ॐ दहर उत्तरेभ्य ॐ
५. दहराधिकरणम्
सूत्रभाष्यम्
चन्द्रादित्याद्याधारत्वं विष्णोरुक्तम् । तच्च "अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तर आकाश.... किं तदत्र विद्यते....’ (छां.उ.८-१-२) "उभे अस्मिन् द्यावापृथिवी अन्तरेव समाहिते । उभावग्न्श्चि वायुश्च सूर्याचन्द्रमसावुभौ । विद्युन्नक्षत्राणि’ (छां.उ.८-१-३) इत्यादिनाऽऽकाशस्य प्रतीयते । स चाऽऽकाशो न विष्णु । "तस्यान्ते सुषिरं सूक्ष्मं तस्मिन् सर्वं प्रतिष्ठितम्’ (म.ना.उ.११) इति श्रुतेरित्यत आह ॥
॥ ॐ दहर उत्तरेभ्य ॐ ॥ १४ ॥
"य आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोकोऽविजिघत्सोऽपिपास सत्यकामस्सत्य-सङ्कल्प सोऽन्वेष्टव्य स विजिज्ञासितव्य’ (छां.उ.८-७-३) इत्यादिभ्य उत्तरेभ्यो गुणेभ्यो दहरो’ विष्णुरेव । "योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येति’ (बृ.उ.५-५) "स एष सर्वेभ्य पाप्मभ्य उदित’ (छां.उ.१-६-७) इत्यादिना विष्णोरेव हि ते गुणा ।
"नित्यतीर्णाशनायादिरेक एव हरि स्वत ।
अशनायादिकानन्ये तत्प्रसादात्तरन्ति हि’ इति पाद्मे ।
सापेक्षनिरपेक्षयोश्च निरपेक्षं स्वीकर्तव्यम् ।
"सत्यकाम परो (कामोऽपरो पा.) नास्ति तमृते विष्णुमव्ययम् ।
सत्यकामत्वमन्येषां भवेत्तत्काम्यकामिता’ इति स्कान्दे ॥
सत्तकदीपावली
चन्द्रेत्यादेरयमर्थ । अथ "यदिदमस्मिन् ब्रह्मपुरे’ इत्याम्नायते । तत्राकाशस्य चन्द्राद्याधारत्वमुच्यते । स चाकाशशब्दाभिधेयो भूताकाशो न विष्णु । "हृदयं तद्विजानी-यात्’। "तस्यान्ते सुषिरं सूक्ष्मं तस्मिन् सर्वं प्रतिष्ठितम्’ इति श्रुत्यन्तरसंवादात् । अतश्च यदुक्तं चन्द्राद्याधारत्वम् "एतस्य वा अक्षरस्य’ इत्यादिना विष्णोरेवेति तन्न सिध्यतीत्येवं प्राप्तेऽभिधीयते । चन्द्राद्याधारो विष्णुरेवात्र निर्दिश्यते नाकाशम् । "य आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोको विजिघित्सोऽपिपास सत्यकाम सत्यसङ्गल्प’ इत्युत्तरवाक्य-विरोधात्। "अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाश-स्तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यम्’ इत्यन्वेष्टव्यतया यो निर्दिष्टो विष्णु दहराकाशस्थ तद्धृदयाकाशसन्निहितं सर्वमुच्यते । "यावान्वाऽयमाकाशस्तावानेषोऽन्तर्हृदय आकाश उभे अस्मिन् द्यावापृथिवी’ इत्यादिना । अथवा विष्णुमेव न बाह्यमाकाशं व्यापकं हृत्कुहरस्थाकाशशब्देन निर्दिश्य तत्स्थं सर्वमुच्यते । उभे इत्यादिना अपहतपाप्मत्वादिगुणकश्च विष्णुरेवेतच्छ्रुत्यन्तरसंवादेन दृढीकरोति ॥ योऽशनायेत्यादिना ॥ अशनाया विजिघत्सा क्षुदित्यर्थ । नन्वशनायादिपिपासाद्यतिक्रमणं न विष्णोरेव मुक्तानामपि सम्भवादित्याशङ्कित आह ॥ नित्येति ॥ न च दहराकाशस्याप्यपहतपाप्मत्वादिकं किञ्चिदाशङ्कनीयम् अप्रसक्त-प्रतिषेधप्रसङ्गात् । भगवदनुकूलेच्छावत्वमेव मुक्तानां सत्यकामत्वमित्यर्थ ॥
तत्त्वप्रदीपिका
चन्द्रादित्याद्याधारत्वं विष्णोरुक्तं "सूर्याचन्द्रमसौ विधृतौ’ इत्यादिना । तच्च "एतस्मि-न्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाश किं तदत्र विद्यते यदन्वेष्टव्यं यद्वाव विजिज्ञासितव्यमिति, स ब्रूयाद्यावान्वाऽयमाकाशस्तावानेषोऽऽन्तर्हृदय आकाश । उभे अस्मिन्द्यावापृथिवी अन्तरेव समाहिते । उभावग्न्श्चि वायुश्च सूर्याचन्द्रमसावुभौ’ इत्यादावा-काशस्य प्रतीयते । स चाऽदित्याद्याधार किं दहराकाशस्स्यादाहोस्वित्तत्स्थ कश्चिदितीदानीं चिन्त्यते । किं तावत्प्राप्तम् ? दहराकाश इति "तस्यान्ते सुषिरं सूक्ष्मं तस्मिन्सर्वं प्रतिष्ठितम्’ इत्यादिश्रुत्यन्तरे दहरसुषिरस्य सर्वाधारत्वप्रतीते । तत्स्थ कश्चिदित्यपर पक्ष । सोऽपि जीव इति प्राप्तम् । हृदयगतदहराकाशान्तस्थत्वात् । उपरि च तत्परामर्शदर्शनादिति । अत्रोत्तरं "दहर उत्तरेभ्य’ । न तावद्दहराकाशोऽत्र प्रतिपाद्यते । "तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यम्’ इति तदन्तस्थस्यैवान्वेष्टव्यत्वप्रतिज्ञानात् । किन्तु तत्स्थ कश्चिदेव । स च दहराकाशे स्थितो विष्णुरेव । "य आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोकोऽविजिघत्सोऽपि-पासस्सत्यकामस्सत्यसङ्कल्प’ इत्यादिभ्य । न चाऽकाशजीवयोरेते गुणास्सम्भवन्तीत्याह योऽशनायापिपासे इत्यादिना बृहदारण्यकवाक्येन स एष इत्यादिना छन्दोगवाक्येन च । अत्र ब्रह्मपुरं शरीरं दहरो भूताकाश इत्यादि छन्दोगोपनिषद्भाष्ये त्वभाणि निपुणतमं श्रीमच्चरणै । तस्मादस्माकं न प्रयत्नोऽत्र । "दहरोऽस्मिन्नन्तराकाश किं तदत्र विद्यते’ इत्यत्राऽकाशशब्देन भूताकाशो विवक्षित । किं तदत्र विद्यते इत्यस्यायं परिहार अस्मिन्भूताकाशे परब्रह्माख्य आकाशो विद्यते । आ समन्तात्काशनादाकाश, आ समन्तात्कमश्नातीति वा । "अस्मि-न्कामास्समाहिता’ इति वाक्यशेषादासमन्तात्कामानश्नातीति वा । स च यावान्परमात्मा व्याप्तोऽस्ति तावानेव विद्यते गुणत । पूर्णगुणात्मकत्वात् । अल्पपरिमाणस्य महत्परिमाणत्वं च युज्यते । अचिन्त्यशक्तित्वात् । "यस्मिन्विरुद्धगतयोऽप्यनिशं पतन्ति विद्यादयो विविध-शक्तय आनुपूर्व्या’ इति वचनात् । आनुपूर्व्येति श्रुतिप्रमाणादित्यर्थ । "आनुपूर्वी श्रुतिर्वेद आम्नायश्चेति कथ्यत’ इत्यभिधानात् । अन्यथाऽनिशमित्युक्तिविरोधात् । "एष म आत्माऽन्त-र्हृदयेऽणीयान् व्रीहेर्वा एष म आत्माऽन्तर्हृदये ज्यायान्पृथिव्या’’ इति हृदयस्थस्यैवाणुत्व-महत्त्वोक्तेश्चेत्यादि, "दहरोऽस्मिन्नन्तराकाश’ इति च पूर्वोक्ताकाशस्य दहरत्वमुक्तम् । उत्तरस्य "यावान्वाऽयमाकाश’ इत्यनन्तपरिमाणत्वम् । अतो ब्रह्माकाश एवोत्तर । पूर्वोक्तस्या-भूताकाशत्वे ""तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यम्’’ "तत्रापि दह्रं गगनं विशोक स्तस्मिन्यदन्तस्तदुपासितव्यं’ "सहस्रशीर्षं देवम्’ इत्यादि कथं युज्येत । नहि भगवदन्त-स्थितमेवान्यत्किञ्चिद्विजिज्ञास्यम् । तद्वावेत्यवधारणाच्चेत्यादि च सुविस्तृतम् ।
तत्त्वप्रकाशिका
