ॐ पुरुषार्थोऽतः शब्दादिति बादरायणः ॐ
अथ तृतीयाध्यायस्य चतुर्थः पादः
१.पुरुषार्थाधिकरणम्
सूत्रभाष्यम्
ज्ञानसामर्थ्यमस्मिन्पाद उच्यते —
।। ॐ पुरुषार्थोऽतः शब्दादिति बादरायणः ॐ ।। १ ।।
यद्दर्शनार्थमुपासनोक्ता तस्माद्दर्शनात्सर्वपुरुषार्थप्राप्तिरिति बादरायणो मन्यते । ‘यं यं लोकं मनसा संविभाति विशुद्धसत्वः कामयते यांश्च कामान् तं तं लोकं जयते तांश्च कामां-स्तस्मादात्मज्ञं ह्यर्चयेद्भूतिकाम’ (मु.उ.३-१-१०) इति शब्दात् ।।
तत्त्वप्रदीपिका
ज्ञानसामर्थ्यमस्मिन्पाद उच्यते । अयमर्थः । उक्तोपासनासमुन्नाहपरिपाकसमुत्पन्नस्य ब्रह्म-दर्शनस्य महिमाऽस्मिन्नारभ्यमाणे चतुर्थे पादेऽनुवर्ण्यते । पुरुषार्थोऽतः शब्दादिति बादरायणः ।। यस्य विष्णोर्दर्शनार्थमुपासनोक्ता तस्माद्दर्शनात् । तस्य प्रसादात्सञ्जाताद्दर्शनात्सर्वपुरुषार्थप्राप्ति रुच्यते– ‘यं यं लोकं मनसा संविभाति’ इत्यादौ । सा च तस्माद्विष्णोर्दृष्टादिति भावः । न चैतज्ज्ञानसामर्थ्यं न भवति । विषयमपेक्ष्य विवक्षितत्वात् विचक्षणसमाजाधिराजेन । बादरायण इति वादे रतानामधिकतयाऽऽश्रयत्वेन भगवत्तमो वेदेश्वर उच्यते । संविभाति मनुते । भा ज्ञान इति धातोः ।
तत्त्वप्रकाशिका
एतत्पादार्थं दर्शयति ।। ज्ञानेति ।। भगवदपरोक्षज्ञानार्थमुपासनोक्ता तज्ज्ञानं तया भवति इति चोक्तम् । तस्य ज्ञानस्य सामर्थ्यमत्रोच्यत इत्यर्थः । अत्रादौ ब्रह्मप्राप्तिसाधनज्ञानस्य सर्वपुरुषार्थ-साधनत्वमहिम्नो वर्णनादस्ति शास्त्रादिसङ्गतिः । अन्यथा न तत्रातिशयेन प्रवृत्तिः स्यादिति तद्वर्णनीयम् । उपासनसाध्यतया प्रकृतं ज्ञानमत्र विषयः । किं ‘मोक्षमात्रसाधनमुत फलान्तरस्यापि साधनम्’ इति सन्देहः । निरवधारणमुक्तिसाधनत्वोक्तेरुभयथा सम्भवः सन्देहबीजम् । ज्ञानं मोक्षमात्रसाधनमिति पूर्वः पक्षः । ज्ञानिनां मोक्षेतरपुरुषार्थेषु विरक्तत्वेन तदिच्छाया एवाभावात् । ‘परीक्ष्य लोकान्कर्मचितान् ब्राह्मणो निर्वेदमायात्’ ‘प्रजहाति यदा कामान्’ इत्यादेः । इच्छाभावेऽपि तत्प्राप्तौ पुरुषार्थत्वमेव न स्यात् । अतो ज्ञानस्य मोक्षमात्रसाधनत्वान्न तत्सर्वथाऽऽपाद्यमिति । सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ।। पुरुषार्थ इति ।। यस्य दर्शनस्यार्थे पूर्वमुपासनोक्ताऽतो दर्शनतः पुरुषैरर्थ्यमानं यावच्छुभं तावत्सर्वमाप्यत एव न तु मोक्षमात्रम् । कुतः । यं यमिति शब्दादिति भगवान्बादरायणो मन्यत इत्यर्थः । संविभाति इच्छति । जयते प्राप्नोति । न च श्रुत्यादिना ज्ञानिनां मोक्षेतरपुरुषार्थेच्छाभावान्न ज्ञानात्सर्वपुरुषार्थप्राप्तिरिति युक्तम् । श्रुत्यादेः प्रायेण ज्ञानिनामन्येच्छा-भावपरत्वात् । अस्माभिस्तु श्रुत्यवलम्बेन यस्य सौभरिकर्दमादिवद्भवतीच्छा तस्य ज्ञानादेव सर्वपुरुषार्थप्राप्तिर्भवतीत्यभ्युपगमात् ।
