वपदव्याख्यात्रा भाष्यकृतैव स्पष्टीकरिष्यमाणत्वात् ब्रह्मजिज्ञासाया मोक्षसाधन-भगवत्प्रसादजनकज्ञानं प्रति यद्धेतुत्वं स एवार्थो यस्य स हेत्वर्थ इत्यर्थ । भावप्रधानो निर्देश इति भाव । यद्वा ""तद्धेतुत्वं वदंश्र्चापी’’ति स्मृतिसमाख्ययाऽकारवाच्यस्य विष्णोर्निमित्तार्थकपञ्चमी-विभक्त्यादेशभूततसेरर्थभूतं यज्जिज्ञासां प्रति हेतुत्वं सोऽर्थो यस्य स हेत्वर्थ इत्यर्थ । ""मङ्गलानन्तरारम्भ-प्रश्र्नकार्त्स्नेष्वथो अथ’’ इति वचनात् । शब्दान्तरेण अथोऽत इति सूत्रवल्लघुभूतशब्दान्तरेणेत्यर्थ । तदित्यस्य पूर्वपरामार्शित्वात्परामृश्यं किमित्यतस्तत्प्रस्तावयति नियामकेनेति । यद्यपि ""स्वरूपाधिक्यं चास्तीत्याहे’’ति स्वरूपाधिक्यस्यापि स्वयमेव वक्ष्यमाणत्वात् । ""आदिपक्षे पृच्छति’’ ""तृतीयेऽपि पृच्छती’’तिवद्द्वितीयेऽपि पृच्छतीत्येव वक्तव्यम् । तथापि लोके शब्दान्तरे स्वरूपोत्तमताया क्वाप्यदर्शा-नान्मन्द आक्षिपति इति भावेन द्वितीयमाक्षिपतीत्युक्तम् । यद्यपि ब्रह्मघटितश्रुतिसूचनाय ब्रह्मग्रहणेनेत्येव वक्तव्यम् । तथाऽपि ""परस्य ब्रह्मण’’ इति स्मृतौ विष्णोरुत्तमब्रह्मत्वकथनेन मुख्ये सम्भवत्यमुख्यायोगात् श्रुतावपि ब्रह्मपदेन मुख्यब्रह्मरूपो विष्णुरेव ब्रह्मेति सूचनाय परब्रह्मग्रहणेनेत्युक्तम् । ""सिसृक्षो’’रिति स्मृतिवाक्ये मध्ये उत्तमता न दृश्यते । तथाऽपि कथमुत्तमता तयोरिति प्रश्र्नानुगुण्याय तदध्याहार्यमिति भावेनोक्तम् अत स्वरूपोत्तमाविति । चतुर्मुखादपि प्राग्भगवन्मुखाद्विनिस्सृतऋग्वेदस्य ततोऽप्याधिक्या-दर्शनात्स्वजातावित्युक्तम् । ""तृतीयोऽत उदाहृत’’ इत्यत्रात अतश्शब्द इत्यर्थ । अतश्र्च तृतीयतया प्राथमिक उदाहृत इत्युक्तत्वेऽपि प्रथमं भगवन्मुखनिस्सृतत्वलाभेनोत्तमत्वे हेतुरेवोक्तो न तूत्तमत्वम् । ततश्र्च पूर्ववत् प्रश्र्नानानुगुण्यं स्यादित्याशङ्क्यापेक्षितार्थं पूरयन्वाक्यतात्पर्यार्थानाह अतस्तृतीयतयेति । अत कारणात् उत्तम तृतीयतयोत्तम इत्यर्थ । ""अतश्शब्दो हेत्वर्थे समुदीरित । परस्य ब्रह्मणो विष्णो प्रसादादिति वा भवेदि’’त्यतश्शब्दार्थद्वयस्य प्रागेव कथितत्वात्पुनस्तद्धेतुत्वं वदन्नित्यस्य वैयर्थ्यमाशङ्क्यानुवादेऽपि न्यूनतां परिहर्तुमर्थद्वयं वदन्नित्यनुवाद इत्याह तद्धेतुत्वं तस्य विष्णोरित्या-दिना । अकार इतीति ॥ सर्ववागर्थपरिपूर्णताभिधायकतया परब्रह्माभिधायक इति वदता यद्यप्यकार-स्सर्ववागात्मा सर्ववागर्थपरिपूर्ण परमात्मेत्येव शब्दलभ्योऽर्थ । तथाऽप्यकारपरमात्मनोरैक्यायोगादिदं सामानाधिकरण्यं वाच्यवाचकयोरैक्याभिप्रायेणैव निर्दिष्टमिति सूचितम् । एवं च अकारस्सर्ववागात्मा सर्ववागर्थपरिपूर्ण परमात्मेति सामानाधिकरण्याद्वाच्यवाचकयोरैक्यमुक्तम् । तत्र दृष्टान्त ""अयं वै लोक प्रथमा महानाम्नी’’ति । अत्र हि यथा महान्ति भगवन्नामानि यासु ता ऋच महानाम्य । तासु प्रथमा महानाम्नी ऋक् अयं लोको वै । एतल्लोकाधारत्वादयं लोक इत्युक्त परमात्मा वै इति वाच्यवाचकयोरैक्यमुक्तम् । तद्वदिदमपीति भाव । तथौ प्राणात्मकौ प्राणस्वरूपाविति शब्दलभ्योऽर्थ । प्राण देवता अभिमानी ययो तौ प्राणदैवत्याविति तु फिलतकथनम् । ""तनु विस्तारे’’ ""ष्ठा गतिनिवृत्ता’’विति धातोस्तकारो हरेर्व्याप्त्यभिधायक । थकारस्स्थित्यभिधायक इति ""व्याप्तिस्थिति-विधायकौ’’ । एवं च प्राणात्मकावित्यभिमान्यभिमन्यमानयोरैक्यमुक्तम् । तत्र दृष्टान्तो महतश्र्चतुर्मुखा-दिति । अत्र सृष्टिप्रकरणत्वान्महत्पदं महत्तत्वाभिधायकम् । एवं च यथा महतश्र्चतुर्मुखा-दित्यभिमान्यभिमन्यमानयोर्महत्तत्वचतुर्मुखयोस्सामानाधिकरण्येनैक्यव्यपदेशस्तथेहापीति ॥
भावबोध
अध्यायपादसङ्गतिस्त्विति । यथा ""तद्विजिज्ञासस्व’ "यतो वा’ इत्यादिब्रह्मप्रतिपादकवाक्यार्थ-निर्णायकन्यायव्युत्पादकतया अधिकरणपञ्चकस्य ब्रह्मविचाररूपेण शास्त्रेणान्तर्भावलक्षणा सङ्गति, न तथाऽध्यायपादाभ्यां समन्वयतद्विशेषाप्रतिपादकत्वादिति भाव ।
ननु समन्वयसूत्रे साक्षात् समन्वयस्यैवोक्ते "तमेव समन्वयं प्रकटयति’ इति भाष्येऽध्यायशेषस्य समन्वयसूत्रोक्तसमन्वयप्रपञ्चकत्वोक्ते समन्वयसूत्रेणाध्यायशेषस्य प्रपञ्चप्रपञ्चकभावसङ्गतिरिति सुधाग्रन्थाच्च तस्यान्तर्भावसत्त्वादीक्षत्यधिकरणे ""तदभावे कुतोऽन्वय’ इत्यनुव्याख्यानोक्तरीत्या समन्वयासाधारण-हेतुवाच्यत्वसमर्थनेन तस्याध्यायान्तर्भावसम्भवात् कथमानन्दमयाधिकरणमारभ्यैवेत्युक्तमिति चेत्; सत्यम् । वैदिकानां शब्दानां ब्रह्मण्युपक्रमादिप्रमाणक शक्तितात्पर्यलक्षण सम्बन्ध समन्वय । स च न समन्वयसूत्रप्रतिपाद्य । तत्प्रमाणस्यानुक्ते । किन्तु व्युत्पादयिष्यमाण स शास्त्रयोनित्वे हेतुत्वेन सिद्धवदुपन्यस्त । ईक्षत्यधिकरणेऽप्यवाच्यत्वप्रयुक्ता समन्वयासम्भवशङ्कैव निरस्ता । समन्वयस्तु न व्युत्पादित इति न तयोरध्यायान्तर्भावलक्षणा सङ्गति । किञ्च, अनयोरधिकरणयो पादार्थाप्रतिपादकत्वेन न पादान्तर्भाव इति सिद्धम् । तथा च कथमध्यायान्तर्भावोऽपि ? न हि यद्विशेषानन्तर्भूतं तत् सामान्यान्तर्भूतं सम्भवतीति । अध्यायपादपीठत्वादिति । वक्ष्यमाणक्रमेणैतदधिकरणपञ्चकव्यतिरेकेण समन्वयाद्याकाङ्क्षानुदयात्तदाकाङ्क्षोत्थापकतया ततोऽर्वाक्तनानां पञ्चानामप्यधिकरणानामध्याय-पादपीठत्वादित्यर्थ । नाधिकरणश्रुतिसङ्गती इति । पूर्वाधिकरणतद्विषयवाक्याभ्यां सङ्गती नेत्यर्थ । कर्तव्या न वेति । अत्र वेदार्थनिर्णायकन्यायग्रथनात्मकमिदं शास्त्रमनारम्भणीयमुतारम्भणीयमिति प्रधानचिन्ता, नैतच्छास्त्रमारम्भणीयमित्युपसंहारवाक्यसूचिता द्रष्टव्या । अत एव सुधायां तत्र संशय किमिदमारम्भणीयं न वेति प्रधानचिन्तामुक्त्वा जिज्ञासाया कर्तव्यत्वाकर्तव्यत्वकोटिका चिन्ता तादर्थ्ये-नोक्ता । इदं तदर्थचिन्ताप्रदर्शनं सर्वत्र यथासम्भवं तदर्थचिन्तोह कर्तव्य इत्युपलक्षणत्वेनेति ज्ञातव्यम् । तथा चात्र किमिदं शात्रमनारम्भणीयम्, उत आरम्भणीयमिति चिन्ता । तदर्थमेतच्छास्त्रव्युत्पादितन्याय-करणिका जिज्ञासा न कर्तव्या उत कर्तव्येति । तदर्थं जिज्ञासायां विषयादिकं न सम्भवति उत सम्भवतीति । तदर्थं विषयभूतं ब्रह्म किं प्रत्यगर्थभूतजीव एव प्रयोजनत्वेनाभिमतो मोक्षश्र्च कर्मादिसाध्य; उत प्रत्यगर्थजीवभिन्नं मोक्षश्र्च विष्णुज्ञानजप्रसादैकसाध्य इति । तदर्थं ब्रह्मणो जीवभिन्नत्वे मोक्षस्य तादृशविष्णुप्रसादसाध्यत्वे च प्रमाणं नास्ति उतास्तीति । यदि प्रमाणाभावस्तदा ब्रह्ममोक्षयोर्विषय-प्रयोजनत्वासम्भवात्तत एवाधिकार्याद्यभावाद्विषयादिशून्यत्वेन जिज्ञासायाम् अकर्तव्यत्वे शास्त्रमनारम्भणीय-मिति पूर्वपक्षे, प्रमाणसद्भावे च तयोर्विषयप्रयोजनवत्वोपपत्तेर्मोक्षकामनया ब्रह्मजिज्ञासोरेवाधिकारित्वादि-सम्भवात् सम्बन्धसम्भवाच्च विषयाद्युपेतत्वेन जिज्ञासाया कर्तव्यत्वे शास्त्रमारम्भणीयमिति सिद्धान्ते च फलफिलभाव । एवमुत्तरत्रापि द्रष्टव्यम् । यत्राविशदं तत्र वक्ष्यते । जीवव्यतिरिक्तेश्र्वराभावात् तस्य च स्वप्रकाशत्वेन नित्यसिद्धत्वान्न जिज्ञास्यतेति न्यायविवरणानुसारेण पूर्वपक्षमाह । न कर्तव्ये-त्यादिना । न्यायविवरणे अधिकार्यादिनिरास उपलक्षित इत्यभिप्रेत्य विषयाद्यभावचतुष्टयं पूर्वपक्षयुक्तित्वेनोक्तम् । यथोक्तं न्यायविवरणटीकायाम् "तथाप्युपलक्षणतया विषयनिराकरणसमर्थनयोरेव विवरणं क्रियते’ इति । न तावद् ब्रह्मेति । नापि प्रयोजनादीति तावच्छब्द, न तु नात्रऽब्रह्म विषय इति । अब्रह्मणो विषयत्वानिराकरणादिति ध्येयम् । किमनुभवोऽजिज्ञासितग्राह्य, उत जिज्ञासित-ग्राह्य इति विकल्पं हृदि निधायाऽऽद्ये दोषमाह । तस्यापीति । द्वितीयं शङ्कते । जिज्ञासायामेवेति । जिज्ञासा च न सर्वत्रेति नानवस्थेति भाव । अनुभवविरोधादिति । ज्ञानस्य सुखदुखादिवज्जिज्ञासा- भावेऽप्यनुभवात् । अन्यथा जिज्ञासाया ज्ञानाख्यधर्मिज्ञानसाध्यत्वानुभवादनवस्था स्यादिति भाव ।
ननु न ज्ञानमात्रमजिज्ञासितग्राह्यम्, येनानवस्था । नापि जिज्ञासितग्राह्यम्, येनानुभवविरोध । किन्तु किञ्चिज्ज्ञानं कदापि न ज्ञायत एवेति न कोऽपि दोष इत्यत आह न ह्यज्ञायमानेति । अज्ञायमानत्वादेवेति भाव । संविदात्मकत्वादिति । आत्मा न संविदाश्रयतया प्रतीयते संविदात्मकत्वात् संविद्वत्, इति प्रयोगो द्रष्टव्य । न चासिद्धो हेतु । औत्तरिकानुस्मृत्यैव तस्य सिद्धत्वादिति भाव । "विषयप्रयोजनाभावादेवाधिकारी च । तदभावादेव सम्बन्धोऽपी’त्याचार्योक्तिं मनसि निधाय अधिकारिसम्बन्धाभावमाह विषयप्रयोजनाभावादित्यादिना । यो यत्प्रयोजनमर्थयमानो यद्विषयं जिज्ञासते स तत्राधिकारीति विषयप्रयोजनयोरधिकारिव्यापकत्वादिति भाव । "अत एव’ सम्बन्धिनामभावा-देवेत्यर्थ । तत्फलकतयेति पाठ साधु । न तु तदभिधेयतयेति । अत एव "तस्याभिधेयमर्थमाहे’ति वक्ष्यति । तथा चाथशब्दो मङ्गलार्थ इति भाष्ये अर्थशब्दो प्रयोजनवचन इति भाव । मङ्गलोक्त्यादे-रिति । मङ्गलप्रयोजनकाथशब्दो मङ्गलत्वेन विवक्षित । तस्योक्तिरुच्चारणम् । आदिपदेनाधिकारा-नन्तर्यादिप्रतिपादनम् । अन्यथा मङ्गलोक्तेरित्यवक्ष्यदिति । निखिलान्यपीति । निखिलान्यपीत्यस्यैव विवरणं नियत्यैवेतीति भाव । द्वितीयमाक्षिपतीति । अवश्यवक्तव्यार्थत्वाधिक्यार्थयोस्तदभावयोश्र्च शब्दान्तरेषु दर्शनादथशब्दे तत्सन्देहेन प्रश्र्नमात्रसम्भवेन प्रथमतृतीययो पृच्छतीत्युक्तम् । द्वितीये तु स्वरूपाधिक्यस्य शब्दान्तरेष्वदर्शनादथशब्दे तदाक्षेप इति भाव । अत एव "शब्दान्तरस्य’ इत्यादिना मूलाभिप्रेतो हेतु प्रदर्शित । "कथं’शब्द प्रश्र्नार्थक । "उत्तमता’ शब्दस्तु उत्तमार्थतार्थक इत्यभिप्रेत्य कथमित्यादि प्रकारान्तरेण व्याचष्टे तृतीये पृच्छतीति । इति न्याय इति । अत्र सामान्यव्याप्तिरेवानु-सन्धेया । यथा देवेषु चतुर्मुख इति दृष्टान्तसम्भवात् । न तु य शब्द इति विशेषव्याप्ति । दृष्टान्ताभावादिति भाव । अत इत्यस्यातशब्दपरत्वं हेतुपरत्वं "तृतीयोऽत उदाहृत’ इत्यनयोरावृत्तिं "प्राथमिकौ’ इत्यस्य वचनव्यत्यासेनानुषङ्गं चाभिप्रेत्य व्याचष्टे अतश्र्च तृतीयतयेति । "अकार सर्ववागात्मा’ इत्यत्राकारस्य सर्ववागर्थप्रतिपादकत्वमेव सर्ववागात्मकत्वं सर्ववागात्मेत्यस्य हेत्वर्थगर्भत्वं चाभिप्रेत्याह सर्ववागर्थेति । अभिधायकतयेतीत्थम्भूतलक्षणे तृतीया । प्राणशब्दस्य विष्णुपरत्वमप्यभि-प्रेत्याह भगवद्वाचकाविति । यद्वा, प्राणश्र्चात्मा भगवांश्र्च प्राणात्मानौ, स्वार्थे कप्रत्यय इति भावेन प्राणात्मकावित्येतद्य्वाचष्टे । प्राणदैवत्यौ भगवद्वाचकाविति । महतश्र्चतुर्मुखादिति ॥ महत्तत्वाभि-मानिनश्र्चतुर्मुखादित्यर्थ । अयं वै लोक प्रथमा महानाम्नीति । महानाम्नीसंज्ञिका, विदा मघवन्नित्यादिका ऋक् पृथिव्यादिलोकस्थविष्णुवाचीत्यर्थ । यथोक्तं कर्मनिर्णये
प्रथमा या महानाम्नी तद्वाच्य पार्थिवो हरि ।
द्वितीयायास्त्वन्तरिक्षस्तृतीयायाद्युग प्रभु ॥ इति ।
भावदीप
॥ तत्रेति ॥ सूत्रेष्वति वा अत्युपादेयत्वे सतीति वाऽर्थ । इदमित्युक्त्या परोक्तं हेयमिति सूचितम् । तद्विवृतं चन्द्रिकायाम् । अधिकरणानां हि सङ्गतिस्तावद् द्वेधा । अन्तर्भावरूपा आनन्तर्यरूपा चेति । तत्राऽऽद्या शास्त्रान्तर्भावाध्यायान्तर्भावपादान्तर्भावभेदेन त्रेधा । द्वितीयाऽपि आक्षेपिकी आतिदेशिकी औपोद्धातिकी आपवादिकीत्यादिरूपेणानेकविधा । एवमनेकविधाऽऽनन्तर्यरूपा सङ्गति । पूर्वाधिकरणेनोत्तराधिकरणस्येव पूर्वाधिकरणविषयवाक्येनोत्तराधिकरणविषयवाक्यस्याप्यस्ति सा श्रुतिसङ्गतिरित्युच्यते । उक्तं हि चन्द्रिकायाम्
शास्त्रेऽध्याये तथा पादे श्रुत्याऽधिकरणेन च ।
सङ्गति पञ्चधा प्रोक्ता सर्वाधिकरणेष्वपि ॥
इत्यादि । तथा विषयो विशयश्चैव पूर्वपक्षस्तथोत्तर ॥ प्रयोजनं च पञ्चैतांस्तन्त्रेऽधिकरणं विदुरित्युक्तेर्विषयादिकं च वाच्यम् । तत् परैरन्यथा वर्णितमिति तद्य्वुदासायेदं सङ्गत्यादीति प्रतिज्ञातं विवृण्वन् सङ्गतिं तावद् व्यनक्ति ॥ अत्रेति ॥ आद्याधिकरण इत्यर्थ । तद्विजिज्ञासस्वेति श्रुत्युक्ताया जिज्ञासायास्सविषयत्वादिन्यायबलेन कर्तव्यतासमर्थनेन ब्रह्मविचारपरे शास्त्रेऽन्तर्भावरूपा सङ्गतिरित्यर्थ । उक्तं च सुधायाम् अत एवाऽस्य न शास्त्रबहिर्भाव इति ॥ व्यर्थमेतत्समर्थनमत्रेत्यत आह ॥ अन्यथेति ॥ न्यायानुसन्धानादिरूपजिज्ञासाया अकर्तव्यत्वे न्यायग्रथनात्मकसूत्रसन्दर्भरूपशास्त्रस्यानारम्भणीयत्वं स्यात् । न्यायानुसन्धानार्थत्वात्तस्य । तदारम्भणीयं चावश्यम् । अन्यथा परमपुरुषार्थहेतुश्रुत्यर्थनिर्णयानापत्तेरिति भाव । चन्द्रिकायां तु ब्रह्मविचारपरशास्त्रकर्तव्यतोपयोगितया जिज्ञासाकर्तव्यतासाधनादस्ति शास्त्रादि-नौपोद्धातिकी सङ्गति । अन्यथा शास्त्रानारम्भापत्तेरित्यर्थ उक्त ॥ एतदिति ॥ जिज्ञासाकर्तव्यत्व-मित्यर्थ ॥ अध्यायेति ॥ अध्यायपादयोरन्तर्भाव इत्यर्थ ॥ पञ्चाधिकरण्या पदानां हरौ शक्ति-तात्पर्यावधारणरूपसमन्वयाप्रतिपादकत्वादिति भाव । सङ्गती इति वक्तव्ये सङ्गतिस्त्वित्येकवचनकृत्यं चन्द्रिकायां व्यक्तम् । तर्हि पञ्चाधिकरण्या पूर्वं निवेशे किं बीजमित्यत आह ॥ तत इति ॥ पञ्चाधिकरण्यास्समन्वयविशेषाप्रतिपादकत्वेनाध्यायान्तर्भावासम्भवेऽपि जिज्ञासाकर्तव्यताया प्रथम-प्रतिपाद्यत्वात्तत्प्रतिपादनायाद्यसूत्रे ब्रह्मशब्देन जीवादिव्यावर्तकगुणपूर्तिलक्षणत्वेन सूचयित्वा, ""जन्माद्यस्येति सूत्रेण गुणसर्वस्वसिद्धये । ब्रह्मणो लक्षणं प्रोक्तं शास्त्रमूलं यतस्तत ॥’’ इत्यनुव्याख्यानोक्तदिशा द्वितीये तस्य गुणपूर्तिवाचितासिद्धये जीवपरतानिरासाय विश्वकारणतां जिज्ञास्यब्रह्मलक्षणत्वेनोक्त्वा, तृतीये पूर्तिकारणतयोरतिव्याप्तिनिरासाय तत्र शास्त्रं प्रमाणीकृत्य चतुर्थे तयोर्विष्ण्वेकनिष्ठत्वाय शास्त्रस्यान्य-परतां निषिध्य सर्वशास्त्रस्थसर्वशब्दप्रवृत्तिनिमित्तसर्वगुणपूर्तिसिद्धये वचनवृत्त्या सर्वशास्त्रतात्पर्यविषयतायां चोक्तायां संशब्दार्थस्य वाच्यत्वस्य कात्स्नर्यस्य च समर्थनार्थं पञ्चममिति पञ्चाधिकरण्या बद्धक्रमत्वात्तदनन्तरमेव समन्वये आकाङ्क्षोदयात्तदाकाङ्क्षोत्थापकतया समन्वयाध्यायस्य तदादिनामपादस्य चादौ निवेशो युक्त इत्यर्थ ॥ नाधिकरणेति ॥ पूर्वाधिकरणतद्विषयवाक्याभ्यां सङ्गतिर्नेत्यर्थ । उत्तराधिकरणस्य पूर्वाधिकरणेन सङ्गते पूर्वाधिकरणविषयवाक्यभूतश्रुतिसङ्गत्या अविनाभाव एव न त्वभेद इति सा पृथगिति सूचनाय द्विवचनप्रयोग ।
एवं सङ्गतिमुक्त्वा विषयाद्याह प्रारिप्सिततयेत्यादिना ॥ ब्रह्मजिज्ञासेति ॥ ब्रह्मजिज्ञासा नाम ब्रह्मज्ञानाय सर्ववेदादिविषया वक्ष्यमाणदिशा श्रवणमनननिदिध्यासनरूपा वा सुधारीत्या वेदाद्यर्थनिर्णायकन्यायानुसन्धानापरपर्यायमननमात्ररूपा वा चित्तवृत्तिरित्यर्थ । अन्यथेत्यादि पूर्ववाक्योक्त-जिज्ञासाविषयकचिन्तासाफल्यद्योतनाय शास्त्रे प्रवर्तनीयेत्युक्तम् ॥ जन्माद्यस्येत्यादौ शास्त्र इत्यर्थ । क्वास्ति शास्त्रमित्यत उक्तं प्रारिप्सिततया चित्तसङ्गतेति । एतेन शास्त्रमारभ्यं वा न वेति प्रधानसन्देह । तदर्थं ब्रह्मजिज्ञासा कर्तव्या न वेति सन्देह इति सूचितम् । यद्यप्ययमत्र सन्देहो न ग्रन्थकर्तु सर्वज्ञत्वात्तस्य । नापि परस्य शास्त्रस्यैवानुपलब्ध्या जिज्ञासाया अनुपस्थिते । तथापि शास्त्रप्रणयनानन्तरं एतत्सूत्राभाव एतद् दृष्ट्वा परस्सन्दिहीतेति तदीयसन्देहप्रदर्शनमेतदिति सुधायामेव व्यक्तम् । वादिविप्रतिपत्तिरेव विचाराङ्गसन्देहबीजमित्यत्र हेत्वभावाद्विप्रतिपत्तेरपि साधारणधर्म एवान्तर्भावस्य पद्धत्यादावुक्तत्वात्साधारणधर्ममेव सन्देहबीजमाह ॥ उभयेति ॥ लोके निर्विषयादिक्रियाया आकाशरोमन्थनादेरकर्तव्यत्वदृष्टि सविषयादिक्रियाया अन्नभोजनादे कर्तव्यत्वदृष्टिरित्यर्थ । अत्र तदर्थचिन्तासूत्रक्रमविशेषचर्चादिकं चन्द्रिकातोऽवसेयम् । सङ्गम्यन्ते गुरोर्गिर इति स्वप्रतिज्ञामनुरुध्य सौत्रब्रह्मपदव्यावर्त्योक्तिपरं जीवव्यतिरिक्तेश्वराभावात्तस्य च स्वप्रकाशत्वान्न जिज्ञास्यतेति न्यायविवरणं विवृण्वन् पूर्वपक्षमाह ॥ न कर्तव्येति ॥ अधिकारीति ॥ यद्यपि न्यायविवरणे जीवव्यतिरिक्तेत्यादिना विषयशून्यत्वमेको हेतुरुक्तो भाति न तु हेतुचतुष्टयमपि । तथापि विषयशून्यत्वोक्त्यैव तदन्यत्रितय-शून्यत्वमपि लभ्यत इति भावेन विषयशून्यत्वं तावद्वक्ति ॥ न तावद् ब्रह्म विषय इति ॥ ब्रह्मरूपो विषयस्तावन्नास्ति । प्रयोजनादि च नास्तीति वक्ष्याम इति तावच्छब्द । श्रुतौ ब्रह्मेति श्रवणा-न्निष्कृष्योक्ति । असंदिग्धत्वादित्येतदेव व्यनक्ति ॥ प्रमाणाभावेनेत्यादिना स्वप्रकाशत्वादित्यन्तेन ॥
