ॐ तदव्यक्तमाह हि ॐ

१४. अव्यक्ताधिकरणम्

सूत्रभाष्यम्

परमात्मापरोक्ष्यं च तत्प्रसादादेव न जीवशक्त्येति वक्तुमुच्यते—

।। ॐ तदव्यक्तमाह हि ॐ ।। २३ ।।

अव्यक्तमेव तद्ब्रह्म स्वतः ।

अरूपमक्षरं ब्रह्म सदाऽव्यक्तं च निष्कलम् ।

यज्ज्ञात्वा मुच्यते जन्तुरानन्दश्चाव्य(क्ष)यो भवेत्’ इति

हि कौण्ठरव्यश्रुतिः ।

तत्त्वप्रदीपिका

अथ जीवो ज्ञानयोग्योऽपि श्रवणादिमानपि न स्वशक्त्या भगवन्तं पश्यति । किन्तु तत्प्रसादा-देवेति वक्तुं तस्य स्वभावविशेषमाह । ॐ तदव्यक्तमाह हि ॐ ।। यथा प्रकाशदेशादिसामर्थ्या-त्पदार्थानामभिव्यक्तिर्न तथा ब्रह्मणोऽभिव्यक्तिः प्रकाशरूपस्यापि स्वतः ।।

तत्त्वप्रकाशिका

अत्र भगवत्प्राप्तिसाधनभक्त्यर्थं तस्योपलब्धियोग्यत्वसमर्थनादस्ति शास्त्रादिसङ्गतिः । उपलब्धि-योग्यत्वे भक्तिवैयर्थ्यप्रसङ्गात्तदभावः समर्थनीयः । प्रकृता भक्तिरेव विषयः । कर्तव्या न वेति सन्देहः । कर्तव्याऽकर्तव्यव्यापारदर्शनं सन्देहबीजम् । न कार्येति पूर्वः पक्षः । प्रयोजनाभावात् । भगवदाऽऽपरोक्ष्यं प्रयोजनमिति चेन्न तद्भक्तिप्रयोजनम् । स्तम्भादिवत्पुरुषप्रयत्नेनैव तदापरोक्ष्य सम्भवात् । तस्याऽव्यक्तत्वं चेद्व्यर्थैव तद्भक्तिः । अव्यक्तस्वभावस्य साधनशतेनाऽपि दर्शनाऽ-योगात् । तदभ्युपगमे चेश्वरो न प्रतीयतेऽव्यक्तस्वभावत्वाददृष्टादिवदिति युक्तिविरोधः । अतो भक्तेर्व्यर्थत्वादयुक्तं तदर्थं महामाहात्म्यवर्णनमिति ।

सिद्धान्तयत्सूत्रमवतारयति ।। परमात्मेति ।। तत्प्रसादाद्भक्तिसाध्यादिति शेषः । वक्तुमतोऽ-नन्तेनेत्यादौ । उच्यतेऽव्यक्तत्वमिति शेषः । सूत्रं व्याचष्टे ।। अव्यक्तमिति ।। कर्तव्यैव भगवद्भक्तिः । तस्याऽव्यक्तस्वभावत्वेन पुरुषप्रयत्नेन द्रष्टुमशक्यत्वात् । अव्यक्तत्वं च तस्य श्रुतिराहेति भावः ।

