ॐ इयदामननात् ॐ

२१. इयदामननाधिकरणम्

सूत्रभाष्यम्

।। ॐ इयदामननात् ॐ ।। ३५ ।।

नामाद्यारभ्य प्राणान्तमुत्तरोत्तरमुत्तमत्वमुक्तम् । न प्राणात्किञ्चिद्भूय उक्तम् । तथाऽपि पूर्ववत्स्यादि(दपी)ति न वाच्यम् । ‘प्राणो वाव सर्वेभ्यो भूयान्न हि प्राणाद्भूयान्प्राणो ह्येव भूयांस्तस्माद्भूयान्नाम’इति कौण्ठरव्यश्रुतेः ।

तत्त्वप्रदीपिका

अवसितः प्रासङ्गिको मुक्तविषयो विचारः । इदानीमधिकारितारतम्यस्य विश्रान्तिस्थानमाह–इयदामननात् ।। नामवाङ्मनःसङ्कल्पचित्तध्यानविज्ञानबलान्नाप्तेजाऽकाशस्मराशाप्राणा नामादि-प्राणान्ताः । तत्र चोक्तमनुव्याख्याने–

उषा स्वाहा च पर्जन्यो मित्रोऽग्निर्वरुणो विधुः ।

प्रवहोऽनिरुद्ध इन्द्रोमे रुद्रो वाणी च मारुतः ।

उत्तरोत्तरतस्त्वेते गुणैः सर्वैश्च मुक्तिगाः’ इत्यादि बृहत्संहितावचनम् ।

इन्द्रादनन्तरः प्राण आहङ्कारिकः’ इति च । ‘वाग्वाव नाम्नो भूयसी’ ‘मनो वाव वाचो भूयः’ ‘सङ्कल्पो वाव मनसो भूयान्’ इत्यारभ्य प्राणान्तमुत्तरेषामुत्तमत्वमुक्तं छन्दोगश्रुतौ । न च तथा तत्र प्राणात्किञ्चिद्भूय उक्तम् । तथाऽपि पूर्ववत्स्याच्चेत्किं निवारकम् । न ह्यत्रानुक्तिरभावे प्रमाणम् । प्रमाणान्तरेण तत्सद्भावसम्भवादिति न वाच्यम् । श्रुत्यन्तरे प्राणादुत्तमोऽन्यो नास्तीत्यामननात् ।

तत्त्वप्रकाशिका

अत्र ब्रह्मज्ञानसाधनोपासनाधिकारिणां प्राणावधित्वसमर्थनादस्ति शास्त्रादिसङ्गतिः । निरवधि-कत्वे ब्रह्मण एव सर्वगुणोपास्तियोग्यत्वं न स्यादतस्तत्समर्थनीयम् । ये भगवदुपासकाः प्रकृतास्त एव च्छन्दोगश्रुतौ नामादिप्राणपर्यन्तं तारतम्येनोक्ताः प्राणादुत्तमो नोक्तः । त एवोपासनाधिकारिणो विषयः । किं प्राणावसाना न वेति सन्देहः । अनुक्तेरुभयथापि दर्शनं सन्देहबीजम् । नाधिकारिणः प्राणावसाना इति पूर्वः पक्षः । नामादीनां सोत्तरत्वदर्शनात्प्राणादप्युत्तमाधिकारिसाधनसौलभ्यात् प्राणः स्वोत्तमाधिकारियुक्तः । अधिकारित्वान्नामादिवदिति । यद्यपि छन्दोगश्रुतौ नामाद्यारभ्य प्राणान्तमुत्तरोत्तरमाधिक्यमुक्त्वा प्राणादुत्तमो नोक्तः । तथाप्यनुमानेन प्राणादप्युत्तमाङ्गीकारे न दोषः । प्रमाणादनुक्तेर्दुर्बलत्वात् । अतोऽधिकारिणां प्राणावसानत्वाभावाद्धिरण्यगर्भ एव सर्वगुणोपास्तियोग्य इत्ययुक्तमिति । सिद्धान्तयत्सूत्रं पठित्वा व्याचष्टे ।। इयदिति ।। नामादि-वत्प्राणादधिकोऽधिकारी न साध्यः । किं त्वियदेवाधिकारिणां प्राणावसानत्वमेव । ‘प्राणो वाव सर्वेभ्यो भूयान्’ इति श्रुतेरिति भावः ।।