गुर्वर्थदीपिका
उपासनाफलीभूतापरोक्षज्ञाने मोक्षसाधनत्वस्य मन्दाधिकारिणामपि रुच्युत्पादनाय प्रसङ्ग-सङ्गत्या प्राक् निरूपितत्वादिदानीं तु तस्यैव ज्ञानस्य मोक्षेतरपुरुषार्थसाधनत्वमप्यस्तीति ज्ञानमाहात्म्यप्रतिपादनाय ‘पुरुषार्थोऽतः शब्दात्’ इति सूत्रम् । एतदेवाभिप्रेत्य ज्ञानसामर्थ्य-मस्मिन्पाद उच्यत इति भाष्यं च । निरवधारणमुक्तिसाधनत्वोक्तेरित्यत्र ज्ञानं मुक्तेरेव साधन-मित्यवधारणरहितसाधनत्वोक्तेरित्यर्थः । यद्यपि विद्यैवेत्युक्तज्ञानमेव अत इति परामर्ष्टुं शक्यते तथापि पूर्वोत्तरपादयोस्सङ्गतिसूचनाय यस्य दर्शनस्यार्थ इत्युक्तम् । इच्छाभावादित्यत्रेच्छाभाव-प्रतिपादनादित्यर्थः । तस्य ज्ञानादेवेत्यत्र ज्ञानोत्तरकालं प्रारब्धकर्मणैव भोगो भविष्यति किं ज्ञानेनेति चेन्न क्रमिककालपरिपाकानां कर्मणां क्रमिकदेहप्रापकत्वेऽपि युगपत्कायव्यूहसम्पादनं ज्ञानमहिम्नैव न कर्मणा । ज्ञानेन प्रारब्धकर्मणामप्युपमर्दस्य वक्ष्यमाणत्वाच्च । अतस्सुष्ठूक्तं ‘पुरुषार्थोऽतश्शब्दात्’ इति ज्ञेयम् ।
भावबोधः
‘अस्मिन्’ इति भाष्ये ‘इदं’ शब्दप्रयोगः पूर्वपादेनास्य पादस्य सङ्गतिप्रदर्शनार्थ इत्यभि-प्रेत्याह– भगवदपरोक्षेति ।। उक्तं ‘विद्यैव तु निर्धारणादित्यत्र’ इत्यर्थः । सामर्थ्यमिति । स्वर्गाद्यशेषपुरुषार्थसाधनत्वादिरूपमित्यर्थः । सर्वपुरुषार्थसाधनत्वमहिम्न इति ।। पूर्वाधिकरणे ‘दर्शनाच्च’ इत्यनेनोक्तश्रुतिरूपप्रमाणमेवात्रापि ज्ञानस्याशेषपुरुषार्थसाधनत्वे ‘शब्दात्’ इत्यनेनोच्यत इत्यनन्तरसङ्गतिरिति भावः ।। किमित्यादि ।। अत्र ज्ञानं किं मोक्षमात्रसाधनमुत स्वर्गादि-फलान्तरस्यापि साधनमिति चिन्ता । तदर्थं ज्ञानिनां मोक्षेतरपुरुषार्थेच्छा नास्त्युत अस्तीति ।। तदर्थं ‘परीक्ष्य लोकान्’ ‘प्रजहाति यदा कामान्’ इत्यादिवाक्यं किं निरवकाशमुत सावकाश-मिति । ज्ञानस्याशेषपुरुषार्थसाधनत्वेऽपि किं ज्ञानकर्मणोः परस्परशेषशेषिभावो न सम्भवत्युत सम्भवतीति । तदर्थं तदुभयप्रतिपादकप्रमाणानां किं समानविषयत्वेन विरोध उत भिन्नविषयत्वेन विरोध इति ।। निरवधारणेति ।। ‘विद्यैव तु निर्धारणात्’ इत्यत्र ज्ञानस्यैव