अत्र "यो वेद निहितं गुहायाम्’ । "तस्यान्ते सुषिरं सूक्ष्मम्’ । "हृदि ह्येष आत्मा’ इत्यादिश्रुतिभिब्रह्माकाशजीवेषु साधारणस्य हृत्पद्मस्थत्विलङ्गस्य भगवति समन्वयप्रतिपादना-दस्ति शास्त्रादिसङ्गति । श्रुत्यादिसङ्गतिं विषयवाक्यमुदाहृत्य विषयादिकं च सूचयन् सयुक्तिकं पूर्वपक्षं सूचयति ॥ चन्द्रेति ॥ एतस्य वाऽक्षरस्येत्यादिना विष्णोश्चन्द्रादित्याधारत्वमुक्तं तच्छन्दोगश्रुतौ हृत्पद्मस्थस्योच्यते । "एतस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तर आकाशस्तस्मिन् यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यमिति तं चेद् ब्रूयु किं तदत्र विद्यते यदन्वेष्टव्यं यद्वाव विजिज्ञासितव्यमिति । स ब्रूयाद्यावान् वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाश उभे अस्मिन् द्यावापृथिवी’ इत्यादिना । तस्य च विष्णोरन्यत्वेऽक्षरस्य विष्णुत्व-साधकसर्वाधारत्वं चान्यस्य प्रसज्ज्येतेत्यवश्यं निर्णेयता । तद्धृदयपद्मस्थत्वं विषय । किं विष्णोरथाकाशस्योत जीवस्येति संशय । उक्तसाधारण्यं सन्देहबीजम् । सर्वाधारतया हृत्पद्मस्थत्वमाकाशस्येति तावत्पूर्व पक्ष । दहरोऽस्मिन्नन्तर आकाश इति हृत्पद्मे दहराकाशस्थितिश्रवणात् । तस्यैवोभे अस्मिन्निति सर्वाधारत्वोक्तेरित्यर्थ । नन्वस्त्वाकाशस्य सर्वाधारतया हृदयपद्मस्थत्वम् । तस्य चाऽऽकाशस्तिलङ्गादिति न्यायेन विष्णुत्वे तस्यैव हृत्पद्मस्थत्वसिद्धिरित्यत आह ॥ स चेति ॥ नात्रोक्ता काशो विष्णु । तस्यान्ते सुषिरमिति प्रसिद्धाकाशस्यैव सर्वाधारतया हृत्पद्मस्थत्वोक्ते तत्समाख्यानादित्यर्थ । न च वाच्य-मस्त्वाकाशशब्देन सुषिरमेव । तस्मिन् यदन्तरिति हृत्पद्मस्थाकाशगतो विष्णु सर्वाधार-तयोच्यत इति । तथा सति वाक्यान्वयानुपपत्ते । तथा हि । तस्मिन्नित्यत्र विष्णुत्वाभिप्राये किं तदत्र विद्यत इति प्रश्नस्य ब्रह्म विद्यत इति परिहारं विना यावान्वा इत्यादेरभिप्रायासङ्गति । आकाशपक्षे त्वस्त्यन्वय । हृदयाकाशस्थमुपास्यमित्युक्ते किं तत्र स्थितमिति प्रश्ने यावान्वा अयमाकाश इति प्रागुक्ताकाशमेव विशिष्योभे अस्मिन्नित्यादिपरिहारसंश्लेषात् । न च यावानित्यादिनाऽऽकाशाख्यो विष्णु सर्वाधारतया परिहारे कथ्यत इत्यन्वयोपपत्ति । तस्मिन् सर्वं प्रतिष्ठितमिति साक्षात्सुषिरस्यैव सर्वाधारत्वोक्तिविरोधात् । तस्मादाकाशस्यैव सर्वाधारतया हृत्पद्मस्थत्वम् । जीवस्य वैतद्भवेत् । उत्तरत्र "परञ्ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत एष आत्मेति होवाच’ इति जीवस्य य आत्माऽपहतपाप्मा इत्युक्तहृत्पद्मस्थात्मतया परामर्शात् दहरस्थत्विलङ्गाच्च । तद्धि अणोर्जीवस्यैव युक्तं न सर्वगतस्य हरे । न चान्वयाभावदोष । विष्णुपक्षेऽपि साम्यात् । अतो भगवदितरदेव चन्द्रादित्याद्याधाराक्षरमिति । सिद्धान्तयत्सूत्र-मवतार्य व्याचष्टे ॥ अत इति ॥ दहरपद्मस्थो विष्णुरेव भवेत् । य आत्माऽपहत-पाप्मेत्यादिनोत्तरवाक्ये हृत्पद्मस्थस्यापहतपाप्मत्वादिगुणश्रवणादिति भाव । अपहतपाप्म-त्वादिकं कथं विष्णुत्वनिश्चायकमित्यत आह ॥ य इति ॥ अत्येति अतिक्रम्य वर्तते । न चाकाशस्यापि पापाद्यभावेनैते गुणा युक्ता इति वाच्यम् । तस्याचेतनस्य तत्प्राप्त्यभावेन निषेधायोगात् । विष्णोश्चेतनत्वादस्ति प्राप्ति । सत्यकामत्वाद्ययोगाच्च । तथापि नैते गुणा विष्णोरेव रमादिष्वपि सम्भवादित्यत आह ॥ नित्येति ॥ ननु यथा कथञ्चिदपि तेऽन्यत्र गुणा सन्त्येवात कथं तैर्विष्णुत्वनिश्चय इत्यत आह ॥ सापेक्षेति ॥ अपहतपाप्मत्वादीनां कथञ्चिदन्यत्र वृत्तावपि न कथञ्चिदन्यत्र सत्यकामत्वादीत्याशयेनाऽऽह ॥ सत्यकाम इति ॥ अनेनाकाशाभिमानिविषयतयाऽपहतपाप्मत्वाद्युपपत्तिरिति परास्तम् ॥
गुर्वर्थदीपिका
तस्मिन्नित्यत्रेत्यत्र "तस्मिन्यदन्त’ इति वाक्य इत्यर्थ । "तस्यान्ते सुषिरँ सूक्ष्मम्’ इति समाख्याश्रुतावपि आकाशाधिकरणन्यायेन सुषिरशब्दोऽपि विष्णुपर किं न स्यादिति चेन्न । "तस्या शिखाया मध्ये परमात्मा व्यवस्थित’ इत्युत्तरवाक्ये परमात्मनो वक्ष्यमाणत्वेन समाख्याश्रुतौ सुषिरपदस्याऽऽकाशपरत्वे सर्वेषामविवादात् । अविजिघित्स इत्यत्र विशेषेण जग्धुं भक्षितुमिच्छा विजिघत्सा तद्रहित अविजिघत्स इत्यर्थ ।
भावबोध
न्यायविवरणे हृत्पद्मस्थितत्वसाधारणमित्युक्तम् । कुत्र कथञ्च साधारणमित्याकांक्षायां तत्सूचितश्रुत्युदाहरणपूर्वकं हृत्पद्मस्थत्वस्योभयत्र प्रसिद्धत्वमाह ॥ अत्र यो वेदेत्यादिना ॥ श्रुत्यादिसङ्गतिमिति ॥ अव्यवहितपूर्वाधिकरणसङ्गतिस्तु "सदायतना सत्प्रतिष्ठा’ इत्यादिना सद्धर्मतयोक्तसर्वाधारत्वादे "उभे अस्मिन् द्यावापृथिवी’ इत्यादिना हृत्पद्मस्थे श्रवणात्तस्य विष्णोरन्यत्वे प्रागुक्तं सदप्यन्यदेव स्यादिति पूर्वाक्षेपस्यापि सम्भवादिति ज्ञातव्यम् ॥ तद्धृदयत्पद्मस्थत्वं विषय इति ॥ अत्र तच्छब्देन यद्यपि "दहरोऽस्मिन्नन्तर आकाश’ इति वाक्योक्तस्य हृत्पद्मस्थत्वस्य न परामर्श । तस्य सिद्धान्तेऽप्यब्रह्मनिष्ठत्वात् । नापि "तस्मिन् यदन्तस्तदन्वेष्टव्यम्’ इति वाक्योक्तस्य । तत्र भाष्योक्तस्य आकाशशब्दस्य पूर्वपक्षबीजस्या-भावात् । पूर्वपक्षे दहराकाशस्यैव सर्वाधारत्वाभ्युपगमेन तत्स्थस्य तदभावात् । अम्बरान्त-धृत्याक्षेपायोगाच्च । तथापि दहरोऽस्मिन्नन्तर आकाशस्तस्मिन् यदन्तस्तदन्वेष्टव्यम्’ इति वाक्यद्वयोक्तस्य साक्षात् परम्परासम्बन्धसाधारणस्य हृत्पद्मस्थत्वस्य परामर्श । एवं च नोक्तानुपपत्ति । "दहरोऽस्मिन्नन्तर आकाश’ इति हृत्पद्मे दहराकाशस्थितिश्रवणात् । तस्यैवोभे अस्मिन्निति सर्वाधारत्वोक्तेरिति टीकायामेव द्वितीयपक्षोक्तदोषस्य परिहृतत्वात् । "तस्मिन् यदन्त’ इति वाक्योक्तस्य हत्पद्मस्थत्वस्य सिद्धान्ते ब्रह्मनिष्ठत्वाच्च । इयांस्तु विशेष। "तस्यान्ते सुषिरं सूक्ष्मम्’ इति समाख्याबलात् साक्षादेव हृत्पद्मस्थत्वमाकाशस्येति पूर्वपक्षिणोऽभिप्रेतम् । "तत्रापि दह्रं गगनं विशोकस्तस्मिन् यदन्त’ इति समाख्याबलात् पद्मगतदहराकाशगततया विष्णो हृत्पद्मस्थत्वमिति सिद्धान्तिनामाशय इति ।
