ॐ नानाशब्दादिभेदात् ॐ
३८. नानाशब्दाधिकरणम्
सूत्रभाष्यम्
।। ॐ नानाशब्दादिभेदात् ॐ ।। ६० ।।
‘शब्दोऽनुमा तथैवाक्षो योग्यताभेदतस्सदा ।
ब्रह्मादीनामेकमर्थं बहुधा दर्शयन्ति हि ।।
अतः पूर्णत्वमीशस्य नानैवैषां प्रदृश्यते ।
अतः फलस्य नानात्वं नानैवोपासनं(ना)यत’ इति ब्रह्मतर्के ।
अतो भूमत्वमपि नानैवोपास्यते ।
तत्त्वप्रदीपिका
यथा नाधिकारिभेदात्तत्र तत्र सवनत्रयस्य भेदः । एवं सर्वाधिकारिणामप्येकरूप एव भूमगुणोऽ-पीत्यत आह– नाना शब्दादिभेदात् ।। शब्दोऽनुमाऽक्ष इत्येतानि प्रमाणानि । त्रीणि चैतानि योग्यताविशेषात् । ब्रह्मादीनामेकैकमर्थं बहुधा दर्शयन्ति । अत ईशस्य पूर्णत्वं शब्दादिदृश्यं नानैव प्रदृश्यते । योग्यताविशेषादेव । न च क्रतुवदेकरूपत्वमिति वाच्यम् । सर्वसाम्याभावात् । विवक्षित-साम्येन दृष्टान्तत्वोपपत्तेः । उक्तिक्रमभेदस्तु प्रमाणानां श्रवणादिक्रममपेक्ष्य युज्यते । श्रुत्वा वेदार्थं तदनुकूलतर्कैः प्रतिकूलतर्कान् परिहृत्य ध्यानानन्तरं पश्यतीति ।
तत्त्वप्रकाशिका
अत्र ब्रह्मासाक्षात्कारसाधनभूमोपासनेऽधिकारिणां विशेषसमर्थनादस्ति शास्त्रादिसङ्गतिः । अविशेषे तूक्तानुपपत्तेरसौ समर्थनीयः । प्रकृतभूमगुण एव विषयः । किमधिकारिणामुपासने तारतम्येन प्रतीयते एकप्रकारेण वेति सन्देहः । उभयविधवस्तुप्रतीतिः सन्देहबीजम् । सर्वेषां भूमत्वमेकप्रकारेण प्रतीयत इति पूर्वः पक्षः । भूमत्वे विशेषकल्पनायोगात् । न हि केषाञ्चि-त्सम्यक्पूर्णानन्द इति केषाञ्चित् पूर्णानन्द इत्युपासनं युक्तम् । तथात्वे मिथ्योपासनप्रसङ्गात् । मिथ्योपासनस्यानर्थहेतुत्वात् । अतः सर्वेषामेकप्रकारेण भूमत्वोपासकत्वान्नोक्ततारतम्यमिति । सिद्धान्तयत्सूत्रं पठित्वा स्मृत्युदाहरणपूर्वकं व्याचष्टे ।। नानेति ।। भूमत्वमुपासनेऽधिकारिणां नानाप्रकारेणैव प्रतीयते । शब्दादिभिः प्रमाणैस्तत्प्रतीतेरेष्टव्यत्वात् । शब्दादीनां च प्रमाणा-नामधिकारिभेदेनानेकधैकैकार्थप्रतीतिजनकत्वान्नानोपासनाच्च फलतारतम्यमुपपद्यत इति भावः । तत्त्वनिर्णयो वेदार्थनियमोऽपरोक्षज्ञानं चेति क्रमभावीनि शब्दादिजन्यानीति शब्दादिक्रमः । न च भूमत्वे विशेषानुपपत्तिः । अतीतवत्सराणां मासानामानन्त्येऽपि विशेषवदत्राप्युपपत्तेः । अन्या-निषेधान्नान्यथोपासनम् । अतो भूमत्वदृष्टावधिकारिणां विशेषसद्भावाद्युक्तं तारतम्यमिति सिद्धम् ।