गुर्वर्थदीपिका

तदभ्युपगम इत्यस्याव्यक्तस्वभावस्यापि बहुप्रयत्नेन दर्शनाभ्युपगमे इत्यर्थः ।

भावबोधः

उपलब्धियोग्यत्वे भक्तिवैयर्थ्यप्रसङ्गादिति । अतीताधिकरणैर्महिमनिरूपणादिना भक्तेः कर्तव्यत्वसप्रयोजनत्वयोरुक्तयोरेव भक्तिप्रयोजनत्वेनाभिमतज्ञानादेः पुरुषप्रयत्नप्रयोजनत्वेनैव सिद्धेर्व्यर्था भक्तिर्न कार्येति शङ्कोदये तत्परिहारादनन्तरसङ्गतिरिति भावः ।। कर्तव्येति ।। अत्र भक्तिः किं न कर्तव्योत कर्तव्येति चिन्ता । तदर्थं तत्प्रयोजनत्वेनाभिमतं ब्रह्मापरोक्षज्ञानं पुरुष-प्रयत्नसाध्यं भवत्युत नेति । तदर्थं ब्रह्म पिशाचादिवत् समाराधनभावाभावाभ्यां वा अग्न्यादिस्थूल-सूक्ष्मरूपाभ्यां वा व्यक्तत्वाव्यक्तत्वोपेतमुताव्यक्तैकस्वभावं वेति । तदर्थमव्यक्तैकस्वभावस्यापि ब्रह्मण उपासनादिसाध्यप्रसादजन्यापरोक्षज्ञानविषयत्वं न सम्भवत्युत सम्भवतीति । तदर्थ-मव्यक्तत्वापरोक्षत्वयोर्विरोधशामकं नास्त्युतास्तीति । एवं चाव्यक्तत्वापरोक्षत्वयोर्विरोधशामकाभावे उपासनादिसाध्यप्रसादेनाप्यपरोक्षज्ञानासम्भवेनाव्यक्तैकस्वभावत्वानुपपत्तेरपरोक्षज्ञानसिध्यर्थं च पिशाचादिवद्वाग्न्यादिवद्वा, व्यक्तत्वाव्यक्तत्वयोरङ्गीकार्यत्वे परोक्षज्ञानस्य पुरुषप्रयत्नेनैवान्यथासिद्धेर्न तदर्थं भक्तिः कर्तव्येति पूर्वपक्षे विरोधशामकाचिन्त्यशक्तिसद्भावे उपासनादिजन्यप्रसाद-साध्यापरोक्षज्ञानविषयत्वेऽप्यव्यक्तस्वभावत्वोपपत्तौ तदपरोक्षज्ञानस्य पुरुषप्रयत्नसाध्यत्वासम्भवात्, तदर्थं भक्तिरवश्यं कर्तव्येति सिद्धान्ते च फलफलिभावः ।

नन्वपरोक्षज्ञानं भक्तिप्रयोजनमभिलषता किं व्यक्तत्वं ब्रह्मणोऽङ्गीक्रियते, उताव्यक्तत्वमिति विकल्पं हृदि कृत्वाद्यं दूषयति– स्तम्भादिवदिति ।। अनेन ‘तदव्यक्तत्वमाह हि’ इत्यादिसूत्रत्रय-निरसनीयपूर्वपक्ष उक्तो भवति । द्वितीयमाशङ्क्य दूषयति– तस्याव्यक्तत्वं चेदिति ।। अनेन ‘अतोऽनन्तेन’ इति सूत्रनिरसनीयपूर्वपक्षांशः प्रदर्शितः ।। तदभ्युपगमे चेति ।। अव्यक्त-स्वभावस्यापि दर्शनाभ्युपगम इत्यर्थः । न प्रतीयते प्रत्यक्षेणेति शेषः । अनेनाव्यक्तस्वभावस्य दर्शने तर्कबाध इति न्यायविवरणं व्याख्यातं भवति । भक्तेः कर्तव्यत्वप्रतिपादनार्थं प्रवृत्तत्वात् परमात्मापरोक्ष्यं प्रसादादेवेत्युक्ते कथं भक्तेः कर्तव्यत्वसिद्धिरित्यत आह– भक्तिसाध्यादिति ।। शेष इति ।। इत्यादाविति ।। आदिशब्देन ‘प्रकाशश्च कर्मणि’ इत्येतद् ग्राह्यम् । यद्वा ‘आदौ’ प्रथमत उच्यते । व्यक्तत्वमित्युत्तरत्रान्वयः ।