कर्मकाण्डस्य कर्मपरत्वाद्वेदान्तानां च जीवचैतन्यपरत्वात्प्रत्यक्षानुमानयोश्चाप्रसक्तेरिति भाव । ब्रह्मणोऽभावादित्येव पूर्तौ जीवेत्याद्युक्ति वेदान्तानां निर्विषयत्वशङ्काव्युदासाय । उक्तं च सुधायाम् । ईश्वरविषया जिज्ञासा भविष्यतीति चेत् तस्यैवाभावात् । न चैवं ईश्वरादिपदानामानर्थक्येनापदत्वप्रसङ्ग इति वाच्यम् । तेषां कथञ्चिज्जीवविषयत्वादित्यादि । तर्हि जीव एवास्तु जिज्ञासाविषय इत्यत आह ॥ जीवस्य चेति ॥ जडं तु न सत्यमिति भाव । अत एव जीवस्य स्वप्रकाशत्वेऽपि देहादि-भिन्नताणुत्वमहत्वज्ञानानन्दात्मकत्वकर्तृत्वादिना सन्दिग्धत्वात्तेन रूपेणास्तु जिज्ञासाविषयत्वम् । अन्यथा सिद्धान्तेऽपि ज्ञोऽत एवेत्यारभ्य आपादसमाप्ति द्वितीये जीवविचारो न स्यादिति प्रत्युक्तम् । अभेदवादिन पूर्वपक्षिणो मते जीवचैतन्यादन्यस्य सर्वस्यासत्वेन विषयत्वायोगात् ॥ न चेति ॥ यद्यपि स्वप्रकाशत्वासमर्थनेऽपि मानसानुभवादिना सिद्धत्वेऽपि प्रकृतसिद्धिरस्ति, स्वप्रकाशतया वा स्वप्रकाशज्ञानाश्रयतया वा मानसप्रत्यक्षवेद्यतया वा सिद्धत्वेनेति सुधोक्ते । तथापि न्यायविवरणोक्त-वास्तवप्रमेयसमर्थनमेतत् । सङ्गम्यन्ते गुरोर्गिर इति तद्विवरणस्यापि प्रतिज्ञानात् । अहमित्यनुभव स्वप्रकाशरूपो न चेत् तत्प्रकाश किं ताकिकरीत्या मानसानुभवेन किं वा प्राभाकररीत्या स्वप्रकाश-ज्ञानाश्रयतया । आद्यमाशङ्क्याह ॥ न चायमिति ॥ स्वात्मन इति ॥ लाघवात्स्वात्मन एव तदस्त्वित्यर्थ ॥ जिज्ञासायामिति ॥ जिज्ञासा च न सर्वत्रेति नानवस्थेति भाव ॥ अनुभवेति ॥ ज्ञानस्य सुखदुखादिवज्जिज्ञासाभावेऽप्यनुभवेन तद्विरोधात् । अन्यथा जिज्ञासाया ज्ञानाख्यधर्मिज्ञान-साध्यत्वानुभवादनवस्था स्यात् । अन्यथाऽनुभवविरोधादित्यर्थ । ननु न ज्ञानमात्रमजिज्ञासितग्राह्यम् । येनानवस्था । नापि जिज्ञासितग्राह्यम् । येनानुभवविरोध । किन्तु किञ्चिज्ज्ञानं कदापि न ज्ञायत एवेति न कोऽपि दोष इत्यत आह ॥ न हीति ॥ न चेष्टापत्ति । असत्वापादादिति भाव । द्वितीयं शङ्कते ॥ न चेति ॥ औत्तरिकेति ॥ सुप्तोत्थितस्यैतावन्तं कालं सुखमहमस्वाप्समिति औत्तरिकी उत्तरकालीना अनुस्मृतिस्तावदस्ति । सा च पूर्वानुभवजन्येति सुप्तावप्यनुभव कश्चन सिध्यति । स च स्वप्रकाशात्मरूपपक्ष एवोपपद्यते । न संविदाश्रयतया आत्मप्रकाशे । कुत इत्यत आह ॥ न हीति ॥ गृहीत एव प्राणो भवति गृहीता वाक् गृहीतं चक्षुरित्यादिकाण्वश्रुत्या सर्वेन्द्रिया-णामुपरमादिति भाव । आत्मातिरिक्तेत्युक्त्या आत्मस्वरूपत्वेनैव सौषुप्तिकानुभवस्समाधेय इति सूचयति । संविदित्युपलक्षणम् । सुखमपि ध्येयम् । पुंस्त्वादिवत्वस्य सतोऽभिव्यक्तियोगादित्यत्र द्वितीये । बलमानन्द ओजश्च सहो ज्ञानमनाकुलम् । स्वरूपाण्येव जीवस्येत्यादिवचनादिना आनन्दज्ञानादिस्वरूपत्वस्यात्मन उपपादयिष्यमाणत्वात् । वक्ष्यमाणोपयोगित्वादपि स्वप्रकाशत्वस्यात्र प्रपञ्चनमिति भाव । नायं सुप्तावनुभूतस्य परामर्श । किन्तु तदैवातीतं सुप्तिकालमनुमानेनानुभूय तद्द्वारेण दुखाभावोऽनुमीयत इति चेन्न । अस्यार्थस्यातीतानागतौ कालावित्यादावानुमानिकपादीयानुव्याख्यानसुधयोर्निरासात् । अत्रैके साक्षिज्ञानमेवातीतविषयकत्वमात्रेणानुस्मृतिरुच्यते । आजन्ममरणं स्मृत्वा मुक्ता हर्षमवाप्नुयुरिति छान्दोग्यभाष्योक्तस्मृतौ मुक्तस्वरूपज्ञाने स्मृतिशब्दप्रयोगात् । नित्ये स्वरूपानुभवरूपे ज्ञाने सत्येव तज्जन्यसंस्कारजन्यस्मृतिकल्पनायोगाच्च । मनोनुत्पन्नानुभवजनितसंस्कारसहकृतस्य मनस तद्विषयस्मृति-जनकत्वेऽतिप्रसङ्गाच्च । अत एव ""भक्तानां स्मरणं विष्णोर्नित्यज्ञप्तिस्वरूपत । अनुग्रहोन्मुखत्वं तु नैवान्यत्क्वचिदिष्यत’’ इतीशावास्यभाष्यटीकायां ""स्मरणं ह्यनुभवजन्यसंस्कारसहकृतेन मनसा जायते । ईश्वरश्च नित्यज्ञानस्वरूप इति तस्य स्मरणासम्भवात् लक्षणाश्रयणमिति भाव’’ इत्युक्तमित्याहु । अन्ये तु सौषुप्तिकस्वरूपज्ञानाहितसंस्कारसहकृतेन स्वरूपेन्द्रियेणानुभूतविषयकतया स्वरूपज्ञानस्य व्यज्यमानत्वादनुस्मृतित्वमित्याहु । अपरे तु चिन्मात्राणीन्द्रियाण्याहुर्मुक्तानामन्यदैव तु । तान्येव जडयुक्तानि ह्यभिन्नानि स्वरूपत इति द्वितीयस्कन्धतात्पर्योक्त्या स्वरूपेन्द्रियाभिव्यक्तसाक्ष्यनुभवजन्य-संस्कारसहकृतं स्वरूपेन्द्रियमिश्रं बाह्यं मन एवेमां स्मृतिं जनयतीत्याहु । अत्र सुषुप्तावात्मातिरिक्त-ज्ञानाभावेनौत्तरिकानुस्मृतिर्न स्यात् इत्यापादनीये औत्तरिकेत्यादिविपरीतापादनं तु संविदात्मकत्वादिति वक्ष्यमाणहेतोरसिद्धिनिरासार्थम् ।
॥ न संविदाश्रयतयेति ॥ यथा संविद इति दृष्टान्तो योज्य । उक्तं पूर्वपक्षं न्यायविवरणारूढं दर्शयन्नर्थतस्तदनुवादपूर्वमुक्तमविषयत्वमुपसंहरति ॥ अत इति ॥ जीवस्य स्वप्रकाशत्वे औत्तरिकानु-स्मृत्यादिरूपसाधकमानभावेन जीवान्यब्रह्मणोऽभावाच्चेत्यर्थ । एतेन न्यायविवरणस्थस्वप्रकाशत्व-हेतुरसन्दिग्धत्वहेतूपपादनद्वारा जिज्ञास्यत्वाभावे हेतुर्न साक्षादित्युक्तं भवति ॥ न विषयत्वमिति ॥ ब्रह्मणो जिज्ञासाविषयत्वं न सम्भवतीत्यर्थ । सन्दिग्धे न्याय प्रवर्तत इत्युक्तेर्जिज्ञासायाश्च न्यायानुसन्धानात्मकत्वादिति भाव । यत्त्वहमिति बुद्धाववेद्यं निर्विशेषं जीवचैतन्यं वेदान्तविषयोऽस्त्विति तत्तु परमतनिरासप्रस्तावे चन्द्रिकायां निरस्तम् ॥ न चेति ॥ प्रयोजनं चेति चान्वय । सा हि मोक्षाख्यं प्रयोजनं जनयन्ती ज्ञानद्वारैवेति वाच्यम् । अहमिति जीवरूपब्रह्मज्ञाने सत्यपि फलानुभवानुप-लम्भान्न मोक्षाख्यं मुख्यप्रयोजनं ज्ञानरूपमवान्तरप्रयोजनं च नास्ति । जीवरूपब्रह्मज्ञानस्य सिद्धत्वादिति भाव ॥ विषयेति ॥ फलोद्देशेन विषयं जिज्ञासमानस्यैवाधिकारित्वादिति भाव ॥ अत एवेति ॥ त्रितयाभावादेवेत्यर्थ ॥ अत इति ॥ विषयाद्यभावादित्यर्थ । तद्विजिज्ञासस्वेत्यादिविधयस्त्वप्रमाणमिति भाव । पूर्वपक्षफलमाह ॥ नैतदिति ॥ अत्राद्य इतिशब्दो हेतौ अन्त्यस्समाप्तौ । अयं च सौत्रब्रह्मपद-व्यावर्त्यपूर्वपक्षो न्यायविवरणोक्त प्रपञ्चित । न तु सौत्राथातपदव्यावर्त्यावपि । तौ तु यथाक्रमं अथशब्दोऽधिकारानन्तर्यार्थोऽतशब्दो हेत्वर्थ इति सङ्ग्रहव्यावर्त्योक्तिप्रस्तावे भक्तिमान्परमे विष्णौ कर्मणा त्वधम प्रोक्त इति विस्तरव्यावर्त्योक्तिप्रस्तावे च वक्ष्येते । उक्तप्रयोजनाधिकारिसंबन्धाभावाश्च विषयाभावेनैव प्राप्ता इति जीवान्यविषयसमर्थनपरेण ब्रह्मशब्देनैव निरसिष्यन्ते । अत एव वक्ष्यति ग्रन्थकारस्सिद्धान्तोक्त्यवसरे जीवस्य स्वप्रकाशत्वेऽपि तद्भिन्नब्रह्मणस्सन्दिग्धत्वाद्विषयत्व-सिद्धेर्मोक्षाख्यप्रयोजनसद्भावात्तत एवाधिकार्यादिसम्भवादिति । उक्तं चन्द्रिकायाम् । अहमिति ब्रह्मणि ज्ञायमानेऽपि मोक्षानुपलम्भान्निष्प्रयोजनत्वमिति शङ्का तु विषयसूचकेन ब्रह्मपदेनैव निरस्तेति । अतो ब्रह्मपदव्यावर्त्य एवायं पूर्वपक्षो न त्वथातशब्दव्यावर्त्योऽपीति ज्ञेयम् ॥
॥ ग्रन्थादौ मङ्गलाचरणस्येति ॥ तदावश्यकत्वं चाविघ्नपरिसमाप्त्यादिहेतुत्वादिति बोध्यम् । विस्तृतमेतत्सुधायाम् ॥ तत्परतयेति ॥ तत्फलतयेत्यर्थ । अथशब्दोच्चारणादेर्मङ्गलस्याशब्दार्थत्वेन तत्परत्वायोगात् । मङ्गलप्रयोजनक इति सुधाग्रन्थाच्च । तत्त्वप्रदीपे तु अथशब्द श्रवणकीर्तनाभ्यां मङ्गलफलक विष्णो परममङ्गलस्य वाचकत्वेनातिप्रियत्वादिति मङ्गलफलकत्वं मङ्गलरूपविष्ण्वर्थकत्वं चोक्तम् । तत्फलतयेत्यपि पाठ । अथपदव्यावर्त्यं दर्शयन्नेव भाष्यमवतारयति ॥ मुक्त्यर्थिमात्रस्येति ॥ मुक्तियोग्यत्वशान्त्यादिमत्त्वस्यापि अधिकारत्वेन वक्ष्यमाणत्वात् मुक्तियोग्यत्वशान्त्यादिमत्त्वरूपाधिकारा-नन्तर्यवाचिना सौत्राथशब्देन मुक्त्यर्थिमात्रस्याधिकारनिरास इति भाव । ननु मुक्त्यर्थिमात्रस्य ब्रह्मजिज्ञासायां प्रवृत्तावपि साधिकारित्वेन ब्रह्मजिज्ञासाकर्तव्यत्वप्राप्त्या मुक्तियोग्यत्वभक्तिपूर्वकाध्ययन-शमदमादिवैराग्यसंपत्तिरूपाधिकारार्पकेणाप्यथपदेन कथं जिज्ञासाकर्तव्यत्वोपपादनं तदुपपादकत्वेनैव सूत्र अथातोब्रह्मपदानामुपादानादिति चेत्सत्यम् । अथपदाभावेऽपि विषयार्पकब्रह्मपदेन जीवान्यविषय-सिध्द्यैव मुमुक्षुमात्रस्याधिकारप्राप्तौ शूद्रादेरपि प्राप्त्या अपशूद्रनये वक्ष्यमाणश्रवणाध्ययनादिप्रतिषेधक-प्रमाणविरोधेन मुमुक्षुमात्रमधिकारिणमुपाददाना जिज्ञासा न कर्तव्यैव स्यात् । अध्ययनादिमत्त्वरूपाधि-कारार्थकाथशब्दे तु सति अपशूद्रादिकमधिकारी सिद्ध इति विरोधाभावाज्जिज्ञासा कर्तर्व्यैव स्यादिति भाव ॥ योग्यतयेति ॥ आनन्तर्यप्रतियोगित्वसामर्थ्येनेत्यर्थ । सा च योग्यताधिकारस्यैव नान्यस्येत्येतद्विवृतं न तावदध्ययनमात्रादित्यादिना चन्द्रिकायाम् । प्रपञ्चितं च गुरुपादैर्न्यायमौक्तिकमालायाम् ॥ प्रयोजनेति ॥ मोक्षहेतोर्ज्ञानस्य विष्णुप्रसादस्य वा कर्मणा ज्ञानमातनोति तत्कर्म हरितोषं यदित्युक्त्या कर्मजन्यत्व-प्रयुक्तनिष्प्रयोजनत्वशङ्केत्यर्थ । न तु ज्ञायमानेऽपि ब्रह्मणीत्युक्तनिष्प्रयोजनत्वशङ्कानिवर्तकतयेति भ्रमितव्यम् । तस्य विषयार्पकब्रह्मपदेनैव निरासात् ।
॥ नन्विति ॥ विषयाधिकारिजिज्ञासाफलानामध्यायचतुष्टये निरूपयिष्यमाणक्रमेणाद्यसूत्रे निर्देशे कर्तव्येऽपीत्येतावद्वाक्यं नन्वित्यनन्तरं योज्यम् ॥ मङ्गलोक्त्यादेरिति ॥ विघ्ननिवर्तकशब्दोच्चारणादेरित्यर्थ । क्वचिन्मङ्गलाचरणादेरिति पाठ । अत्रेत्यनुवादेन प्रथमप्रयोज्यत्व इति व्याख्यानम् । तदित्यस्य परामृश्यं किमित्यतस्तत्प्रस्तावयति ॥ नियामकेनेति ॥ अखिलान्यपीति ॥ अथातो धर्मजिज्ञासा अथातो दैवीमीमांसा अथातो दर्शपूर्णमासावित्यादिसम्भाविताखिलानीत्यर्थ । तेन न पाणिनीयादौ व्यभिचार शङ्क्य । अवश्यवक्तव्यार्थत्वस्य तदभावस्य च लोके शब्दान्तरेषु दर्शनात् अथशब्दे तत्सन्देहेन पृच्छतीत्याद्युक्तम् । द्वितीये कथमाक्षेप इत्यत आह ॥ शब्दान्तरस्येति ॥ कथंशब्दमाक्षेपपरतया व्याख्याय पुन प्रश्नपरतयापि व्याचष्टे ॥ तृतीयेऽपीति ॥ पूर्ववत्प्रश्नहेतु संशय उपपाद्य । पर्यवसितार्थमाह ॥ तत्प्रसादादिति ॥ जिज्ञासादि कार्यमिति शेषोक्ति । प्रथमं निस्सृतत्वे प्राथम्यं कुत इत्यतो मध्ये शेषमाह ॥ अत स्वरूपोत्तमाविति ॥ ननु ॐ अथशब्दौ स्वरूपोत्तमौ हरे प्रथमं निस्सृतत्वात् । य शब्द प्रथमं हरेर्निसृत स उत्तम इति व्याप्तौ दृष्टान्तो नेत्यत आह ॥ यत्स्वजाताविति ॥ इति न्याय इति ॥ सामान्यन्याय इत्यर्थ । यथा देवेषु चतुर्मुख इति दृष्टान्त-सम्भवात् न तु विशिष्येति भाव । अत इत्यस्य अतशब्दपरत्वं हेतुपरत्वं तृतीय उदाहृत इत्यनयोरावृत्तिं प्राथमिकावित्यस्य वचनव्यत्ययेनानुषङ्गं चोपेत्याह ॥ अतश्र्चेति ॥ अनुवाद इति ॥ तेन हेत्वर्थ इत्यनेन न पुनरुक्तिरिति भाव । नन्वतशब्दस्य तृतीयत्वे पूर्वमुच्चार्या इति त्रयाणां पूर्वोच्चार्यत्वे च सति अथातशब्दपूर्वाणीत्युपक्रमे अथातशब्दयोरित्युपसंहारे च कथं द्वयोरेवोक्ति । तावेवादावित्यवधारणं च । सत्यम् । आ अध्यायसमाप्ति प्रतिसूत्रमादावनुषङ्गायासंहिततयोच्चार्यमाणत्वेन वैलक्षण्यात् । सर्वत्रानुगतत्वेन पृथगोंक्रियतेऽखिलैरित्यनुभाष्योक्ते । अथात शब्दवदवश्यवक्तव्यार्थत्वाभावात् विशेषविवक्षया तयो प्रश्नादीत्यदोष । अत एव भाष्ये अथादेरेव व्याख्यानम् ॥ सर्ववागिति ॥ अकारो वै सर्वावागित्यत्र अन्येऽपि शब्दा सर्वेऽपि ह्यकारार्थाभिधायिन इति । तस्मादकार एवायं सर्ववागात्मक श्रुत इति तस्मात्सर्वगुणान्विष्णोरकारो वक्ति यत्प्रभो । तद्य्वक्तयोऽपि शब्दा ये सर्वे विष्णुगुणब्रुवा इत्याद्यैतरेयभाष्योक्तदिशा सर्ववाचां गुणपूर्णत्वरूपो योऽर्थस्तदभिधायकतयेति वा सर्वं पूर्णमिहोच्यत इत्यादे सर्वेति या वाक् तदर्थपूर्णताभिधायकतयेति वा व्याख्यातत्वात्सर्ववाचां सर्ववागात्मता भवेदिति तत्त्वप्रदीपोक्तस्मृत्या वा व्याख्यानव्याख्येयभावेन सर्ववागात्मकत्वमुपेत्य सर्ववागर्थेत्युक्तम् । भाष्ये सर्ववागात्मेति हेतुगर्भम् । अर्थैक्यादैक्योक्तिरिति भाव । प्राणपदस्य वायुविष्ण्वर्थत्वमुपेत्याह ॥ प्राणेत्यादि ॥ महत इति ॥ अन्तरा विज्ञानमनसी इत्यत्र विज्ञानतत्वं महतस्समुत्पन्नं चतुर्मुखादिति भाष्योक्तस्मृतौ यथा महत्तत्वाभिमानिचतुर्मुखादित्यर्थे महतश्चतुर्मुखादिति प्रयोग तथेत्यर्थ ॥ अयं वै लोक इति ॥ महन्नाम यासु ऋक्षु विद्यते ता महानाम्य । परस्य ब्रह्मणो यन्नामेन्द्रादिकं तन्महार्थत्वान्महदिति कर्मनिर्णयोक्तदिशा प्रथमा महानाम्म्नीत्युच्यमाना विदा मघवन्नित्यादिका ऋगित्यर्थ । ऐतरेयोपनिषद्गतं विदा मघवन्निति आभिष्ट्वमभिष्टिभिरिति राय इति च ऋक्त्रयमिति यावत् । पृथिवीस्थविष्णुवाचकमित्यर्थ ॥ तदुक्तं कर्मनिर्णये त्यृचविभागेन तिस्रो महानाम्य इति । तथा प्रथमा या महानाम्नी तद्वाच्य पार्थिवो हरिरिति च ॥ उपसंहार इति ॥ तेन न पुनरुक्तिरिति भाव ॥ तावेवादाविति भाष्ये संहिततयेति योज्यम् । ॐकारं त्वसंहिततयेति भाव ॥ यद्वा स्रवत्यनोंकृतं ब्रह्म परस्ताच्च विशीर्यत इत्यर्थवादबलादेवोङ्कारस्य प्राप्त्या सूत्रकृत प्रयत्नानपेक्षत्वात्तदारंभापेक्षया तावेवादावित्युक्तिरित्यदोष ।
अभिनवचन्द्रिका
सङ्गत्यादीति ॥ आदिशब्देन विषयपरिग्रह । शास्त्रसङ्गतिरिति ॥ उपजीव्योपजीवकभावलक्षणा सङ्गतिरित्यर्थ । "शास्त्रस्याऽनारम्भणीयत्वप्रसङ्गा’दित्यनेन टीकाकारैरेवोपजीव्योपजीवकभावसङ्गतिरिति स्वाभिप्रायाविष्करणात् । अध्यायपादसङ्गतिं सूचयति अध्यायपादसङ्गतिस्त्विति ॥ आनन्दमयाधि-करणमारभ्यैवाध्यायपादसङ्गतिर्गवेषणीया । तत प्राक् न गवेषणीयेति भाव । सङ्गतिसद्भावे कुतो न गवेषणीयेत्यत आह ततोऽर्वाक्तनानामिति ॥ पीठिकाऽऽचरणस्योपाद्घातरूपत्वेन अध्यायपादाभ्या-मौपोद्घातकी सङ्गति सिद्धेति न गवेषणीयेति भाव । अन्यथा अत्राध्यायपादसङ्गत्यभावप्रतिपादनाय आनन्दमयाधिकरणमारभ्यैवाऽस्तीति बूयात् । आनन्दमयाधिकरण (१-६-अ.) मारभ्याऽवश्यं सङ्गति-र्गवेषणीया । तत्र विविक्षिताया अन्तर्भावलक्षणसङ्गते । "समस्तेनाऽध्यायेनेति, प्रायेणान्यत्र प्रसिद्धानामिति "प्रायेणे’ति पदाभ्यां भाष्यकारेणैव क्वचिदभावस्योक्तत्वेन विशेषानुक्त्या सर्वत्रापि अन्तर्भावशङ्काप्रसङ्गात् । यद्यपि अध्यायपादाभ्यमिव शास्त्रेणापि औपोद्घातकी सङ्गतिरस्तीति शास्त्रादिसङ्गतिरिति वक्तव्यम्, तथापि अध्यायपादाभ्यामौपोद्घातकी सङ्गति पञ्चाधिकरणीसाधारणी । शास्त्रसङ्गतिस्तु जन्माधिकरण-मारभ्य अन्तर्भावलक्षणेति विशेषसूचनाय शास्त्रसङ्गतिं पृथगभिधाय अध्यायपादसङ्गति सूचिता । ब्रह्मविषयकविषयकत्वेन साक्षाद्ब्रह्मतल्लक्षणाद्यविषयकत्वेन मुख्यान्तर्भावाभावेऽपि ब्रह्मसम्बन्धिजिज्ञासा-कर्तव्यत्वस्य न्यायेन व्युत्पादकत्वात्, अस्याधिकरणस्य शास्त्रान्तर्भावोऽपि नानिष्ट । अत एव एवमेवाऽभिप्रायं मनसि निधाय सुधायाम् अस्याऽधिकरणस्य शास्त्रान्तर्भाव इति वक्तव्ये "अत एवास्य सूत्रस्य न शास्त्रबहिर्भाव’ इत्युक्तम् ।