यद्वा तत्सर्वाधारत्वेनोक्तं हृत्पद्मस्थत्वं विषय इत्यर्थ । तेन सिद्धान्ते आकाशस्य हृत्पद्म-स्थत्वनिषेधो न व्याहत इति ध्येयम् । अत एव वक्ष्यति । "सर्वाधारतया हृत्पद्मस्थितत्वम्’ इति ॥ किं विष्णोरिति ॥ अत्र "दहरोऽस्मिन्नन्तर आकाशस्तस्मिन् यदन्त’ इति वाक्योक्तं हृत्पद्मस्थत्वं किमाकाशस्योत विष्णोरिति चिन्ता । तदर्थमाकाशस्य सर्वाधारतया हृत्पद्म-स्थत्वसाधकतया "तस्यान्ते सुषिरं सूक्ष्मम्’ इति समाख्यया हृत्पद्मस्थस्य विष्णुत्वसाधकापहत-पाप्मत्वादिलिङ्गबाध उत अपहतपाप्मत्वादिना समाख्याबाध इति । तदर्थं समाख्यानिरव-काशापहतपाप्मत्वादिकं चाकाशस्याचेतनतया पापाद्यभावेन सावकाशमुताचेतनस्य पापादि-प्राप्त्यभावेनाप्राप्तनिषेधापातेनापहतपाप्मत्वादिकमाकाशेऽनवकाशं समाख्या तु विष्णौ लक्षणया सावकाशेति । तदर्थं किं तदत्र विद्यत इति प्रश्नस्य यावान् वायमाकाश इति प्रतिवचनेनान्वयस्य किमाकाशविष्णुपक्षयो सम्भवासम्भवावुत विष्ण्वाकाशपक्षयोस्ताविति । तदर्थं "यावान् वायमाकाशस्तावानेष’ इति विशेषणस्य उभे अस्मिन्नित्याद्युक्तपृथिव्याद्याश्रयत्वादेश्च किमाकाशविष्णुपक्षयोर्घटनाघटने उत विष्ण्वाकाशपक्षयोस्ते इति । तथा हृत्पद्मस्थत्वं किं जीवस्योत विष्णोरिति चिन्ता । तदर्थं परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत एष आत्मेति हृत्पद्मस्थात्मतया परामर्श किं जीवस्य हृत्पद्मस्थत्वसाधको भवत्युत न भवतीति । तदर्थमपहतपाप्मत्वादिकं किं मुक्तिमादाय भाविभावेनामुख्यं सज्जीवे सावकाशमुत मुख्यं निरवकाशमिति । तदर्थम् एष आत्मेतीत्येतच्छब्द उपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत इत्युक्तजीवपर उत परञ्ज्योतिशब्दोक्तपरमात्मपर इति तदर्थमेतच्छब्दस्य परमात्मपरत्व-नियामकमात्मब्रह्मशब्दसत्यसङ्कल्पत्वादिलिङ्गसमाख्यादिकं हृत्पद्मस्थस्य विष्णुत्वसाधकं न भवत्युत भवतीति । तदर्थमल्पस्थानस्थितत्वरूपजीविलङ्गं किं विष्णावनवकाशमुत रूपविशेषेण विष्णौ सावकाशमिति । तदर्थं तत्र प्रमाणं नास्त्युतास्तीति ॥ सर्वाधारतया हृत्पद्मस्थत्व-मिति॥ अत्राधिकरणोदाहृतश्रुतिस्मृतिबलात् सर्वाधारत्वस्य विष्ण्वेकनिष्ठत्वात् तस्य चात्र श्रवणात् हृत्पद्मस्थत्वं विष्णोरेव किं न स्यादित्याशङ्कायाम् "तस्मिन् सर्वं प्रतिष्ठितम्’ इति समाख्याबलात् तदाक्षिप्यत इति दर्शनार्थं सर्वाधारतयेत्युक्तमिति द्रष्टव्यम् । अत एवाक्षेप्य-लिङ्गात् समन्वीयमानिलङ्गादेर्विष्णुपरत्वमाशङ्क्य तत्र तत्र न चादृश्यत्विलङ्गेनान्तस्थो विष्णुरिति निराकृतम् ।
यद्वा आकाशस्य हृत्पद्मस्थत्वं सिद्धान्तेऽप्यङ्गीक्रियते इति सिद्धान्तिनामनिष्टप्रदर्शनार्थं विषयान्तर्गतया सर्वाधारतयेत्युक्तम् ॥ हृत्पद्मे दहराकाशस्थितिश्रवणादिति ॥ अनेन भाष्ये दहरोऽस्मिन्नन्तर आकाश इत्यंशोदाहरणस्य युक्तिसूचनमपि प्रयोजनम् इत्युक्तं भवति । सर्वं चैतदाकाशस्य प्रतीयत इति भाष्ये आकाशशब्दप्रयोगमूलकमित्यवगन्तव्यम् । अन्यथा हृत्पद्म-स्थस्येत्यवक्ष्यत् ॥ तस्यान्ते सुषिरमिति ॥ प्रसिद्धाकाशस्यैवेति ॥ श्रुतौ तच्छब्देन "पद्मकोशप्रतीकाशं हृदयम्’ इत्युक्तहृत्पद्मपरामर्शादिति भाव । न्यायविवरणोक्तान्वयाभाव-लक्षणयुक्तिं सङ्गमयितुमाह ॥ न च वाच्यमस्त्विति ॥ "दहरोऽस्मिन्नन्तर आकाश तस्मिन्यदन्तस्तदन्वेष्टव्यम्’ इत्यनेन "यावान् वा अयमाकाशस्तावानेषोऽन्तर्हृदयाकाशस्तस्मिन् यदन्तस्तदन्वेष्टव्यम्’ इत्यनेन "यावान् वा अयमाकाशस्तावानेषो अन्तर्हृदय आकाश’ इत्यस्यान्वयाभाव इति न्यायविवरणार्थमाह । तथा सति वाक्यान्वयानुपपत्तेरित्यादिना ॥ अभिप्रायासङ्गतिरिति ॥ पूर्वोत्तरवाक्ययोरसङ्गतार्थप्रतिपादकत्वेनैवानन्वय । न त्वन्वयाऽ-ननुकूलविभक्तिकपदत्वादिनेति भाव ॥ प्रागुक्ताकाशमेव विशिष्येति ॥ द्यावापृथिव्या-द्याश्रयत्वयोग्यत्वाय बाह्याकाशतुल्यतया विशिष्येत्यर्थ ॥ आकाशाख्यो विष्णु सर्वाधार-तयेति ॥ तथा चान्वेष्टव्ये इत्थम्भावप्रदर्शनार्थमुभे अस्मिन्नित्यादिकं प्रवृत्तमिति तदपि नासङ्गतमिति भाव ॥ सर्वाधारत्वोक्तिविरोधादिति ॥ अनेन "तस्यान्ते सुषिरं सूक्ष्मम्’ इति श्रुतेरिति भाष्यं तदन्तस्थत्वापेक्षत्वान्न सुषिरश्रुतिविरोध इत्युत्तरभाष्यानुरोधेन न्यायविवरण-शेषत्वेनापि योजितमिति ज्ञातव्यम् । "इतरपरामर्शात् स इति चेत्’ इत्यादिसूत्राभिप्रेत-पूर्वपक्षमाह ॥ जीवस्यैतदिति ॥ दहरं पुण्डरीकश्रुत्यनुसारेण सूत्रे तदनुसारेण भाष्ये च दहरपदप्रयोगाल्लिङ्गं हृत्पद्मस्थत्वमिति न्यायविवरणे "हृदब्जग’ इति संक्षेपे चाभिधाना-त्तदुभयानुकुल्यायाह ॥ दहरपद्मस्थ इति ॥ अन्यथा हृत्पद्मस्थ इति वक्तव्यम् । अनेन सूत्र-भाष्ययो सप्तम्यन्तं दहरपदं दहरं पुण्डरीकमित्युक्तहृत्पद्मपरमित्युक्तं भवति । चेतनत्वादस्ति प्राप्तिरिति । चेतनजातीये जीवे पापादेर्दर्शनादिति ॥ अनेनेति ॥ "नित्यतीर्णाशनायादि’ इत्यनेनेत्यर्थ ।
भावदीप
अत्र न्यायविवरणे स्पष्टत्वाच्छ्रुतीरनुदाहृत्य हृत्पद्मस्थितत्वं साधारणमित्युक्तम् । तदुदाहरणपूर्वकं साधारण्यं व्यञ्जयन्नस्य पादान्तर्भावमाह ॥ अत्र यो वेदेति ॥ एतच्चानन्द-मयनये ब्रह्मपरत्वेन निर्णीतम् । यद्यपि परमे व्योमन्निति हृदयगुहास्थाकाशस्थत्वमेव तत्रोक्तं मन्दिरे मणिमालेतिवत् सामान्येन गुहास्थत्वमविरुद्धम् । अत एव गुहायामित्याधारसप्तमीति भाव ॥ तस्येति ॥ "तैत्तिरीये पद्मकोशप्रतीकाशं हृदयं चाप्यधोमुखम् । अधोनिष्ठ्या वितस्त्यान्ते नाभ्यामुपरि तिष्ठति । ज्वालमालाकुलं भाति विश्वस्यायतनं महत् । सन्ततं शिलाभिस्तु लम्बत्याकोशसन्निभम् । तस्यान्त’ इति प्रकृतहृत्पद्मं तस्येति परामृश्य तदन्त-स्थत्वमाकाशस्योच्यते ॥ हृदीति ॥ षश्ने मध्ये तु समान एष ह्येतद्धुतमन्नं समं नयति तस्मादेता सप्तार्चिषो भवन्तीति पूर्वत्र तस्मात्समानेनान्नस्य समीकरणादेता सप्तार्चिषो भवन्तीत्युक्तौ आत्मैव विषयसंसर्गेण ताननुभविष्यति किमिन्द्रियवृत्तिभिरिति शङ्कायाम् अणुत्वात्तस्य नैवं युक्तमिति भावेन हृदि ह्येष आत्मा जीव स्वरूपेण वर्तत इत्युक्ते । अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृदि हीति सूत्रकृता जीवपरत्वेन वक्ष्यमाणत्वाच्चेति भाव ॥ हृत्पद्मस्थत्वेति ॥ साक्षात्परम्परासाधारणहृत्पद्मगतत्विलङ्गस्येत्यर्थ । आकाशस्येति भाष्यं तु पूर्वपक्षहेत्वभिप्रायं न तु समन्वेतव्यनामाशयमिति भाव । इत्यन्तभाष्यं सङ्गतिसूचकत्वेन व्याकुर्वन्नुक्तमित्यन्तं व्याचष्टे ॥ एतस्य वा इति ॥ उक्तमक्षरनय इत्यर्थ । आकाशस्य प्रतीयत इत्यत्र हृत्पद्मस्थस्येत्याकाशविशेषणमुपेत्य तात्पर्यमाह ॥ तच्छन्दोगश्रुताविति ॥ उच्यते अष्टम इत्यर्थ । केनेत्यत एतस्मिन्नित्यादिभाष्यमिति भावेन भाष्ये पूर्वपक्षयुक्तिद्योतनाय समग्रानुक्तावपि वक्ष्यमाणानन्वययुक्तिसौकर्याय तद्वाक्यं समग्रं पठति ॥ एतस्मिन्निति ॥ ब्रह्मपुरे देहे । दहरं दभ्रमल्पमित्यर्थ । अस्मिन्पुण्डरीके । तस्मिन्नाकाशे । कथं तस्यान्वेषण-मित्यत उक्तम् ॥ विजिज्ञासितव्यमिति ॥ तमेवमुक्तवन्तं गुरुं शिष्याश्चेद् ब्रूयु किं तदाह ॥ किं तदत्रेति ॥ यदन्वेष्टव्यत्वादिनोक्तं तदत्र किं विद्यते कुतश्च तदन्वेष्टव्यं कीदृशं च तद्विद्यत इति प्रश्नार्थ । स गुरु शिष्यान् प्रति ब्रूयात् । किं तदाह ॥ यावानिति ॥ हृद्ययत इति हृदये हृत्स्थदहराकाशे । आकाश आकाशनाम ब्रह्म विद्यते । अयं बाह्याकाश आकाशनामा विष्णुर्यावान् व्याप्त्या तावानिति किमित्यस्य । अस्मिन् द्यावाभूम्यादि सर्वं समाहितं यतोऽतो द्यावापृथिव्याद्याधारत्वाज्जिज्ञास्यमिति कुतश्चेति प्रश्नस्योत्तरम् । कीदृशमित्यस्यापि यद्ब्रह्म कीदृशमस्तीति पृष्टं तस्य हृदये यावान्बाह्याकाश तावान् द्यावाभूम्यादिकं च सर्वं विद्यते सर्वाधारभूतं तदिति इदमेवोत्तरमिति सिद्धान्तीयोऽर्थ ।
पूर्वपक्षीयस्तु हृदये आकाश इति प्रागुक्तदहराकाशमनूद्य यावानिति बाह्याकाशतुल्यतया तं विशेष्यान्वेष्टव्यतया तत्र द्यावाभूम्यादिकमुच्यत इत्यर्थ । आकाशस्येत्यादेर्भाव ॥ तस्य चेति ॥ चन्द्राद्याहारहृत्पद्मस्थस्येत्यर्थ ॥ अन्यत्व इति ॥ सुषिरश्रुतिसमाख्यासहिताकाशश्रुत्या आकाशत्वे वक्ष्यमाणदिशा जीवत्वे वेत्यर्थ । उक्तमित्यन्तस्य तात्पर्यम् ॥ अक्षरस्येति ॥ इतीति ॥ इति सङ्गतिसम्भवादित्यर्थ ॥ तदिति ॥ यस्मिन् हृत्पद्मस्थे सर्वाधरत्वं श्रुतं तद्गत साक्षात्परम्परासाधारण्येन पूर्वोत्तरवाक्यस्थहृत्पद्मस्थत्वसामान्यरूपो धर्म इत्यर्थ । तेन साक्षाच्चेद्दहरे विष्णुरेवेति विष्णोर्दहराकाशस्थत्वोक्ति सिद्धान्ते न युक्ता । परम्परा चेदाकाश-स्थेति पूर्वपक्षायोग इति शङ्कानवकाश । अस्मिन्पक्षे पूर्वोत्तरपक्षसामञ्जस्यमग्रे विवरिष्यते । जीवपरामर्शादित्युत्तरभाष्यानुरोधादाह ॥ उत जीवस्येति ॥ पूर्वपक्षादिपरत्वेनापि व्याकुर्वन् हृत्पद्मस्थत्वं साक्षाद् व्यवधानेन वा द्वेधा सम्भवति । तत्राद्ये तच्चाकाशस्य प्रतीयत इति प्रतिज्ञाभाष्यं विवृणोति ॥ सर्वेति ॥ दहरोऽस्मिन्नन्तरिति पूर्ववाक्ये य एषोऽन्तर्हृदय इत्युत्तरस्मिन्सर्वाधारवाक्ये च श्रुतहृत्पद्मस्थत्वमित्यर्थ ॥ तावदिति ॥ जीवस्येति पश्चाद्वक्ष्याम इत्यर्थ । पूर्वाक्षेपरूपफलोक्तिसौकर्याय वा सुषिरश्रुत्यैकार्थ्याय वा तदुक्त्यै शङ्कोत्थानाय वा सिद्धान्तिन इष्टापत्तिनिरासाय वा सर्वाधारतयेति विशेषणम् । तेन तच्चेत्येतदर्थो विवृत । कुत इत्यतो दहरोऽस्मिन्नन्तर आकाश इत्यन्तवाक्योक्तेर्भावमाह ॥ दहर इति ॥ इदमुपलक्षणम् । य एषोऽन्तर्हृदय आकाश इति चेत्यपि बोध्यम् ॥ स्थितीति ॥ हृत्पद्मस्थे आकाशशब्दश्रवणा-दित्यर्थ । किं तदत्रेत्याद्युक्तेर्भावमाह ॥ तस्यैवेति ॥ अन्यथा किं तदत्रेति प्रश्नानानुगुण्यमिति भाव ॥ तस्यान्त इति ॥ विवृतमेतत्पूर्वम् । तस्मिन् सर्वं प्रतिष्ठितमिति वाक्यशेषार्थमाह ॥ सर्वेति ॥ तत्रापि सुषिरस्य विष्णुत्वं तु न युक्तम् । "तस्य मध्ये वह्निशिखा अणीयोर्ध्वा व्यवस्थित’ इति सुषिरमध्येऽग्न्ििशखामुक्त्वा "तस्या शिखाया मध्ये परमात्मा व्यवस्थित’ इति विष्णो शिखामध्यस्थत्वोक्तेरिति भावेनोक्तमाकाशस्यैवेति ।
एवं साक्षाद्धृत्पद्मस्थत्वपक्षे भाष्यं योजयित्वा व्यवधानेन हृत्पद्मस्थत्वपक्षं शङ्कते ॥ न च वाच्यमिति ॥ अस्मिन् पक्षे न्यायविवरणोक्तं दहरोऽस्मिन्नन्तर आकाशस्तस्मिन् यदन्तस्तद-न्वेष्टव्यमित्यनेन यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय इत्यस्यान्वयाभाव इति दोषं व्यञ्जयन् द्यावाभूम्यादेरेवान्वेष्टव्यत्वं न विष्णोरित्याह ॥ तथा सतीति ॥ एतेन भाष्ये आकाशो न विष्णु सुषिरश्रुतेरित्युपलक्षणम् । आकाशो न विष्णु वाक्यान्वयानुपपत्तेरित्यपि बोध्यमिति दर्शितम् । यावान्वा अयमाकाश इति वाक्यस्थाकाश किं प्रसिद्ध एवोत ब्रह्मेति विकल्पौ हृदि कृत्वा आद्ये अन्वयाभावदोषमाह ॥ तस्मिन्नित्यत्रेति ॥ अन्वेष्टव्यवाक्ये अन्वेष्टव्यतयोक्तस्य दहराकाशस्थस्येत्यर्थ । अयं च दोषो न पूर्वपक्ष इत्याह ॥ आकाशेति ॥ आकाशान्त-र्ब्रह्मास्तीत्यनुपेत्य साक्षाद् हृत्पद्मस्थमाकाशं व्यवहितं तु द्यावाभूम्यादिकमिति पक्षे त्वित्यर्थ । अस्त्यन्वय इत्युक्तं तदुपपादकत्वेनापि एतस्मिन् ब्रह्मपुर इत्यादिभाष्यं योजयति ॥ हृदयेति ॥ इत्युक्त इति ॥ तस्मिन्यदन्तरिति वाक्य इत्यर्थ । किं तदत्रेत्यादि प्रतीयत इत्यन्तभाष्यभावमाह ॥ किमिति ॥ आधेयप्रश्न इत्यर्थ । विशिष्य द्यावाभूम्याद्याधारत्वयोग्यत्वाय बाह्याकाश-तुल्यतया विशिष्येत्यर्थ । यावान्वा इति वाक्यस्थाकाशो ब्रह्मेति द्वितीयपक्षशङ्कोत्तरत्वेन स चाकाश इत्यादिभाष्यं व्याचष्टे ॥ न चेति ॥ परिहारे परिहारवाक्ये । एतेन स यावानिति वाक्योक्ताकाशो विष्णुरिति न च वाच्यमिति भाष्यार्थो दर्शित । वाक्यशेषोक्तिपूर्वं तस्यान्त इत्युक्तसमाख्याविरोधं व्यनक्ति ॥ तस्मिन्निति ॥ तस्मादिति ॥ सुषिरश्रुतिसमाख्या-वाक्यान्वयसामञ्जस्याभ्यां सहितस्याऽऽकाशशब्दस्य साधकस्य भावात् ।
विष्णुत्वपक्षे वाक्यान्वयाभावसुषिरश्रुतिविरोधरूपबाधकभावाच्चेत्यर्थ । अपहतपाप्मत्वादिकं तु जडे आकाशे पापास्पृष्ट्या वा अभिमानिद्वारा वा युक्तमिति भाव । बाधवारणां सर्वाधार-तयेत्युक्तम् । इतरपरामर्शात् स इति चेदिति सूत्रतद्भाष्याभ्यामुक्तं व्यनक्ति ॥ जीवस्य वेति ॥ परामर्शादिति ॥ प्रकृतं जीवम् एष इति परामृश्य आत्मेत्यात्मपदेन य आत्मा अपहत-पाप्मेत्यादिवाक्येऽपहतपाप्मत्वादिनोक्तहृत्पद्मस्थात्मत्वस्य विधानादित्यर्थ । अल्पश्रुतेरिति चेदिति सूत्रतद्भाष्याभ्यामुक्तमाह ॥ दहरस्थत्वेति ॥ अर्भकौकस्त्वादिति सूत्रे व्योमवद्विष्णावपि युक्तमित्यतोऽस्य निरवकाशत्वमाह ॥ तद्ध्यणोरिति ॥ उत्क्रान्तिगत्यागतीनामिति वक्ष्यमाण-न्यायेनाणोरित्यर्थ ॥ सर्वगतस्येति ॥ अंशतोऽपीति योज्यम् । व्योम्नोंऽशेनैकत्राल्पदेशेऽ-वस्थितिसम्भवेऽपि हरेरंशस्याप्यपरिच्छिन्नत्वेनाल्पौकस्त्वस्य निरवकाशत्वादिति भाव । विवरिष्यते चैतदग्रे । अपहतपाप्मत्वादिकं तु जीवे मुक्तौ भावात् भाव्यपेक्षया युक्तमिति भाव। ननु हृत्पद्मस्थाकाशस्थो जीवश्चेद्यावान्वा इति वाक्यानन्वय इत्यत आह ॥ न चेति ॥ हृत्पद्मस्थ आकाश एवेति वा जीव एवेति वा निर्णयाभावात् पूर्वपक्षस्य सन्देहादविशेष स्यादित्यतो विष्ण्वितरत्वेन निश्चय स्यादिति भावेन द्विविधपूर्वपक्षफलत्वेनोक्तमित्यन्तभाष्य-तात्पर्यमाह ॥ अत इति ॥ साक्षाद्व्यवधानाभ्यां क्रमादाकाशजीवयोरेव सर्वाधारतया हृत्पद्म-स्थत्वात् विष्णोश्चैकेनापि रूपेण सर्वाधारतया हृत्पद्मस्थत्वाभावाच्चेत्यर्थ । विष्णो साक्षाद्हृत्पद्मस्थत्वाभावेऽपि हृत्पद्मस्थदहराकाशस्थतया व्यवधानेन हृत्पद्मस्थत्वं स्यादेवेति भावेनाऽऽकांक्षाक्रमेण भाष्यं व्याचष्टे ॥ दहरेति ॥ परम्परया दहरहृत्पद्मस्थ इत्यर्थ । अत्येति अतिशयेन प्राप्नोतीति भ्रान्तिं निराह ॥ अतिक्रम्येति ॥ सर्वदा शोकादिहीन एवास्त इत्यर्थ ॥ विष्णोरिति ॥ सजातीये जीवे दर्शनेनात्रापि तत्प्राप्तिभ्रान्तौ निषेधसम्भवादित्यर्थ । अभिमानिद्वाराऽऽकाशेऽप्यस्त्वपहतपाप्मत्वमित्यत आह ॥ सत्यकामत्वेति ॥ तत्तु निरवकाशमित्यग्रे व्यक्तमिति भाव । कथञ्चित् अभिमान्यादिद्वारेत्यर्थ ॥ अनेनेति ॥ क्वापि निरपेक्षधर्माभावकथनेनेत्यर्थ । ननु तकताण्डवे पाकसापेक्षस्यापि पृथिवीशौक्ल्यस्य तन्निरपेक्षा-बादिशौक्ल्यस्येव शुक्लशब्दमुख्यार्थत्वेन तुल्यतया प्रतीते व्याप्तिसङ्गतिज्ञानादिसापेक्षयो-रप्यनुमानशब्दयोस्तन्निरपेक्षप्रत्यक्षवत् प्रमाणशब्दमुख्यार्थत्वेन तुल्यतया प्रतीतेश्चेत्यादिनोपक्रम-प्राबल्यभङ्गे सापेक्षस्यापि शब्दमुख्यार्थत्वोक्ते सत्यकाम सत्यसङ्कल्प इति श्रुतौ सापेक्ष-धर्मस्यापि धीरस्तीति चेन्न । प्रतीतस्यापि तस्य त्यागोपपत्तेरिति भाव ॥
अभिनवचन्द्रिका
हृत्पद्मस्थत्विलङ्गस्येति ॥ यद्यप्यत्र विषयवाक्ये हृत्पद्मस्थत्वरूपधर्माभिधायकिलङ्गात्मकः शब्दो न श्रूयते । तथाप्येतद्वाक्यसमन्वयाभिधाने हृत्पद्मस्थत्वरूपधर्मसिद्धिर्भवतीत्यभिप्रेत्य तथोक्तम् ॥ एतस्मिन्निति ॥ ब्रह्मपुरे देहे, दहरम् अल्पं पुण्डरीकं पुण्डरीकात्मकं वेश्म, विद्यते । अस्मिन् आकाशे, यदन्तः विद्यते, तदन्वेष्टव्यं, तद्वाव विज्ञासितव्यम्’ इति । तं गुरुं प्रति, शिष्याः, चेच्छब्दो यद्यर्थे । यदि ब्रूयुः किं तदत्र विद्यते, यदन्वेष्टव्यं यद्वाव विजिज्ञासितव्यमिति । स गुरुः, शिष्यान्प्रति ब्रूयात् । यावान्वा अयमाकाशः आकाशनामा विष्णुः, व्याप्त्या यावान्वर्तते, तावानेष आकाशः आकाशनामा विष्णुः, अन्तः हृदये हृत्पद्मान्तर्गतदहराकाशे वर्तते, अस्मिन् आकाशनाम्नि विष्णौ । उभे द्यावापृथिवी वर्तेते इति सिद्धान्तरीत्या श्रुत्यर्थः । अनेनैतदधिकरणप्रतिपाद्यस्य अक्षराधिकरणप्रतिपाद्यस्य च चन्द्र-सूर्याद्याधारत्वेन प्रतीयमानत्वं पूर्वाधिकरणतच्छ्रुतिभ्यामस्याऽधिकरणस्य सङ्गतिरित्युक्तं भवति ॥ सर्वाधारतयेति ॥ "हृत्पद्मस्थत्वं आकाशस्येत्येतावन्मात्रोक्तौ न सिद्धान्तविरोधो भवति । सिद्धान्तिनाऽस्याकाशस्य हृत्पद्मस्थत्वाङ्गीकारात् । तदर्थं सर्वाधारतयेति विशेषणम् । नात्रोक्ताकाशो विष्णुरिति ॥ "किं तु प्रसिद्धाकाश एव’ इति शेषः । कुतोऽयं प्रसिद्धाकाश इत्यत आह ॥ तस्यांत इति ॥ स चाकाशो न विष्णुरिति प्रतिज्ञाय "तस्यांते सुषिरम्’ इति शाखान्तरस्थश्रुत्युदाहरणमयुक्तमित्यतः तदभिप्रायमाह ॥ तत्समाख्यानादिति ॥ अस्त्वा-काशस्य हृत्पद्मस्थत्वं, तथापि न तस्य सर्वाधारत्वमत्रोच्यते । किंत्वाकाशान्तर्गतस्य विष्णोरेव। ततश्च "सर्वाधारत्वमाकाशस्य’ इति यत्प्रागुक्तं तदयुक्तमित्याशङ्क्य निषेधति ॥ न च वाच्यमिति ॥ तथा सतीति ॥ "तस्मिन्यदन्त’ इति वाक्यस्य अस्मिन् आकाशे यदन्तः विष्ण्वाख्यं ब्रह्म विद्यते तदन्वेष्टव्यमित्यर्थकत्वे "किं तदत्र विद्यते यावान्वा अयमाकाश’ इति प्रश्नपरिहारयोरसङ्गतत्वापत्तेरित्यर्थः । ननु न प्रश्नपरिहारयोरसङ्गतिः । तावानेषोऽन्तर्हृदय आकाश’ इत्यनन्तरं "तत्र ब्रह्म विद्यत’ इत्यध्याहारेण योजनायां सङ्गतिसम्भवादित्यत आह ॥ तस्मिन्नित्यत्रेति ॥ सत्यमध्याहारेण प्रश्नपरिहारयोः सङ्गतिर्भवति, तथापि अध्याहारं विना आकाशपक्षे प्रश्नपरिहारयोः सङ्गतिवत् विष्णुपक्षे अध्याहारं विना सङ्गत्यभावात् विष्णोरेव सर्वाधारत्वमिति न श्रुत्यभिप्रायः । "यत्रानवसरोऽन्यत्र पदं प्रतिष्ठितम् । वाक्यं वेति सतां नीतिः सावकाशे न तद्भवेत्’ इति प्रमाणेन अध्याहारं विना योजनासम्भवे अध्याहारस्य निषिद्ध-त्वादिति भावः । अत एव टीकायां ब्रह्म विद्यत’ इति परिहारं विना "यावान्वा’ इत्यादे-रभिप्रायासङ्गति’ इत्युक्तम्, अन्यथा इति प्रश्नस्य "यावान्वा’ इत्यादेरभिप्रायासङ्गति’ इत्यवक्ष्यत् । एतेन यथा "किं तदत्र विद्यत’ इति प्रश्नस्य "यावान्वा’ इत्यादिपरिहारः आकाशान्तर्गतार्थानिरूपकत्वात् सिद्धान्तिपक्षे असङ्गतः, तथा पूर्वपक्षिमते प्रागुक्ताकाशमेव विशिष्यं वक्तुं "यावान्वा’ इत्यादिवाक्यं सङ्गतं, तथा सिद्धान्तिमतेऽपि सङ्गतं भवेत्, ब्रह्म विद्यत इति परिहारं वक्तुं "यावान्वा अयमाकाश’ इति विशिष्योक्तिसम्भवादिति परास्तम् । सिद्धान्तिमते अध्याहारं विना न सङ्गतिरिति दूषणे तात्पर्यात् । नन्वकाशपक्षे प्रश्नार्थनिरूप-कत्वेन "उभे अस्मिन्नित्यादेः सङ्गतिभवेऽपि यावान्वेति वाक्यस्यासङ्गतिः । प्रश्नोत्तरत्वाभावा-दित्यत आह ॥ आकाशपक्ष इति ॥ हृदयेति ॥ हृदयाकाशस्थमुपास्यमित्युक्ते किं तत्रस्थं यन्मयोपास्यमिति प्रश्नो भवति, तस्मिंश्च प्रश्ने सति द्यावापृथिव्यादिकं तत्रस्थमिति वक्तुं हृदयाकाशस्य द्यावापृथिव्याद्याधारत्वं न सम्भावितम् । अल्पत्वादित्याशङ्कापरिहाराय "यावान्वा अयमाकाश’ इति प्रागुक्ताकाशं विशिष्य "उभे अस्मिन्’ इति परिहारप्रवृत्तेः । आकाशपक्षे अस्त्यस्य वाक्यस्यान्वय इति भावः।