मुक्तिसाधनत्वोक्तावपि मुक्तिमात्रसाधनत्वस्यानुक्तत्वादिति भावः । ज्ञानिनः औदार्यान्मोक्षादन्यफलेच्छाया एवासम्भवा-त्तदुक्तिः प्रशंसामात्रमिति न्यायविवरणं मनसि निधायाह– ज्ञानिनामिति ।। सूत्रे ‘अतः’ इत्यस्य पूर्वप्रकृतपरामर्शकत्वोपपादनाय प्रवृत्तं यद्दर्शनार्थमिति भाष्यं व्याचष्टे– यस्येति ।। सूत्रे ‘सर्व’ शब्दाश्रवणात् कथं भाष्ये सर्वपुरुषार्थेत्युक्तमित्यतः पुरुषार्थशब्दसामर्थ्यादेव तल्लब्धमित्यभिप्रेत्याह– पुरुषैरिति ।। प्रायशो न सम्भवत्येव कस्यचित् सौभर्यादिवद्भवति चेज्ज्ञानेनैवाशेषमीप्सितं भवतीति व्यवस्थोपपत्तेरिति न्यायविवरणं मनसि निधायाह– श्रुत्यादेः प्रायेणेति ।।
भावदीपः
कतिचिन्नयैरुच्यत इति भ्रमनिरासायाह ।। एतत्पादार्थमिति ।। एतत्प्रदर्शनं च ‘वैराग्यतो भक्तिदाढर्््यं तेनोपासा यदा भवेत् । आपरोक्ष्यं भवेद्विष्णोः’ इत्यनुभाष्योक्तदिशा पूर्वपादेनास्य पादस्य सङ्गत्युक्त्यर्थमिति भावेन सङ्गतिपरतया भाष्यं व्याचष्टे ।। भगवदिति ।। उक्तेति ।। तन्निर्धारणार्थनियम इत्यादौ तथा निर्णयादिति भावः ।। उक्तमिति ।। तत्रैवेत्यर्थः । यद्वोपासनयैव ज्ञानं न तु कर्मत इत्येतत् साधनं ज्ञानसम्पत्तौ प्रधानमिति जिज्ञासासूत्रभाष्ये प्रकाशश्च कर्मण्य-भ्यासादित्यत्र चेत्यर्थः । एतच्च तया ज्ञानं जायते न तु कर्मत इत्येतदनुक्त्वा सामर्थ्योक्तिरयुक्तेति शङ्काव्युदासाय ।। सामर्थ्यमिति ।। सर्वपुमर्थहेतुत्वपापालेपकरत्वयोग्यजनमात्रलभ्यत्वसन्निधिमात्रेण फलसम्पादकत्वादिसामर्थ्यमित्यर्थः । अस्मिन्नित्यस्य आद्याधिकरण इति सामर्थ्यमित्यस्य सर्वपुरुषार्थहेतुत्वरूपमहिमेत्यर्थमुपेत्यान्तर्भावसङ्गतिसूचकत्वमभ्युपेत्याह ।। अत्रादाविति ।। ब्रह्मेति शास्त्रे साधनेत्यध्याये ज्ञानस्य महिम्न इति पादेऽन्तर्भाव उपपादितो ज्ञेयः । एवमग्रेऽपि प्रतिनयं बोध्यम् ।। निरवधारणेति ।। नान्यः पन्था इति ‘दृष्ट्वैव तम्’ इत्यवधारणेऽपि ‘तं विद्वानमृत एव भवति’ इति । ‘दृष्ट्वैव तं मुच्यत’ एव न तु फलान्तरं प्राप्नोतीत्येवंरूपावधारणं विनोक्तिरित्यर्थः । ज्ञानिनः औदार्यान्मोक्षादन्यफलेच्छाया एवासम्भवादित्यन्यत्रोक्तहेतुमाह ।। ज्ञानिनामिति ।। असिद्धिनिरासाय औदार्यशब्दार्थतया विरक्तत्वेनेत्युपपादकोक्तिः । कथं ज्ञानिनो विरक्तत्वमित्यतो वैराग्यस्य ज्ञानपूर्वभावित्वादिति भावेन तत्र श्रुतिस्मृती आह ।। परीक्ष्येति ।। श्रुत्यर्थो जिज्ञासासूत्रे व्यक्तः । सर्वान्पार्थमनोगतान् । ‘आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते’ इति द्वितीये गीतोक्तेरित्यर्थः । हेतोरप्रयोजकत्वं निराह ।। इच्छेति ।। अत इति ।। ज्ञानिनः फलान्तरा-निच्छुत्वादनिष्टस्य चापुरुषार्थत्वादित्यर्थः । तस्माद्दर्शनादित्यन्तभाष्यं सौत्रातःशब्दारूढं कुर्वन् यद्विषयदर्शनार्थमिति धीनिरासाय भाष्यं व्याचष्टे ।। यस्येति ।। मुमुक्षोर्मोक्षादन्यफलप्राप्तावनिष्ट-फलकत्वशङ्कानिरासलाभाय पुरुषार्थपदं व्याचष्टे ।। पुरुषैरिति ।। भावस्तु अस्माभिस्त्वित्यादिनाऽग्रे व्यक्तः । यद्यपि संविभाति मनुते भा ज्ञान इति धातोरिति तत्वप्रदीपोक्तिस्तथापि धातूनामनेकार्थत्वात्प्रकृतोपयोगायाह ।। संविभातीच्छतीति ।। प्रागुक्तशङ्कामनूद्य तन्निवर्तकतया प्रायशो न सम्भवत्येवेत्यन्यत्रोक्तं योजयति ।। न च श्रुत्यादिनेति ।। परीक्ष्येति श्रुत्यादिना इच्छाभावावगमादित्यर्थः । कस्यचित् सौभर्यादिवत् सम्भवतीति चेत् ज्ञानेनैवाशेषमभीप्सितं भवतीत्यन्यत्रोक्तं सौत्रपुरुषार्थपदभावं प्रायःपदव्यावर्त्यं व्यनक्ति ।। अस्माभिस्त्विति ।। सौभरिकर्दमेति ।। व्यक्तमेतन्नवमस्कन्धे । ‘जातस्पृहो नृपं विप्रः कन्यामेकामयाचत’ इत्यादिना । तथा तृतीयस्कन्धे ‘प्रियायाः प्रियमन्विच्छन्कर्दमो योगमास्थितः’ इत्यादिना ।
अभिनवचन्द्रिका
एतत्पादार्थमिति ।। ‘तर्हि अध्यायस्यैकार्थत्वात्पादभेदः किं निबन्धन इत्यतः साधनेऽप्यवान्तरभेदेनेति भावेन’ इति वर्तते । तस्य ‘एतत्पादार्थं दर्शयति’ इत्यनेन सम्बन्धः । अप्रसक्तत्वात् ज्ञानस्य तत्सामर्थ्यं न निरूपणीयमित्यत आह– भगवदपरोक्षज्ञानार्थमिति ।। ज्ञानस्य द्वेधा प्रसक्तिः । अर्थतः कण्ठतश्चेति । तत्राऽऽद्या ‘भगवदपरोक्षज्ञानार्थम्’ इत्यनेनोक्ता । द्वितीया ‘तज्ज्ञानं तया भवतीति चोक्तम्’ इत्यनेनोक्ता । ततश्च नाऽप्रसक्तनिरूपणमिति भावः । अनेन अस्य पादस्य पूर्वपादाऽऽनन्तर्ये कारणं चोक्तं भवति । अतिशयेन प्रवृत्तिरिति । अतिशयबुद्ध्या प्रवृत्तिर्न स्यात्, किन्तु स्वप्रयोजनसाधनताबुद्ध्यैव प्रवृत्तिः स्यादित्यर्थः । एतेन सर्वपुरुषार्थसाधनत्वरूपमहिम्नो निरूपणाभावेऽपि तृषार्तस्य अतिशयेन पानीये प्रवृत्तिवत् मुमुक्षोरतिशयेन ज्ञाने प्रवृत्तिसम्भवात् महिमवर्णनमयुक्तमिति परास्तम् । पुरुषार्थत्वमेव न स्यादिति । अनिष्टपुण्यवत् मोक्षविलम्बहेतुत्वात् ज्ञानस्य पुरुषार्थत्वं न स्यादित्यर्थः । एतेन इच्छाभावेऽपि स्वर्गादिप्राप्तिरिति वदता स्वर्गादीनामपुरुषार्थत्वस्याङ्गीकृतत्वात् इष्टापादनमिति