ननु अध्यायपादपीठत्वम् अध्यायपादोपोद्घातत्वमुक्तम् । तदयुक्तं द्वितीयाध्यायतो व्यावृत्तस्य प्रथमाध्यायमात्रासाधारणस्योपोद्घातत्वस्य, तथा द्वितीयादिपादतो व्यावृत्तस्य प्रथमपादमात्रासाधारण-स्योपोद्घातत्वस्य भावेन शास्त्रोपोद्घातत्वस्यैव सत्त्वेन शास्त्रपीठत्वादिति वक्तव्यम्, न तु अध्यायपादपीठ-त्वादिति इति चेत् न ब्रूमो वयं शास्त्राध्यायान्तरपादान्तरसङ्गतिर्नास्तीति । किं नाम एतदध्याय-पादाभ्यामौपोद्घातकी सङ्गतिरस्तीति, स्मृत्यधिकरणस्य (ब्र.सू.२-१-१) युक्तिसमयद्विविधश्रुतिन्यायोपेत-श्रुतिविरोधपरिहारात्मकत्वेन सर्वपादसङ्गतत्वेऽपि युक्तिविरोधपरिहारकत्वस्यापि भावेन प्रथमपादान्त-र्भावाऽभिधानवत्, आनन्दमयनाम्नो नामिलङ्गात्मकत्वेऽपि नामात्मकत्वेन प्रथमपादान्तर्भावाऽभिधानवच्च, एतस्यापि प्रथमाध्यायप्रथमपादसङ्गतत्वाभिधानोपपत्ते । सर्वाध्यायसर्वपादपीठत्वेऽपि प्रथमाध्यायप्रथम-पादपीठत्वोक्तिस्तु प्रकृतोपयोगित्वात् इति द्रष्टव्यम् । अथवा अध्यायपादपीठत्वादित्यनेन न प्रथमाध्यायप्रथमपादपीठत्वमुक्तम्, किं नाम सर्वाध्यायसर्वपादपीठत्वम् । "आनन्दमयाधिकरणमारभ्ये’त्यनेन तस्यैव प्रकृतत्वात् न हि आरभ्यपदगृहीतद्वितीयाध्यायाधिकरणानां प्रथमाध्यायप्रथमपादसङ्गतिरस्ति, किन्तु तत्तदध्यायपादसङ्गति । अत अध्यायपादशब्दाभ्यां सर्वाध्यायपादा एव विवक्षिता इति । यद्वा ननु अस्याधिकरणस्याध्यायांतर्भावो भाष्यकृतोऽभिमत । तथा हि "विष्णुरेव विजिज्ञास्य’ इति अणुभाष्ये "जिज्ञास्योऽयं विधीयत’ इत्यनुव्याख्याने च जिज्ञास्यत्वरूपिलङ्गसमन्वयस्योक्तत्वात्, न्यायविवरणे "जीवव्यतिरिक्तेश्र्वराभावात् तस्य स्वप्रकाशत्वेन स्वत सिद्धत्वान्न जिज्ञास्यते’त्याक्षेपाच्च शास्त्राध्यायसङ्गती स्त इति वक्तव्यम् । कथं शास्त्रसङ्गतिमात्रकथनमित्यत आह अध्यायपाद-सङ्गतिस्त्विति ॥ पादग्रहणं दृष्टान्तार्थम् । यथा पादसङ्गतिरानन्दमयाधिकरणमारभ्यैव साक्षादस्ति अध्यायसङ्गतिरपि तथैवेति गवेषणीया ज्ञातव्येत्यर्थ ॥ यद्यस्याधिकरणस्याध्यायान्तर्भावो भाष्यकृदभिमत स्यात् तर्हि इहैवाध्यायप्रतिपाद्यं ब्रूयात् न त्वानन्दमयाधिकरणोपक्रमे, पादप्रतिपाद्येन सहेति "आनन्दमयाधिकरणमारभ्ये’त्यनेन सूचयामास अन्यथा "अध्यायपादसङ्गतिस्त्विह ने’त्येव ब्रूयात् । अणुभाष्याऽनुव्याख्याने तु आर्थिकार्थप्रदर्शनपरे । न्यायविवरणं तु आर्थिकार्थाक्षेपमुखेन जिज्ञासाक्षेपकं द्रष्टव्यम् ॥ नाधिकरणश्रुतिसङ्गती इति । गवेषणीयेति प्रकृतमनुवर्तते । "क्व प्रकृतमनुवर्तते । "आनन्द-मयाधिकरणमारभ्ये’ति वाक्ये प्रकृतमिति गृहाण । ननु तध्द्येकवचनान्तं प्रकृतं द्विवचनान्तेन चेहार्थ । न चानुवर्तमानं द्विवचनान्तमिति वाच्यम् । अनुवर्तमानस्यापि द्विवचनान्तत्वायोगात् । "न हि गोधा अभिसर्पणादहिर्भवती’ति चेत् न, एकवचनान्तत्वेन प्रकृतमपि अर्थादिह द्विवचनान्तं सम्पत्स्यते, तदुक्तं महाभाष्ये "तस्य लोप’ (पा.सू.१-३-९) इति सूत्रे, "तस्य ग्रहणं किमर्थम् ? इत्संज्ञक प्रतिनिर्दिर्श्यते । नैतदस्ति प्रयोजनम् । प्रकृतमिदिति वर्तते क्व प्रकृतम् ? "उपदेशेऽजनुनासिक इत्’ (पा.सू.१-३-२) इति । तत्र प्रथमानिर्दिष्टम् । षष्टीनिर्दिष्टेन चेहार्थ । अर्थात् विभक्तिपरिणामो भविष्यति । तद्यथा उच्चानि देवदत्तस्य गृहाणि आमन्त्रयस्व एनम् देवदत्तमिति गम्यते । देवदत्तस्य गावोऽश्र्वा हिरण्यं च । आढ्योवैधेय । देवदत्त इति गम्यत इति यदपि "न हि गोधाऽभिसर्पणादहि-र्भवती’ति तत् शब्दातिरिक्तद्रव्येष्वेव । शब्दस्तु येन येन विशेषेणाभिसम्बध्यते तस्य तस्य विशेषको भवतीति । ततश्र्च अधिकरणश्रुतिसङ्गती च न गवेषणीये इति व्यतिरेकनिश्र्चयादिति भाव ।
यच्चोक्तं कल्पतरुकारेण "प्रथमसूत्रस्य समन्वयाद्यशेषविचारहेतुत्वात् शास्त्रप्रथमाध्यायप्रथमपादसङ्गतय’ इति । तन्न समन्वयाद्यशेषविचारहेतुत्वेन सर्वाध्यायसर्वपादसङ्गतत्वेन प्रथमाध्यायपादमात्रसङ्गत्युक्त्य-योगात् । अस्मदुक्तरीत्या अध्यायान्तरादिसङ्गतिमनिवार्य प्रकृतत्वात् प्रथमाध्यायादिसङ्गत्युक्तिरित्यङ्गी-कारेऽपि शास्त्रसङ्गतिरित्युक्तमयुक्तमेव । समन्वयाद्यशेषविचारहेतुत्वस्य समन्वयाद्यध्यायातिरिक्त-जन्माधिकरणादिचतुष्टयसाधारणशास्त्रसङ्गतिं प्रत्यप्रयोजकत्वात् । यदपि वाचस्पतिना श्रोतव्यादिवाक्यानां स्वार्थे समन्वयस्य तद्द्वारेण विचार्यमाणवेदान्तवाक्यानामपि ब्रह्मणि समन्वयस्य च निमित्तत्वात् आद्यं सूत्रं समन्वयेन सङ्गतमित्युक्तम् । तदपि न अस्याधिकरणस्य श्रोतव्यादिवाक्यानां स्वार्थे समन्वयप्रतिपादकत्वेन तन्निमित्तत्वोक्त्ययोगात् ।
चन्द्रिकायां तु अध्यायपादसङ्गतिस्त्विति ॥ यद्यपि = एतदधिकरणाभावे शास्त्रस्येव तदेकदेशयोरध्यायपादयोरपि आरम्भासम्भव तथापि सिद्धे शास्त्रारम्भे पुनरध्यायाद्यारम्भाक्षेपस्य अनेना-समाधानात् । शास्त्रेणेव न ताभ्यामौपोद्घातकी सङ्गतिरित्यर्थ । यद्वा यथा "तद्विजिज्ञासस्वे’(तै.उ.३)-त्यादि ब्रह्मविचारविधायकवाक्यार्थनिर्णायकन्यायव्युप्तादकत्वात् ब्रह्मविचाररूपेण शास्त्रेण अन्तर्भावलक्षणा सङ्गति, न तथा अध्यायपादाभ्यां, समन्वयतद्विशेषाप्रतिपादकत्वादित्यर्थ’ इत्युक्तम् । ननु आद्यव्याख्यानं तावदयुक्तम् । तथा हि किमेतदधिकरणाभावे अध्यायपादयोर्य आरम्भासम्भव सिद्धे शास्त्रारम्भे तस्यासमाधानम्, आहोस्वित् अन्यस्य । नाद्य अध्यायपादयोर्विषयाद्यभावप्रयुक्तारम्भा-सम्भवस्यातत्समर्थने सति अनिरासे कारणाभावात् । अन्यथा शास्त्रस्याप्यारम्भसिद्धिर्न स्यात् । न द्वितीय प्रकारान्तरेण अध्यायपादयोरनारम्भणीत्वप्रसक्त्यभावात् । भावे वा तदर्थमधिकरणान्तरं प्रणेयं स्यात् । अन्यथेदमप्यधिकरणं न प्रणेयं स्यात् । द्वितीयमपि व्याख्यानमनुपपन्नम् तथा हि "तद्विजिज्ञासस्वे’ति वाक्यं यथा ब्रह्मविचारविधायकं तथा विचारविशेषसमन्वयादिविचारविधायकमपि भवत्येव । अत तदर्थनिर्णायकन्यायग्रथनात्मकस्याधिकरणस्य शास्त्रेणेव अध्यायपादाभ्यामपि अन्तर्भावो दुर्वार । यदि साक्षात्समन्वयाप्रतिपादकत्वादध्यायाद्यसङ्गति तर्हि साक्षाद्ब्रह्मप्रतिपादकत्वाभावात् न शास्त्रसङ्गतिरिति चेत् अत्रोच्यते । यत्तावत्पृष्टं "किमेतदाधिकरणाभावेऽध्यायपादयोर्य आरम्भासम्भव, सिद्धे शास्त्रारम्भे तस्याऽसमाधानं, आहोस्विदन्यस्य वे’ति तत्र द्वितीयपक्ष एवास्तु । न च "प्रकारान्तरेणाऽनारम्भणीयत्वशङ्काभाव । भावे वा अधिकरणान्तरं प्रणेय’मिति उक्तमिति वाच्यम् । वाच्यत्वाऽभावप्रयुक्तसमन्वयासम्भवेन अध्यायाद्यारम्भाक्षेपप्राप्ते तन्निरासाय ईक्षत्यधिकरण (१-१-५) प्रणयनाच्च । अयं भाव अस्त्येव अध्यायपादाभ्यामौपोद्धातकी सङ्गति । न शास्त्रेणेव एतदधिकरणानन्तरं केनापि प्रकारेण शास्त्रस्यानारम्भणीयत्वशङ्कानुदयवत् अध्यायपादयोस्तदनुदयाभावात् इति । तदिदमुक्तं "शास्त्रेणेव न ताभ्या’मिति । यदपि द्वितीयव्याख्याने "शास्त्रेणेवाऽध्यायपादाभ्यामन्तर्भावो दुर्वार’ इत्युक्तम् । तन्न यथा शास्त्रेणाऽन्तर्भावलक्षणासङ्गति तथा अध्यायपादाभ्यामन्तर्भाव सङ्गतेरभावात् । तथा हि ब्रह्मस्वरूपनिर्णायकन्यायानां शास्त्रप्रतिपाद्यत्वात् अस्मिँश्र्चाधिकरणे ब्रह्मस्वरूपनिर्णायकत्वांशपरित्यागेन न्यायप्रतिपादकत्वांशसद्भावात् शास्त्रान्तर्भावसङ्गतिर्गौणी । ब्रह्मणि समन्वयनिर्णायकन्यायानामध्यायार्थत्वात्, अस्मिँश्र्चाऽधिकरणे ब्रह्मांशं समन्वयांशं चापहाय न्यायव्युत्पादकत्वमात्रस्य सत्त्वात् तदपेक्षयांऽतर्भावलक्षणसङ्गतिरमुख्या । एवं पादसङ्गति ब्रह्मसमन्वयनामरूपांशत्रयपरित्यागात् ततोऽप्यमुख्या । तदिदमुक्तं "न तथाऽध्यायपादाभ्या’मिति । अन्यथा अध्यायपादाभ्यां सङ्गतिर्नेत्येवावक्ष्यत् ।
"अनूद्य परपक्षन्तु मितै शब्दैस्तु दूषणम् ।
गुरुणा सत्यनिधिना यदवादि तदुच्यते’ (१)
वाचस्पत्युक्तमधिकरणम् शास्त्रे क्रियमाणो वेदान्तविचारो विषय । कर्तव्य उत नेति सन्देह । न कर्तव्य इति पूर्वपक्ष । विषयादिशून्यत्वात् । तथा हि न तावत् ब्रह्मातिरिक्तं विषय । तस्य मिथ्यात्वेन तद्विचारस्य व्यर्थत्वात् । नापि ब्रह्म । तस्य प्रत्यगात्माऽभिन्नत्वेन अहंप्रत्यये भासमानत्वेन नित्यसिद्धत्वात् । नाप्यविद्यानिवृत्ति प्रयोजनम् । आत्मनि भासमानेऽपि तदनिवृत्ते । न च वाच्यम् अहंप्रत्यय "स्थूलोऽहं कर्ता भोक्ता दुखी’ति गृह्णाति । तद्विपरीतश्र्च वेदान्तवेद्य सन्दिग्ध इति विषयादिसिद्धिरिति । वेदान्तानां प्रबलप्रत्यक्षबाधितत्वेन जपमात्रोपयोगित्वेनाऽविवक्षितार्थत्वात् । तथा च वेदान्तविचारोऽनारब्धव्य इति ।
सिद्धान्तस्तु वेदान्तवाक्यै ज्ञानानन्दैकरसाद्वितीयोदासीनस्वभाव आत्मा उपक्रमादिभि प्रतिपाद्यते । न चोपक्रमादिलिङ्गसिद्धतात्पर्यकाणां वेदान्तवाक्यानां जपमात्रोपयोगित्वेनाऽविवक्षितार्थत्वं वक्तुं युक्तम् । प्रत्यक्षं तु सम्भावितदोषम् अपौरषेयतया निश्र्चितेन निर्दोषेणाऽऽगमेन बाध्यते । तेन वेदान्तवेद्य शुद्ध अहंप्रत्यये न भातीति विषयादिसिद्धिरिति ।
तत्र पूर्वपक्षस्तावदनुपपन्न । तथा हि ब्रह्मण अहंप्रत्यये भासमानत्वेनाऽसन्दिग्धत्वेऽपि विपर्यस्तत्वेन विषयत्वोपपत्ते । विचारस्य संशयनिरासकत्ववत् विपर्ययस्यापि निरासकत्वात् । किञ्च ब्रह्मस्वरूपस्य भासमानत्वेन सिद्धत्वेऽपि विचार्यमाणाद्वितीयत्वाकारेण सन्दिग्धत्वाद्विषयता दुर्वारा । न हि ब्रह्ममीमांसया स्वरूपमात्रं विचार्यम् । येन स्वरूपमात्रस्याऽसन्दिग्धता विषयताविघातनी स्यात् । अपि च एवं सति विचारमात्रमनारम्भणीयं स्यात् । आकारविशेषविशिष्टस्यैव सन्दिग्धत्वेन स्वरूपमात्रे सन्देहस्य क्वाप्यभावात् । अत एव प्रयोजननिरासोऽपि निरस्त । अहं कर्ता भोक्तेति विपरीतज्ञानदशायामविद्यानिवृत्यभावेऽपि सम्यज्ज्ञानेन तन्निवृत्युपपत्ते मा हि भूत् स्रगादि भुजङ्ग-त्वादिना प्रतीतं न तोषहेतुरिति स्रगादित्वेन ज्ञातमपि तदहेतु । यच्चोक्तम् "न च वाच्यमहंप्रत्यय "स्थूलोऽहं कर्ता भोक्ता दुखी’ति गृह्णाति तद्विपरीतश्र्च वेदान्तवेद्य सन्दिग्ध’ इति विषयादिसिद्धि-रित्यादि । किमनेनोक्तं भवति किं वेदान्तप्रत्यक्षयोरेकस्मिन्धर्मणि विरुद्धनानाधर्मावगाहित्वात् प्राबल्याद्यविवेकेन निर्णायकाऽभावात्संशय इति, आहोस्वित् तयोर्भिन्नविषयत्वात् प्रत्यक्षविषयस्य सिद्धत्वेऽपि वेदान्तवेद्यस्याऽसिद्धत्वमिति । आद्ये "प्रबलप्रत्यक्षबाधितत्वेन जपमात्रोपयोगित्वेनाऽ-विवक्षितार्थत्वात्’ इति समाधानमयुक्तं स्यात् । प्राबल्याद्यविवेकदशायां सन्देह इत्युक्ते तद्विवेकदशायां तदभावव्युत्पादनस्याऽसङ्गतत्वात्, निर्णायकदशायां सन्देहाभावस्य सार्वत्रिकत्वेन सर्वलौकिकवैदिकविचारा-भावप्रसङ्गात् । न द्वितीय । प्रबलाहंप्रत्ययबाधितत्वेनेत्यस्याऽयुक्ते भिन्नविषययोर्बाध्यबाधकभावायोगात् । किं च वेदान्तानामविवक्षितार्थत्वे निर्विषयत्वस्य सिद्धत्वात् असंदिग्धत्वोपपादनप्रयासाऽनुपपत्तिरिति सिद्धान्तोऽप्यनुपपन्न । तथा हि वेदान्तवेद्यस्य शुद्धस्य अहंप्रत्ययाविषयत्वमात्रेण सन्दिग्धत्वासिद्धे । शुद्धोऽहंप्रत्यये न भातीति त्वयैवोक्तत्वात् । अहंप्रत्ययवेदान्तयोर्भिन्नविषयत्वेन बाध्यबाधकभावायोग । किं च उपक्रमादिवशात् वेदान्तानां शुद्धप्रतिपादकत्वसिद्धौ विषयत्वसिध्द्या विचारप्रवृत्ति । तत्प्रवृत्तौ चोपक्रमादिवशात् तत्सिद्धिरित्यन्योन्याश्रय । तदेवं मतान्तरीयमधिकरणमयुक्तमिति हृदि निधाय स्वमतेनाऽधिकरणमारचयति प्रारिप्सिततया चित्तसङ्गतेति ॥ कर्तव्या न वेति सन्देह इति । सन्देहस्यैकज्ञानत्वेन युगपदेव कोटिद्वयाऽवलम्बनात् कर्तव्या । न वा । न कर्तव्या उत कर्तव्येति संशययोरविशेष । इममेवाभिप्रायं मनसि निधाय चन्द्रिकायां "न कर्तव्य उत कर्तव्य’ इत्युक्तम् । न तु पूर्वपक्षसम्बन्धित्वेन निषेधकोटे प्राथम्यमित्यभिप्रेत्येति द्रष्टव्यम् । विषयीकरणव्यापारे प्राथम्याभाव-स्योक्तत्वात् ।
ननु पूर्वमीमांसायां तदर्थचिन्ताया प्रदर्शितत्वात् साऽत्रावश्यं वक्तव्येति चेत् अत्र त्वेवं तदर्थचिन्ता वक्तव्या । अत्र वेदान्तनिर्णायकन्यायग्रथनात्मकमिदं शास्त्रमनारम्भणीयमुतारम्भणीयमिति । तदर्थं न्यायानुसन्धानरूपो विचारो न कर्तव्य उत कर्तव्य इति । तदर्थं विचारविधेर्विषयादिकं न सम्भवति उत सम्भवतीति । तदर्थं विषयीभूतं ब्रह्म किं प्रत्यगर्थभूतजीव एव उत तदन्यदिति । न च सा सम्भवति तथा हि
सन्दिग्ध इति यं जानन् हेतुमाहेष्टसिद्धये ।
पूर्वपक्षी च सिद्धान्ती न स्यादकुशल कथम् ॥
तदर्थचिन्ताविषयत्वेन सन्दिग्धानेव हेतून् स्वार्थसिद्धये प्रयुंजानौ पूर्वपक्षिसिद्धान्तिनावकुशालौ कथं न स्यातामिति । किं च तदर्थमित्यस्य प्रथमसंशयसिध्द्यर्थमयं संशय इति अर्थ एव वक्तव्यो गत्यन्तरा-भावात् । न च तद्युज्यते विचारकर्तव्यत्वाऽकर्तव्यत्वकोटिकसंदेहस्य शास्त्रानारम्भणीयत्वारम्भणीयत्वसन्देह-कोटिस्मरणाद्यहेतुत्वात् । शास्त्रानारम्भणीयत्वाऽऽरम्भणीयत्वसन्देहस्य शास्त्रदर्शनानन्तरमेव विशेषदर्शना-भावेन जातत्वात् । तदनन्तरभाविनो विचारकर्तव्यत्वाकर्तव्यत्वकोटिकसंशयस्य पूर्वभावित्वाभावाच्च । अपि चैवं चरमहेतावपि सन्देहप्रसङ्गेन पूर्वपक्षसिद्धान्तयोरनुत्थानमेव स्यात् ।
यत्तु चन्द्रिकायां तदर्थचिन्ताप्रदर्शनं तत्तु पररीतिमबलम्ब्यैवेति द्रष्टव्यम् । अत एव न्यायामृते "त्रैकालिकनिषेधप्रतियोगि । न वे’त्यत्र तदप्रदर्शनम् ।