गुर्वर्थदीपिका
अधिकारिणां विशेषसमर्थनादित्यत्राधिकारिणां विशेषो नाम ब्रह्मा सर्वेभ्योऽप्यधिकां पूर्णतां भगवद्गुणेष्वनुसन्धत्ते । ततः किञ्चिदूनं रुद्रः । एवं मनुष्योत्तमपर्यन्तं पूर्णत्वोपासने अधिकारिणां तारतम्याख्यविशेषः समर्थ्यत इति भावः । शब्दानां चेत्यस्य मानुषं प्रति भुवं पश्येत्युक्ते भूशब्दः तद्योग्यप्रदेशविशेषमेव प्रत्याययति न सर्वम् । ततोऽप्यधिकदर्शनसमर्थं प्रति तावन्तं भागं न पाताादिभागम् । सर्वज्ञऋष्यादीन्प्रति तु सर्वं भागं प्रदर्शयति । एवं भूमशब्दोऽपीति भावः । अतीतवत्सरवासराणामित्यत्रानादिकालमारभ्यातीतवत्सरदिवसानामित्यर्थः । अव्यवहितवत्सर-वासरैस्सहाप्यनन्ता एवातीतवत्सरवासराः । ततः पूर्वतनवत्सरवासरैः सह तु येऽनन्ता अतीतवत्सरवासरास्तदानन्त्यं नैतदानन्त्यसदृशम् । एवं ततः पूर्वं ततः पूर्वमित्यानन्त्येऽप्यनन्ता अवान्तरविशेषाः सन्ति । तद्वदिति भावः । यद्वाऽतीतवत्सराणामप्यानन्त्यमस्ति । तदन्तर्गत-दिवसानामप्यानन्त्यमस्ति । तत्र वत्सरानन्त्याद्वासरानन्त्ये यथा विशेषोऽस्ति तद्वदिति भावः ।
भावबोधः
अधिकारिणां विशेषेति ।। पूर्वाधिकरणोपक्षिप्ते भूमगुणोपासने अधिकारिणां विशेष-समर्थनादनन्तरसङ्गतिरिति भावः ।। किमित्यादि ।। अत्र भूमत्वं किमधिकारिणामेकप्रकारेणैव प्रतीयते उत तारतम्येनेति चिन्ता । तदर्थं भूमगुणस्य नानात्वप्रतीतिः किं भ्रान्तिरुत प्रमेति । तदर्थं भूमत्वे नानात्वं नास्त्युतास्तीति । भूमगुणोपासकानामेकप्रकारेणैव प्रतीयत इत्यङ्गीकार्यं विशेषस्या-कल्पनोपपत्तेरिति न्यायविवरणानुसारेण पूर्वपक्षमाह– सर्वेषामित्यादिना ।। अधिकारिभेदेनेति ।। अनेन यावानेवाधिकारेष्विति न्यायविवरणोदाहृतस्मृतितात्पर्यमप्युक्तं भवति ।
ननु प्रत्यक्षस्य सर्वप्रमाणोपजीवित्वेन सूत्रे ‘प्रत्यक्षादिभेदात्’ इति वक्तव्यम् । यदि ‘तन्मुख्यं ज्ञानशब्दयोः’ इत्युक्तरीत्या करणेषु शब्दस्य प्राधान्यात् सूत्रे तदादित्वेन ग्रहणं तर्हि स्मृतावनुमानस्य शब्दानन्तरं तदनन्तरं च प्रत्यक्षस्य ग्रहणे किं निमित्तमित्यत आह– तत्त्वर्णय इति ।।