परास्तम् । परेणेष्टतयाऽङ्गीकृतस्य ज्ञानस्यैवाऽनिष्टत्वापादनात् ।। न तत्सर्वथेति ।। सर्वपुरुषार्थहेतुत्वात्सर्वोत्कृष्टं साधनामिति बुद्ध्यौ नापादनीयम्, किन्तु मोक्षसाधनत्वबुद्ध्यैवाऽ-पादनीयमित्यर्थः । एतेन पुरुषार्थान्तरसाधनत्वाभावेऽपि मोक्षसाधनत्वात् तदिच्छुना सर्वथाऽऽ-पाद्यमेवेति ‘न तत्सर्वथाऽऽपाद्यम्’ इत्ययुक्तमिति परास्तम् ।। श्रुत्यवलम्बेनेति ।। ‘यं यं लोकम्’ इति श्रुत्यवलम्बेनेत्यर्थः । ज्ञानिनां मोक्षेतरपुरुषार्थेच्छा न भवतीत्याशङ्कापरिहाराय पुराण-सिद्धसौभर्यादिदृष्टान्तोक्तिः ।
वाक्यार्थमुक्तावली
एतत्पादार्थमिति ।। अध्यायस्यैकार्थत्वात्पादभेदः किंनिबन्धनः इत्यतः साधनेऽप्यवान्तर-भेदादिति भावेनेति पूरणीयम् । तज्ज्ञानं तया भवतीति चोक्तमिति । तन्निर्धारणार्थनियम इत्यादावुक्तमित्यर्थः ।। सर्वपुरुषार्थेति ।। अपवर्गस्येव स्वर्गाद्यशेषपुरुषार्थस्यापि साधनत्वमहिम्न इत्यर्थः । देवानामेवाङ्गाश्रितत्वेन तदङ्गे उपसंहारेऽधिकार इति कथनप्रसङ्गात् । तेषामेव तादृशोपासनाजन्यापरोक्षज्ञानेन सकलपुरुषार्थावाप्तिः । कर्मणा तु तत्फलेऽतिशयाधानमिति बादरायणीयमतस्य दर्शनाच्चेत्यत्रोक्तश्रुतिरूपप्रमाणेनैवात्र पुरुषार्थोऽतः शब्दात् अधिकोपदेशात्तु बादरायणस्यैवं दर्शनादित्यनेनोपन्यासादनन्तरसङ्गतिः । अन्यथा न तत्रेति । तथा च जिज्ञासासूत्रे ज्ञानाय विचारविधानमयुक्तमिति भावः । एवमुत्तरत्रापि ।। किं मोक्षेति ।। ज्ञानं किं मोक्षमात्रसाधनमुत फलान्तरस्यापि साधनमिति चिन्ता । तदर्थं ज्ञानिनां मोक्षेतरपुरुषार्थेच्छा नास्त्युतास्तीति ।। निरवधारणेति ।। ‘विद्यैव तु निर्धारणात्’ इत्यत्र ज्ञानस्य मुक्तिसाधन-त्वोक्तावपि मुक्तिमात्रसाधनत्वस्यानुक्तत्वादिति भावः । ‘विशुद्धसत्वः कामयते यांश्च कामानिति प्रदर्शकेन शब्दात्’ इति सूत्रखण्डेन व्यवच्छेद्यमौदार्यमित्युक्तन्यायं वैराग्यमित्यर्थत्वेन प्रदर्शयति । ज्ञानिनामिति ।। ‘यद्यपि परीक्ष्य लोकान््’ इति श्रुतिः जिज्ञासुविषया तथापि कैमुत्येन ज्ञानि-नामन्यकामाभावे प्रमाणं भवत्येवेति तदुदाहरणं युक्तम् । प्रजहातीत्यत्र तु स्थितप्रज्ञस्तदोच्यत इति सर्वकामप्रहाणस्य ज्ञानिलक्षणत्वोक्तेः प्रकृतोपयोगः स्फुटः ।