न कर्तव्येति पूर्वपक्ष इति ॥ नन्वधिकरणस्य न्यायनिबन्धनत्वेन तदपेक्षितसंशयव्युत्पादनमस्तु न पूर्वपक्षस्योपयोगं पश्याम । न हि पर्वतोऽग्न्मिानित्यनुमिमानेन अनग्न्मिानिति साधितम् । किं च संशयपूर्वपक्षयो समावेशोऽनुपपन्न । संशयपूर्वपक्षसामग्र्योर्विरुद्धत्वेन समावेशायोगात् । किं च पूर्वपक्षस्य साध्याभावनिश्र्चयरूपत्वात्, ग्राह्याभावनिश्र्चयस्याऽनुमितिप्रतिबन्धकत्वात् साध्यानुमितिरूपसिद्धान्तोदयो न स्यात् । न च सिद्धान्तस्य द्वेधा प्रतिष्ठा भवति । स्वपक्षस्थापनेन परपक्षनिराकरणेन च । तन्निराकरणस्य तदनुवादमन्तराऽयोगेन पूर्वपक्षप्रदर्शनमिति वाच्यम् । तथा सति सिद्धान्तोक्त्यनन्तरमेव पूर्वपक्षनिरासस्याऽवसरप्राप्तत्वेन तत्रैव पूर्वपक्ष प्रदर्शनीय । किञ्च एवमाऽऽप्ततम सूत्रकारो मन्यते । "आनन्दमयोऽभ्यासा’(ब्र.१-१-१२)दिति स्वपक्षमभिधाय "विकारशब्दान्ने’(ब्र.सू.१-१-१३)ति परपक्षमनूद्य न प्राचुर्यादिति तन्निरासात् । प्रथमाध्याये समन्वयमुक्त्वा तत्र प्राप्तविरोधपरिहारस्य द्वितीयाध्यायेऽभिधानाच्च । किं च एवं भाष्यकारो मन्यते अस्मिन्नेव सूत्रे पूर्वपक्षानुक्ते । अत एव अनुव्याख्यानेऽपि पूर्वपक्षमनुक्त्वैव "ॐ तत्ववाचि’ इति सूत्रं व्याख्यातवान् इति चेत् न सन्दिग्धस्येव विपर्यस्तस्यापि न्यायविषयत्वेन पूर्वपक्षस्याप्यवश्यकत्वात् । "संशयपूर्वपक्षयो समावेश एवानुपपन्न’ इत्युक्तमिति चेत्, न ब्रूमो वयं यस्य संशय तस्यैव पूर्वपक्ष इति । किं तर्हि कस्यचित् संशय कस्यचित् पूर्वपक्ष इति । प्रत्यधिकरणमुभयप्रदर्शनं तु सूत्राणामुभयनिरासकत्वात् । तदुक्तम् "इदमदो वेति संदिग्ध’ इत्यादिना । न च पूर्वपक्षेण साध्याभावनिश्र्चयात् तस्य च ग्राह्याभावनिश्र्चयत्वेन अनुमितिप्रतिबन्धकत्वात् साध्यानुमितिर्न स्यादिति वाच्यम् । ग्राह्याभावनिश्र्चायकप्रमाणदौर्बल्याज्ञानदशायां तस्यानुमितिप्रतिबन्धकत्वेऽपि तन्निश्र्चयदशायामप्रतिबन्धकत्वात् । अन्यथा प्रमाणप्राबल्यदौर्बल्यचिन्ता व्यर्था स्यात् । सप्रतिपक्षस्थले च समबलचिन्ता व्यर्था स्यात् । दुर्बलेनापि प्रबलप्रतिरोधात् । यत्तु "आप्ततम सूत्रकारो मन्यत’ इत्यादि न तद्युक्तम् । सूत्रकारेणापि संशयं पूर्वपक्षं च मनसि कृत्वैव सूत्रप्रणयनात् । अन्यथा अनाकाङ्क्षितत्वेनाऽनवधेयवचन स्यात् । "विकारशब्दा’दित्यादिना तु उक्तस्य हेतो प्रतिरोधं बाधितविषयत्वं वाऽऽशङ्क्य समादधावित्यङ्गीकारात् । यदपि "भाष्यकारोऽप्येवं मन्यत’ इत्यादि तदपि न । न्यायविवरणे जीवव्यतिरिक्तेश्र्वराभावात् तस्य स्वप्रकाशत्वेन नित्यसिद्धत्वात् न जिज्ञास्यत इति पूर्वपक्षाभिधानात् भाष्यएवोत्तरत्र तत्प्रदर्शनाच्चेति । अधिकारिविषयेति ॥ विषय-प्रयोजनयोरधिकार्यर्थत्वात् तस्य प्राधान्यात् अथशब्देन सूचितत्वाच्च प्रथमत तत्कीर्तनम् । प्रयोजनस्याऽतशब्देन सूचितत्वेऽपि विषयज्ञानसाध्यत्वेन विषयस्य प्राधान्यमभिप्रेत्य तदनन्तरं तत्कीर्तनम् । अवसरप्राप्तत्वात् प्रयोजनस्य तदानन्तर्यम् । सम्बन्धस्य सर्वनिरूप्यत्वात् सर्वानन्तर्यम् । नन्वत्राधिकारि-विषयप्रयोजनसम्बन्धाभावानां किं प्रत्येकहेतुत्वम्, उत मिलितानाम् आहोस्वित् विषयादिचतुष्टयवृत्ति-व्यासज्यवृत्तिधर्मावच्छिन्नप्रतियोगिताकैकाभावस्य । नाद्य स्वव्याहतत्वात् । तथा हि सिद्धत्वान्न ब्रह्मणो विषयत्वमिति वदता सन्दिग्धस्यैव विषयत्वाभ्युपगमात् । तस्य च निर्विषयत्वेनैकेन हेतुना विचाराऽकर्तव्यत्वस्य सिध्द्या पुनर्हेत्वंतरेण विचारं कुर्वता परित्यागात् । किं च अधिकारिविषय-प्रयोजनशून्यत्वं हि तत्सम्बन्धशून्यत्वमेव । नान्यत् । तथा च विषयप्रयोजनाऽधिकारिशून्यत्वात् इत्येव वाच्यं न तु सम्बन्धशून्यत्वादित्यपि । अन्यथा कस्यचित्संदिग्धार्थस्य कस्यचित्प्रयोजनस्य सद्भावेन विषयादिशून्यत्वमसिद्धं स्यात् । कस्यचित् सन्दिग्धस्य सद्भावेऽपि न तेन सहास्य विचारस्य प्रतिपाद्यप्रतिपादकभाव इति चेदङ्गीकृतं तर्हि विषयेण प्रतिपाद्यप्रतिपादकभावरूपसम्बन्धवत्त्वं सविषयत्वं तदभावश्र्च निर्विषयत्वमिति । किं च अथशब्देन भक्तिवेदाध्ययनरूपाधिकारस्य सूचनात् तदभावेन पूर्वपक्षो युक्त न तु फलकामनावदधिकार्यभावेन सौत्रपदानिरस्यत्वात् । न च अथशब्देनाऽयमेवाऽधिकार सूचित इति वाच्यम् । तथासति अधिकारिघटकविषयप्रयोजनयोस्तेनैव सूचितत्वात् ब्रह्मातशब्दयोर्वैयर्थ्यं स्यात् । अपि च सूत्रे सम्बन्धस्यासूचनात् तदभावेन पूर्वपक्षो न युक्त । न द्वितीय । विषयाभावमात्रस्य व्यभिचाराभावेन मेलनवैयर्थ्यात् । न तृतीय । एकस्य विषयाभावस्य व्युत्पादनेनैव व्यासज्यवृत्ति-प्रतियोगिताकाभावस्य व्युत्पादयितुं शक्यत्वेन "न च जिज्ञासया प्रयोजनमस्ती’त्युत्तरटीकावैयर्थ्यप्रसङ्गात् इति चेत्, अत्रोच्यते विषयशून्यत्वादय प्रत्येकमेव हेतव । ननु चोक्तं व्याहतिरिति । न श्रोतृभेदेन तेषां हेतुत्वाङ्गीकारात् । तथा हि कदाचिन्निर्विषयत्वेनानारम्भणीयत्वं प्रसाध्यते । अन्यदा तु निष्प्रयोजनत्वेनानारम्भणीयत्वं प्रसाध्यते, अन्यदा तु निरधिकारित्वेनानारम्भणीयत्वं प्रसाध्य तत्रासिद्धौ चोदितायां कदाचिद्विषयशून्यत्वेन, कदाचित्प्रयोजनशून्यत्वेन अनधिकारित्वं प्रसाध्यते । यद्यपि निर्विषयत्वेन निष्प्रयोजनत्वेन वा, नारम्भणीत्वं शक्यसाधनम् तथापि विषयशून्यत्वस्य प्रयोजनशून्यत्वस्य चाऽनारम्भणीयत्वेन व्याप्त्यप्रतिसन्धानदशायामयं क्रम इत्यङ्गीकाराददोष । अन्यदा विषयसम्बन्धशून्यत्वेन अन्यदा प्रयोजनसम्बन्धशून्यत्वेन अन्यदाऽधिकारिसम्बन्धशून्यत्वेनाऽनारम्भणीयत्वं प्रसाध्यते । यच्चोक्तम् अधिकारिविषयप्रयोजनशून्यत्वमेव तत्सम्बन्धशून्यत्वमिति । तन्न प्रतियोगिभेदात् । अन्यथा इह घटो नास्ति, घटसम्बन्धो नास्तीत्यनयोरविशेष स्यात् । यदपि अथशब्देन भक्तिवेदाध्ययनादि-रूपाधिकारस्य सूचनात् तदभावेन पूर्वपक्षो युक्त इति, तत्तथैव जीवव्यतिरिक्तेश्र्वराभावेन विष्णौ भक्ते तत्पूर्वकाध्ययनस्य च मोक्षरूपप्रयोजनाऽभावेन विषयवैराग्यस्य ब्रह्मादिपदादे मोक्षादवरत्वरूपा-सारत्वज्ञानरूपस्य चाऽधिकारिविशेषणस्याऽभावेन ब्रह्मजिज्ञासायामधिकारी न विद्यत इत्यभिप्रेत्य टीकायां "विषयप्रयोजनाभावान्न ब्रह्मजिज्ञासायामधिकारी विद्यत’ इत्युक्तत्वात् । यदपि चोक्तम् सूत्रे सम्बन्ध-सूचकाऽभावात्तदभावेन न पूर्वपक्षो युक्त इति । तन्न "ब्रह्मजिज्ञासे’त्यत्र लुप्तया कर्मणि षष्ठ्या विषयविषयिभावलक्षणसम्बन्धबोधनात् सम्बन्धान्तरस्य च स्मारितत्वात् इति ॥ ब्रह्मातिरिक्तस्य परेणैव विषयत्वानङ्गीकारात् अङ्गीकृतस्य ब्रह्मणो विषयत्वखण्डने निर्विषयत्वमेव भवतीत्यभिप्रेत्य ब्रह्मणो विषयत्वं दूषयति न तावदिति ॥ ननु न तावद्ब्रह्म विषय इत्यनेन किं पारिभाषिकं सन्दिग्धत्वरूपं विषयत्वं निराक्रियते आहोस्वित् गोचरत्वं निराक्रियते नाद्य । असंदिग्धत्वादिति हेतो साध्याभेदप्रसंगात् । किं च संदिग्धत्वं विषयत्वमिति न परिभाषा सम्भवति । संदिग्धार्थप्रतिपादकस्यापि वाक्यस्य संदेह-निवृत्युत्तरकालं निर्विषयत्वापत्ते । स्याच्च ज्ञातार्थं प्रत्यपि ज्ञातज्ञापकस्य वाक्यस्य सविषयत्वं पुरुषान्तरसन्देहविषयार्थप्रतिपादकत्वात् । अपि च सन्देह विशेषणमुपलक्षणम् वा ।
नाद्य । घटोऽस्तीति वाक्येन विशेषणीभूतसन्देहाविषयीकरणात् । न द्वितीय । ज्ञातज्ञापकविषयेऽपि कदाचित् सन्देहसद्भावेन सविषयत्वप्रसङ्गात् । न द्वितीय अनुभवविरोधात् इति चेत् । अत्रोच्यते नाऽत्र शास्त्रगोचरत्वं नापि संदिग्धत्वं निराक्रियते । किं नाम शास्त्रकर्तु प्रतिपिपादयिषायोग्यत्वम् । असंदिग्धत्वादिति ॥ उपलक्षणमेतत् । "अविपर्यस्तत्वात् अज्ञातत्वाभावाच्चे’ति द्रष्टव्यम् । ननु ब्रह्मणि विषयत्वाऽविषयत्वकोटिकसंशयोऽस्ति न वा । आद्ये असंदिग्धत्वादिति हेतोरसिद्धि । द्वितीये तु अनुमानप्रवृत्त्यनुपपत्ति । सन्देहाभावेऽप्यनुमानप्रवृत्तिरिति चेत् प्रकृतब्रह्मजिज्ञासाप्रवृत्तिरपि तथाऽस्तु इति चेत्, अत्रोच्यते अस्त्येव ब्रह्मणि शास्त्रविषयत्वाऽविषयत्वकोटिक संशय । न च असंदिग्धत्वहेतोरसिद्धि । भावाऽनवबोधात् । न हि असंदिग्धत्वादित्यनेन सर्वथा संदेहविषयत्वा-भावोऽभिमत । किं नाम शास्त्रप्रतिपाद्यत्वाऽभिमतसर्वोत्तमत्वाद्याकारेण । तत्कुत इति चेत्, जीवव्यतिरिक्तेश्र्वराभावात् तस्य चाऽसर्वोत्तमत्वाद्याकारतया अनुभूयमानत्वात् । नहि अन्यतरकोट्यधि-करणतया प्रतीयमाने तत्कोट्यवगाही संदेहो युज्यते । एवं च शास्त्रप्रतिपाद्याकारवत्तया सन्देहाभावान्न ब्रह्मण शास्त्रविषयत्वम् । कथं तर्हि "न हि कश्र्चित्प्रकाशमानेऽर्थे सन्दिग्ध’ इति टीकायां सन्देह-मात्राभावव्युत्पादनमिति चेत्, मैवम् तत्रापि आकारविशेषेणैव संदेहाभावस्य व्युत्पादितत्वात् । न हि प्रकाशमान कोऽपि घटादि सर्वथा सन्देहाविषयोऽस्ति । तत्रापि किमयं देवदत्तेन ज्ञातो न वेत्यादिसंदेहदर्शनात् । एतेन ब्रह्मणो जिज्ञास्यत्वं प्रतिज्ञाय जीवाऽभिन्नत्वादिना विचारं कुर्वत स्वव्याहतिरिति परास्तम् । सिद्धान्त्यभिमताऽऽकारेणाऽविचार्यत्वस्यैव प्रतिज्ञातत्वात् । तदुक्तं "शास्त्रे प्रवर्तनीया ब्रह्मजिज्ञासा विषय’ इति । अन्यथा ब्रह्मजिज्ञासाविषय इत्येव ब्रूयात् । ननु चिन्मात्रे ब्रह्मणि भासमानेऽपि यथाऽहमज्ञो दुखीत्यादिभ्रमोऽङ्गीक्रियते तथा संशयोऽप्यस्तु । अधिष्ठानयाथात्म्य-ज्ञानस्य भ्रमाविरोधित्ववत् संशयाऽविरोधित्वस्यापि सम्भवात् । अन्यथा भ्रमोऽपि न स्यात् इति चेत्, न स्यादिदं दूषणं यदि चिन्मात्रैक्येन पूर्वपक्ष स्यात्, किं नाम विशिष्टजीवाभेदेन । तथा च दुखादीनां सत्यत्वेन भ्रमानङ्गीकारात् । तदुक्तं "प्रमाणाभावेन जीवव्यतरिक्तस्थब्रह्मणोऽभावात्’ इति । अन्यथा "तत्त्वमस्या’दि प्रमाणसद्भावेन चिन्मात्रैक्यादित्यवक्ष्यत् । उक्तं च न्यायविवरणे "नाऽनुभवसिद्धाऽल्पगुणजीवाऽभेद इति । अन्यथा गुणविकलचिन्मात्रैक्यस्य पूर्वपक्ष्यभिप्रेतत्वेनाऽल्पगुण-जीवाऽभेदनिराकरणमयुक्तं स्यात् । किं च चिन्मात्रैक्यं प्रतिपादयतो मायावादिनोऽपि मते विचारस्य विषयप्रयोजनसद्भावेन तदाक्षेपानुपपत्ति । मायावादिनापि ब्रह्ममीमांसाशास्त्रस्यारम्भणीयत्वाङ्गीकारेणाऽऽ-रम्भणीयत्वाक्षेपानुपपत्तिश्र्च । ननु विरुद्धधर्माऽधिकरणत्वेन हेतुना भिन्नत्वेन प्रतीतयोर्जीवपरयो कथमभेदेन पूर्वपक्षो घटत इति चेत्, न जीवपरयोर्भेदसिद्धौ तद्गतधर्माणां विरुद्धत्वसिद्धि, तत्सिद्धौ च तत्सिद्धिरित्यन्योन्याश्रय इति पूर्वपक्ष्याशयात् ।
यद्यपि चन्द्रिकायां "तत्र तावद्विषयत्वेनाऽभिमतं ब्रह्म न जीवचैतन्याद्भिन्न’मित्युक्तम् । तेन चैतन्याभेदेन पूर्वपक्ष न तु विशिष्टाभेदेन तैरुक्त इति प्रतीयते । तथापि न विरोध । विशिष्टाभेदेन पूर्वपक्षो न कार्य इत्यनुक्तत्वात् । तत्रोक्तपूर्वपक्षस्य च प्रकारान्तरत्वेनाबाधकत्वात् । अन्यथा सुधायां निरीश्र्वरमतावलम्बनेन पूर्वपक्षस्योक्तत्वेन तद्विरोधो दुर्वार स्यात् । विशिष्टाभेदेन पूर्वपक्षस्य तेषामभिप्रेतत्वाच्च । अत एव विशिष्टाभेदेन पूर्वपक्षस्य वक्तव्यत्वेऽपि शुद्धाभेदं वदन् मायावादी सूत्रानभिप्रेतार्थप्रतिपादनात् पूर्वपक्ष्येवेति तद्य्वाख्यानमश्रद्धेयमिति भावेन शुद्धाभेदेन पूर्वपक्षं प्रदर्श्य, जिज्ञासाकर्तव्यत्वोपपादकसाधकस्वाऽभिमतचैतन्याभेदव्युत्पादनाय जीवव्यतिरिक्तेश्र्वरे प्रमाणाभावं प्रतिज्ञाय, कर्मकाण्डस्य कर्मपरत्वात्, वेदान्तानां चोपक्रमादिभि प्रत्यगात्ममात्रपरत्वात्, इति हेतुं वदत पूर्वपक्षिण स्वव्याघात, उपक्रमाद्यनुसन्धानेन विना वेदान्तानां प्रत्यगात्ममात्रपरत्वस्य निर्णेतुमशक्यत्वात्, विचाराऽ-कर्तव्यत्वं प्रतिपादयतैव उपक्रमाद्यनुसन्धानरूपविचारकरणात् । तथा च अद्वैतवादी वेदान्तशास्त्रे पूर्वपक्षितामपि नार्हतीत्यालोच्य "यद्वे’त्यादिना स्वाभिप्रेतो विशिष्टाऽभेदेन पूर्वपक्ष उक्त ।
ननु जीवस्यासन्दिग्धत्वोपपादनाय मानसानुभववेद्यत्वं वक्तव्यं न तु स्वप्रकाशत्वमसिद्धत्वादित्यत आह न चेति ॥ यद्यपि सिद्धान्तिनाप्यात्मन स्वप्रकाशत्वाङ्गीकारात् । स्वप्रकाशत्वासिद्धिमाशंक्य तत्साधनमयुक्तम् । तथापि यदि सिद्धान्ती स्वप्रकाशत्वमङ्गीकुर्यात् तर्हि ब्रह्मविचारं न कुर्यात्, करोति च तेन ज्ञायते नाऽऽत्मन स्वप्रकाशत्वमङ्गीकरोतीति मन्वानस्य तद्युक्तमेवेति द्रष्टव्यम् ॥ तस्यापीति । मानसानुभवस्य ज्ञायमानत्वात् स्वप्रकाशत्वानङ्गीकारात्, तदैवानुभवान्तरमङ्गीकर्तव्यं तदप्येवं तदप्येवमिति ज्ञानानां यौगपद्यप्रसङ्गेनाऽनवस्थाप्रसङ्गादित्यर्थ । एतेन पूर्वज्ञानोत्पत्तेरुत्तरज्ञानोत्पत्त्यनधीनत्वेन मूलक्षयाभावात् नाऽनवस्थेति निरस्तम् । कस्यचिदिति ॥ आत्मस्वप्रकाशत्वस्य ज्ञानयौगपद्यापत्ति-परिहारक्षमत्वात् तदेवाङ्गीकार्यं न तु कस्यचिदज्ञानस्य तदक्षमत्वादिति भाव । ननु अहमित्यनुभवो नानुभूयते जिज्ञासाभावात् । यदा च तज्जिज्ञासा तदा तज्ज्ञायते न तु तज्ज्ञानमपि तज्जिज्ञासाभावात् । तथा च न यौगपद्यमित्यत आह जिज्ञासायामेवेति ॥ अनुभवविरोधादिति ॥ ज्ञानस्य अबुभुत्सित-ग्राह्यत्वानुभवविरोधादित्यर्थ । ज्ञानमबुभुत्सितग्राह्यमित्यनुभवो भ्रम । बुभुत्साविरहदशायामज्ञायमानज्ञानस्य सद्भावादित्यत आह न ह्यज्ञायमानेति ॥ औत्तरिकानुस्मृतीति ॥ ननु सुषुप्तौ सर्वेन्द्रियोपरमेऽपि मनसोऽनुपरतत्वात् उपपन्न सौषुप्तिकानुभव । औत्तरिकानुस्मृतिलक्षणकार्यबलेन मनसोऽनुपरमकल्पनात् । प्रत्युत स्वप्रकाशत्ववादिमत एव अनुभवसिद्धौत्तरिकानुस्मृत्यभावप्रसङ्ग । मनस उपरतत्वेन स्वप्रकाश-संविदा तत्र संस्कारोत्पादायोगात् । संस्काराभावे च कारणाभावेन स्मरणायोग इति । न चोपरते मनसि संस्कारोत्पाद इति वाच्यम् । उपरतेनापि मनसा सुषुप्तौ ज्ञानोत्पादप्रसङ्गात् । न च संस्कारस्य न मनोधर्मत्वं किं तु आत्मधर्मत्वमिति वाच्यम् । अपसिद्धान्तादिति चेत्, अत्रोच्यते सुषुप्तौ अहमर्थावभास आत्मरूपोऽङ्गीकर्तव्य न तु मानस तस्योपरतत्वात् । न च मनसोऽनुपरम कल्प्यत इति वाच्यम् । स्वप्नसुषुप्त्योर्भेदाभावप्रसङ्गात् । यदपि स्वप्रकाशत्वादिमत एव संस्काराभावेन स्मरणायोग इति, तन्न सुषुप्तिदशायां संस्कारानङ्गीकारात् । कथं तर्हि अनुस्मृतिरिति चेत्, स्वापाऽपाये मनस उद्बोधे सति सौषुप्तिको नित्यानुभव संस्कारमुत्पाद्य तिरोभवतीत्यङ्गीकारात् । ननु न ब्रूमो वयं संविदाश्रयतयैवाऽऽत्मनो भानमिति किं नाम स्वप्रकाशतयापि । अतो न सौषुप्तिकानुभव इत्यत आह संविदात्मकत्वादिति ॥ स्वप्रकाशत्वाङ्गीकारे संविदाश्रयतया भानाङ्गीकारो व्यर्थ । अन्यथा संविदोऽपि संविदाश्रयतया भानं स्यात् अविशेषादिति भाव ।
सुधायान्तु जीवस्य अहमिति स्वप्रकाशतया वा स्वप्रकाशज्ञानाश्रयतया वा मानसवेद्यतया वा सिद्धत्वेन न जिज्ञासाविषयत्वमित्युक्तम् तत्रापि पक्षद्वयं निराकृत्य एकैकपक्षमवशेष्य पुरुषभेदेन पूर्वपक्षत्रयं द्रष्टव्यम् ।
ज्ञायमानेऽपि ब्रह्मणीति ॥ ननु जिज्ञासाया निष्प्रयोजनत्वव्युत्पादनाय सत्यामपि जिज्ञासायां तदनुपलम्भादिति वक्तव्यम् । न तु ज्ञायमानेऽपि ब्रह्मणि तदनुपलम्भादिति । असङ्गतत्वात् । न च जिज्ञासाया विषयापरोक्षद्वारेणैव फलहेतुत्वात् तदापरोक्ष्यस्य निष्फलत्वेन जिज्ञासाया निष्फलत्वं भवतीत्येतदुक्तमिति वाच्यम् । तथा सति जिज्ञासाया वैफल्यव्युत्पादनाय तज्जन्याऽऽपरोक्ष्यवैफल्यस्य वक्तव्यत्वेन तदजन्यज्ञानस्य वैयर्थ्यात् । केवलाग्न्ेरोगाऽदाहकत्वेऽप्ययशलाकारोपितस्य तद्दाहकत्ववत् । स्वतसिद्धब्रह्मापरोक्षस्य फलाहेतुत्वेऽपि जिज्ञासोत्थस्य तत्संभवादिति चेत्, मैवम् भावाऽनवबोधात् । तर्ह्यस्माभि अहमित्याकारस्य ब्रह्मज्ञानस्य निष्फलत्वं, जिज्ञासाया निष्फलत्वे हेतुतयोच्यते । किंनाम जिज्ञासाया ब्रह्मज्ञानाहेतुत्वमनेनोच्यते । तथा हि "न च जिज्ञासया प्रयोजनमस्ती’ति पूर्ववाक्येन परमप्रयोजनाभावव्युत्पादनाय अपरोक्षरूपावान्तरप्रयोजनाभावं प्रतिज्ञाय तद्धेतुरनेनोच्यते ब्रह्मणि ज्ञायमानेऽपि तदनुपलम्भात् = जिज्ञासानुपलम्भात् इति । अयमत्र समुदायार्थ जिज्ञासा नापरोक्षजननद्वारा महापुरुषार्थहेतु अपरोक्षज्ञानाऽजनकत्वात् । प्रमाणाभावेनाऽपरोक्षज्ञाने अवान्तरविशेषाभावात् । जिज्ञासा नाऽपरोक्षहेतु, तद्य्वतिरेकप्रयोजकव्यतिरेकशून्यत्वात् इति ।
चन्द्रिकायां तु "नापि जिज्ञासाया प्रयोजनमस्ति, प्रत्यग्रूपे ब्रह्मणि अहमिति ज्ञायमानेऽपि मोक्षानुपलम्भा’दित्युक्तम् । तेषामपि अस्मदुक्त एवाभिप्राय । तथा हि "नापि जिज्ञासाया प्रयोजनमस्ती’ति वाक्यस्यायमर्थ जिज्ञासाया अपरोक्षजननद्वारा मोक्षरूपप्रयोजनं नास्तीति । तत्र व्यतिरेकव्यभिचार "अपरोक्षज्ञानहेतुत्वाभावा’दिति हेतुर्बहिरेवानुसंधेय । ननु प्राग्भवीयजिज्ञासया इदानीन्तनीयाहमिति ब्रह्माऽपरोक्षोत्पादस्य कल्पयितुं शक्यत्वेन न व्यतिरेकव्यभिचार । न ह्यनादौ संसारे कदापि जिज्ञासा नानुष्ठितेति निश्र्चेतुं शक्यते इत्याशंकापरिहाराय "प्रत्यग्रूपे ब्रह्मणि अहमिति भासमानेऽपि मोक्षानुपलम्भा’दिति द्वितीयं वाक्यम् । तस्यार्थ यद्यहमिति ज्ञानं प्राग्भवीयजिज्ञासाजन्यं स्यात् तर्हि मोक्षोपलम्भ स्यात् । त्वया जिज्ञासाजन्यज्ञानस्य मोक्षहेतुत्वाभ्युपगमात् । न च तदस्तीति न जिज्ञासाजन्यमिति सिद्धो व्यतिरेकव्यभिचार इति । उपलक्षणं चैतत् "भवान्तरे जिज्ञासाया अनुष्ठितत्वात् तत्फलस्यापि भावान्नात परं जिज्ञासा कार्ये’ति द्रष्टव्यम् ।