ननु प्रमाणान्यप्यविद्यमानमर्थं दर्शयेयुरित्याशङ्कां परिहरति– न चेति ।। ननूक्तमत्र भूमत्वे विशेषसद्भावे केषाञ्चित् सम्यक्पूर्णानन्दः केषाञ्चित् किञ्चित्पूर्णानन्द इति मिथ्योपासनमित्यत आह– अन्यानिषेधादिति ।।
भावदीपः
विशेषेति ।। पूर्वं सामान्येनोक्तस्यात्र विशेषविचारात्पूर्वसङ्गतिरपि सूचिता ।। उक्तेति ।। यावदधिकारमित्यादौ उक्तानन्दादितारतम्येत्यर्थः ।। उभयविधेति ।। किञ्चित् घटादिवस्तु सर्वेषामेकप्रकारेणैव प्रतीयते किञ्चिच्च शास्त्रार्थादिकं वस्तु तारतम्येन प्रतीयत इति भावः । भूमगुणः उपासकानामेकप्रकारेणैव प्रतीयत इत्यङ्गीकार्यम् । विशेषस्य कल्पनोपपत्तेरित्यन्यत्रोक्तं व्यनक्ति ।। सर्वेषामिति ।। तथात्व इति ।। किञ्चित्पूर्णानन्दत्व इत्यर्थः । एष परम आनन्दः । अनिर्देश्यं परमं सुखम् । ‘यतो वाचो निवर्तन्ते’ इत्यादेरीशानन्दस्य निरतिशयपूर्णानन्दत्वेन तरतमभावापन्न-पूर्णत्वस्याभावादिति भावः ।। अनर्थेति ।। ‘न प्रतीके न हि सः’ इत्यत्र तथा वक्ष्यमाणत्वादिति भावः ।। अत इति ।। भूमत्वे विशेषकल्पनायोगादित्यर्थः । अतो भूमत्वमपि नानैवोपास्यत इति भाष्यार्थं वक्तुमाह ।। भूमत्वमिति ।। अत इति भाष्यपदस्य स्मृत्युक्तार्थपरामर्शिनोऽन्यमप्यर्थमाह ।। शब्दादिभिरित्यादिना ।। शब्दानुमानप्रत्यक्षैरित्यर्थः । प्रदृश्यते । अत इत्युक्तस्मृत्यर्थं व्यनक्ति ।। शब्दादीनां चेति ।। स्मृतिशेषानुरोधेनात इत्यादिभाष्यं यतो भूमत्वमपि नानैवोपास्यते अतो नानोपासनात्फलतारतम्यमपि युक्तमित्यर्थतया प्रकारान्तरेण व्याचष्टे ।। नानोपासनाच्चेति ।। फलतारतम्यमिति ।। एतच्च सर्वेषां पूर्णत्वेऽपि ‘यथोदं च न कुम्भादेः सरित्सागरयोरपि । अल्पेन महता वापि पूर्तिर्योग्यतया भवेत्’ ।। ‘एवं नरादिब्रह्मान्तजीवानां साधनैरपि । अनादि-सिद्धैर्भक्त्याद्यैः पूर्तिर्योग्यतया भवेत्’ ।। ‘अल्पैः पूर्तिस्तथाल्पानां पूतिर्योग्यतया भवेत् इति प्रथमबृहद्भाष्योक्तदिशा ध्येयम् । सूत्रे अक्षादिभेदादिति वाच्ये शब्दादीत्युक्तिक्रमे बीजमाह ।। तत्वेति ।। वेदार्थं श्रुत्वा तदनुकूलतर्कैः प्रतिकूलतर्कान् परिहृत्य ध्यानानन्तरमपरोक्षतः प्रत्येतीति श्रवणमननध्यानफलक्रमात्क्रम इत्यर्थः । पूर्वत्र तन्निर्धारणार्थनियमस्तद्दृष्टेरित्यादिसूत्रे श्रवण-मननध्यानफलानां क्रमेण निर्देशात्तदनुकरणमेतत्तत्वनिर्णय इत्यादि । अर्थनियमोऽयमेवास्यार्थ इति नियम इत्यर्थः ।