भावदीपः

अतोऽनन्तेनेति सूत्रानुरोधादधिकरणार्थमाह ।। तस्योपलब्धियोग्यत्वेति ।। स्वतोऽव्यक्तस्यापि प्रसादद्वारेति भावः । यद्यपि तदयोग्यत्वमेव महिमा देवादौ दर्शनात् । तथापि महिमोक्तेर्भक्त्यर्थ-त्वाद्भक्तेश्चोपलब्ध्यर्थत्वात्तस्य च तदयोग्यत्वे भक्तेरेव व्यर्थतापत्तेरव्यक्तैकस्वभावस्यापि तस्य भक्त्यादिना प्रसन्नस्य स्वशक्त्योपलब्धियोग्यत्वस्य च महिमरूपत्वाच्च । अत एव सूत्रकृता तस्याव्यक्तैकस्वभावत्वमुक्त्वा पश्चादेव तद्योग्यत्वमुक्तम् । तदुक्तमनुव्याख्याने । अव्यक्तोऽपि स्वशक्त्यैव भक्तानां दृश्यते हरिरितीति भावः । एतेन पूर्वसूत्रे जीवानामैहिकसौख्यकारणमन्नादिना पोषणादिकमीश्वरायत्तमित्युक्तम् । अत्र तु पारत्रिकसौख्यहेतुस्वापरोक्षज्ञानमपीश्वरायत्तमुच्यत इति सङ्गतिरपि सूचिता ।। भक्तिवैयर्थ्येति ।। भक्तेरनुबन्धादिभ्य इति वक्ष्यमाणदिशोपलब्ध्यंगत्वादिति भावः । क्वचिदुपलब्ध्ययोग्यत्वसमर्थनादित्यादिपाठः । तदा तूपोद्घातप्रमेयं हृदि कृत्वा आहे-त्यवतारिका ध्येया ।। कर्तव्याकर्तव्येति ।। भोजनादेः सफलव्यापारस्य निष्फलस्य शिरोवेष्टनया नासिकाग्रहणादिव्यापारस्य च दर्शनमित्यर्थः । सूत्रेषु व्यक्तत्वाव्यक्तत्वयोरुक्तत्वादुभयत्र पूर्ववादी दोषमाह ।। स्तम्भादिवदित्यादिना ।। अव्यक्तस्वभावस्य दर्शने तर्कबाध इत्यन्यत्रोक्तमत्र संयोजयति ।। तदभ्युपगम इति ।। अव्यक्तस्वभावस्यापि दर्शनाभ्युपगम इत्यर्थः ।। अत इति ।। व्यक्तत्वाव्यक्तत्वरूपपक्षद्वयेऽपि दोषसद्भावादित्यर्थः ।

भक्तिसाफल्यायाह ।। भक्तिसाध्यादिति ।। फलोक्तिपूर्वं व्यक्तत्वपक्षोक्तदोषनिरासकतया सूत्रभाष्ये व्याचष्टे ।। कर्तव्यैवेति ।। स्वत इत्यस्यार्थः स्वभावत्वेनेति ।। अव्यक्तत्वं श्रुतिराहेतीति भाष्ये श्रुतिशेषोक्तिस्तस्याव्यक्तत्वे भक्त्यादिवैयर्थ्यम् । अविषयस्य ज्ञानायोगेन फलाभावादिति शङ्काव्यावृत्त्यर्थं कर्मणीति वक्ष्यमाणस्योपोद्बलकतयेति भावः ।