यद्वा जीवब्रह्मणोरभेदेन विषयाभावान्न जिज्ञासा कार्येत्यभिधाय अधुना भेदमङ्गीकृत्य प्रयोजनाभावेन न जिज्ञासा कार्येत्याक्षिपति नचेति ॥ अत्र हेतुमाह ज्ञायमानेऽपीति ॥ जिज्ञासया साक्षात्कृतब्रह्मणां वसिष्ठादीनां मोक्षानुपलम्भादित्यर्थ । विषयप्रयोजनाभावादिति ॥ ऐक्यपक्षे विषयप्रयोजनाभावात् । भेदपक्षे प्रयोजनाभावादित्यर्थ । एवं प्राप्ते सिद्धान्तयत् सूत्रमुपन्यस्यति अथेतीति ॥ ननु अथेति प्रतीकग्रहणमनुपपन्नम् । तस्य सूत्रादित्वाभावात् । "तत्र ताराथमूलत्व’मित्यनुव्याख्याने ॐकारस्याऽऽदित्वोक्ते । "ननु सूत्रादौ ॐकार एव न विद्यत’ इत्याक्षिप्य ॐकारस्य सूत्रादित्वेन सुधायां समर्थितत्वाच्च । न च प्रथमसूत्रे विद्यमानस्याप्योंकारस्य, द्वितीयादिसूत्रेष्वनुवृत्तत्वेन प्रथमसूत्रा-नवयवत्वात् "अथे’ति प्रतीकधारणमुपपन्नमिति वाच्यम् । द्वितीयादिसूत्रेष्वनुवर्तमानस्यापि प्रथमसूत्रा-वयवत्वात्, नहि ""उपत्वाग्न्े दिवे दिव,’’ इति मन्त्रगतस्य "उपेमसी’त्यस्य "राजन्तमध्वराणा’-मित्यत्राऽनुवृत्तिमात्रेण प्रथममन्त्रानवयवत्वं भवति । येनेह ॐकारस्यापि प्रथमसूत्रानवयवत्वं स्यात् । इममेवाभिप्रायं मनसि निधाय, सुधायां "न ह्यूह्यमानं वाक्यात्पृथगिति शक्यते वक्तुं, मन्त्रेष्वप्यूह्यमानस्य मन्त्रानवयत्वप्रसङ्गा’दित्युक्तम् । तथा भाष्ये प्राथमिकमोङ्कारं विहाय "अथशब्दो मङ्गलार्थ’ इति अथशब्दव्याख्यानमयुक्तम् । प्रथमपरित्यागकारणाभावात् इति चेदुच्यते अत्र द्वे दर्शने "अथातो ब्रह्मजिज्ञासे’त्यादिमं सूत्रमित्येकम्, अपरन्तु ॐअथातो जिज्ञासे’ति । तत्राऽऽद्यं सन्यायरत्नावलीकृतो दर्शनम् । "तत्र व्याख्येयस्य शास्त्रस्येदमादिमं सूत्रम् । "अथातो ब्रह्मजिज्ञासे’ति । तत्र ॐकारश्र्चाथ-शब्दश्र्च मङ्गलार्थत्वादादित प्रयोक्तव्यौ । ॐकारस्तु "स्रवत्यनोंकृतं ब्रह्मे’त्यादिवचनात् प्रत्यधिकरण-मनुवर्तमानत्वात् पृथुगुच्चारितो वेदितव्य । नाऽथशब्दवत्सूत्रोपनिबद्ध । इदानीमोंकाराद्यखिलवेदार्थ-भूतशास्त्रस्य विषयं प्रदर्शयितुमाह "ओतत्ववाचीती’ति संन्यायरत्नावल्युक्ते । तथा हि ॐकाररहितस्य ब्रह्मशब्दसहितस्य सूत्रस्योपन्यासात् "नाऽथशब्दवत्सूत्रोपनिबद्ध’ इत्युक्तेश्र्च, "ॐकाराद्यखिल-वेदार्थभूतशास्त्रस्य विषयं प्रदर्शयितुमाहे’त्यादिना ओतत्ववाचीत्यनुव्याख्यानस्य वैदिकोङ्कारव्याख्यान-रूपत्वस्याभिधानाच्च । अन्यथा सूत्रव्याख्यामारभते ओतत्ववाचीत्यवक्ष्यत् । अस्मिंस्तु मते भाष्यकारीयम् ॐकारमव्याख्याया अथशब्दव्याख्यानं लिङ्गम् । न्यायविवरणकारीयो "जीवव्यतिरिक्तेश्र्वरा-भावात्, तस्य स्वप्रकाशत्वेन नित्यसिद्धत्वात् अजिज्ञास्यतेत्यत "अथातो ब्रह्मजिज्ञासे’त्याहेत्योङ्कार-रहितस्य सूत्रस्य पाठो लिङ्गम् । अनुव्याख्यानकारीयं "सर्वत्रानुगतत्वेन पृथगोङ्क्रियतेऽखिलै’रित्यत्र सूत्रकृतेति वक्तव्ये "अखिलै’रित्यभिधानं लिङ्गम् । सूत्रकारीयश्र्च अथशब्दवत् ॐकारस्य निबन्धाभाव, ब्रह्मशब्दनिबन्धश्र्च लिङ्गम् । आद्यं द्वितीयं चेत्युभयमपि सुधाकृतोमतम् । तत्राऽऽद्यमतस्य तु ज्ञापक-मुक्तमेव । सुधाकृतो द्वितीयमताङ्गीकारे तु "तत्र ताराथमूलत्वं सर्वशास्त्रस्य चेष्यत’ इति अनुव्याख्याने अथशब्दवदोंकारस्य सर्वशास्त्रमूलत्वोक्तिर्लिङ्गम् । अन्यथा प्राङ्मुखत्वादिवदोङ्कारस्य सर्वशास्त्र-मूलत्वमवक्ष्यत् नाथशब्दस्य समकक्षतया ब्रूयात् । आह च अथशब्दसमकक्षतया ॐकारस्य शास्त्रमूलत्वं, तेन मन्यामहे ॐकारस्याऽथशब्दवत्सूत्रावयवत्वमनुव्याख्यानकृतो मतमिति भवत्येतल्लिङ्गम् । भाष्यकारीयं च "ॐकारश्र्चाथशब्दश्र्च तस्मात्प्राथमिकौ क्रमात् । तद्धेतुत्वं वदश्र्चाँपि तृतीयोऽत उदाहृत’ इति प्रमाणोदाहरणं लिङ्गम् । अन्यथा अनुपयुक्तत्वात्तदुदाहरणमसङ्गतं स्यात् । ननु सत्यमोङ्कार सूत्रावयवतया सुधाभिमत तथापि "अथातो ब्रह्मजिज्ञासा, ॐ अथातो जिज्ञासे’ति पाठद्वयं नाऽभिमतं किं तर्हि ॐ ब्रह्मशब्दोपेत "ॐ अथातो ब्रह्मजिज्ञासे’ति पाठ । तथा हि "ताराथमूलत्व’-मित्येतद्य्वाख्यानावसरे "तारश्र्चाऽथश्र्चतयोर्मूलत्वं क्रमेणादित्व’मित्यभिधानात् । तथा सूत्रयामास भगवानाचार्य "ॐअथातो ब्रह्मजिज्ञासे’ति । ॐब्रह्मशब्दोपेतसूत्रोपन्यासाच्च । "यदुक्तं जीवव्यतिरिक्त ईश्र्वर एव नास्तीति तत्परिहाराय सूत्रकृता "ॐकारब्रह्मशब्दौ’ इत्यभिधानाच्च । "तदेतौ ॐकारब्रह्म-शब्दावपि यौगिकौ जिज्ञास्यमनन्तगुणपरिपूर्णं प्रतिपादयन्तौ जीवजडयोस्तदयोगात् तद्य्वतरिक्तमेव किंचद्गमयत’ इत्युक्तेश्र्च । "अस्तु ॐकारब्रह्मशब्दाभ्यां जीवजडव्यतिरिक्तस्य जिज्ञास्यस्य सिद्धि’रित्युक्तेश्र्च, "अथवा सूत्रकारोक्तौ ॐब्रह्मशब्दोपेतसूत्रोपन्यासाच्चे’ति तत्पाठद्वयं सङ्कलय्योपन्यस्तमित्यङ्गीकारान्न विरुद्धम् । अन्यत्तु सर्वं ज्ञापकं सुधार्थाऽपरिज्ञानविजृम्भितं साधकमस्माकमेव न परस्य । तथा हि यदत्रोक्तं "तारश्र्चाऽथश्र्च तयोर्मूलत्वं क्रमेणादित्व’मिति तत्पाठभेदे लिङ्गम् । न ह्येकपाठपक्षे द्वयोर्मुख्य-मादित्वं सम्भवति । अमुख्यमादित्वमेकस्य वक्तुं युक्तं तदिदमुक्तं क्रमेणेति, पर्यायेणेत्यर्थ । पूर्वपाठे अथशब्दस्य, द्वितीयपाठ ओङ्कारस्य आदित्वमिति विवेक । यदपि "यदुक्तं जीवव्यतरिक्त ईश्र्वर एव नास्तीति तत्परिहाराय सूत्रकृता ॐकारब्रह्मशब्दौ प्रयुक्ता’विति तदपि पाठभेदे लिङ्गम् । एकेनैवशब्देन शङ्काया परिहृतत्वात् । अपरप्रयोगवैयर्थ्यात् यदेकेनापि वर्णेन अनर्थकेन सूत्रे न भवितव्यं किं पुन पदेन तस्मादकामेनापि एकस्मिन्पाठे शङ्कापरिहारायैकं पदमुपात्तम् । अपरस्मिन्पाठे तच्छङ्कापरिहाराय पदान्तरमिति व्यवस्थाऽऽश्रयणीयेति । यदपि "तदेतावोङ्कारब्रह्मशब्दावपि यौगिकौ जिज्ञास्यमनन्तगुणपरिपूर्णं प्रतिपादयन्तौ जीवजडयोस्तदयोगात् तद्य्वतरिक्तमेव किंचिद्ग्रमयत’ इति तदप्येवमेवास्माकमेव साधकं न परस्य । एकेनैव पूर्णत्वेनाऽपरस्य वैयर्थ्यप्रसङ्गात् पाठभेदेनैव तयोर्गमकत्वस्याङ्गीकार्यत्वात् । यच्चोक्तम् अस्तु ओंब्रह्मशब्दाभ्यां जीवजडातिरिक्तस्य जिज्ञास्यस्य सिद्धि’रिति तदपि एवमेव एकस्मिन्पाठे ओंशब्देनाऽन्यस्मिन्पाठे ब्रह्मशब्देन जीवजडातिरिक्तस्य जिज्ञास्यस्य सिद्धिरित्यर्थत्वात् । यदपि "अथवा सूत्रकारोक्तावोंब्रह्मशब्दावुपलक्षणमात्र’मिति तदप्यस्माकमेव साधकं न परस्य । एकस्यैवोपलक्षणत्व-सम्भवेऽपरस्य वैयर्थ्यात् । अस्माकं मते तु एकस्मिन्पाठे ब्रह्मशब्द उदाहरणत्वेनोपात्त । पाठान्तरे तु ओंशब्द इत्यवैयर्थ्यम् । अवश्यं चैतदेव विज्ञेयम् "अथातो ब्रह्मजिज्ञासा, अथात ओंजिज्ञासे’-त्यन्वयसम्भवात् शब्दद्वयोपेत एक एव पाठ इत्यङ्गीकारे तु जिज्ञासापदस्य ब्रह्मशब्देनान्वितत्वात् ओङ्कारेणाऽन्वयो न स्यात् । बुध्द्या विवेकस्याऽगतिकागतित्वात् । अन्यथा "तथात्वे प्रथमसूत्रं न्यून-मापद्येत । अधिकार्यादिप्रतिपादकस्याऽन्यस्याऽभावा’दिति सुधावाक्यं चाऽनर्थकं स्यात्, । विषयसमर्पकस्य ब्रह्मशब्दस्य सद्भावेनाऽऽदिशब्दसङ्ग्राह्याभावात् । किं च ब्रह्मशब्देन गुणपरिपूर्णत्वस्याभिहितत्वात्, ओङ्कारस्यवैयर्थ्यम् । न च अन्यतरस्य रूढत्वात् न वैयर्थ्यमिति वाच्यम् । "स एव ब्रह्मशब्दार्थ’ इति ओङ्कारब्रह्मशब्दस्यापि यौगिकत्वाभिधानात् । "ताभ्यां च तत्सकलजीवजडात्मकात् प्रपञ्चाद्विलक्षण-मवगम्यत’ इति सुधोक्तेश्र्च । न च ओंजिज्ञासा, ब्रह्मजिज्ञासेति योजनाभेदेनाऽवैयर्थ्यमिति वाच्यम् । वाक्यभेदापरिहारात् । बुध्द्या विवेकप्रसङ्गाच्च । "नारायणानन्तेश्र्वरादिशब्दाना’मिवोङ्कारस्यापि ब्रह्म-शब्दस्योपलक्षणत्वेन लाभसम्भवे पृथुग्ग्रहणवैयर्थ्यं चेति । भवेदयं ग्रन्थकृतोऽभिप्राय । तथापि सन्न्यायरत्नावलीविरोध । तै "अथातो ब्रह्मजिज्ञासे’त्येकस्यैव पाठस्याङ्गीकृतत्वात् इति चेत्, न
स्थितं मतद्वयं सम्यक् व्यासमध्वहृदम्बरे ।
जानतापि स्वेच्छयैव स्वीकृत्यैवैकमुच्यते ।
श्रीपद्मनाभगुरुणा निषिध्यैवापरं मतम् ।
जयतीर्थमुनि प्राह शिष्याणां हितकाम्यया ॥
मतद्वयं तयोस्तस्मात् मतं नैव विरुध्यते ।
तथा हि उभयथापि ज्ञापकसद्भावात् पाठद्वयं सूत्रकारभाष्यकारयो सम्मतमेव । तत्र "अथातो ब्रह्मजिज्ञासे’ति पाठमङ्गीकृत्य सन्न्यायरत्नावली प्रवृत्ता । "नाऽथशब्दवत्सूत्रोपनिबद्ध’ इति ओङ्कारस्य सूत्रोपनिबन्धाभावकथनं तु एतत्पाठाभिप्रायेण "नाथशब्दव’दित्यभिधानात् । अथशब्दो यथा पाठद्वयेऽपि सूत्रावयव न तथोङ्कार इति तदर्थ । अन्यथा न सूत्रोपनिबद्ध इत्येवाऽवक्ष्यत् । इदं तु जयमुनेरपि सम्मतमेव । तथा च "अथातो ब्रह्मजिज्ञासे’ति पाठाभिप्रायेण भाष्यस्य प्रवृत्तत्वात् । ओङ्कार-मव्याख्यायाऽथशब्दव्याख्यानमुपपन्नम् । अत एव टीकाकारीयम् "अथे’ति प्रतीकधारणं युक्तमिति द्रष्टव्यम् । सूत्रकाराणां पाठभेदोऽभिमत इति दृष्टचरमेतत् । तथा हि इह तावत् सूत्रस्य पाठद्वयं दृश्यते "पुरुषाश्मवदिति चेत्तत्रापी’(ब्र.सू. २-२)ति एक पाठ । अपरस्तु "पुरुषाश्मवदिति चेत्तथापी’ति । तत्राद्यपाठमभिप्रेत्य भाष्ये "यथा चेतनसम्बन्धात् अचेतनमेव शरीरं अश्मादिकमादाय गच्छति एवमचेतनाऽपि प्रकृति पुरुषसम्बन्धात् प्रवर्तत इति चेत्, न "न र्ऋते त्वत् क्रियत’ इति तत्रापि तथात्वे दृष्टान्ताभावा’दिति व्याख्यातम् । द्वितीयपाठानुसारेण अनुव्याख्याने "सन्निधानाच्चेतनस्य वर्तते यद्यचेतनम् । तथाप्यबुद्धिपूर्वत्वादुक्तदोष समो भवे’दिति व्याख्यातम् । "वृद्धिरादैच्, अदेङ्गुण’ इत्यत्र संहिताऽसंहिताभेदेन पाठभेद पाणिनेरप्यभिमत । अत एव महाभाष्ये असंहितया पाठपक्षे कुत्वं कस्मान्न भवति चो कुरिति कुत्वं प्राप्नोतीत्याशङ्क्य "अयस्मयादीनि च्छन्दसी’ति भसंज्ञया परिहारमभिधाय, "वृद्धिरादैजदेङ्गुण’ इति संहिततया पाठपक्षे जस्त्वाभावमाशङ्क्य "उभयसंज्ञान्यपि छन्दांसि दृश्यन्त’ इति पदसंज्ञामङ्गीकृत्य समाहितम् ।
तत्परतयेति ॥ मङ्गलसिध्द्यर्थमथशब्दोऽयमुच्चरित इत्याहेत्यर्थ । प्रयोजनकथनस्यापि व्याख्यान-रूपत्वात् व्याचष्ट इत्येतन्नानुपपन्नमिति बोध्यम् । एतेन मङ्गलस्य वाक्यार्थेऽनन्वयात् नाऽथशब्दो मङ्गलार्थ इति परास्तम् । न केवलमथशब्दो मङ्गलसिध्द्यर्थ । अपि तु अवश्यवक्तव्यार्थप्रतिपादकश्र्चेति भावेनाह मुक्त्यर्थिमात्रस्येति ॥ न केवलमथशब्दस्य मङ्गलसिद्धिरेव प्रयोजनम् अपि तु मुक्त्यर्थि-मात्रस्य ब्रह्मजिज्ञासायां प्रवृत्तिनिरसनमपि प्रयोजनम् । इयाँस्तु विशेष मङ्गलप्रयोजनकत्वं तु उच्चारणमात्रेणैव, प्रवृत्तिनिरसनं तु वाक्यार्थे समन्वीयमानार्थाभिधानद्वारेति बोध्यम् । ननु "अतशब्दो हेत्वर्थे समुदीरित’ इत्यादिना अतशब्दार्थस्योक्तत्वात् पुन "तद्धेतुत्वं वदंश्र्चापी’ति तस्यौवाभिधाने पौनरुक्त्यमित्यत आह वदन्नित्यनुवाद इति ॥ प्रथमामहानाम्नीति ॥ विदा मघवन्नित्यादिका ऋक् महानाम्नीति शब्दवाच्या । "अयं वै लोक’ इति स्वप्रतिपाद्यलोकस्य विष्ण्वात्मकतया व्यपदिश्यत इत्यर्थ ।
वाक्यार्थमुक्तावली
ॐ अथातो ब्रह्मजिज्ञासा ॐ ॥ आदिसूत्रस्येदं सङ्गत्यादीत्यादिपदेन विषयसंशयादि गृह्यते । अधिकरणानां सङ्गतिस्तावद्द्वेधा । अन्तर्भावलक्षणाऽनन्तर्यरूपा चेति । तत्र आद्या शास्त्राध्याय-पादान्तर्भावभेदेन त्रेधा । द्वितीयाऽप्याक्षेपिक्यौपोद्घातक्यातिदेशिक्यापवादक्यादिरूपेणानेकधा । पूर्वाधि-करणेन उत्तराधिकरणस्य सङ्गतिरधिकरणसङ्गति । सा च शास्त्राध्यायपादेष्वन्तर्भावरूपाप्याक्षेपिक्यादिरूपा सम्पद्यते । पूर्वाधिकरणविषयवाक्येनोत्तराधिकरणविषयवाक्यस्य सङ्गति श्रुतिसङ्गति । तदुक्तम् ""शास्त्रेऽध्याये तथा पादे श्रुत्याऽधिकरणेन च । सङ्गति पञ्चधा प्रोक्ता सर्वाधिकरणेष्वपी’’ति । तत्राधिकरणं नाम विषयो विशयश्र्चैव पूर्वपक्षस्तथोत्तर । प्रयोजनं च पञ्चैतान् प्राञ्चोऽधिकरणं विदुरिति वचनोक्तलक्षणाधिकरणं ज्ञेयम् । प्रतिज्ञातां सङ्गतिं तावदाह । अत्रेति । ब्रह्मप्रतिपादकश्रुत्यर्थ-निर्णायकन्यायव्युत्पादनपरेऽत्र शास्त्रेऽन्तर्भूतेऽस्मिन्नधिकरणे ब्रह्मणो जिज्ञास्यत्वमहिम्नो वर्णनपरतया ब्रह्मप्रतिपादिकाया तद्विजिज्ञासस्वेत्यादिन्यायेन समर्थनादस्ति शास्त्रसङ्गतिरित्यर्थ । अत एव "विष्णुरेव विजिज्ञास्य’ इति सङ्ग्रहभाष्ये "सर्वकर्ताऽगमोदित’ इत्यादिगुणव्युत्पादकत्वेन जन्मादिसूत्राणां शास्त्रान्तर्भाववदस्यापि शास्त्रान्तर्भाव सूचित ।
ननु चन्द्रिकायां ब्रह्मविचारशास्त्रकर्तव्यतोपयोगितया जिज्ञासाकर्तव्यतासाधनादस्य शास्त्रेणौपोद्धातिकी सङ्गतिरन्यथा शास्त्रानारम्भप्रसङ्गादित्युक्तत्वात्कथमन्तर्भावोक्तिरिति चेन्न । अस्याधिकरणस्य शास्त्रारम्भं प्रति उपोद्धातरूपेण सङ्गतत्वेऽपि स्वयं ब्रह्मणो जिज्ञास्यत्वगुणनिर्णायकत्वेन शास्त्रान्तर्भावेनाविरोधात् । अध्यायपादसङ्गतिरिति । अध्यायपादान्तर्भावलक्षणा सङ्गतिरित्यर्थ । कुतो नान्तर्भाव इत्यत आह । तत इति । पञ्चाधिकरण्या अध्यायपादप्रतिपाद्यप्रमेयोपयुक्तप्रमेयप्रतिपादकतया समन्वयाकाङ्क्षाजनकतया वाऽध्याय- पादपीठत्वादुपक्रमादिन्यायेन ब्रह्मणि शक्तितात्पर्यलक्षणसम्बन्धावधारणसमन्वयसाधकत्वादिति भाव ।
ननु जन्मादिसूत्रे तद्ब्रह्मेति श्रौतब्रह्मशब्दस्य जीवादिसाधारणस्य यतो वा इमानि भूतानि जायन्त इति श्रुतजन्मादिकारणत्वरूपासाधारणिलङ्गेन विष्णुपरत्वसाधनात्समन्वयाध्यायान्तर्भाव तृतीये च लिङ्गस्य रुद्रादिसाधरणत्वाक्षेपे जगज्जन्मादिकारणत्वस्य शास्त्रैकसमधिगम्यत्वसमर्थनेन अनुमानतो रुद्रादौ लिङ्गस्य सावकाशत्वनिरसनेन विष्णोरेव ब्रह्मशब्दवाच्यत्वं दृढीकृतम् । चतुर्थे च जगज्जन्मादिकारणत्वेन शास्त्रप्रतिपाद्यत्वं रुद्रादेरेव "एको रुद्रो न द्वितीयोऽवतस्थे’ इति प्रलये च स्थानेन तस्यैव कारणत्वात् । ""ज्ञात्वा शिवं शान्तिमत्यन्तमेति’’ इति मोक्षहेतुत्वश्रवणात् । संहारकारणत्वप्रसिद्धेश्र्चेत्याशङ्कापरिहाराय सर्वसमन्वयस्योक्तत्वादीक्षत्यधिकरणे च सर्वपदवाच्यत्वसाधनेन शक्त्यवधारणात् । ""तदभावे कुतोऽन्वय’’ इत्यनुव्याख्यानोक्तरीत्या समन्वयमाक्षिप्य समाधानाच्चेति चेन्न । आनन्दमयोऽभ्यासादन्तस्तद्धर्मोपदेशा-दाकाशस्तल्लिङ्गादित्यधिकरणेषु शब्दविशेषं श्रुतिविशेषं न्यायविशेषं चोपादाय समन्वयोक्तिवदधिकरणपञ्चके तथोक्त्यभावात् । समन्वयपर्यवसानत्वेनान्तर्भाव-सङ्गत्यभावकथनोपपत्ते । तथाप्यौपोद्धातकी सङ्गतिरस्त्येवाध्यायपादपीठत्वोक्तेरिति चेन्न । अधिकरणानामन्तर्भावसङ्गतेरेव मुख्यत्वात्प्रकृते तदभावात् । अथेदानीं विषयाद्याह । पारिप्सिततयेत्यादिना । ब्रह्मप्रतिपादकश्रुत्यर्थनिर्णायकन्यायानुस्मारके शास्त्रे प्रवर्तनीया शास्त्रेणोक्तविचारमननापरनामिका चित्तवृत्ति यावत्तत्साध्यानिदिध्यासना या च तदङ्गभूता वाक्यार्थज्ञानलक्षणरूपा सा ब्रह्मजिज्ञासा विषय इत्यर्थ । कर्तव्या न वेति । किमिदं शास्त्रमना-रम्भणीयमुतारम्भणीयमिति प्रधानचिन्ता । अन्यथा शास्त्रस्यानारम्भणीयत्वप्रसङ्गात् इत्युपक्रमात् । नैतच्छास्त्रमारम्भणीयमित्युपसंहाराच्च । तदर्थमेतच्छास्त्रव्युत्पादितन्यायकरणिका जिज्ञासा न कर्तव्योत कर्तव्येति । तदर्थं विषयादिकं नास्त्युतास्तीति । यद्यप्ययं सन्देहो न ग्रन्थकर्तु सर्वज्ञत्वान्नापि परस्य संशयविषयशास्त्रस्याप्रणीतत्वे धर्मिदर्शनाभावेनारम्भणीयत्वादिकोटिकसंशयायोगात् । तथापि शास्त्र-प्रणयनदशायामादित एतत्सूत्रप्रणयने शास्त्रं दृष्ट्वा पर सन्दिहतीति तदीयसन्देहप्रदर्शनमेतदिति सुधायां व्यक्तम् । इदानीं सङ्गम्यन्ते गुरोर्गिर इति प्रतिज्ञामनुस्मृत्य जीवव्यतिरिक्तेश्र्वराभावात्तस्य च स्वप्रकाशत्वेन नित्यसिद्धत्वान्न जिज्ञास्यतेति न्यायविवरणं विवृण्वन् पूर्वपक्षमाह न कर्तव्येति । अधिकारीति । यद्यपि न्यायविवरणे विषयमात्रमाक्षिप्तं तथापि तदभावादेव प्रयोजनाद्याक्षेपस्य ज्ञायमाने ब्रह्मणि तदनुप-लम्भादित्यादिना करिष्यमाणत्वात् तदाक्षिप्ततया वा तदुपलक्षिततया वा प्रयोजनाधिकार्याद्यभावोक्ति । न तावद् ब्रह्म विषय इति । क्रमेण प्रयोजनादि निरसिष्यत इत्यर्थ । तद्ब्रह्मेति श्रवणाद् ब्रह्मेति विशिष्योक्ति । अहमिति साक्षिणैवानुभवादित्यर्थ । ताकिकमतावष्टम्भेनाशङ्क्य परिहरति । न चायमिति ।