ननूक्तमत्र भूमत्वे विशेषकल्पनायामेकैकस्मिन्नेवानन्दादिगुणे तत्तद्योग्यतरतमभावापन्न-भूमत्वस्याभावेन तथोपासने मिथ्योपासनाप्रसङ्ग इतीति भावेन प्रागुक्तशङ्कामनूद्य स्मृतौ तथोपासनेन फलस्य नानात्वमेवास्तीत्युक्तिलब्धसमाधिना निराह ।। न चेति ।। वत्सरेति ।। संवत्सरोऽनन्तः तन्मध्यपतितमासा अप्यनन्ताः । तथापि संवत्सरानन्त्यापेक्षया मासानन्त्यं तदपेक्षया वासराणा-मानन्त्यं ततोऽपि क्षणलवादीनामानन्त्यमधिकमिति सर्वानुभवसिद्धमिति । प्रकृतेऽपि भगवदानन्दा-द्येकैकगुणेऽपि बहून्यानन्त्यानि सन्त्येव । तथापि तत्तद्योग्यतानुरोधेन तानि तान्येवानन्त्यानि तं तमधिकारिणं प्रतिभान्ति ध्यानकाले । नान्यानि । यथाऽनन्तकोटिसूर्यप्रकाशोऽपि हरिरधिकारि-भेदेन सहस्रलक्षामितभास्करोपम इत्युच्यते तथेत्यर्थः । उक्तं च द्वितीयगीताभाष्यटीकायां सहस्रलक्षामितकान्तिकान्तमित्येतद्व्याख्यावसरे द्रष्ट्रपुरुषयोग्यताभेदात्त्रिधोक्तिरिति । विवृतमे-तद्वैशेषिकाधिकरणानुव्याख्यानसुधयोरणुत्वाविश्रान्त्युक्तिप्रकरणे । तच्च ब्रह्मपरं साक्षात्सर्वानन्त्ययुतं सदेत्यन्तेन ग्रन्थेन । ननु तावन्मात्रोपासने कथं न मिथ्योपासनमित्यत आह ।। अन्येति ।। एतावदेवास्यानन्त्यं नातोऽधिकमित्यनुपासनादित्यर्थः । तावत्त्वमेव नैव स्याद्देशेऽप्येतन्न नो मतमिति वैशेषिकनयानुभाष्योक्तेरिति भावः । अङ्गुष्ठमात्र इत्युपासनमपि व्यक्त्यपेक्षयैव । न तु वस्तुत इति हृद्यपेक्षयेत्यत्र व्यक्तम् । अत्र केनचिदर्वाचीनेनोक्तदूषणालग्नताप्रकारः कण्टकोद्धारे व्यक्तः । फलोक्त्या सूत्रार्थमुपसंहरति ।। अत इति ।। शब्दादिभेदादित्यर्थः । तदर्थः प्राग्विवृत शब्दादिभिरित्यादिना । नानेति सौत्रप्रतिज्ञायां भावप्रधानत्वं भूम्न इत्यनुवृत्तिं चोपेत्यार्थमाह ।। भूमत्वेति ।। उपासनाप्रकरणाद्दृष्टावित्युक्तम् ।
अभिनवचन्द्रिका