सूत्रे पूर्वं ज्ञानस्याप्रकृतत्वादत इति कथं परामर्श इत्यतः प्रवृत्तं यद्दर्शनार्थमिति भाष्यं व्याचष्टे ।। यस्येति ।। सूत्रे सर्वशब्दश्रवणात् कथं भाष्ये सर्वपुरुषार्थ इत्युक्तमित्यतः स्वर्गादीत्यनुक्त्वा पुरुषैरर्थ्यत्वरूपावच्छेदकोक्त्यैव तल्लब्धमित्याह ।। पुरुषैरिति ।। शब्दादित्यनेन सूचितं व्यवस्थितिरित्युक्तन्यायं दर्शयन् ‘ब्राह्मणो निर्वेदमायात् । प्रजहाति यदा कामान्’ इत्यादेः गतिमाह ।। श्रुत्यादेरिति ।।
तत्त्वसुबोधिनी
अस्मिन्निति भाष्ये इदं शब्दप्रयोगः पूर्वयोगः पूर्वपदेनास्य सङ्गतिप्रदर्शनार्थ इत्यभिप्रेत्याह ।। भगवदपरोक्षेति ।। उक्तं विद्यैव तु निर्धारणादित्यत्रेत्यर्थः । सर्वपुरुषार्थत्वसाधनत्वमहिम्न इति । अत्र पूर्वाधिकरणे दर्शनाच्चेत्यनेनोक्तश्रुतिरूपप्रमाणमेवात्रापि ज्ञानस्याशेषपुरुषार्थसाधनत्वे शब्दादि-त्यनेनोच्यते इत्यनन्तरसङ्गतिरिति भावः । ननु इच्छाभावेऽपि ज्ञानेनास्तु मुक्तिः ततः पुरुषार्थः तस्यैव मुक्तिमानित्यत आह ।। इच्छाभावेऽपि इति ।। पुरुषेच्छाद्युपपादनस्यैव पुरुषार्थत्वात् इति भावः । सूत्रे अत इत्यस्य पूर्वप्रकृतपरामर्शोपपादनाय प्रवृत्तं यद्दर्शनार्थमिति भाष्यं व्याचष्टे ।। यस्येति ।। सूत्रे सर्वशब्दाश्रवाणात् कथं भाष्ये सर्वपुरुषार्थेत्युक्तमित्यतः पुरुषार्थशब्दसामर्थ्यादेव तल्लाभ इत्याह ।। पुरुषैरिति ।। संविभाति इच्छतीति । संविभाति मनुते भा ज्ञान इति तत्वप्रदीपे वर्णकान्तरमुक्तमिति ध्येयम् ।। श्रुत्यादिनेति ।। परीक्ष्य लोकान्, प्रजहाति यदा कामानिति श्रुतिस्मृतिभ्यामित्यर्थः ।
वाक्यार्थविवरणम्
पुरुषार्थत्वमेवेति ।। पुरुषैरर्थ्यस्यैव पुरुषार्थत्वादिति भावः ।। सर्वथेति ।। स्वर्गमात्रसाधना-त्कर्मणः सकाशादाधिक्येनेत्यर्थः । श्रुत्यादिनेति ‘परीक्ष्य लोकान्’ इत्यादिश्रुत्यादिनेत्यर्थः ।। इच्छाभावादिति ।। इच्छाभावावगमादित्यर्थः ।
वाक्यार्थमञ्जरी
उक्तमिति ।। विद्यैव तु निर्धारणादित्यत्रेत्यर्थः ।। सामर्थ्यमिति ।। स्वर्गापवर्गाद्यशेषपुरुषार्थ-साधनत्वादिरूपमित्यर्थः । तथा च कारणनिरूपणानन्तरं कार्यनिरूपणादनन्तरसङ्गतिरिति भावः ।। निरवधारणेति ।। विद्यैव तु निर्धारणादित्यत्र ज्ञानस्यैव मुक्तिसाधनत्वोक्तावपि मुक्तिमात्र-साधनत्वस्यानुक्तत्वादिति भावः ।। न स्यादिति ।। पुरुषैरर्थ्यस्यैव पुरुषार्थत्वादिति भावः ।
ॐ पुरुषार्थोऽतःशब्दादिति बादरायणः ॐ ।। पुरुषार्थः पुरुषैरर्थ्यः अपेक्ष्यः सर्वोऽपि अतः ज्ञानादेव भवति कुतः शब्दात् यं यं लोकमिति श्रुतेरिति बादरायणाचार्यो मन्यत इत्यर्थः ।। सौभरीति ।। तेन युगपत्पञ्चाशद्देहग्रहणेन तावत्सङ्ख्याकस्त्रीभिः क्रीडनादिति भावः ।। कर्दमेति ।।