नन्वहमिति प्रत्ययस्य मानसत्वेनात्मनस्तत्सिद्धत्वे प्राभाकररीत्याऽत्मन संविदाश्रयतयाऽभावेऽपि पूर्वपक्ष्यभिप्रेतविषयाक्षेपसम्भवान्न्यायविवरणटीकायां सुधायां च स्वप्रकाशत्वेन नित्यसिद्धमिति मूलमुप-लक्षणीकृत्य स्वप्रकाशतया वा स्वप्रकाशसंविदाश्रयतया वा मानसप्रत्यक्षतया वा सिद्धत्वान्न विषयत्वमित्याक्षिप्तत्वाच्च कुत पूर्वपक्षिणा तदाशङ्क्य इष्यते इति चेन्न । मानसप्रत्यक्षतया स्वप्रकाश-संविदाश्रयतया वाऽत्मनो भाने यदा वृत्तिरूपात्मप्रमोपरम्यते तदा सन्देहावस्कन्दनाद्विषयत्वं घटेतापि स्वप्रकाशने तु साक्षिरूपज्ञानस्य नित्यतयाऽत्मनो नित्यसिद्धत्वात्कदापि सन्देहाद्यभावान्न विषयत्व-सम्भावनापीत्यभिप्रेत्य तदाशङ्क्य दूषणोपपत्ते । अत एव न्यायविवरणे स्वप्रकाशत्वेन नित्यसिद्ध-त्वादित्युक्ते न्यायविवरणटीकादौ आत्मनो न विषयत्वं सर्वैरपि वादिभिरात्मन प्रत्यक्षतयैव सिध्यङ्गीकारा-दित्यविप्रतिपत्तिसूचनाय पक्षत्रयेऽपि सिद्धत्वप्रतिपादनमिति ज्ञेयम् । ननु कुतो नायं मानसोऽनुभव इति चेन्न । स किमजिज्ञासितग्राह्य उत जिज्ञासितग्राह्य उताग्राह्य एव । आद्ये दोषमाह । तस्यापीति । कस्यचिदिति अनवस्थापरिहाराय । कस्यचिदनुभवस्य स्वप्रकाशत्वे संविद्रूपस्यात्मन एव तत्किं नाङ्गीक्रियते लाघवादिति भाव । द्वितीयं शङ्कते । जिज्ञासायामेवेति । जिज्ञासा च न सर्वत्रेति नानवस्थेति भाव । अनुभवेति । सुखादिविशिष्टस्य जिज्ञासाभावेऽपि ग्राह्यत्वानुभवादिति भाव । अन्यथा जिज्ञासा नाम प्रकृते ज्ञानेच्छा तस्या समानविषयकज्ञानाख्यधर्मिज्ञानसाध्यत्वानुभावादनवस्था स्यादिति भाव ।
ननु ज्ञानमात्रं न जिज्ञासितग्राह्यं येनानवस्था नापि अजिज्ञासितग्राह्यं येनानुभवविरोध । किन्तु किञ्चिज्ज्ञानं न ज्ञायत एव इति तृतीयमाशङ्क्य प्रतिषेधति । न ह्यज्ञायमानेति । मनसोऽभावे च तेनैव ज्ञायमानत्वात् व्याघात इति भाव ।
नन्वात्मा न स्वप्रकाशतया भासते किन्तु संविदाश्रयतया । न च तस्यापि संविदो ज्ञायमान-त्वेऽनुभवान्तरान्वेषणेऽनवस्था । तस्या एव संविद स्वप्रकाशत्वाङ्गीकारात् । न च तथापि यथा कथञ्चित्सिद्धत्वाद्विषयत्वं भज्यत इति वाच्यम् । दत्तोत्तरत्वादिति । प्राभाकरमतरीतिमाशङ्क्य निषेधति । न चेति । औत्तरिकेति । सुप्तोत्थितस्य एतावन्तं कालं सुखमहमस्वाप्समित्त्यौत्तरिकानुस्मृतिस्तावदस्ति । सा च पूर्वानुभवजन्येति सुप्तावपि एतावत्कालसुखसुप्त्यवस्थात्मविषयानुभव कश्र्चन सिद्ध्यति । स च स्वप्रकाशात्मपक्ष एवोपपद्यते न तु संविदाश्रयतयाऽत्मपक्ष इत्यर्थ । कुत इत्यत आह । न हीति । तदा सर्वेन्द्रियाणामुपरमादिति भाव । यद्यप्यात्मनो नित्यं स्वप्रकाशतया भासमानत्वान्नानुस्मृतिर्युक्ता । तथाप्यतीतकालसुखावस्थाविशिष्टात्मज्ञानस्यैकस्य जायमानत्वात्तस्य चानुभवत्वायोगात् अतीतसुख-स्मृतित्वमेष्टव्यम् । सा च स्वरूपत साक्षिस्वरूपैव । साक्ष्यनुभवेन स्वरूपान्तकरणसंस्कारोदयेन तदभिव्यक्तस्मृत्यनुपपत्तेरिति दिक् । संविदाश्रयतयाऽत्मभाने तकविरोधमुक्त्वाऽनुमानविरोधमप्याह । संविद्रूपत्वाच्चेति । न चात्मन एवासिद्धि औत्तरिकानुस्मृत्या विज्ञानघन एवेति श्रुत्या सिद्धत्वादिति भाव ।
एवं विषयमाक्षिप्य न्यायविवरणे विषयाक्षेपलब्धं प्रयोजनाद्यभावं चोपपादयति । न चेत्यादिना । प्रयोजनमिति । मोक्षाख्यप्रयोजनमित्यर्थ । ज्ञानद्वारेति शेष । ब्रह्मणि जीवरूपब्रह्मणि । उपलक्षणं चैतत् । जीवरूपब्रह्मज्ञानस्य जिज्ञासाया पूर्वमेव सिद्धत्वाद् ज्ञानरूपमवान्तरफलं च नास्तीति ज्ञेयम् । ब्रह्मशब्दव्यावर्त्य एवायं पूर्वपक्ष न त्वथशब्दव्यावर्त्य तयोर्यथाक्रममधिकारानन्तर्यार्थश्र्चातशब्दो हेत्वर्थ इति सङ्क्षेपेण "भक्तिमान् परमे विष्णौ’ "कर्मणा त्वधम प्रोक्त’ इति विस्तरेण च विप्रतिपद्यमानत्वात् । अत एवोक्तप्रयोजनाधिकारिसम्बन्धाभावाश्र्च विषयाभावेनैव प्राप्ता इति । जीवान्यविषयसमर्थनपरेण ब्रह्मशब्देन निरसिष्यन्ते । तदुक्तं चन्द्रिकायाम् । अहमिति ब्रह्मणि ज्ञायमानेऽपि मोक्षानुप-लम्भान्निष्प्रयोजनत्वमिति शङ्का तु विषयसूचकेन ब्रह्मपदेन निरस्तेति । विषयप्रयोजनाभावादेवाधिकारी च तदभावादेव सम्बन्धोऽपीत्याचार्योक्तिं मनसि निधायाह । विषयप्रयोजनाभावादित्यादिना । यो यत्प्रयोजनमर्थयमानो यं विषयं जिज्ञासते स तत्राधिकारीति विषयप्रयोजनयो अधिकारिव्यापकत्वात् इति भाव । तत्फलतयेति । अथशब्दस्य शङ्खवीणाध्वनिवत् श्रुतितो माङ्गिलकत्वेन तद्वाचकत्वा-भावान्मङ्गलप्रयोजनकत्वेनेत्यर्थ । अत एवाभिधेयमर्थमाहेति वक्ष्यति । एतेन मङ्गलार्थ इति भाष्ये अर्थशब्द प्रयोजनपर इत्युक्तं भवति । विमुक्त्यर्थिमात्रस्येति । अयोग्यानामपि तदर्थित्वान्मुक्तियोग्यत्व-शान्त्यादिमत्वलक्षणाधिकारानन्तरवाचिनाऽथशब्देन मुक्त्यर्थिमात्रनिरास इत्यर्थ (यद्वाऽध्ययनादिरूपाधि-कारानन्तर्यार्थकाथशब्देन मुक्त्यर्थिमात्रस्य शूद्रादेर्वेदार्थजिज्ञासायामधिकारनिरास) इति भाव । योग्यतयेति । अधिकारिणं प्रत्येव ब्रह्मजिज्ञासा कर्तव्येति विधिसन्निधानादानन्तर्यप्रतियोगित्व-सामर्थ्येनाधिकार एवोपस्थीयत इति भाव । प्रयोजनेति । मोक्षहेतुज्ञानविष्णुप्रसादयो कर्मणा ज्ञानमातनोति तत्कर्म हरितोषं यदित्यादिना कर्मजन्यतावगमाज्जिज्ञासाया निष्प्रयोजनत्वशङ्कानिवर्तक-तयेत्यर्थ । नतु ज्ञायमानेऽपि ब्रह्मणीत्युक्तशङ्कानिवर्तकतयेति भ्रमितव्यम् । तस्य विषयार्थकब्रह्मपदेनैव निरासात् । नन्विति । विषयाधिकारिजिज्ञासाफलानामाध्यायचतुष्टयप्रतिपाद्यमानत्वात्तत्क्रमेणादिसूत्रैर्निर्देशे कर्तव्येऽपि इति नन्वित्यनन्तरमध्याहार्यम् । मङ्गलोक्त्यादेरिति । श्रुतितो माङ्गिलकाथशब्दं विहाय साक्षान्मङ्गलशब्दितदेवताप्रणामोक्तेरादिपदेनाधिकार्योक्त्यादेरित्यर्थ । निखिलान्यपीत्यस्य विवरणं नियत्येति । यद्वा ननु ॐकारोऽपि सूत्रादावुपबद्धो किं विशिष्योच्यते अथातशब्दपूर्वाणि निखिलान्यपि सूत्राणि प्रारभन्त इत्याशङ्क्य नियत्येत्युक्तम् । अथातश्शाब्दवन्नोङ्कारनियतिर्ब्रह्मसूत्रे ॐकारोपबद्धत्वेऽपि अन्यशरीरानुप्रविष्टतया सूत्रकृतोपबद्धत्वाभावात् । अत एव सूत्रेषु तु महाप्राज्ञास्तावेवादौ प्रयुञ्जत इति नियमाभिप्रायेण वक्ष्यति । अतश्र्च पूर्वमुच्चार्यास्सर्व एते सतां मता इति तु प्रत्यवायपरिहारार्थ-मध्येतृभिर्बहिरेवोच्चार्या इत्यभिप्रायेणेति प्रवृत्तम् । अतशब्दस्य तृतीयत्वोक्तिस्तु ब्रह्मसूत्रगतातश्शब्दाभि-प्रायेण तत्र प्राथमिकतयोङ्कारस्योपबद्धत्वादिति ज्ञेयम् ।
तृतीयेऽपि पृच्छतीति । द्वितीयपक्ष इवाक्षेपकारणाभावात्प्रथमपक्ष इव तृतीयेऽपि सन्देहात् पृच्छामात्रमिति भाव । स्वरूपोत्तमाविति । नन्वोमथशब्दौ स्वरूपोत्तमौ प्रथमोत्पन्नत्वादित्यसिद्धि । ब्रह्मण एव प्रथमजत्वादित्याशङ्कां परिहरन्सामान्यव्याप्तिप्रदर्शनपूर्वं दृष्टान्तमाह । यत्स्वजाताविति । श्रवणपाठादिनाऽस्य शब्देभ्योऽप्यतिशयेन धर्महेतुत्वं विवक्षितम् । अर्थाधिक्यातिरिक्तस्य तदुत्तमत्व-स्याभावात् तद्धेतुत्वमिति भाष्ये अत इत्यस्यातश्शब्दपरत्वं हेतुपरत्वं तृतीय उदाहृत इत्यनयोश्र्चावृत्तिं प्राथमिकावित्यस्य वचनव्यत्ययेनानुषङ्गं चाभिप्रेत्य चापिशब्दयो सम्बन्धं च दर्शयति । अतश्र्चेति । अनुवाद इति । तेनातशब्दो हेत्वर्थे इत्यनेन न पुनरुक्तिरिति बोध्यम् । सर्ववागात्मेति हेतुगर्भविशेषणम् । तत्र सर्ववागिति तदर्थभूतं पूर्णत्वमुच्यते । वाच्यवाचकयोरैक्यव्यपदेशस्य वक्ष्यमाणत्वात् । पुनस्तदात्मत्वं नाम तत्प्रतिपादकत्वमित्यभिप्रेत्य व्याचष्टे । सर्वेति । यद्वा सर्ववागात्मत्त्वं नाम सर्ववाग्व्याख्येयत्वम् । व्याख्यानव्याख्येययोरैकार्थ्यात्सर्ववागर्थपूर्णताभिधायकतयेति लभ्यते । तदुक्तमकारो वै सर्ववागिति । ऐतरेयभाष्ये च ""अन्येऽपि शब्दास्सर्वेऽपि ह्यकारार्थाभिधायिन । तस्मादकार एवायं सर्ववागात्मक श्रुत । तस्मात्सर्वगुणान्विष्णोरकारो वक्ति यत्प्रभो । तद्व्यक्तयो हि शब्दा ये सर्वे विष्णुगुणब्रुवा’’ इत्युक्तम् । अभिधायकतयेतीत्थंभूतलक्षणे तृतीया । प्राणशब्दस्य विष्णुपरत्वमप्यभिप्रेत्य व्याचष्टे भगवद्वाचकाविति । यद्वा प्राणश्र्चात्मा च भगवांश्र्च प्राणात्मानौ स्वार्थे कप्रत्यय इति भावेन प्राणात्मकौ प्राणदैवत्यौ भगवद्वाचकाविति ।
महतश्र्चतुर्मुखादित्यादाविति । विज्ञानतत्वं महतस्समुत्पन्नं चतुर्मुखादित्यादावित्यर्थ । प्रथमा महानाम्नीति । अयं वै लोक प्रथमा महानाम्नीत्युच्यमानविदामघवन्नित्यादि ऋचि अयं वै लोक पृथिवीलोकस्थो विष्णुरिति विष्णो ऋगैक्यमुच्यते । तत्र यथा वाच्यवाचकयोरैक्यव्यपदेशस्तथेत्यर्थ । तदुक्तं कर्मनिर्णये । प्रथमा या महानाम्नी तद्वाक्यै पार्थिवो हरिरिति । नन्वर्थाधिक्यं वक्तुमुपक्रम्य किमित्यभिमान्याधिक्यमुच्यत इति चेन्न । अभिमानिनोऽपि अभिमानित्वादेवामुख्यतया वाच्यत्वसूचनेनापरब्रह्मवाचकतयाऽर्थाधिक्यसूचनादिति बोध्यम् ।
तत्त्वसुबोधिनी
अध्यायपादसङ्गतिस्त्विति । यद्यपि एतदधिकरणाभावे शास्त्रस्येव तदेकदेशयो अध्यायपादयोरप्या-रम्भासम्भव । तथापि सिद्धे शास्त्रारम्भे पुनरध्यायाद्यारम्भाक्षेपस्यानेन समाधानात् शास्त्रेणैव न ताभ्यामित्यौपोद्धातिकी सङ्गतिरित्यर्थ । यद्वा तद्विजिज्ञासस्व इत्यादिब्रह्मविचारविधायकवाक्यार्थनिर्णायक-न्यायव्युत्पादकत्वात् अधिकरणपञ्चकस्य ब्रह्मविचाररूपेण शास्त्रेण अन्तर्भावलक्षणा सङ्गति न तथा अध्यायपादाभ्यां समन्वयाप्रतिपादकत्वात् इत्यर्थ । ननु तथापि आनन्दमयाधिकरणारभ्येति कथम्? समन्वयसूत्रे साक्षात् समन्वयोक्ते समन्वयसूत्रेण अध्यायशेषस्य प्रपञ्च्यप्रपञ्चकभावसङ्गतिरिति सुधाग्रन्थाच्च तत्राध्यायसङ्गते सत्त्वात् । ईक्षत्यधिकरणे समन्वयासाधारणहेतुवाच्यत्वसमर्थनेन तस्मिन्नपि तस्या सत्त्वात् । ""तदभावे कुतोऽन्वय’’ इत्यनुव्याख्याने वाच्यत्वस्य समन्वयहेतुत्वेन उक्तत्वादिति । उच्यते । वैदिकशब्दानां ब्रह्मण्युपक्रमादिप्रमाणक शक्तितात्पर्यलक्षणसम्बन्ध समन्वय । तेन समन्वयासम्भवाशङ्कैव निरस्ता । समन्वयस्तु न व्युत्पादित इति न तयो अध्यायपादाभ्यां अन्तर्भाव-लक्षणा सङ्गति । यद्वा आनन्दमयमारभ्य सङ्गतिद्वयं ततोऽर्वाक् समन्वयेक्षत्यो पादमात्रेण सङ्गत्यभाव । अन्येषु त्वध्यायेनापि सङ्गत्यभाव ॥ अत एव अध्यायपादसङ्गतिरिति समुदायैकवचनम् । अध्यायपादपीठत्वादिति । पञ्चाधिकरण्या समन्वयविशेषाप्रतिपादकत्वादध्यायाद्यन्तर्भावासम्भवेऽपि विचारकर्तव्यताया प्रथमप्रतिपाद्यत्वाद्वक्ष्यमाणक्रमेण चतुरधिकरण्या बद्धक्रमत्वात्तदनन्तरमेव समन्वये आकाङ्क्षोदयात् तदाकाङ्क्षोत्थापकतया समन्वयाध्यायस्य तदादिनामपादस्य चादौ निवेशो युक्त इत्यर्थ । नाधिकरणश्रुतिसङ्गती इति । पूर्वाधिकरणतद्विषयवाक्याभ्यां सङ्गती नेत्यर्थ । ननु शास्त्रं सिद्धमसिद्धं वा । आद्ये विषयस्य सिद्धत्वात् कथमनुपयुक्तम् । द्वितीये शास्त्रस्यैवासिद्धत्वात्कुत्र विषय कथ्यते इत्यत आह । चित्तसङ्गतेति । कर्तव्या न वेति ॥ अत्र शास्त्रम् अनारम्भणीयम् उत आरम्भणीयमिति प्रधाना चिन्ताऽभिमता द्रष्टव्या । अत एव नैतत् शास्त्रं आरम्भणीयमिति उपसंहार । इयं तु तदर्थ-चिन्तेति द्रष्टव्यम् । अत एव च सुधायाम् आरम्भणीयं न वेति प्रधानचिन्तामुक्त्वा कर्तव्यत्वाकर्तव्यत्व-चिन्ताया तदर्थत्वमुक्तं इति भाव । सयुक्तिकं पूर्वपक्षमाह । न कर्तव्येतीति ॥ न तावद् ब्रह्मेति ॥ नापि प्रयोजनादीति तावच्छब्द । नतु नाप्यब्रह्म विषय इति । अब्रह्मणो विषयत्वानिराकरणादिति ध्येयम् ॥ असन्दिग्धत्वादिति । सन्दिग्धस्यैव विषयत्वादिति भाव । ननु नासन्दिग्धत्वं ब्रह्मण तस्य जीवव्यतिरिक्तत्वेन प्रत्यक्षाद्यविषयत्वात् । तथा च कुतो न विषयत्वमित्यत आह । प्रमाणेति । यदि जीवव्यतिरिक्तं ब्रह्म अस्तीति स्यात् तदा सन्दिग्धत्वेन विषयत्वं स्यात् । न चैवम् । जीवव्यतिरिक्त-ब्रह्मसद्भावे प्रमाणाभावात् । प्रत्यक्षाप्रत्यक्षधर्मभेदस्य वायुवनस्पतिसंयोगवदप्रत्यक्षत्वेन प्रत्यक्षाप्रत्यक्ष-प्रतिबद्धिलङ्गाभावेनानुमानासम्भवात् । कर्मकाण्डस्य कर्मपरत्वात् । ब्रह्मकाण्डस्य अद्वैतरीत्या अखण्ड-चिन्मात्रबोधकत्वादिति भाव । अस्तु जीवाभिन्नत्वं तथापि जीवस्य सन्दिग्धत्वात् विषयत्वं भविष्यतीत्यत आह । जीवस्येति । किमनुभवोऽजिज्ञासितग्राह्य उत जिज्ञासितग्राह्य इति विकल्पं हृदि निधायाद्ये दोषमाह । तस्यापीति । ज्ञायमानत्वेनेति । परप्रकाश्यत्वेनेत्यर्थ । द्वितीयं शङ्कते । जिज्ञासायामेवेति । जिज्ञासा न सर्वत्रेति नानवस्थेति भाव । अनुभवविरोधादिति । ज्ञानस्य सुखदुखादिवत् जिज्ञासा-भावेऽपि अनुभवात् । अन्यथा जिज्ञासाया ज्ञानाख्यधर्मिज्ञानसाध्यत्वानुभवादनवस्थेति भाव ॥ ननु न ज्ञानमात्रमजिज्ञासितग्राह्यम् । येन नानवस्था । नापि जिज्ञासितग्राह्यम् । येनानुभवविरोध । किन्तु किञ्चित्ज्ञानं कदापि न ज्ञायत एवेति न कोऽपि दोष इत्यत आह । न ह्यज्ञायमानेति । अज्ञायमानत्वादेवेति भाव । कुत इत्यत आह । न हीति । संविदात्मकत्वादिति । आत्मा न संविदाश्रयतया प्रतीयते संविदात्मकत्वात् संविद्वदिति प्रयोगो द्रष्टव्य ॥ न चासिद्धि । औत्तरीयकानु-स्मृत्यैव तस्य सिद्धत्वादिति भाव । विषयेति ॥ यो यत्प्रयोजनमर्थयमानो यद्विषयं जिज्ञासते स तत्राधिकारीति विषयप्रयोजनयो अधिकारिव्यापकत्वादिति भाव । अत एव विषयप्रयोजनाधिकारिणां अभावादेव । तत्फलकतयेति पाठ साधु । न तु तत्परतयेति । अस्माभिरपि आनन्तर्याभिधोऽथशब्द श्रुत्या मङ्गलप्रयोजनक इत्यङ्गीकृतत्वादिति सुधानुसारात् । विघ्नोत्सारणासाधारणकारणरूपस्य विष्णु-स्मरणादे मङ्गलस्याथशब्दार्थत्वाभावेन तत्परत्वायोगात् । तस्याप्यभिधेयमर्थमाह इत्युत्तरग्रन्थाननुगुणत्वात् । तत्परतयेति पाठेऽप्ययमेवार्थोऽनुसन्धेय । तथा चाथशब्द मङ्गलार्थ इति भाष्ये अर्थशब्द प्रयोजनवचन इति भाव । मङ्गलोक्त्यादेरिति । मङ्गलप्रयोजनकाथशब्द मङ्गलत्वेन विवक्षित । तस्योक्तिरुच्चारणम् । आदिपदेनाधिकारानन्तर्यादिप्रतिपादनम् । अन्यथा मङ्गलोक्तेरित्यवक्ष्यदिति । शब्दान्तरेणापीति ॥ मङ्गलानन्तरारम्भप्रश्र्नकार्त्स्नेत्यादि वचनादानन्तर्याद्यर्थकशब्दान्तरेणापीत्यर्थ । भाष्ये निखिलान्यपीति । निखिलान्यपीत्यस्यैव विवरणं नियत्यैवेति इति भाव । अथातशब्दपूर्वाणीति भाष्योदाहृतश्र्लोके सूत्राणीति बहुवचनस्य त्रित्वे पर्यवसानवारणाय निखिलानीत्युक्तम् । नन्वेतन्निखिलानां सूत्राणाम् अथातशब्दपूर्वकत्वं यादृच्छिकमित्यत उक्तम् । नियत्यैवेति । बुद्धिपूर्वकमित्यर्थ । अभियुक्ता हि बुद्धिपूर्वकं आदिसूत्रे अथातशब्दौ प्रयुञ्जते । नन्वेतत्कथं ज्ञायते । सर्व एते सतां मता इत्युपसंहारेणैवेति । नन्वेतदथातशब्द-पूर्वकत्वमसिद्धमित्यत उक्तम् ॥ अपीति । सूत्राणामथातशब्दपूर्वकत्वं निश्र्चितमित्यर्थ । न चैतत्केन निश्र्चितमिति वाच्यम् । निरुपाधिकसहचारदर्शनव्यभिचारादर्शनाभ्यामेवेति भाव ॥ ननु निखिलानि सूत्राणि अथातशब्दपूर्वकाणीत्यसङ्गतम् । उत्तरसूत्रेषु तदभावात् । न च निखिलान्यादिसूत्राणीति विवक्षितमिति वाच्यम् । एवमपि वृद्धिरादैजित्यादिपाणिनीयसूत्रे तदभावात् । तथा च कथमिदमिति चेन्न । वेदार्थनिर्णायकादिसूत्रत्वावच्छेदेन अथातशब्दपूर्वकत्वस्य विवक्षितत्वात् । एवं च उत्तर-सूत्रादेरादिसूत्रत्वाभावान्न दोष । पाणिनीयसूत्रस्य च प्रकृतिप्रत्ययव्युत्पादनेन शब्दमात्रनिर्णायकत्वेन वेदार्थनिर्णायकसूत्रत्वाभावात् । गौतमसूत्रादावपि न प्रसङ्ग । वेदार्थनिर्णायकत्वाभावादेव । अथातो दर्शपूर्णमासौ व्याख्यास्याम इत्यनेन मन्त्रेण इदं कर्म कर्तव्यं इति कर्मरूपवेदार्थनिर्णायकत्वात् अथात-शब्दपूर्वकत्वाच्च न कोऽपि दोष । एवं च धर्मदेवब्रह्ममीमांसादिसूत्राणां वेदार्थनिर्णायकादिसूत्रत्वात् अथातशब्दपूर्वकत्वाच्च न कोऽपि दोष इति सर्वमनवद्यम् । तथाच भाष्ये अथ च अतश्र्च अथात अथातश्र्चासौ शब्दौ च अथातशब्दौ पूर्वं येषां तानीति विग्रह इति भाव । द्वितीयमाक्षिपतीति । अवश्यवक्तव्यार्थत्वाधिक्ययो तदभावयोश्र्च शब्दान्तरेषु दर्शनादथशब्दे तत्सन्देहेन प्रश्र्नमात्रसम्भवेन प्रथमतृतीययो पृच्छतीत्युक्तम् । द्वितीये तु स्वरूपाधिक्यस्य शब्दान्तरेषु अदर्शनात् अथशब्दे तदाक्षेप इति भाव । अत एव शब्दान्तरस्येत्यादिना मूलाभिप्रेतो हेतु प्रदर्शित । मूले कथंशब्द प्रश्र्नार्थ । उत्तमताशब्दस्तु तत्वार्थक इत्यभिप्रेत्य कथमित्यादि प्रकारान्तरेण व्याचष्टे । तृतीयेऽपि पृच्छतीति । प्रथमं निसृतत्वेऽपि स्वरूपोत्तमत्वं कुत इत्यत आह । यत्स्वजाताविति । इति न्याय इति । अत्र सामान्यव्याप्तिरेवानुसन्धेया । यथा देवेषु चतुर्मुख इति दृष्टान्तसम्भवात् । नतु य शब्द इति विशेषव्याप्ति । दृष्टान्ताभावादिति भाव । न च अथातशब्दयो प्राथम्यस्यैव पृष्टत्वात् तत्प्राथम्यमेव, उपपादनीयम् । ॐकारप्राथम्योपपादनं क्वोपयुक्तम् इति वाच्यम् । तस्यापि प्रथमं हरे निसृतत्वेन प्रसङ्गात् तत्कथनमिति भाव । अत इत्यस्यातशब्दपरत्वं हेतुपरत्वमसकृदावृत्तित्वं ""तृतीय’’ ""उदाहृत’’ इत्यनयो आवृत्तिं प्राथमिकावित्यस्य वचनव्यत्ययेनानुषङ्गं चाभिप्रेत्य व्याचष्टे । अतश्र्च तृतीयतयेति ॥