अभिनवचन्द्रिका

भक्त्यर्थमिति ।। भक्तेरावश्यकत्वसिद्ध्यर्थं पुरुषप्रयत्नाधीनोपलब्ध्ययोग्यत्वसमर्थनादित्यर्थः । उपलब्धियोग्यत्व इति ।। भक्त्यभावेऽपि उपलब्धियोग्यत्वे भक्तेरनावश्यकत्वप्रसङ्गात् समर्थनीय-मित्यर्थः । एतेन भक्तेरुपलब्ध्यर्थत्वात् उपलब्धियोग्यत्व एव भक्तेः सार्थक्यात् उपलब्धियोग्यत्वमेव समर्थनीयम् न त्वयोग्यत्वं भक्तिवैयर्थ्यप्रसङ्गादिति निरस्तम् । ननु अव्यक्तमेव ब्रह्म सहकारिसमवधानात्प्रत्यक्षं भवति । समाराधनमेव च सहकारि न भक्तिः । अव्यक्तयक्षसाक्षात्कारे तस्य सहकारित्वदर्शनात् । क्लृप्तसहकारिभावेन समाराधनेनैव तत्साक्षाकारो पपत्तौ भक्तिकल्पन-स्याऽनुपपन्नत्वादिति शङ्कते अस्त्विति ।। आराधनेऽप्यव्यक्तत्वस्येति ।। आराधनसह-कृतेन्द्रियायोग्यत्वस्य ज्ञानिप्रत्यक्षसिद्धत्वादित्यर्थः ।। अव्यक्तत्वं प्रत्यक्षसिद्धमिति ।। अव्यक्त-शब्दस्य प्रत्यक्षाऽयोग्यत्वार्थकत्वात् ‘अव्यक्तत्वं प्रत्यक्षसिद्धम्’ इति व्याहतम् । धर्मिणोऽ-योग्यत्वेऽव्यक्तत्वरूपधर्मस्य तत्र प्रत्यक्षेण सिध्ययोगादित्याशङ्का ‘प्रकाशश्च कर्मण्यभ्यासात्’ इत्यत्र श्रवणाद्यभावदशायाम् अयोग्यस्यापि श्रवणाद्यभ्यासे योग्यत्वाभिधानेन गर्भःस्त्रावेणेव नङ्क्ष्यती-त्यर्थः । न हि स्वगतविशेषशून्य इति ।।

ननु स्वगतविशेषशून्यत्वाभिधानमयुक्तं, प्राक् स्वेनैवोत्पत्त्यनुत्पत्योर्व्यक्तत्वा व्यक्तत्वयोश्चाभि-धानादिति चेत्, सत्यम् । अस्त्येव व्यक्तरूपे जननं तत एव व्यक्तत्वं च । न च तावता मूलरूपाद्विशेषः । जननस्य स्वेच्छागृहीतत्वात् । न हि स्वेच्छया दण्डमवष्टभ्य गच्छन् राजा शुद्धात्, क्षीणशक्तिर्भवति । किंनाम स्वगतविशेषशून्य एवोच्यते । दण्डस्य स्वेच्छागृहीतत्वात् । एवमीश्वरोऽपि स्वेच्छागृहीतजन्मादिरपि पूरुषार्थप्रदानादिविषये स्वगतविशेषशून्य एवेति भावः ।। न चैवं ब्रह्मणीति ।। ननु कथं ब्रह्मणि स्थूलत्वं नास्ति । रामकृष्णादिरूपाणां स्थूलत्वात् । न हि घटादिदर्शनात् अधिकसाधनसाध्यत्वं तत्कालभवानां रामकृष्णादिदर्शनस्य, येन तस्य स्थूलत्वं नेति प्रतीम इति चेत्, न वयं ब्रह्मणः सर्वथा प्रत्यक्षविषयत्वं व्यासेधामः, किंनाम भक्त्यभावे स्वस्वरूपभूतेन ज्ञानानन्दाद्यात्मना इन्द्रियग्राह्यत्वं व्यासेधामः । अस्ति च तेन रूपेण रामकृष्णादीनामपि इन्द्रियाग्रह्यत्वम् । अत एव तद्दर्शिनां मुक्त्यभावोऽपि । श्रुत्यैव स्थौल्यस्येव सूक्ष्मत्वस्यापि निषिद्धत्वात् सूक्ष्मत्वाङ्गीकारोऽयुक्त इत्यतः श्रुत्यर्थमाह – केनचिद्रूपेणेति ।। श्रुत्या सूक्ष्मत्वं रूपान्तरात् विशेषो नेत्येव निषिद्धम्, न तु सर्वात्मना निषिद्धमिति भावः ।