ननु न सिद्धान्तपक्षेत्यध्याहारः, "यावान्वा अयमाकाश’ इति वाक्यस्य विष्णुपरत्वेन "किं तदत्र विद्यत इति प्रश्नोत्तरत्वमित्याशङ्क्य निषेधति ॥ न चेति ॥ समाख्याविरोधादिति भावेनाह ॥ तस्मिन्निति ॥ उत्तरत्रेति ॥ उत्तरत्र उत्तरखण्डे जीवस्य "एष आत्मा’ इति वाक्येन हृत्पद्यस्थात्मत्वाभिधानादिति यावत् । जीवस्याप्रकृतत्वात्, "एष आत्मा’ इति वाक्येन तस्य हृत्पद्यस्थत्वमुच्यत इत्युक्तमित्यत उक्तम् ॥ परञ्ज्योतिरुपसंपद्येति ॥ इदमुक्तं भवति "अथ यदेतस्मिन्ब्रह्मपुरे’ इत्येतस्मिन्वाक्ये हृत्पद्मस्थत्वमुक्तम् । अनन्तरं "एष आत्मा अपहत-पाप्मा’ इति आत्मनो हृत्पद्मस्थत्वमुक्तम् । अनन्तरं "परंज्योतिरुपं संपद्य, स्वेन रूपेण अभिनिष्पद्यत’ इति जीव उक्तः । स एव "एष आत्मा’ इति वाक्येन हृत्पद्मस्थात्मतयोक्तः । ततश्च जीवस्यैव हृत्पद्मस्थत्वमिति ॥ विष्णुपक्षेऽपि साम्यादिति ॥ नन्विदमयुक्तम् । विष्णुपक्षे दोषोद्भावनमात्रेण स्वपक्षदोषा परिहारात् । न हि पराङ्गं दग्धमिति स्वाङ्गदाहदुःखं निवर्तते इति चेत्, मैवं न ब्रूमो वयमन्वयाभावदोषः सिद्धान्तिन इव ममाप्यस्तीति । येनोक्त-दोषः स्यात् । किं तर्हि यथा सिद्धान्तिनाऽन्वयाभावदोषपरिहाराय वाक्ययोजना क्रियते, तथैवाऽहमपि करिष्यामीति । तथा हि "ब्रह्मपुरम्’ इत्यनेनैव जीवस्थितिसिद्धेः कीदृशं तदितिभावेन "किं तदत्र विद्यत’ इति प्रश्ने तत्स्वरूपनिरूपणपरतया "यावान्वा अयमाकाश’ इत्यादिवाक्यान्वयः सम्भवतीति ।
अत्र गुणसूत्रं "गतिशब्दभ्यां तथा हि दृष्टं लिङ्गं च’ इति । नन्वयं योगः शक्योऽवक्तुम् । अत्रोक्तस्य "अहरहर्गच्छन्त्य एतम्’ इति सुप्तप्राप्यत्वस्य, ब्रह्मशब्दस्य च, "अरश्च हवै ण्यश्चार्णवौ ब्रह्मलोक’ इति अरण्याख्यसुधासमुद्राश्रयलोकत्वरूपिलङ्गस्य च पूर्वसूत्रोक्तोत्तरेभ्य इत्यनेनैव ग्रहणसम्भवादिति चेत्, सत्यम्, उत्तरेभ्य इत्यनेनैव सर्वेषां लाभ इति, तथापि कुरुपाण्डवन्यायेन पृथग्ग्रहणम् । तथा हि सर्वेषां साधकानां निर्दोषत्वेऽपि अपहतपाप्मत्वादीनां मुक्तेष्वपि सद्भावात् व्यभिचार इत्याशङ्काऽऽस्कन्दितत्वेन दौर्बल्यम् । सुप्तप्राप्यत्वादीनाम-न्यत्राऽसम्भावितत्वेन तादृशशङ्काऽनुदयात्प्राबल्यमिति । एवमुत्तरत्रापि द्रष्टव्यम् ।
वाक्यार्थमुक्तावली
तस्यान्ते सुषिरं सूक्ष्ममिति ॥ "पद्मकोशप्रतीकाशं हृदयं चाप्यधोमुखं तस्यान्त’ इति शेषो बोध्य । यद्यपि "यो वेद निहितं गुहायां परमे व्योमन्’, "हृदि ह्येष’ इति श्रुत्यो नेशजीवयो हृत्पद्मस्थत्वं प्रतीयते, तथापि मन्दिरे मणिमालेत्यत्र मजूषानुक्तिवन्मध्ये पद्मा-नुक्तिमात्रं द्रष्टव्यम् ॥ श्रुत्यादिसङ्गतिमिति ॥ अव्यवहितपूर्वाधिकरणसङ्गतिस्तु अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्तीति सुप्तप्रजाप्राप्यत्वेनोक्तं हृत्पद्मस्थं यद्यन्यत्स्यात्तदा सता सोम्य तदा सम्पन्नो भवतीति सुप्तप्राप्यत्वेनोक्तं सदप्यन्यत्स्यादित्याक्षेपेणोत्थानादिति बोध्यम् । अत एव भाष्ये गति शब्दाभ्यामिति सूत्रे समाख्यात्वेन सता सोम्येनेति वाक्यमुपादीयत इति बोध्यम् । भावबोधे तु, उभे अस्मिन् द्यावापृथिवीत्युक्तद्युपृथिव्याद्याधारपद्मस्थं यद्यन्यत्स्यात् तदा सदाय-तना सत्प्रतिष्ठा इति सर्वप्रजाश्रयत्वेनोक्तं सदप्यन्यत्स्यादित्याक्षेपिकी सङ्गतिरित्युक्तम् । चन्द्राद्याधारत्वमिति भाष्यम् । यद्यपि सूर्याचन्द्रमसौ विधृताविति पूर्वमुक्तत्वादत्रापि सूर्याचन्द्रमसावुभावित्युच्यमानत्वात् श्रुत्यनुसारेण सूर्याद्याधारत्वमिति वक्तव्यम् । तथाप्यहं सोममाहनसं बिभर्म्यहं त्वष्टारमुत पूषणं भगम्’ इत्यम्भृणीसूक्तसमाख्यावष्टम्भेन चन्द्राद्याधारत्वे श्रीतत्वस्य शङ्किते चन्द्राद्याधाराम्बराधारके, समाख्योक्तं चन्द्राद्याधारत्वमपि सावकाश-मित्युक्तत्वात्तद्विवक्षया चन्द्रस्यादित्वग्रहणम् । भाष्ये सर्वाधारतया हृत्पद्मस्थत्वमाकाश-स्यैवाकाशश्रुतेरिति पूर्वपक्षस्य द्योतनमेतावत्पठनेनैव भवति । तदन्वेष्टव्यमित्यादि तु पूर्वपक्षा-नुपयुक्तम् । यावान्वा इत्यादिकमपि पूर्वोक्ताकाशस्यैव विशेषकं, नातोऽतिरिक्तम् आकाशस्य सर्वाधारत्वमेव श्रुतिपर्यवसन्नोऽर्थ इति द्योतयितुमितरांशानुदाहरणेऽपि वक्ष्यमाणानन्वयाद्युक्ति-सौकर्याय तद्वाक्यं समग्रं पठति ॥ एतस्मिन्निति ॥ तद्धृदयपद्मस्थत्वमिति ॥ अत्र तच्छब्देन यद्यपि दहरोऽस्मिन्नन्तर आकाश इति वाक्योक्तस्य साक्षात् हृत्पद्मस्थत्वस्य न परामर्श । तस्य सिद्धान्तेऽप्यब्रह्मनिष्ठत्वात् । दहरे विष्णुरेवेति दहराकाशस्थत्वोक्ते । नापि तस्मिन्यदन्तस्तदुपासितव्यं, तदन्वेष्टव्यमिति वाक्योक्तस्य परम्परया हृत्पद्मस्थत्वस्य तत्राकाश-शब्दस्य भाष्योक्तपूर्वपक्षबीजस्य भावात् । पूर्वपक्षे दहराकाशस्यैव सर्वाधारत्वाभ्युपगमात् तस्थस्य तदभावात् । अम्बरान्तधृत्याक्षेपायोगाच्च । तथाप्येतद्वाक्यद्वयोक्तस्य साक्षात्परम्परा-सम्बन्धसाधारणस्य हृत्पद्मस्थत्वसामान्यमुभाभ्यामुभयमुभयत्राङ्गीकृतमिति न तस्य विषयत्वमिति वाच्यम् । सामान्यतो हृत्पद्मस्थत्वस्य पूर्वपक्षिणा विष्णावनङ्गीकारात् । यत् द्यावापृथिव्या-द्याश्रयतया साक्षाद्धृत्पद्मस्थत्वं तदाकाशस्यैव, भाष्योदाहृतसुषिरश्रुते । तद्य्ववहितमन्वेष्टव्य-तया हृत्पद्मस्थत्वं द्यावापृथिव्यादेरेव । तथा च यद्विशेषबाधे सामान्याभाव इति पूर्वपक्षे सति, सत्यं साक्षाद्धृत्पद्मस्थत्वम् आकाशस्य, व्यवहितं तु ब्रह्मण तस्यैवान्वेष्टव्यत्वम् । तथा च
विशेषसद्भावात्सामान्यमप्यस्तीति । सिद्धान्त तथाचोभयसाधारणं हृत्पद्मस्थत्वं विषयो भवत्येव ।
यद्वा सर्वाधारतया हृत्पद्मस्थत्वं विषय अत एव टीकायां सर्वाधारतया हृत्पद्मस्थत्व-माकाशस्येति तावत्पूर्वपक्ष इत्याद्युक्तम् । नन्वेवं सति जीवस्य न संशयपूर्वपक्षविषयत्वमिति वाच्यम् । हृदि ह्येष आत्मेति आत्मश्रुत्या दहरस्थत्विलङ्गेन हृदि ह्येष आत्मेति समाख्यया च जीवप्रसक्तौ अदृष्टद्वारा सर्वाधारत्वोपपत्तेरित्याशयेन पूर्वपक्षाद्युपपत्तेरिति दिक् । विस्तरस्तु प्रमेयमुक्तावल्याम् ॥ किं विष्णोरिति ॥ तत्र दहरोऽस्मिन्नन्तर आकाशस्तस्मिन्यदन्त इति वाक्योक्तं, सर्वाधारतया हृत्पद्मस्थत्वमाकाशश्रुत्या, सुषिरश्रुतिसमाख्यया विष्णुपक्षेऽन्वयाभाव-बाधकेन किमाकाशस्य उत इतरत्र परञ्ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते एषात्मेति होवाचेति जीवस्य य आत्मा अपहतपाप्मेत्युक्तहृत्पद्मस्थात्मतया परामर्शात्, दहरस्थत्विलङ्गाच्च जीवस्य । अथवापहतपाप्मत्व, सत्यकामत्वादिसुप्तप्राप्यत्व, ब्रह्मशब्द, अरण्याख्यसुधा-समुद्राश्रयलोकत्व, ससेतुरित्युक्तसर्वाधारकत्व, य एषोऽन्तर्हृदय आकाश इति वाजसनेय-समाख्या न प्रसिद्धिलङ्गै विष्णोरिति चिन्ता । तदर्थमपहतपाप्मत्वादीनामभिमानिविवक्षयाऽ-काशे मुक्त्यवस्थाविशिष्टजीवे च सावकाशत्वमुत निरवकाशबहुलिङ्गश्रुतिबलाद्विष्णावाकाश-श्रुते तल्लिङ्गादितिन्यायेन सुषिरश्रुतेस्तदन्तस्थत्वविवक्षयान्वयाभावस्य परपक्ष एवोपपादनेन परामर्शस्यान्यार्थत्वेन दहरस्थत्विलङ्गस्य निचाय्यत्वादेवं व्योमवच्चेत्युक्तन्यायेन सावकाशत्व-मिति। एवं विष्णोरुक्तं चन्द्राद्याधारत्वम् "एतस्मिन्ब्रह्मपुर’ इत्यादिनाऽकाशस्य प्रतीयत इति भाष्यमाकाशपदस्थाने हृत्पद्मस्थेति संयोज्य सङ्गतिप्रदर्शनपरत्वेन व्याख्यातम् । अधुना हृत्पद्मस्थस्याकाशस्य प्रतीयत इति संयोज्य तल्लब्धपूर्वपक्षमाह ॥ सर्वाधारतयेति ॥ हृत्पद्म-स्थत्वसामान्यं विषय इति पक्षे सर्वाधारतयेति किमर्थमिति चेन्न । अक्षराधिकरणोदाहृत-श्रुत्यादिबलात्सर्वाधारत्वस्य विष्ण्वैकनिष्ठत्वात्तस्य चात्र श्रवणाद्धृत्पद्मस्थं ब्रह्मैवेत्याशङ्कायां समाख्याबलात्तदप्याक्षिप्यत इति प्रदर्शनार्थत्वेनोपपत्ते ॥ आकाशस्यैवेति ॥ "पद्मकोश-प्रतीकाशं हृदयं चाप्यधोमुखम् । तस्यान्ते सुषिरं सूक्ष्मं तस्मिन्सर्वं प्रतिष्ठितम्’ इति प्रसिद्धाकाशस्यैव सर्वाधारतया हृत्पद्मस्थत्वमुक्त्वा "तस्य मध्ये वह्निशिखाऽणीयोर्ध्वा व्यवस्थितेति,’ सुषिरमध्ये वह्निशिखामुक्त्वा "तस्या शिखाया मध्ये परमात्मा व्यवस्थित’ इति विष्णोस्तच्छिखामध्यस्थत्वोक्तेरिति भाव । भाष्ये दहरम्पुण्डरीकं वेश्म, "दहरोऽस्मिन्नन्तर आकाश किं तदत्र विद्यते उभेऽस्मिन्द्यावापृथिवी’ इत्यादिवाक्यपठनेन किं तदत्र विद्यते इति प्रश्नस्य ब्रह्म विद्यत इति परिहाराभावात् । प्रत्युतोभेऽस्मिन्नित्यादिपरिहारसंश्लेषात् विष्णुपक्षे यावान्वा इत्यादेरनन्वय इति सूचितां, न्यायविवरणोक्तामनन्वययुक्तिं सङ्गमयितुमाह न च वाच्यमित्यादिना ॥ अभिप्रायासङ्गतिरिति ॥ पूर्वोत्तरवाक्ययोरसङ्गतार्थप्रतिपादकत्वेनैवानन्वय न तु अनन्वयानुकूलविभक्तिकपदत्वादिनेति भाव ॥ विशिष्येति ॥ द्युपृथिव्याद्याश्रयत्व-योग्यत्वाय बाह्याकाशतुल्यतया विशिष्येत्यर्थ । पूर्वं "स चाकाशो न विष्णुरिति’ भाष्यं दहरोऽस्मिन्नन्तर इत्युक्ताकाशस्य विष्णुत्वाभावपरत्वेन व्याख्यातम् । अधुना विष्णुपक्षेऽन्वयो-पपत्तये यावान्वाऽयमाकाश इत्युक्ताकाशो विष्णुरिति शङ्किते तन्निषेधकतया व्याचष्टे न च यावानित्यादिना ॥ अत एव तदन्तस्थत्वादिसिद्धान्ते परिहारो भविष्यतीति बोध्यम् । इतरपरामर्शादिति सूत्र एव जीवपूर्वपक्षप्रदर्शनाद्भाष्ये त्यागेऽपि एकबुध्यारोहाय स्वयमाह ॥जीवस्य वेति ॥ अपहतपाप्मेत्युक्तेऽपि मुक्तौ भाविविवक्षयाऽपहतपाप्मत्वं जीवेऽविरुद्ध-मितिभाव ।
अल्पश्रुतिसूत्रोक्तमाह ॥ दहरस्थत्वेति ॥ अंशतोऽपीति योज्यम् । तेनार्भकौकसूत्रे व्योमवत्सर्वगतस्याप्यंशतोऽल्पस्थानगतत्वमुक्तमिति निरस्तम् ॥ तस्यांशतोऽपि सर्वगतत्वादिति भाव । सूत्रभाष्ययो सप्तम्यन्तं दहरपदं दहरं पुण्डरीकम् इत्युक्तदहरपद्मपरम् । सूत्रे तदित्यनु-वर्तते । उत्तरेभ्य इत्युत्तरवाक्योक्तेभ्यो गुणेभ्य इत्यर्थ । उपसंहारस्थततया प्राबल्यं सूचयितु-मुत्तरग्रहणमित्यभिप्रेत्य व्याचष्टे दहरपद्मस्थ इति ॥ य आत्मेति ॥ यद्यप्येष आत्मेति साक्षाद्धृत्पद्मस्थे श्रूयते तथाप्युत्तरत्र बहुवारं य आत्मेत्यभ्यासिलङ्गाभ्याससूचनाय य आत्मेति भाष्ये पठितमिति ज्ञेयम् । विष्णोरेवेत्येवकारव्यवच्छेद्यमाह न चाकाशस्येति ॥ अस्ति प्राप्तिरिति ॥ चेतनजातीये जीवे पापादिदर्शनादिति भाव ॥ सत्यकामत्वादीति ॥ सत्यकाम सत्यसङ्कल्प इति तदुत्तरवाक्ये सत्यकामत्वादिकथनादिति भाव ॥ कथञ्चिदिति ॥ जीवेषु मुक्त्यनन्तरं रमायां परतन्त्रेणेत्यर्थ । केचिदभिमानिद्वारे(णे)त्यर्थमाहु न कथञ्चिदिति । तत्काम्यकामितेत्यविनाभूतत्वेन सत्यकामत्वोक्तेरिति भाव ॥ अनेनेति ॥ क्वापि निरपेक्ष-धर्माभावकथनेनेत्यर्थ ।
तत्त्वसुबोधिनी
अत्र "सदायतना सत्प्रतिष्ठा’ इत्यादिना सद्धर्मतयोक्तसर्वाधारत्वादे "उभे अस्मिन् द्यावापृथिवि’ इत्यादिना हृत्पद्मस्थे श्रवणात्तस्य विष्णोरन्यत्वे प्रागुक्तं सदप्यन्यदेव स्यादिति पूर्वाक्षेपेण पूर्वपक्षोत्थानादनन्तरसङ्गति । श्रुतिसाधारण्येनोभयत्र प्रसिद्धत्वमाह ॥ अत्र यो वेदेति ॥ अथानन्तरं ब्रह्मपुरे शरीरे यदिदं दहरम् अल्पं पुण्डरीकं वेश्म हृत्पद्मं वर्तते । अस्मिन् हृत्पद्मे दहर अल्प आकाशोऽस्ति तस्मिन् आकाशे यदन्त तदन्वेष्टव्यम् । वा वेति निपातौ। तज्जिज्ञासितव्यं विचारणीयमिति गुरुणोक्ते शिष्या तं चेद्यदि ब्रूयु किं तद्ब्रूयुरत आह अत्राकाशे किं विद्यते यदन्वेष्टव्यम् । तथा जिज्ञास्यतया चोच्यते इति शिष्यैरुक्ते तान्प्रति सगुरु ब्रूयात् यावान्वायम् आकाश तावानेष आकाश हृदये अन्तस्तिष्ठति अस्मिन्नाकाशे द्यावापृथिव्यन्तरिक्षादिकं समाहितमित्यर्थ ॥ तत् हृत्पद्मस्थत्वमिति ॥ यद्यप्यत्र तच्छब्देन दहरोऽस्मिन्नन्तराकाश इति वाक्योक्तस्य तस्मिन्यदन्त तदन्वेष्टव्यमिति वाक्योक्तस्य वा परामर्श । प्रथमे तस्य सिद्धान्तेऽप्यब्रह्मनिष्ठत्वात् । द्वितीये भाष्योक्तस्याकाशशब्दस्य पूर्वपक्ष-बीजस्याभावात् । अम्बरान्तधृत्याक्षेपायोगाच्च । तथाहि दहरोऽस्मिन्नन्तराकाशस्तस्मिन् यदन्त तदन्वेष्टव्यमिति वाक्योक्तस्य साक्षात्परम्परासाधारणस्य हृत्पद्मस्थत्वस्य परामर्श इति नोक्तानुपपत्तेरिति भाव । सर्वाधारतया हृत्पद्मस्थत्वमिति । अत्राक्षराधिकरणोदाहृत-श्रुतिस्मृतिबलात् सर्वाधारत्वस्य विष्ण्वेकनिष्ठत्वात्तस्य चात्र श्रवणात् हृत्पद्मस्थत्वं विष्णोरेव किं न स्यादित्याशङ्कायां तस्मिन्सर्वं प्रतिष्ठितमिति समाख्याबलात्तदप्याक्षिप्यत इति प्रदर्शनार्थं सर्वाधारतयेत्युक्तमिति द्रष्टव्यम् । हृत्पद्मे दहराकाशस्थिति श्रवणादिति । अनेन भाष्ये दहरोऽस्मिन्नन्तर आकाश इत्यंशोदाहरणस्य युक्तिसूचनं प्रयोजनमिति भाव । सर्वमेतदाकाश-शब्दस्य भाष्ये प्रयोगमूलकमित्यव गन्तव्यम् । अन्यथा हृत्पद्मस्थस्येत्वक्ष्यत् ॥ तस्यान्ते सुषिरमिति ॥ प्रसिद्धाकाशस्यैवेति ॥ श्रुतौ तच्छब्देन ""पद्मकोशप्रतीकाशं हृदयं’’ इत्युक्त हृत्पद्मपरामर्शादिति भाव । वाक्यान्वयानुपपत्तिं एव दर्शयति ॥ तथा हीत्यादिना ॥ अभिप्रायसङ्गतिरिति ॥ पूर्वोक्तवाक्ययोरसङ्गतार्थप्रतिपादकत्वेनैवानन्वय । नत्वन्यथाऽननुकूल-विभक्तिकपदत्वादिनेति भाव । नन्वाकाशपक्षेऽप्यन्वयाभावात् कथमाकाशस्यैव हृत्पद्म-स्थत्वमुच्यते इत्यत आह ॥ आकाशपक्षेऽत्वस्त्यन्वय इति । प्रागुक्ताकाशमेव विशिष्येति । द्यावापृथिव्याद्याश्रयत्वयोग्यत्वाय बाह्याकाशतुल्यतया विशिष्येत्यर्थ । आकाशाख्यो विष्णु सर्वाधारतयेति । तथाचान्वेष्टव्ये इत्थं भावप्रदर्शनार्थमुभेऽस्मिन्नित्यादिकं प्रवृत्तमिति तदपि नासङ्गतमिति भाव । न चाकाशपक्षेऽपहतपाप्मत्वादिकमनुपपन्नमिति वाच्यम् । तस्याचेतनत्वेन पापात्यन्ताभावस्य सत्त्वात् । सत्यकामत्वे तु प्रतिहतकामादिराहित्यात् । यद्वाभिमान्यभिमन्य-मानाभिप्रायेणैतदिति न कोऽपि दोष इति भाव । इतरपरामर्शादिति सूत्रं निरस्य पूर्वपक्षमाह ॥ जीवस्य वैतदिति ॥ तत्र युक्तिमाह ॥ उत्तरत्रेति ॥ इति वाक्यस्थैतच्छब्देन प्रकृतं जीवमनूद्येति शेष । हृत्पद्मस्थात्मतया परामर्शात् ॥ हृत्पद्मस्थस्यात्मत्वविधानादित्यर्थ ॥ जीविलङ्गाच्च जीव एव हृत्पद्मस्थ इत्याह ॥ दहरस्थत्विलङ्गाच्चेति ॥ चेतनत्वादस्ति प्राप्तिरिति॥ चेतनजातीये जीवे पापादे दर्शनादिति भाव ॥ अनेनेति ॥ नित्य-तीर्णाशनायादिरित्यनेनेत्यर्थ ।
वाक्यार्थविवरणम्
तस्मिन् यदन्तरित्यादि ॥ तस्मिन्यदन्तरिति वाक्येन उक्तो यो हृत्पद्मस्थाकाशगतो विष्णु स सर्वाधारतया "उभेऽस्मिन्’ इत्यादिवाक्येनोच्यत इति योज्यम् ॥ इत्युक्ते ॥ तस्मिन् यदन्त इति वाक्येन ॥ प्रश्ने ॥ किं तदत्र विद्यत इति वाक्येन ॥ परिहारेति ॥ द्यावा-पृथिव्यादिकं तत्र विद्यत इति परिहार शिष्ट इत्यर्थ । तर्हि यावान्वा इत्यादेरसङ्गतिरित्यत उक्तं यावान्वेत्यादिविशिष्येत्यन्तम् । अल्पस्य हृत्पद्मस्थाकाशस्य कथं द्यावापृथिव्या-द्याश्रयत्वमिति शङ्कापरिहाराय हत्पद्मस्थाकाशस्य द्यावापृथिव्याद्याश्रयत्वयोग्यत्वाय दहरोऽस्मि-न्नन्तराकाश इति प्रागुक्ताकाशमेव यावन्वा इत्यादिवाक्येन बाह्याकाशतुल्यतया विशिष्यत इत्यर्थ । विष्णुपक्षे अन्वयमाशङ्कते ॥ न च यावानित्यादिनेति ॥ तस्मिन् यदन्तरित्यादिना हृत्पद्मस्थाकाशस्थं ब्रह्मान्वेष्टव्यमित्युक्ते कीदृशं तदिति भावेन किं तदत्र विद्यत इति पृष्टे तत्स्वरूपनिरूपणाय यावान्वा इत्यादि वाक्यं प्रवृत्तम् । तथा च यावान्वा अयमासमन्तात् काशनादाकाशो भगवान् बहिर्व्याप्ततया तिष्ठति तावानेषोऽन्तर्हृदये आकाशो तिष्ठतीत्येक-महिमानं निरूप्य, उभेऽस्मिन्नित्यादिना सर्वाधारत्वरूपमहिमान्तरमुच्यते । इत्यन्वयो-पपत्तेरित्यर्थ ॥ विरोधादिति ॥ विष्णो सर्वाधारत्वोक्ताविति शेष ॥ अन्वयाभावदोष इति॥ तस्मिन्यदन्त इत्यत्र जीवत्वाभिप्राये किं तत्र विद्यत इति प्रश्नस्य जीवो विद्यत इति परिहारं विना यावान्वा इत्यादेरन्वयाभाव इत्यर्थ । एवं सिद्धान्तिना शङ्किते कुतो न चेत्यत पूर्वपक्षी सिद्धान्तिनं प्रत्याह ॥ विष्ण्विति ॥ साम्यादिति ॥ तस्मिन्नित्यत्र विष्णुत्वाभिप्राये इत्युक्तरीत्या विष्णुपक्षेऽप्यन्वयाभाव समान एवेत्यर्थ ॥ चेतनत्वादिति ॥ तज्जातीये जीवे प्राप्तिरस्तीत्याशय ।
वाक्यार्थमञ्जरी
तस्यान्त इति ॥ तत्र तच्छब्देन पद्मकोशप्रतीकाशं हृदयमिति प्रकृतं हृत्पद्मं परामृश्यते । तथा च तस्य हृत्पद्मस्यान्ते अन्त सूक्ष्मम् अल्पं सुषिरम् आकाशं वर्तते । तस्मिंश्चाकाशे भगवांस्तत्र च सर्वं जगत्प्रकर्षेण वर्तत इत्यर्थ ॥ अथ यदिदमिति ॥ अथेत्यारम्भे अस्मिन्ब्रह्मपुरे पुरुषदेहव्यापिपरब्रह्मशरीरे इदं बुद्धिसन्निहितं दहरम् अल्पं पुण्डरीकं पद्मरूपं वेश्म गृहं यदस्ति अस्मिन्नन्त पद्ममध्ये दहराकाश भूताकाशोऽस्ति तत किमित्यत आह ॥ तस्मिन्निति ॥ तस्मिन्नाकाशे यदन्तर्वर्तते तदन्वेष्टव्यं मार्गणीयम् । न घटादिवदस्यान्वेषण-मप्रत्यक्षत्वादित्यतस्तदेव विवृणोति ॥ तद्वावेति ॥ वावेत्यवधारणे तदेवावजिज्ञासितव्यमिति गुरुणोक्ते सतीति शेष । तङ्गुरुं प्रति शिष्या पृच्छेयु यदिदमित्याद्यनुवाद यद्विजिज्ञासितव्यं तदत्र हृत्पद्मगताकाशे किं विद्यते ब्रह्म च न सम्भवति तस्य व्याप्तत्वेन दहराकाशगतत्वा-योगादिति भाव । इति ब्रूयुरिति सम्बन्ध । तदा स गुरु ब्रूयात् ॥ किमिति ॥ अन्त-शरीरान्तर्हृदये हृद्ययत इति हृदयशब्दवाच्ये हृत्पद्मगते भूताकाशे आकाश आकाशाख्य-परमात्मा वर्तते । एषोऽन्तस्थ यावानयं बहिर्विद्यमान आकाशाख्यपरमात्मा तावान्वै गुणत परिमाणतश्च तावानेव अनेन हृत्पद्मगतं ब्रह्माण्वपि व्याप्तं लोकदृष्ट्या विरुद्धयुगपदणुत्व-महत्त्वादीनां तस्मिन्समावेश्यस्य प्रमितत्वादित्युक्तं भवति । अन्यपरित्यागेन तस्यैव जिज्ञास्यत्वप्रयोजकं तत्सामर्थ्यमाह ॥ उभेत्यादिना ॥ अस्मिन्नन्तरे वोभे मुक्ते द्यावापृथिव्यौ समाहिते समाश्रिते उभयविधाग्न्विायुसूर्यचन्द्रविद्युन्नक्षत्राणि च समाहितानीत्यर्थ । किमाकाशे विद्यत इति प्रश्ने आकाशगतस्यैव वक्तव्यत्वेन यावानित्यादेरसङ्गताकाशपक्षेऽप्यन्वयानुपपत्ति-रित्यत आह ॥ आकाशपक्षे त्विति ॥ हृत्पद्माकाशस्य द्यावापृथिव्याद्याश्रितत्वयोग्यत्वद्योतनाय दहरोऽस्मिन्नन्तर आकाश इति प्रागुक्ताकाशमेव यावान्वेत्यादिना बाह्याकाशतुल्यतया विशिष्येत्यर्थ ॥ परिहारे कथ्यत इति ॥ एतच्च तद्वाक्यव्याख्यावसरे एव व्यक्तम् । उत्तरत्र उत्तरखण्डे । परञ्ज्योतिरिति योऽधिकारी सम्प्रसाद सम्यग्विष्णुप्रसादवान्, एष अस्माच्चरम-शरीरात्समुत्थाय निर्गत, परं ज्योति अतिप्रकाशमान् परमात्मानम् उपसम्पद्य, स्वेन रूपेणाभिनिष्पद्यते स्वस्वरूपाविर्भावं प्राप्नोति । हृत्पद्मस्थात्मनिरूपणावसरे किं ज्योति-प्रसङ्गेनेत्यत उक्तम् ॥ एष इति ॥ यं प्राप्य स्वस्वरूपमाप्नोति स एष प्रागुक्तपरमात्मेति होवाचेत्यर्थ । अत्र य निष्पद्यते एष आत्मेत्यन्वय पूर्वपक्षिणोऽभिमत । न चेति किं तदत्र विद्यत इति प्रश्नस्य जीवे विद्यत इति परिहारं विना यावान्वायमाकाश इत्यादेरसङ्गतत्वादिति भाव ॥ ॐ दहर उत्तरेभ्य ॐ ॥ दहरे दहरं पुण्डरीकमित्याद्युक्तदहरपद्मे स्थितं ब्रह्मैव उत्तरेभ्य य आत्मापहतपाप्मेत्याद्युत्तरवाक्योक्तापहतपाप्मत्वादितद्धर्मेभ्य इत्यर्थ । अपहतपाप्मा दूरनिरस्तपाप, अविजिघत्स बुभुक्षापीडारहित, अतिशयेन प्राप्नोतीति भ्रान्तिं वारयति ॥अतिक्रम्येति ॥ कथञ्चित् अभिमानिद्वारा । अनेन नित्यतीर्णेत्यादिना ।