""अकार सर्ववागात्मा’’ इत्यत्राकारस्य सर्ववागर्थप्रतिपादकत्वमेव सर्ववागात्मकत्वं सर्ववागात्मक इत्यस्य हेत्वर्थगर्भत्वं वाभिप्रेत्याह ॥ सर्ववागर्थेति । अभिधायकतयेति इत्थंभूतलक्षणे तृतीया । प्राणात्मकौ प्राणस्वरूपौ इत्येव शब्दलभ्योऽर्थ । प्राणो देवता अभिमानी ययोस्तौ प्राणात्मकौ इति फिलतकथनं तनु विस्तार इति स्मरणात् । तकारो हरे व्याप्त्यभिधायक । स्था गातिनिवृत्ताविति च स्मरणात् थकार स्थित्यभिधायक इति व्याप्तिस्थितिविधायकौ । एवं च प्राणात्मकावित्यभिमान्यभि-मन्यमानयो ऐक्यव्यपदेश कथमित्यत दृष्टान्तेन उपपादयति । अभिमानीति । अत्र च सृष्टि-प्रकरणत्वात् महत्पदं महत्तत्वाभिधायकम् । तथा च महत्तत्वाभिमानिन चतुर्मुखादित्यर्थ । प्राणात्मका-विति भगवद्वाचकौ इति फिलतम् । एवं च प्राणात्मकावित्येतद्वाच्यवाचकयोरैक्यव्यपदेशादृष्टेरनुपपन्नमित्यतो दृष्टान्तेनोपपादयति । वाच्यवाचकयोरित्यादिना । यद्वा प्राणश्र्चात्मा भगवांश्र्च प्राणात्मानौ प्राणात्मानावेव प्राणात्मकावित्यस्योक्त एवार्थ । प्राणदैवत्यौ भगवद्वाचकाविति व्याख्यातम् । तदयुक्तम् । प्राणदैवत्यत्वे भगवद्वाचकत्वे च तथयोस्तथौ प्राणात्मानाविति अभिमानिना प्राणेन वाच्येन भगवता चैक्यव्यपदेशा-योगादित्यत अभिमान्यभिमन्यमानयोरैक्यव्यपदेशं दृष्टान्तोक्त्या घटयति । अभिमानीति । वाच्य-वाचकयोरपि तद्य्वपदेशं पूर्ववदुपपादयति । वाच्यवाचकयोरिति । अयं वै लोक इति । विदा मघवन्नित्यादिका ऋक् पृथिवीलोकस्थविष्णुवाचीत्यर्थ । प्रथमा या महानाम्नी तद्वाच्य पार्थिवो हरिरिति स्मरणादिति भाव ।
वाक्यार्थविवरणम्
तत्रेति ॥ सूत्राणां व्याख्येयत्वे सिद्धे सतीत्यर्थ ॥ शास्त्रसङ्गतिरिति ॥ शास्त्रप्रतिपाद्यप्रतिपादकत्वेन शास्त्रान्तर्भावलक्षणा सङ्गति शास्त्रसङ्गति ॥ अन्यथेति । ब्रह्मविचाराख्यजिज्ञासाया अकर्तव्यत्वे तत्कारणीभूतन्यायग्रन्थनात्मकशास्त्रस्याप्यनारम्भणीयत्वं स्यादिति भाव । एतत् जिज्ञासाया कर्तव्यत्वम् । अध्यायपादसङ्गतिरिति ॥ अध्यायपादप्रतिपाद्यप्रतिपादकत्वेन तदन्तर्भावलक्षणसङ्गतिरित्यर्थ । अध्यायपादपीठत्वात् ॥ तदुपयुक्तार्थप्रतिपादकत्वेनौपोद्धातरूपत्वादिति व्याख्येयम् । ""विषयो विशयश्चैव पूर्वपक्षस्तथोत्तर । प्रयोजनं च वक्तव्यं पूर्वसिद्धान्तपक्षयो’’ इति उक्तिमनुसृत्य विषयादिकं दर्शयति । प्रारिप्सिततयेति । शास्त्रस्याप्यभावात् शास्त्रस्य प्रतिपाद्याभावात् कुत्र विषयप्रदर्शनमित्यत उक्तम् ॥ चित्तसङ्गतेति ॥ बुद्धिस्थितेत्यर्थ । विषय संशयधर्मीत्यर्थ । उभयविधेति । कर्तव्याकर्तव्येत्यर्थ । आत्मनो जीवस्य अनुभवात् स्वविषयकज्ञानरूपत्वरूपस्वप्रकाशत्वस्येत्यर्थ । आत्मनो यदि अप्रकाशत्वं तर्हि तत्प्रकाश किं ताकिकरीत्या मानसानुभवेन, किं वा प्राभाकररीत्या स्वप्रकाशसंविदाश्रयतया ॥ आद्ये सोऽनुभव किं ग्राह्योऽग्राह्यो वा । ग्राह्यत्वेऽप्यजिज्ञासितग्राह्य उत जिज्ञासितग्राह्य इति विकल्पा ॥ अजिज्ञासितग्राह्यत्वे दोषमाह ॥ तस्यापीति ॥ सुप्त्यभावप्रसङ्गरूपबाधकं स्फुटत्वान्नोक्तम् । कस्यचिदनुभवस्य स्वप्रकाशत्वान्नानवस्थेत्यत आह ॥ कस्यचिदिति ॥ तत् स्वप्रकाशत्वम् अङ्गीकार्यमित्यर्थ । अजिज्ञासितग्राह्यत्वाङ्गीकाराज्जिज्ञासायाश्च सर्वत्राभावान्नानवस्थिति । द्वितीय-पक्षमाशङ्कते ॥ जिज्ञासायामेवेति ॥ सुखादिवत् ज्ञातैकसत्त्वेन जिज्ञासाभावेऽप्यनुभवेन जिज्ञासित-ग्राह्यत्वमनुभवविरुद्धमित्यत आह ॥ अनुभवेति ॥ जिज्ञासितग्राह्यत्वपक्षेऽपि अनवस्थापि द्रष्टव्या ॥ तथा हि ॥ ज्ञातुमिच्छा हि जिज्ञासा । तथा चानुभवविषयकजिज्ञासायां सत्यामेवानुभवविषयकं ज्ञानं भवतीति वाच्यम् । तस्याश्चेश्वरेच्छाया ज्ञानसाध्यज्ञानान्तरमङ्गीकरणीयम् । तस्यापि ज्ञानस्य पुन जिज्ञासितग्राह्यत्वात्तद्विषयणीच्छाऽङ्गीकार्या । तस्या पुन ज्ञानसाध्यत्वात् ज्ञानान्तरमङ्गीकरणीयम् इति । अग्राह्यत्वपक्षं दूषयति ॥ न हीति ॥ अज्ञायमानत्वादेव तस्याप्रामाणिकत्वं स्यादिति भाव । प्राभाकररीत्या स्वप्रकाशसंविदाश्रयतया भासत इति न स्वप्रकाशत्वमिति शङ्कते ॥ न चेति ॥ "आत्मा स्वप्रकाशसंविदाश्रयतया न भासते । संविद्रूपत्वात् । संवेदनवत्’ इत्यनुमानं वक्तुं तत्र स्वरूपासिद्धिपरिहाराय हेतुं तावत् साधयति ॥ औत्तरिकेति ॥ आत्मनो ज्ञानरूपत्वसाधकसौषुप्ति-कानुभवस्यैवाप्रामाणिकतापरिहारायौत्तरिकानुस्मृतिसिद्धेत्यर्थ । ननु संविदाश्रयतया प्रतीत्यङ्गीकारे कुत सौषुप्तिकानुभवाभावप्रसङ्ग इत्यत आह ॥ न हीति ॥ येन तदाश्रयतया आत्मा प्रतीयेतेत्यर्थ । मनआदिसर्वेन्द्रियाणां तदोपरतत्वेनात्मातिरिक्तं जन्यं ज्ञानं न तदानीमस्तीति भाव । एवं हेतुं प्रसाध्य प्रयोजनमाह ॥ संविदात्मकत्वादिति ॥ आत्मनो जीवस्य मानसानुभवसिद्धत्वं स्वप्रकाश-संविदाश्रयत्वेन सिद्धत्वं वा कस्माद्दूषणीयम् । यथाकथञ्चिदात्मन सिद्धत्वेनाविषयत्वं वाच्यम् । तदेवमपि भविष्यत्येव । यथोक्तं सुधायाम् । "जीवात्मन स्वप्रकाशज्ञानाश्रयतया मानसप्रत्यक्षवेद्यतया सिद्धि प्रदर्शिताऽतो न्यायविवरणोक्तं स्वप्रकाशत्वं साधयितुमेवेतरपक्षद्वयं दूषितमिति सम्प्रदायोऽव-गन्तव्य । यथोक्तं चन्द्रिकायाम् । टीकायां वस्तुस्थितिप्रदर्शनाय न्यायविवरणोक्तस्वप्रकाशता साधितेति ।
प्रयोजनं भवदैहिकमामुष्मिकं वा स्यात् । नाद्य । तस्यान्यतो लभ्यत्वात् । द्वितीयेऽपि स्वर्गोऽ-विद्यानिवृत्तिरूपापवर्गो वा । नाद्य । तस्य कर्मादिसाध्यत्वात् । द्वितीये त्वाह । ज्ञायमानेऽपीति ॥ स्वप्रकाशतयोक्तरीत्या अहमिति ब्रह्मणि ज्ञायमानेऽपि तस्याऽविद्यानिवृत्तिरूपप्रयोजनस्य इदानीमस्माकमनुपलम्भादिति व्याख्येयम् । अनूदितमेतच्चन्द्रिकायाम् । "नाप्यविद्यानिवृत्ति प्रयोजनम् । उक्तरीत्या आत्मनि भासमानेऽपि तदनिवृत्तेरि’ति ॥ अधिकारीति ॥ यो हि यमर्थमर्थयमानो यं विषयं जिज्ञासते तस्यैवाधिकारित्वादिति भाव । अत एव सम्बन्धिनामभावादेव ॥ नैतच्छास्त्रमिति । तत्कारणीभूतन्यायग्रथनात्मकमिति शेष ॥
अतशब्द हेत्वर्थ इति भाष्ये हेत्वर्थ हेतुत्वार्थक इत्यर्थ । तथा चातो मोक्षरूपनिमित्त-सद्भावादिति सौत्रातशब्दार्थो द्रष्टव्य । एवं प्रमाणेऽपि हेत्वर्थे हेतुत्वार्थ इति व्याख्येयम् ॥ तृतीय इति ॥ तथाच उत्तमता अर्थत उत्तमता कथम् उत्तमार्थकम् इति यावदिति भाष्यं योज्यम् । स हीति भाष्यम् । जिज्ञासाया अपि मनोवृत्तिविशेषत्वादिति भाव । मधुकैटभादिव्यावृत्त्यर्थं स्वजाता-वित्युक्तम् । इत्यत उत्तम इत्यर्थ । इति हेतो अतश्शब्द स्वरूपत उत्तम इति व्याख्येयम् । तस्य तत्र इत्यर्थद्वयमभिप्रेत्य व्याचष्टे । तस्य विष्णोरिति । विष्णुप्रसादस्येत्यर्थ । तस्य हेतुत्वं हेतुकत्व-मित्यर्थमभिप्रेत्याह ॥ तस्येति । अनुवाद इति ॥ अतश्शब्दो हेत्वर्थे समुदीरत इत्युक्तत्वान्न विधानमिति भाव । सर्ववागर्थपूर्णतेति ॥ सर्वशब्दार्थभूता ये गुणास्तै पूर्णतेत्यर्थ । "अकारो वै सर्ववाक्’ इति श्रुतेरिति भाव । इत्यादावित्यत्रादिपदेन "अन्तरिक्षलोको, द्वितीयोऽसौ लोकस्तृतीय’ इति वाक्यशेषग्रहणम् ।
वाक्यार्थमञ्जरी
तत्रेति ॥ सूत्रेष्वित्यर्थ । सूत्राणामत्युपादेयत्वेन व्याख्येयत्वे सिद्धे सतिति वा । आदिशब्देन विषयादिपरिग्रह । अत्र प्रथमाधिकरणे ॥ शास्त्रसङ्गतिरिति । तद्विजिज्ञासस्व तद्ब्रह्मेत्यादिब्रह्मविचार-विधायकवाक्यार्थनिर्णायकन्यायव्युत्पादकत्वात् ब्रह्मविचारपरशास्त्रेऽन्तर्भावलक्षणसङ्गतिरित्यर्थ । यथोक्तं सुधायाम् । सङ्गतिर्द्विविधा । अन्तर्भावलक्षणा आनन्तर्यलक्षणा चेति । आद्यापि शास्त्राध्यायपादान्तर्भाव-भेदेन त्रिविधा । द्वितीयाप्याक्षेपिकी आतिदेशिकी औपोद्घातिकी आपवादिकीत्याद्यनेकविधेति । अत्र यद्यप्यन्यथेत्युत्तरवाक्योक्तरीत्या जिज्ञासाया कर्तव्यत्वाभावे जिज्ञासाकारणीभूतन्यायग्रथनात्मकशास्त्रस्या-नारम्भणीयत्वप्रसङ्गात्तदर्थं प्रवृत्तस्याधिकरणस्य शास्त्रेणोपौद्घातिकी सङ्गतिरस्ति तथापि सात्र न विवक्षिता । तथात्वे तस्या वक्ष्यमाणरीत्याऽध्यायपादाभ्यामपि सत्वेन शास्त्रसङ्गतिरस्ति अध्यायपादसङ्गतिर्नास्तीति वक्तुमयोगात् । अत एव न्यायविवरणटीकायां तद्विजिज्ञासस्वेति वाक्यार्थविचारपरत्वाद्वेदार्थमीमांसा-शास्त्रान्तर्गतमपि भवतीत्यन्तर्भावसङ्गतिरेवोक्ता । सुधायामपि अत एवास्य न शास्त्रबहिर्भाव इत्युक्तम् । किमर्थं जिज्ञासाया कर्तव्यत्वमत्र समर्थनीयमित्यत आह ॥ अन्यथेति ॥ जिज्ञासाया अकर्तव्यत्वे जिज्ञासाकारणीभूतन्यायग्रथनात्मकशास्त्रस्यानारम्भणीयत्वप्रसङ्गादित्यर्थ । ननु
शास्त्रेऽध्याये तथा पादे श्रुत्याऽधिकरणेन च ।
सङ्गति पञ्चधा प्रोक्ता सर्वाधिकरणेष्वपि ॥
इत्याद्युक्ते कथं शास्त्रसङ्गतिरेव प्रदर्श्यत इत्यत आह ॥ अध्यायपादसङ्गतिस्त्विति ॥ पञ्चाधिकरण्या अध्यायपादप्रतिपाद्यसमन्वयतद्विशेषाप्रतिपादकत्वेन तदुभयान्तर्भावासम्भवादिति भाव । ननु चतुर्थसूत्रे समन्वयादिति साक्षात्समन्वयोऽभिहित । तमेव समन्वयं प्रकटयतीत्यानन्दमयनयभाष्ये अध्यायशेषस्य समन्वयप्रपञ्चकत्वमुक्तं, सुधायां च समन्वयसूत्रेणाध्यायशेषस्य प्रपञ्च्यप्रपञ्चक-भावसङ्गतिरित्युक्तम् । तथेक्षतिनये तदभावे कुतोऽन्वय इत्यनुव्याख्यानोक्तरीत्या समन्वयसाधारण-हेतुवाच्यत्वसमर्थनं क्रियते । अत समन्वयेक्षतिनययोरपि अध्यायसङ्गतत्वेन कथमानन्दमयाधिकरण-मारभ्यैवेत्युक्तमिति चेत् । उच्यते । आनन्दमयनयमारभ्य सङ्गतिद्वयं ततोऽर्वाक्तनसमन्वयेक्षतिनययो पादमात्रेण सङ्गत्यभाव । अन्येषु त्रिषु चाध्यायेनापि सङ्गतेरभाव पञ्चाधिकरणीसाधारणोऽभिहित । एतत्सूचनार्थमेवाध्यायपादसङ्गतीति द्विवचने प्रयोक्तव्ये सङ्गतिरिति समुदायैकवचनं प्रयुक्तम् । पञ्चाधि-करण्या अध्यायपादानन्तर्भावे तदादौ निवेश कथमित्यत आह ॥ तत इति ॥ आद्यसूत्रे जिज्ञास्यतयोक्तब्रह्मणो द्वितीये लक्षणमभिधाय तृतीये तस्यातिव्याप्तिनिरासाय शास्त्रं प्रमाणीकृत्य चतुर्थे शास्त्रस्यान्यपरत्वनिरासाय सर्वशब्दसमन्वयमभिधाय संशब्दवाच्यत्वे पञ्चमे समर्थिते तदनन्तरमेव समन्वये आकाङ्क्षोदयात् पञ्चाधिकरण्या उपोद्घातरूपत्वेन समन्वयाध्यायस्य तदादिनामपादस्य चादौ निवेशो युक्त इत्यर्थ । नाधिकरणश्रुतिसङ्गतीति ॥ पूर्वनयेनोत्तरनयस्य सङ्गतिरधिकरणसङ्गति । पूर्वनयस्थविषय-वाक्येनोत्तरनयस्थविषयवाक्यस्य सङ्गति श्रुतिसङ्गति । तदुभयमुक्तरीत्या नास्तीत्यर्थ । ""विशयो विषयश्र्चैव पूर्वपक्षस्तथोत्तर । प्रयोजनं च पञ्चैते प्राञ्चोऽधिकरणं विदुरि’’त्युक्तेरधिकरणशरीरभूत-विषयादिपञ्चकं क्रमेण दर्शयति ॥ प्रारिप्सितेत्यादिना ॥ शास्त्रस्यैवानारब्धत्वात् कुत्र प्रवर्तनीयमित्यत उक्तम् ॥ प्रारिप्सिततया चित्तसङ्गतेति ॥ विषय विचारविषयीभूत संशयधर्मी । उभयविधेति ॥ अग्निहोत्रनिषिद्धहिंसयो कर्तव्यत्वाकर्तव्यत्वाभ्यां सहदृष्टव्यापारत्वाख्यसाधारणधर्मस्य जिज्ञासायां दर्शनं संशयकारणमित्यर्थ । अधिकारीति ॥ एतेषां प्रत्येकं हेतुत्वं चन्द्रिकातोऽवगन्तव्यम् । ननु विषयस्यादौ निराकरणात् तदादित्वेन निर्देश कार्य । न च सूत्रे अथशब्देनादावधिकारिण सूचितत्वात् तदादित्वेन निर्देश इति वाच्यम् । तर्हि तस्यैवादौ निरासप्रसङ्गात् । अतशब्दसूचितप्रयोजनस्य द्वितीयतया ब्रह्मशब्दसूचितविषयस्य तृतीयतया निर्देशप्रसङ्गश्र्चेति चेत् । उच्यते । सौत्रक्रमानुसारेणादावधिकारि-निर्देशेऽपि तन्निरासे विषयप्रयोजननिरासयोर्हेतुत्वेन तयो निर्देशवैपरीत्येन निराकरणं युक्तमिति ॥ न तावदिति ॥ प्रयोजनादि च निराकरिष्यामीत्याशयेन तावच्छब्द ॥ असन्दिग्धत्वादिति ॥ सन्दिग्धस्यैव विचार्यत्वादिति भाव । कुतोऽसन्दिग्धत्वमिति चेत् । अत्र प्रष्टव्यम् । ब्रह्म किं जीवभिन्नं किञ्चिदस्त्युत जीव एव । नाद्य इत्याह ॥ प्रमाणाभावेनेति ॥ प्रत्यक्षानुमानयोस्तत्रासामर्थ्येन कर्मकाण्डस्य कर्मपरत्वेन वेदान्तस्य जीवपरत्वेन जीवातिरिक्ते ब्रह्मणि न मानमिति भाव । द्वितीये त्वाह ॥ जीवस्येति ॥ तत किमित्यह आह ॥ न हीति ॥ सन्दिग्धे सन्देहवान् भवति । निश्र्चयस्य संशयविरोधित्वादिति भाव ॥ अनुभवादिति ॥ अस्यानुभवस्यात्मस्वरूपत्वेन तत्प्रकाशितस्य स्वप्रकाशितत्वादिति भाव । नायमनुभव आत्मस्वरूप किन्तु तदतिरिक्तमनोजन्य एव । अत आत्मनोऽन्यप्रकाशितत्वेन न स्वप्रकाशितत्वमिति मतमपाकरोति ॥ न चेति ॥ तस्यापीति ॥ अज्ञायमानत्वपक्षे दूषणस्य वक्ष्यमाणत्वेन मानसानुभवस्य केनचिदनुभवेन ज्ञायमानत्वं वाच्यम् । एवं तस्यापीत्यनवस्थेत्यर्थ ॥ कस्यचिदिति ॥ तथाच तज्ज्ञानायानुभवान्तरानन्वेषणान्नानवस्थेति भाव । तत् स्वप्रकाशत्वं लाघवादिति भाव । ननु यदाऽनुभवं ज्ञास्यामीति जिज्ञासा तदैव तज्ज्ञानायानुभवान्तरान्वेषणं जिज्ञासा च सन्देह-दशायामेव । तथाच यदा कोटिस्मरणादिविरहेण सन्देहानुदयस्तदा तदधीनजिज्ञासाया अप्यभावेन नानुभवान्तरान्वेषणमतो नानवस्थेत्याशङ्क्य निराकरोति ॥ जिज्ञासायामेवेति ॥ अनुभवविरोधादिति ॥ सुखं ज्ञास्यामीति जिज्ञासाभावेऽपि यथा सुखमनुभूयते तथा घटानुभवानन्तरमनुभवं ज्ञास्यामीति जिज्ञासाभावेऽपि घटज्ञानवानहमित्यनुभवसद्भावेन जिज्ञासायामेवानुभवस्य ज्ञायमानत्वाङ्गीकारे ज्ञानस्य अजिज्ञासितग्राह्यत्वानुभवविरोध इत्यर्थ । ननु मानसानुभवो न ज्ञायत एवातोऽनानवस्थेत्यत आह ॥ न हीति ॥ केनचित्प्रमाणेन ज्ञेयस्यैव सत्यत्वेन सर्वथाऽज्ञेयत्वे असत्वस्यापरिहार्यत्वादिति भाव । न ब्रूमो वयमात्मनो मानसानुभववेद्यत्वं येनानवस्था किन्तु स्वप्रकाशसंविदाश्रयतयाऽऽत्मा भासत इति प्राभाकरशङ्कामपाकरोति ॥ न चेति ॥ सौषुप्तिकानुभवेति ॥ सुषुप्तौ जायमानात्मानुभवेत्यर्थ । इष्टापत्तिपरिहारायोक्तम् । औत्तरिकानुस्मृतिसिद्धेति ॥ सुषुप्त्युत्तरकाले खल्वेतावन्तं कालं सुखमहमस्वाप्समिति स्मृतिर्भवति सा चानुभवपूर्वकत्वात् सुप्तावात्मानुभवं गमयतीति भाव । ननूक्त-ज्ञानस्यात्मादिविषयकत्वेन साक्षिरूपत्वात्कथं स्मृतित्वं मनोजन्यज्ञानस्यैव स्मृतित्वादिति चेत् । सत्यम् । अतीतकाले अनुभूतार्थविषयकत्वसारूप्येण साक्षिज्ञाने स्मृतिशब्दव्यवहारोपपत्ति । आजन्म मरणं स्मृत्वा मुक्ता हर्षमवाप्नुयुरिति छान्दोग्यभाष्योदाहृतस्मृतौ मुक्तस्वरूपज्ञाने स्मृतिशब्दप्रयोगात् । कुत इत्यत आह । न हीति ॥ गृहीत एव प्राणो भवति गृहीता वाक् गृहीतं चक्षुरिति श्रुत्या सर्वेन्द्रियो-परमावगमेनातिरिक्तसंविदभावान्न तदाश्रयतयाऽत्मभानमिति भाव ।