विशेषसमर्थनादिति ।। उपासने विशेषसमर्थनादित्यन्वयः ।। उक्तानुपपत्तेरिति ।। तारतम्यानुपपत्तेरित्यर्थः । उभयविधवस्तुप्रतीरिति ।। रत्नघटादिदर्शनं सन्देहबीजमित्यर्थः ।। न च भूमत्व इति ।। भूमत्वं हि निरवधिकपरिमाणम् । न च निरवधिकपरिमाणे उत्कृष्टत्वमपकृष्टत्वं नाम धर्मद्वयमुपपद्यते । ततश्च केषाञ्चित्सम्यक्पूर्णत्वस्य, केषाञ्चित् किञ्चित्पूर्णत्वस्य दर्शनानुपपत्तिरिति न वाच्यमित्यर्थः ।। अतीत इति ।। अतीतवत्सरवासराणामानन्त्येऽपि निरवधिकायामपि सङ्ख्यायां विशेषवदत्रापि विशेषोपपत्तेरित्यर्थः । भूमत्वस्य तु नाधिकरणभेदः । आनन्त्यस्य तु वत्सरवासर-रूपाधिकरणभेद इति तु वैषम्यमात्रम् । निरवधिकसङ्ख्यायां विशेषस्योपपत्तिवत् निरवधिक-परिमाणेऽपि विशेषसम्भवादिति भावः । अपकृष्टत्वभूमत्वोपासकानां प्रागुक्तमिथ्योपासकत्वप्रसङ्गो नास्तीत्याह– अन्याऽनिषेधादिति ।। भूमत्वं तावदुपास्ते । तच्चास्ति । नाप्यतिशयं निषेधति । येन मिथ्योपासनं स्यादिति भावः ।
पूर्वपक्षस्तु– सर्वेषां भूमत्वमेकप्रकारेणैव प्रतीयते । भूमत्वे विशेषाभावात् । विशेषाभावेऽपि तारतम्येन प्रतीत्यङ्गीकारे मिथ्योपासनप्रसङ्ग इत्येकप्रकारेणोपासकत्वान्नोक्ततारतम्यमिति ।
सिद्धान्तस्तु– नानाप्रकारेणैव भूमत्वं प्रतीयते । शब्दादिभिः प्रमाणैः तत्प्रतीतेरेष्टव्यत्वात् । शब्दादीनां च तत्तद्योग्यतानुसारेणार्थप्रत्यायकत्वात् । न च भूमत्वे विशेषानुपपत्तिः आनन्त्ये तारतम्यवत् भूमत्वे तारतम्योपपत्तेः । अतो भूमत्वदृष्टौ अधिकारिणां विशेषसद्भावात् युक्तं तारतम्यमिति सिद्धम् ।
वाक्यार्थमुक्तावली
अत्रानन्तरसङ्गतिः स्पष्टा ।। प्रकृत इति ।। आनन्दादिविशेषतयोपास्यतया प्रकृतो भूमगुणः किमधिकारिणामेकप्रकारेण प्रतीयते, उत तारतम्येनेति चिन्ता । तदर्थं भूमत्वे विशेषकल्पना न सम्भवत्युत सम्भवतीति ।। उभयविधेति ।। अनर्घ्यरत्नादिकं हि परीक्षकदृष्ट्यनुसारेण तारतम्येन प्रतीयते । स्तम्भो हि सर्वान् प्रत्येकप्रकारेणेत्युभयविधवस्तुदर्शनमित्यर्थः । शब्दादिभेदादित्यंश-व्यावर्त्यमकल्पनेत्युक्तन्यायं दर्शयति ।। भूमत्वे इति ।। भूमत्वे तारतम्यकल्पनायोगात् । ततश्च भूमत्वे विशेषकल्पनायाः तारतम्येनोपासनायाश्चायोगादित्यर्थः । भूमत्वे तारतम्येनोपासना-योगमुपपादयति ।। न हीति ।।