ननु कथं नित्याव्यक्तस्येति ।। सर्वात्मना साधनशक्त्यविषयस्येत्यर्थः ।। न हि साधनशते-नेति ।। इन्द्रियस्य ग्रहणशक्त्यभावे उपनेत्रादिसहस्रसामग्रीसमवधानेऽपि ज्ञानादर्शनादिति भावः । अन्यथा परमाण्वादीनां दर्शनप्रसङ्गः ।

पूर्वपक्षस्तु व्यक्त एवायमीश्वरः । महत्त्वसमानाधिकरणोद्भूतरूपवत्त्वात् । ‘यदा पश्यः पश्यत’ इति श्रुतेश्च । न हि अव्यक्तस्वभावत्वे साधनशतेनापि दर्शनमुपपद्यते । स्वभावस्याऽनपायात् । ततश्च स्तम्भादिवत् पुरुषप्रयत्नेनैव प्रत्यक्षसम्भवात् व्यर्थैव तद्भक्तिरिति तन्महिमवर्णनमपि व्यर्थमेवेति ।

सिद्धान्तस्तु अव्यक्त एवायमीश्वरः । ‘अरूपमक्षरं ब्रह्म सदाऽव्यक्तं च निष्कलम्, इति श्रुतेः । अत एव प्रत्यक्षताप्रयोजकप्राकृतरूपवत्त्वमसिद्धम् । ननु अस्तु स्वतोऽव्यक्तं ब्रह्म तथापि समाराधनेन यक्षादिवव्द्यक्तं भविष्यतीति चेत्, न भक्त्यभावे सत्यपि समाराधने ब्रह्माऽप्रत्यक्षत्वस्य ज्ञानिप्रत्यक्षसिद्धत्वेन समाराधनस्य ब्रह्मप्रत्यक्षहेतुत्वाऽभावात्, यक्षस्यातिसूक्ष्मत्वाभावेन समाराधनसहकृतेन्द्रियग्राह्यत्वेऽपि अतिसूक्ष्मत्वेन ब्रह्मणस्तदयोगाच्च । ननु अस्तु मूलरूपेणाऽव्यक्तं ब्रह्म, अनुत्पन्नत्वात् । अवताररूपेण तु व्यक्तीभविष्यति उत्पन्नत्वात् । मूलरूपेणाऽव्यक्तानामपि अनलजलभुवामुत्पन्नरूपेण व्यक्तत्वदर्शनात् । न च मूलरूपमेव दृष्टं मोक्षसाधनं नाऽवताररूपमिति शक्यते वक्तुम् । लीलया विग्रहस्य गृहीतत्वेन उत्पत्त्यादेर्दोषत्वाभावात् मूलरूपेण समशक्तित्वात्, ‘पूर्णमदः पूर्णमिदम्’ इति वचनाच्च । ततो व्यर्था भक्तिरिति चेत्, न मूलरूपावताररूपयोरपि अव्यक्तत्वेन व्यक्ताव्यक्तत्वविशेषाभावात् । ‘स्थूलसूक्ष्मविशेषोऽत्र न क्वचित्परमेश्वरे । सर्वत्रैक-प्रकारोऽसौ सर्वरूपेष्वजो यत’ इति वचनात् ।