आत्मातिरिक्तेति । मुक्तात्मस्वरूपसंविदैव सौषुप्तिकानुभव समाधेय इति सूचयति । किं चात्मा न संविदाश्रयतया भासते संविद्रूपत्वात्संविद्वदिति दूषणान्तरं प्राभाकरमते चाह ॥ संविदात्मकत्वादिति ॥ नन्वात्मनो विषयत्वं निराकुर्वता यथाकथञ्चिदात्मसिद्धिर्वक्तव्या । सा च स्वप्रकाशत्व इव मानसानुभववेद्यत्वे स्वप्रकाशसंविदाश्रयतया भाने वा समाना । अतोऽत्र तदुभयनिराकरणं व्यर्थमिति चेत् । सत्यम् । जीवव्यतिरिक्तेश्र्वराभावात्तस्य च स्वप्रकाशत्वेन नित्यसिद्धत्वादिति न्यायविवरणोक्तस्वप्रकाशत्वसमर्थनार्थमेव मानसानुभववेद्यत्वादिति मतनिराकरणं कृतम् । न चेति ॥ प्रयोजनं चेति सम्बन्ध ॥ ज्ञायमानेऽपीति ॥ जीवाख्ये ब्रह्मण्यहमिति ज्ञायमानेऽप्यैहिकामुष्मिकफलानुपलम्भादित्यर्थ ॥ विषयेति ॥ यो हि यत्प्रयोजनमुद्दिश्य यं विषयं जिज्ञासते तस्यैव तत्राधिकारित्वादिति भाव । अत एव सम्बन्धिभूतत्रितया-भावादेव । अत विषयाद्यभावात् । पूर्वपक्षफलमाह ॥ नैतदिति ॥ आद्य इतिशब्दो हेतौ । द्वितीय पूर्वपक्षसमाप्तौ ॥
ॐ अथातो ब्रह्मजिज्ञासा ॐ ॥ अत्रौङ्कारो बुद्ध्या विविक्तेन ब्रह्मेत्यनेनान्वीयते । तथाच । अथाध्ययनशमदमादिरूपाधिकारसम्पत्त्यनन्तरम् । अत अकारशब्दवाच्यात् प्रसन्नात् ब्रह्मणो ज्ञानजन्य-प्रसादजन्यमोक्षाख्यफलसत्वात् । ओं ब्रह्मणो गुणपूर्णस्य विष्णो जिज्ञासा श्रवणमनननिदिध्यासनरूपा कर्तव्येत्यर्थ । ओंब्रह्मशब्दयोरपि योगेन गुणपूर्तिवाचित्वेऽपि एकस्य रूढित्वमाश्रित्य विशेष्य-वाचित्वेनान्वय । आत्मेति तूपगच्छन्तीत्यत्रेव द्रष्टव्य । तत्रात्मशब्दस्यावृत्तिमङ्गीकृत्यैकस्य स्वामित्वार्थ-कत्वमपरस्य विष्णुरूपविशेष्यवाचित्वं चाङ्गीकृत्यान्वयस्य वक्ष्यमाणत्वात् । ब्रह्मशब्दमात्राद्विषयसिद्धावपि ब्रह्मणि वेदरूपप्रमाणसूचनाय तद्य्वाख्येयौंकारग्रहणम् ॥ अवश्यमिति ॥ तस्याविघ्नपरिसमाप्त्यादि-फलकत्वादिति भाव ॥ न च सूत्रकारस्य विघ्नशून्यत्वात् तत्करणमनर्थकमिति वाच्यम् । शिष्यशिक्षार्थ-त्वात् । अन्यथा भारतादौ न कुर्यात् ॥ तत्परतयेति ॥ मङ्गलफलतयेत्यर्थ । न तु तदभिधायकतयेति । अथशब्दस्य श्रुतितो माङ्गिलकत्वेन मङ्गलाभिधायकत्वाभावात् । अथशब्द श्रुत्या मङ्गलप्रयोजनक इति सुधाग्रन्थाच्च । मङ्गलस्य वाक्यार्थान्वयाच्च । तस्याभिधेयमाहेत्युत्तरग्रन्थस्वारस्याच्च । अत एव तत्फलतयेति क्वचित्पाठ । ततश्र्च मङ्गलार्थ इत्यर्थशब्द प्रयोजनवचन इति भाव ॥ योग्यतयेति ॥ आनन्तर्यप्रतिपत्तावबधित्वसामर्थ्येनेत्यर्थ । मङ्गलोक्त्यादेरिति । मङ्गलप्रयोजनकशब्दोऽत्र मङ्गलत्वेन विवक्षित । उक्तिरुच्चारणम् । क्वचिन्मङ्गलाचारादेरिति पाठ । आदिपदेनाधिकारानन्तर्यादिप्रतिपादनम् । शब्दान्तरेणेति ॥ तत्प्रयोगेणेत्यर्थ । अत्रेत्यनुवाद । प्रथमप्रयोज्यत्व इति व्याख्या । तदिति परामर्शघटनाय नियामकं प्रस्तावयति ॥ नियामकेनेति ॥ यादृच्छिकम् ईश्र्वरेच्छया प्राप्तम् । ""यदृच्छा हि तदिच्छा स्यादि’’त्युक्ते । अनियतमिति यावत् । अतो न नियामकापेक्षेति भाव ॥ यत इति ॥ निखिलानीत्यस्यैव विवरणं नियत्यैवेति भाव । अथातो ब्रह्मजिज्ञासा । अथातो धर्मजिज्ञासा । अथातो दैवीमीमांसा । अथातो दर्शपूर्णमासावित्यादिसम्भावितनिखिलानीति बोध्यम् । तेन पाणिनीयसूत्रादौ न व्यभिचार शङ्क्य । किं नियामकमित्येतद्विवरणपरतयोत्तरग्रन्थं योजयति ॥ नियामकं चेत्यादिना ॥ अवश्यवक्तव्यार्थत्वमिति ॥ अर्थस्यादौ वक्तव्ये तत्प्रतिपादकशब्दस्यापि प्रथमं प्रयोक्तव्यत्वमिति भाव । स्वरूपत अर्थत उत्तमत्वमनपेक्ष्य । अर्थत अर्थाधिक्यमनपेक्ष्य ॥ आक्षिपतीति ॥ तथाच न कथमपीति योज्यमिति भाव । अत्रावश्यवक्तव्यार्थत्वाधिक्ययोस्तदभावयोश्र्च लोके शब्दान्तरेषु दर्शनादथशब्दादौ तत्सन्देहेन प्रश्र्नसम्भवात्प्रथमतृतीययो पृच्छतीत्युक्तम् । स्वरूपाधिक्यस्य शब्दान्तरेष्वदर्शनादथशब्दादौ तदाक्षेप इति द्वितीये आक्षिपतीत्युक्तम् । अत एव तत्र शब्दान्तरस्येत्यादिना मूलाभिप्रेतो हेतु प्रदर्शित । हेत्वर्थ इति भाष्ये हेतुत्वार्थक इत्यर्थ । अत प्रसादात् ब्रह्मप्रसादादित्यर्थ । कथं लभ्यत इत्यतोऽतशब्दार्थमाह ॥ अकारशब्दवाच्याद्विष्णो-रिति ॥ पञ्चम्यर्थे तसिरिति भाव । पर्यवसितमाह ॥ तत्प्रसादादिति ॥ प्रसन्नादिति योग्यतया लाभादिति भाव । जिज्ञासादि कार्यमिति शेषोक्ति । अकारशब्दवाच्यत्वं विष्णो कुत इत्यत आह ॥ अ इतीति ॥ ब्रह्मपदोदितश्रुतिसूचनाभावे विष्णोरित्येव ब्रूयादिति भाव ॥ स हीति ॥ जिज्ञासाया अपि मनोवृत्तिविशेषत्वात्तदर्थं तत्प्रसादादिरावश्यक इति भाव । प्रथमं निसृतत्वमेव प्राथम्ये हेतुत्वेनोच्यते न तु स्वरूपत उत्तमत्वमत आह ॥ अत स्वरूपोत्तमाविति ॥ ननु ओंकाराथ-शब्दौ स्वरूपोत्तमौ हरे प्रथमं निसृतत्वादित्यनुमाने य शब्दो हरे प्रथमं निसरति स उत्तम इति व्याप्तौ दृष्टान्तो नेत्यत आह ॥ यत्स्वजाताविति ॥ मधुकैटभादेश्र्चतुर्मुखादप्याधिक्यनिरासाय स्वजाताविति । इति न्याय सामान्यन्याय । यथा देवेषु चतुर्मुख इति दृष्टान्तसम्भवात् न तु विशिष्येति भाव । शब्दान्तरस्य स्वरूपत उत्तमत्वादर्शनात्कथमनयोस्तदिति शङ्कानिरासाय सिसृक्षो-रित्यादि भाष्ये ओंकारस्य स्वरूपोत्तमग्रहणमिति ध्येयम् । अतशब्दस्य तृतीयत्वेनोदाहरणे स्वरूपोत्तमत्वं कथमित्यत आह ॥ अतश्र्चेति ॥ अतशब्दार्थ इत्यर्थ ॥
प्राथमिक इति ॥ अनेन प्राथमिकावित्यस्य वचनव्यत्यासेनानुषङ्ग इत्युक्तं भवति ॥ तृतीयतयोदाहृत इति ॥ अनेन तृतीयोदाहृतशब्दयोरावृत्तिरित्युक्तं भवति ॥ इत्यत इति ॥ अनेन तन्त्रन्यायेनातशब्दस्य हेतुपरत्वं चास्तीत्युक्तं भवति । परस्य ब्रह्मण इति द्वितीयव्याख्यानानुसारेणाह । तस्य विष्णोरिति ॥ हेत्वर्थे समुदीरित इति प्रथमव्याख्यानानुसारेणाह ॥ तस्य जिज्ञासादेरिति ॥ मनोवृत्तिशब्देन जिज्ञासाया अपि प्रकृतत्वादिति भाव । व्यत्यासप्रश्र्नपरस्येत्यादिनोक्तस्य समीपस्थत्वेन तत्परामर्शस्वारस्यसूचनाय कृत ॥ अनुवाद इति ॥ प्रागुक्तमेव हेत्वर्थकत्वम् अधिकविधानायानूद्यते न पुनरत्र विधीयते तेन हेत्वर्थे समुदीरित इत्यादिना न पौनरुक्त्यमिति भाव । स्वरूपैक्यानुपपत्तेराह ॥ सर्ववागर्थेति ॥ सर्वासां वाचामर्थभूतं यद् गुणपूर्णत्वं तदभिधायकतयेत्यर्थ । अकारो वै सर्वा वागित्यैतरेय-वाक्यव्याख्यानावसरे तद्भाष्ये
"अन्येऽपि शब्दा सर्वेऽपि ह्यकारार्थाभिधायिन ।
तस्मादकार एवायं सर्ववागात्मक श्रुत ।
तस्मात्सर्वगुणान्विष्णोरकारो वक्ति यत्प्रभो ॥’
इत्युक्तत्वादर्थैक्याभिप्रायेणैक्यव्यपदेश । हेतुगर्भं चैतदिति भाव । परब्रह्माभिधायक इति ॥ गुणपूर्णत्वस्यैव परब्रह्मशब्दार्थत्वादिति भाव । प्राणशब्दस्य वायौ प्रसिद्ध्यनुसारेणाह ॥ प्राणदैवत्या-विति ॥ तस्य विष्णुपरत्वमभ्युपेत्याह ॥ भगवद्वाचकाविति ॥ भाष्ये अत सातत्यगमने ष्ठा गतिनिवृत्ता-विति स्मरणात् । क्रमेण व्याप्तिस्थितिविधायकावित्यर्थ । व्याख्यानद्वयेऽपि कथं प्राणात्मकावित्यैक्य-व्यपदेश इत्यत क्रमेणोभयत्र प्रयोगौ प्रदर्शयति ॥ अभिमानीति ॥ विज्ञानतत्त्वं महत समुत्पन्नं चतुर्मुखादित्यादौ महत्तत्वाभिमानिनश्र्चतुर्मुखादिति वक्तव्ये महतश्र्चतुर्मुखादिति प्रयोगो यथा तथेत्यर्थ ॥ अयं वै लोक इति ॥ परमैश्र्वर्यादिसम्पन्नमहार्थप्रतिपादकत्वेन महच्छब्दितेन्द्रादिनामास्यामस्तीति महानाम्नीसंज्ञका प्रथमा विदा मघवन्नित्यादिका ऋगयं लोक भूलोकस्थविष्णुवाचकेत्यर्थ । प्रथमा या महानाम्नी तद्वाच्य पार्थिवो हरिरिति कर्मनिर्णयोक्ते ॥ उपसंहार इति ॥ अतस्तस्मात्प्राथ-मिकावित्यादिना न पुनरुक्तिरिति भाव ।
विवृति
अध्यायपादसङ्गतिस्त्विति ॥ यद्यप्येतदधिकरणाभावे शास्त्रस्येव तदध्यायपादयोरप्यारम्भासम्भव तथापि सिद्धे शास्त्रारम्भे पुनरध्यायाद्यारम्भाक्षेपस्यानेन समाधानात् शास्त्रेणैव न ताभ्यामौपोद्घातिकी सङ्गतिरित्यर्थ । यद्वा, तद्विजिज्ञासस्वेत्यादि ब्रह्मविचारविधायकवाक्यार्थनिर्णायकन्यायव्युत्पादकत्वाद्-ब्रह्मविचाररूपेण शास्त्रेणान्तर्भावसङ्गतिर्न तथाऽध्यायपादाभ्यां समन्वयाप्रतिपादकत्वादित्यर्थ ॥
ननु तथाप्यानन्दमयाधिकरणमारभ्येति कथम् । समन्वयसूत्रे साक्षात्समन्वयोक्ते ॥ समन्वय-सूत्रेणाध्यायशेषस्य प्रपञ्चस्य प्रपञ्चकभावसङ्गतिरिति सुधाग्रन्थाच्चात्राध्यायसङ्गते सत्वात् ॥ ईक्षत्यधिकरणे समन्वयासाधारणहेतुवाच्यत्वसमर्थनेन तस्मिन्नपि तस्या सत्वात् ॥ तदभावे कुतोऽन्वय इत्यनुव्याख्याने, वाच्यत्वस्य समन्वयहेतुत्वेनोक्तत्वादिति ॥ उच्यते ॥ वैदिकानां शब्दानां ब्रह्मणि उपक्रमादिप्रमाणक शक्तितात्पर्यलक्षणसम्बन्ध समन्वय । स च न समन्वयसूत्रव्युत्पाद्य । तत्र तत्प्रमाणस्यानुक्ते । किन्तु व्युत्पादयिष्यमाण स शास्त्रयोनित्वे हेतुत्वेन सिद्धवदुपन्यस्त ॥ ईक्षत्यधिकरणे च अवाच्यत्वप्रयुक्तासम्भावनाशङ्कैव निरस्ता, समन्वयस्तु न व्युत्पादित इति न तयोरध्यायपादाभ्यामन्तर्भाव-लक्षणा सङ्गति । यद्वा आनन्दमयमारभ्य सङ्गतिद्वयं ततोऽर्वाक् समन्वयेक्षत्यो पादमात्रेण सङ्गत्यभाव अन्येषुत्वध्यायेनापीति सङ्गत्यभाव पञ्चाधिकरणीसाधारण । अत एवाध्यायपादसङ्गतिरिति समुदायैकवचनम् । अध्यायपादपीठत्वादिति ॥ पञ्चाधिकरण्या समन्वयविशेषाप्रतिपादकत्वा-दध्यायान्तर्भावासम्भवेपिऽविचारकर्तव्यताया प्रथमप्रतिपाद्यत्वाद्वक्ष्यमाणक्रमेण चतुरधिकरण्या बद्धक्रमत्वात्तदनन्तरमेव समन्वये आकाङ्क्षोदयात्तदाकांक्षोत्थापकतया समन्वयाध्यायस्य तदादि नामपादस्य चादौ निवेशो युक्त इत्यर्थ ॥ नाधिकरणश्रुतिसङ्गती चेति ॥ पूर्वाधिकरणतद्विषयवाक्याभ्यां सङ्गती नेत्यर्थ । ननु शास्त्रं सिद्धमसिद्धं वा । आद्ये विषयस्य सिद्धत्वात्कथं तत्कथनमनुपयुक्तम् ॥ द्वितीये शास्त्रस्यैवासिद्धत्वात्तत्कथनमनुपयुक्तम् ॥ विषय कथ्यत इत्यत आह ॥ चित्तसङ्गतेति ॥ सयुक्तिकं पूर्वपक्षमाह ॥ न कर्तव्येतीति ॥ न तावद्ब्रह्मेति ॥ नापि प्रयोजनादीति तावच्छब्द । न तु नाप्यब्रह्मविषय इति । अब्रह्मणो विषयत्वनिराकरणादिति ध्येयम् ॥ असन्दिग्धत्वादिति ॥ सन्दिग्धस्यैव विषयत्वादिति भाव ॥ ननु नासन्दिग्धत्वं ब्रह्मण, तस्य जीवव्यतिरिक्तत्वेन प्रत्यक्षाद्यविषयत्वात् ॥ तथा च कुतो न विषयत्वमित्यत आह ॥ प्रमाणेति ॥ यदि हि जीवव्यतिरिक्तं ब्रह्मास्तीति स्यात्तदा सन्दिग्धत्वेन विषयत्वं स्यात् । न चैवम् ॥ जीवव्यतिरिक्तेश्र्वरसद्भावे प्रमाणाभावादिति भाव ॥ प्रमाणेति ॥ अस्तु जीवाभिन्नत्वं तथापि जीवस्य सन्दिग्धत्वाद्विषयत्वं सम्भविष्यतीत्यत आह ॥ जीवस्य चेति ॥ किमनुभवो जिज्ञासितग्राह्य उत अजिज्ञासितग्राह्य इति विकल्पं मनसि निधायाद्ये दोषमाह ॥ तस्यापीति ॥ द्वितीयं शङ्कते ॥ जिज्ञासायामेवेति ॥ जिज्ञासा च न सर्वत्रेति । तथा च नानवस्थेति भाव ॥ अनुभवविरोधादिति ॥ ज्ञानस्य सुखदुखादिवज्जिज्ञासाभावेऽप्यनुभवात् । अन्यथा जिज्ञासाया ज्ञानाख्यधर्मिज्ञानसाध्यत्वानुभवादनवस्थेति भाव ॥
ननु न ज्ञानमात्रमजिज्ञासितग्राह्यं, येनानवस्था, नापि जिज्ञासितग्राह्यं, येनानुभवविरोध, किन्तु किञ्चित् ज्ञानं कदापि न ज्ञायत एवेति न कोऽपि दोष इत्यत आह ॥ न हीति ॥ संविदात्मकत्वा-दिति ॥ आत्मा, न संविदाश्रयतया प्रतीयते, संविदाश्रयकत्वात्, संविद्वदिति प्रयोगो द्रष्टव्य । न चासिद्धि । औत्तरीयकानुस्मृत्यैव तस्य सिद्धत्वादिति भाव । तदभावादेव विषयेति ॥ यत्प्रयोजन-मर्थयमानो यं विषयं जिज्ञासते स तत्राधिकारीति विषयप्रयोजनयोरधिकारिव्यापकत्वादिति भाव । अत एव सम्बन्धिनामभावादेव ॥ तत्परतयेति ॥ अस्माभिरप्यनन्तर्याभिधेयोऽथशब्द श्रुत्या मङ्गल-प्रयोजनक इत्यङ्गीकृतत्वादिति सुधानुसारान्मङ्गलप्रयोजनतयेत्यर्थ । न तु तत्परतयेति । अत एव "तस्याभिधेयमर्थमाह’ इति वक्ष्यति ॥ तथा चाथशब्दो मङ्गलार्थ इति भाष्येऽथशब्द प्रयोजनवचन इति भाव ॥ तत्फलतयेति पाठस्तु समीचीन एव ॥ मङ्गलोक्त्यादेरिति ॥ मङ्गलप्रयोजनकाथशब्दो मङ्गलत्वेन विवक्षित तस्योक्तिरुच्चारणं, आदिपदेनाधिकारानन्तर्यादिप्रतिपादनम् । अन्यथा मङ्गलाद्युक्तेरित्यवक्ष्यदिति ॥ अथातशब्दपूर्वाणीति भाष्योदाहृत(वाक्ये) श्र्लोके सूत्राणीति बहुवचनस्य त्रित्वे पर्यवसानवारणाय निखिलानीत्युक्तम् । न चैतन्निखिलानां सूत्राणामथातशब्दपूर्वकत्वं यादृच्छिक-मित्यत उक्तम् ॥ नियत्यैवेति ॥ बुद्धिपूर्वकमित्यर्थ । अभियुक्ता हि बुद्धिपूर्वकमथातशब्दौ प्रयुञ्जते, न चैतत्कथं ज्ञायते, तच्च सर्वएते सतां मता इत्युपुसंहारेणैवेति । नन्वेतदथातशब्दपूर्वकत्वमसिद्धमित्यत उक्तम् अपीति ॥ सूत्राणामथात शब्दपूर्वकत्वं निश्र्चितमित्यर्थ । न चैतत्केननिश्र्चितमिति वाच्यम् ॥ निरुपाधिकसहचारदर्शन व्यभिचारादर्शनाभ्यामेवेति भाव ।
ननु निखिलानि सूत्राणि अथातशब्दपूर्वकाणीत्यसङ्गतम् । उत्तरसूत्रेषु तदभावात् । न च निखिलान्यादिसूत्राणीति विवक्षितमिति वाच्यम् । एवमपि, वृद्धिरादैजिति पाणिनीयसूत्रे तदभावात् । तथा च कथमिदमिति चेत् न । वेदार्थनिर्णायकादिसूत्रावच्छेदेनाथातशब्दपूर्वकत्वस्य विवक्षितत्वात् । एवं चोत्तरसूत्रादेरादिसूत्रत्वाभावान्न दोष ॥ पाणिनीयसूत्रस्य, प्रकृतिप्रत्ययव्युत्पादनेन शब्दमात्र-निर्णायकत्वेन, वेदार्थनिर्णायकसूत्रत्वाद्यभावात् गौतमसूत्रादावपि न प्रसङ्ग । वेदार्थनिर्णायकत्वाभावादेव । अथातो दर्शपूर्णमासौ व्याख्यास्याम, इत्यत्र तु अनेन मन्त्रेणेदं कर्म कर्तव्यमिति कर्मरूप-वेदार्थनिर्णायकत्वात् अथातशब्दपूर्वकत्वाच्च न कोऽपि दोष इति सर्वमनवद्यम् ॥ अखिलानीत्यस्यैव विवरणं नियत्यैवेतीति भाव ॥ तथा च भाष्ये अथ च अतश्र्च अथात अथातश्र्च तौ शब्दौ च अथातशब्दौ, तौ पूर्वे एषान्तानीति विग्रह इति भाव ॥ द्वितीयमाक्षिपतीति ॥ अवश्यवक्तव्यार्थ-त्वार्थाधिक्ययोस्तदभावयोश्र्चशब्दान्तरेषु दर्शनादथशब्दे तत्सन्देहेन प्रश्नमात्रसम्भवेन प्रथमतृतीययो पृच्छतीत्युक्तम् । द्वितीये तु स्वरूपाधिक्यस्य शब्दान्तरेष्वदर्शनादथशब्दे तदाक्षेप इति भाव । अत एव शब्दान्तरस्येत्यादिना मूलाभिप्रेतो हेतु प्रदर्शित ॥ कथंशब्द प्रश्र्नार्थ उत्तमशब्दस्तूत्तमार्थ क इत्यभिप्रेत्य कथमित्यादिकं प्रकारान्तरेण व्याचष्टे । तृतीयेऽपि पृच्छतीति ॥ प्रथमं निसृतत्वेऽपि स्वरूपोत्तमत्वं कुत इत्यत आह ॥ यत्स्वजाताविति ॥ अत्र सामान्यव्याप्तिरेवानुसन्धेया ॥ यथा देवेषु चतुर्मुख इति दृष्टान्तसम्भवात् ॥ न तु य शब्द इति विशेषव्याप्ति । दृष्टान्ताभावादिति भाव ॥ नन्वथातशब्दयो प्राथम्यस्यैव पृष्टत्वात्तत्प्राथम्यमेवोपपादनीयं, ओङ्कारप्राथम्योपपादनं क्वोप-युक्तमिति वाच्यम् । तस्यापि प्रथमं हरेर्निस्सृतत्वेन प्रसङ्गात्तत्कथनमिति भाव । अत इत्यस्यात शब्दपरत्वं हेतुपरत्वं असकृदावृत्तित्वं, तृतीय उदाहृत इत्यनयोरावृत्तिं, प्राथमिकावित्यस्य वचनव्यत्ययेनासङ्गं चाभिप्रेत्य व्याचष्टे ॥ अतश्र्च तृतीयतयेति ॥ अकार सर्ववागात्मेत्यत्राकारस्य सर्ववागर्थप्रतिपादकत्वमेव, सर्ववागात्मकत्वं, सर्ववागात्मेत्यस्य हेत्वर्थत्वं चाभिप्रेत्याह ॥ सर्ववागर्थेति ॥ अभिधायकतयेतीत्थम्भूतलक्षणे तृतीया ॥ प्राणशब्दस्य विष्णुपरत्वमभिप्रेत्याह ॥ भगवद्वाचकाविति ॥ महतश्र्चतुर्मुखादिति ॥ महत्तत्वाभिमानिचतुर्मुखादित्यर्थ ॥ अयं वै लोक इति ॥ महानाम्नीसंज्ञिका विदा मध्घवन्नित्यादिका ऋक् पृथिवीलोकस्थविष्णुवाचिकेत्यर्थ ।