सूत्रे भूमत्वमित्यनुवर्तते । उपास्यत इति शेषः । सर्वं वाक्यं सावधारणमिति नानैवेति लभ्यत इति भावेन प्रवृत्तं भूमत्वमपि नानैवोपास्यत इति भाष्यं व्याचष्टे ।। भूमत्वमिति ।। तद्धेतुत्वेनानूनतेत्युक्तसिद्धान्तन्यायप्रदर्शकं शब्दादिभेदादित्यंशं प्रमाणेन व्याकुर्वच्छब्द इत्यादिभाष्यं व्याचष्टे ।। शब्दादिभिरिति ।। एतेन शब्दादीनां प्रमाणानां भेदादधिकारिभेदमपेक्ष्य भेदादनेकधा एकार्थप्रतीतिजनकत्वात् प्रतीतेः प्रमाणजन्यत्वेन मिथ्योपासनाभावात् भूमत्वमुपासने नानाप्रकारेणैव प्रतीयते इत्यर्थ उक्तो भवति । ‘शब्दोऽनुमा तथैवाक्ष’ इति क्रमनियामकमाह ।। तत्वनिर्णय इति ।। ननु निरवधिकपूर्णत्वरूपभूमत्वस्यैकप्रकारत्वात् प्रमाणान्यपि विद्यमानमर्थं कथं दर्शयेयुरित्यत आह ।। न चेति ।। यथा वत्सराणां मासानां चानन्त्येऽप्येकैकवत्सरस्य द्वादशमासात्मकत्वेन वत्सरानन्त्यात् मासानन्त्ये विशेषोऽस्ति । एवमानन्दादौ स्वस्वाधिकारानुसारेणोपस्थिते पूर्णत्वेऽपि विशेषो विद्यत इति भावः । ननु स्वस्वाधिकारानुसारेणोपस्थिते पूर्णत्वस्य मासानन्त्यापेक्षया वत्सरानन्त्यस्येवासम्यक्पूर्णत्वेन केषाञ्चिन्मिथ्योपासनाप्रसङ्ग इत्यत आह ।। अन्येति ।।
तत्त्वसुबोधिनी
अधिकारिणां विशेषेति ।। पूर्वाधिकरणोक्तभूमगुणोपासने अधिकारिणां विशेषसमर्थना-दनन्तरसङ्गतिरिति भावः ।। उक्तानुपपत्तेरिति ।। उक्तातारतम्यानुपपत्तेरित्यर्थः । कुतो न इत्यत आह ।। तथात्वेति ।। ननु प्रत्यक्षस्य सर्वप्रमाणोपजीवित्वेन सूत्रे प्रत्यक्षादिभेदादिति वक्तव्यम् । यदि तन्मुख्यमित्युक्तरीत्या करणेषु शब्दस्य प्रधान्यात् सूत्रे तदादित्वेन ग्रहणम् । तर्हि स्मृता-वनुमानस्य शब्दानन्तरं तदनन्तरं च प्रत्यक्षस्य ग्रहणे किं निमित्तमित्यत आह ।। तत्वनिर्णय इति ।। ननु प्रमाणान्यप्यविद्यमानार्थं दर्शयेयुः इत्याशङ्क्य परिहरति ।। न चेति ।। विशेष-वदतीतवत्सराणामानन्त्येऽपि अन्योन्यं अवान्तरविशेषवदित्यर्थः । नन्वत्र भूमत्वे विशेषसद्भावे केषांचित् किंचित्पूर्णानन्द इति मिथ्योपासनप्रसङ्ग इत्यत आह ।। नान्यनिषेधकत्वादिति ।।
वाक्यार्थविवरणम्
विशेषः तारतम्यम् । अन्यथा भूमोपासने अधिकारविशेषाभावे ।। उक्तेति ।। उपासकतार-तम्येत्यर्थः ।। उभयविधेति ।। दूरस्थं वस्तु दूरवर्तिभिस्तारतम्येन प्रतीयते । समीपस्थं वस्तु सर्वैरेकप्रकारेण प्रतीयत इत्यर्थः । शब्दादिभेदादिति सूत्रखण्डार्थमाह ।। शब्दादीनां चेति ।। नानोपासनाच्चेति ।। पूर्णत्वस्य तरतमभावेनोपासनादित्यर्थः । तत्त्वनिर्णयश्रवणरूपशब्दफलम् । वेदार्थनियमो मननरूपानुमितिफलम् । अपरोक्षज्ञानं च ध्यानरूपप्रत्यक्षफलमिति ध्येयम् ।। शब्दादिक्रमः ।। ‘शब्दोऽनुमा तथैवाक्ष्’’ इति क्रमः । विशेषः तारतम्यम् । विशेषवत् तारतम्यवत् ।। अत्रापीति ।। पूर्णत्वेऽपि तारतम्योपपत्तेरित्यर्थः । ‘समुद्रः पूर्णः, घटः पूर्णः’ इत्युक्ते पूर्णत्वेऽपि तारतम्यप्रतीतिदर्शनादित्यपि द्रष्टव्यम् ।। अन्येति ।। अल्पपूर्णत्वं स्वयोग्यतानुसारेण यैरुपास्यते तैरल्पपूर्णत्वमेवास्ति हरेर्नाधिकं पूर्णत्वमस्तीति यद्युपास्येत तर्ह्यैव अन्यथोपासनं स्यात् । न चैवमुच्यते । अन्यनिषेधेन तैरुपासनाया अकरणात् । निरवधिकपूर्णे च हरौ किञ्चित्पूर्णत्वादेरपि सत्त्वात् । न हि निरवधिकपूर्णे समुद्रे घटनिष्ठपूर्णतासदृशं पूर्णत्वं नास्तीति शक्यते वक्तुम् । तथात्वे निरवधिकपूर्णत्वस्यैवाप्राप्तेरिति ।। तथोक्तं ‘महागुणस्य चाल्पोऽपि गुणः स्यादिति चेद्भवेत् । तावत्त्वमेव नैव स्यात्’ इतीति सम्प्रदायविदः ।। भूमत्वदृष्टौ भूमत्वोपासने ।। विशेषः तारतम्यम् । तारतम्यं तदुपासकानामिति शेषः ।
वाक्यार्थमञ्जरी
उक्तेति यावदधिकारमित्युक्तफलतारतम्यमित्यर्थः ।। भूमत्व इति ।। न हि विभूनां देशतः पूर्णत्वे विशेषोऽस्तीति भावः । सत्यपि विशेषेऽनुपपत्तिमाह ।। न हीति ।। मिथ्येति ।। भगवदानन्दे किञ्चित्पूर्णत्वाभावादिति भावः ।। ॐ नानाशब्दादिभेदात् ॐ ।। भूमत्वं नाना तारतम्येनैव प्रतीयते कुतः शब्दादिप्रमाणानां भेदात् । तारतम्येन ज्ञानजनकत्वस्वाभाव्यादित्यर्थः । ननु प्रत्यक्षस्य सर्वप्रमाणोपजीव्यत्वेन प्राधान्यात्सूत्रे प्रत्यक्षादीति वक्तव्यम् । यदि ‘तन्मुख्यं ज्ञानशब्दयोः’ इत्युक्तरीत्या करणेषु शब्दस्य प्राधान्यात्तदादित्वेन ग्रहणं तर्हि स्मृतौ शब्दानन्तरं प्रत्यक्षमनुक्त्वानुमानग्रहणे किं निमित्तमित्यत आह ।। तत्त्वनिर्णय इति ।। ननु प्रमाणान्यप्य-विद्यमानार्थं कथं दर्शयेयुरित्याशङ्क्य परिहरति ।। न चेति ।। अतीतेति ।। वर्षापेक्षया वासराणां बहुत्वादिति भावः ।। अत्रापीति ।। घटकूपादीनां जलपूर्णत्वे विशेषदर्शनादिति भावः । ननूक्तमत्र मिथ्योपासनप्रसङ्ग इति तत्राह ।। अन्यानिषेधादिति ।। एतावदेव नाधिकमित्यनिषेधादिति भावः ।
।। इति नानाशब्दाधिकरणम् ।। ३८ ।।