ननु यदि नित्याव्यक्तं तद्ब्रह्म व्यर्थैव तद्भक्तिः । अव्यक्तस्वभावस्य साधनशतेनापि व्यक्तं कर्तुमशक्यत्वादिति चेत्, न भक्तिपूर्वकं श्रवणाद्यभ्यासेन तत्प्रसादे जाते तदापरोक्ष्याङ्गीकारात् । ननु अव्यक्तस्वभावत्वरूपयुक्तिविरोधापरिहारादिति चेत्, न अव्यक्तस्वभावस्य साधनसामर्थ्येन ग्रहणाऽसम्भवेऽपि तत्प्रसादेनाऽऽपरोक्ष्याङ्गीकारे बाधकाभावात् । ईशस्याऽघटितघटकत्वेन सिद्धत्वात् । तदुक्तम् यद्धि युक्त्या विरुध्द्येत तदीशकृतमेव हीति । ‘भगवत्प्रसादः तदपरोक्षसाधनं, मोक्षहेतुत्वात्’ इत्यनुमानसिद्धत्वाच्च । अतो भक्तेः सफलत्वात् तदर्थं तन्महिमवर्णनं सार्थकमिति सिद्धिम् ।

वाक्यार्थमुक्तावली

अस्येदेषा सुमतिः प्रप्रथानेति पूर्वाधिकरणोपात्तश्रुतौ अस्य इत् अस्यैव प्रसादात् एषा ब्रह्मादीनां सुमतिः अपरोक्षज्ञानरूपा प्र अतिशयेन प्रथाना अभवदिति स्वप्रसादेनैवेश्वरस्योप-लभ्यत्वमहिमा निरूपितः । स न युक्तः । स्तम्भादिवत्प्रयत्नेनोपलब्धुं शक्यत्वात् प्रसादवैय्यर्थ्य-मित्याक्षेपे तस्य जीवप्रयत्नेनोपलब्ध्ययोग्यत्वमहिम्नो वर्णनादनन्तरसङ्गतिरिति भावः ।। कर्तव्येति ।। अत्र भक्तिः किं न कर्तव्योत कर्तव्येति चिन्ता । तदर्थं तत्प्रयोजनत्वेनाभिमतं ब्रह्मापरोक्षज्ञानं पुरुषप्रयत्नसाध्यं भवत्युत नेति । तदर्थं ब्रह्म पिशाचादिवत्समाराधनभावाभावाभ्यां वाग्न्यादिवत्स्थूल-सूक्ष्मरूपाभ्यां वा व्यक्तत्वोपेतमुताव्यक्तैकस्वभावं वेति । तदर्थमव्यक्तैकस्वभावस्याप्यपरोक्ष-ज्ञानविषयत्वं न सम्भवत्युत सम्भवतीति । अकर्तव्यव्यापारदर्शनमिति ।। प्रयोजनराहित्येना-कर्तव्यकाकदन्तपरीक्षादिव्यापारदर्शनमित्यर्थः । न तु कलञ्जभक्षणादिनिषिद्धव्यापारदर्शनमित्यर्थः । नन्वपरोक्षज्ञानं भक्तिप्रयोजनमभिलषता किं व्यक्तत्वं ब्रह्मणोऽङ्गीक्रियते उताव्यक्तत्वमिति विकल्पं मनसि निधायाद्यं दूषयति ।। स्तम्भादिवदिति ।। अनेन तदव्यक्तमाह हीत्यादिसूत्रनिरसनीयपूर्वपक्ष उक्तो भवति । द्वितीयमाशङ्क्य दूषयति । तस्याव्यक्तत्वं चेदिति । अनेनातोऽनन्तेनेति सूत्रनिरसनीयपूर्वपक्षांशः प्रदर्शितः । अनन्तेनेत्यचिन्त्यशक्त्युक्त्या निरसनीयं तर्कबाध इत्युक्तपूर्वपक्षन्यायं प्रकटयितुमाह ।। तदभ्युपगमे चेति ।। अव्यक्तस्वभावस्यापि दर्शनाभ्युपगम इत्यर्थः ।। भक्तिसाध्यादिति ।। विशेष इति ।। अन्यथा भक्तेः कर्तव्यत्वासिद्धेः प्रकृतानुपयोग इति भावः ।। इत्यादाविति ।। आदिपदेनापि संराधन इत्यस्य ग्रहणम् । तत्र न जीवशक्त्येति प्रतीतेः हि यस्मात्तदव्यक्तं अतो भक्तिः कर्तव्या । हि यस्मात्तद्ब्रह्माव्यक्तं श्रुतिराह तस्मात्तद-व्यक्तमिति सूत्रार्थं मत्त्वाह ।। कर्तव्यैवेति ।।

तत्त्वसुबोधिनी

उपलब्धियोग्यत्व इति ।। अतीताधिकरणैः महिमनिरूपणादिना भक्तेः कर्तव्यत्व-सप्रयोजनत्वयोः उक्तयोरेव भक्तिप्रयोजनत्वेनाभिमतज्ञानादेः पुरुषप्रयत्ननैव सिद्धेः व्यर्था भक्तिः न कार्या इति शङ्कोदये तत्परिहारादनन्तरसङ्गतिरिति भावः । अपरोक्षज्ञानं भक्तिप्रयोजनमभिलषता किं व्यक्तत्वं ब्रह्मणोऽङ्गीक्रियत उताव्यक्तत्वमिति विकल्पं मनसि कृत्वाद्यं दूषयति ।। स्तम्भादि-वदिति ।। अनेन तदव्यक्तमाह हीति सूत्रत्रयनिरसनीयः पूर्वपक्ष उक्तो भवति । द्वितीयमाशङ्क्य दूषयति ।। तस्याव्यक्तत्वं चेदिति ।। अनेनातोऽनन्तेनेति सूत्रनिरसनीयः पूर्वपक्षांशः प्रदर्शितः । अव्यक्तत्वेऽपि कुतो भक्तिवैय्यर्थ्यमित्यत आह ।। अव्यक्तेति ।। नन्वव्यक्तस्वभावस्यापि दर्शन-मङ्गीक्रियत इत्यत आह ।। तदभ्युपगमे चेति ।। न प्रतीयते प्रत्यक्षेणेति शेषः । नन्वस्य भक्तेः कर्तव्यत्वप्रतिपादनार्थं प्रवृत्तत्वात् परमात्मापरोक्ष्यं प्रसादादेवेत्युक्ते कथं भक्तेः कर्तव्यत्वसिद्धिरित्यत आह ।। भक्तिसाध्यादिति ।। शेष इति ।। इत्यादावित्यादिशब्देन प्रकाशश्च कर्मणीत्येतद्ग्राह्यम् ।

वाक्यार्थविवरणम्

स्तम्भादिवदित्यतः पूर्वं तस्य व्यक्तत्वं चेदिति शेषः । अत एवोत्तरत्र तस्याव्यक्तत्वं चेदिति पक्षान्तरवचनम् ।। पुरुषप्रयत्नेनेति ।। स्तम्भादौ पुरुषप्रयत्नः इन्द्रियार्थसन्निकर्षः, भगवति तु श्रवणादिरूप इति ध्येयम् । भाष्ये जीवशक्त्येत्यस्य श्रवणादिरूपजीवप्रयत्नेनेत्यर्थः ।

वाक्यार्थमञ्जरी

अपरोक्षज्ञानं भक्तिप्रयोजनमिति वदता किं ब्रह्मणः व्यक्तत्वमङ्गीक्रियते उताव्यक्तत्वं आद्ये आह ।। स्तम्भादिवदिति ।। द्वितीयमाशङ्क्य दूषयति ।। तस्येति ।। तदभ्युपगम इति ।। अव्यक्तस्वभावस्यापि दर्शनाभ्युपगम इत्यर्थः । न प्रतीयते प्रत्यक्षेण ।। ॐ तदव्यक्तमाह हि ॐ ।। तद् ब्रह्माव्यक्तम् । कुतः ? हि यस्मादरूपमिति श्रुतिस्तथाहेत्यर्थः । भक्तेः कर्तव्यत्वसिध्यर्थमाह ।। भक्तिसाध्यादिति ।।


Load More