गुर्वर्थदीपिका

ननु महतां गणनापङ्क्तौ स्यादपि कस्यचिदश्रद्धेयस्यानुक्तिः । सर्वाधिकारिभ्योऽप्युत्तम-स्यावश्यापेक्षितस्य कथमनुक्तिः । तस्मात्प्रकृतेऽनुक्तिरेव बलीयसीति चेत्सत्यम् । परमाप्ततमेन व्यासेनैव सर्वोत्तमत्वस्थापकतयाऽत्यावश्यकस्य हरेः कैलासगमनं लीलेत्यर्थस्यासुरजनमोहनार्थ-मनुक्तिदर्शनेन सति कस्मिंश्चित्कारणे उत्तमस्याप्यनुक्तिसम्भवादिति भावेनोक्तं अनुक्तेदुर्बलत्वादिति ।

भावबोधः

अधिकारिणामिति ।। ‘यावदधिकारं’ इत्यधिकारतारतम्येऽभिहिते तत्र निरवधिकत्व-सावधिकत्वसंशये प्राणावसानत्वरूपसावधिकत्वसमर्थनात् अनन्तरसङ्गतिरिति भावः ।। किमित्यादि ।। अत्रोपासनाधिकारिणः प्राणावसाना न भवन्त्युत भवन्तीति चिन्ता । तदर्थं प्राणादुत्तमाधिकारिसद्भावे प्रमाणं नास्त्युतास्तीति । तदर्थं प्राणादप्युत्तमाधिकारिसाधकमनुमानं ‘प्राणो वा सर्वेभ्यो भूयान्’ इति श्रुतिबाधितं न भवत्युत भवतीति । तदर्थमीश्वरस्य प्राणादुत्तमत्व-श्रुत्यविरोधायावश्यं संकोचनीयः सर्वेभ्य इति श्रौतोऽयं सर्वशब्दः कतिपयाधिकारिव्यतिरिक्त-सर्वार्थक उत ईश्वरमात्रव्यतिरिक्त सर्वार्थक इति । ‘अन्तरा भूतग्रामवत्’ इति सूत्रानुसारि एकस्मादेको विशिष्टो दृष्ट एवेति प्राणाद्विशिष्टजीवाभावे दृष्टवैरूप्यमिति दोष इति न्यायविवरणं मनसि निधायाह– नामादीनामिति ।। इति श्रुतेरिति । उपलक्षणमेतत् । ‘यः सर्वमवजानीयां’ इत्यादिन्यायविवरणोदाहृता श्रुतिरपि ग्राह्या ।

भावदीपः

प्राणावधित्वेति ।। प्रागुक्तयोग्यतानियमस्य निरवधिकत्वशङ्कायां सावधिकत्वरूपविशेष-चिन्तनात्पूर्वसङ्गतिरिति भावः ।। सर्वगुणेति ।। ‘सर्वे गुणा ब्रह्मणैव ह्युपास्या’ इत्यादि-श्रुतिसिद्धमिति भावः ।। प्रकृता इति ।। आधिकारिकाणां मोक्षाधिकारिणामित्यनेन प्रकृता इत्यर्थः ।। छन्दोगेति ।। सप्तमे ।। नामादीति ।। नामवाङ्मनःसङ्कल्पचित्तध्यानविज्ञानबलान्नाप्तेज-आकाशस्मराशाप्राणशब्दिताः । ‘उषा स्वाहा च पर्जन्यो मित्रोऽग्निर्वरुणो विधुः । प्रवहोऽनिरुद्ध इन्द्रोमे रुद्रो वाणी च मारुत’ इत्यनुभाष्योक्तेरुषाप्रभृतिदेवा उत्तरोत्तरमुत्तमत्वेनोक्ता इत्यर्थः । यथा भूतग्रामेत्यादिभाष्यभावमाह ।। नामादीनामिति ।। ननु प्राणादुत्तमानुक्तिविरोधादनुमानाभासोऽय-मित्यत उक्तशङ्कानुवादनिरासपरं नामाद्यारभ्येत्यादिभाष्यं विवृणोति ।। यद्यपीति ।। पूर्ववत्स्यादिति भाष्याभिप्रेतहेतुमाह ।। प्रमाणादनुक्तेर्दुर्बलत्वादिति ।। फलोक्त्योपसंहरति ।। अत इति ।। अधिकस्यानुमानसिद्धत्वादित्यर्थः ।। पूर्ववत्स्यादिति न वाच्यमिति भाष्यं सौत्रप्रतिज्ञाभागस्य फलितार्थपरमिति भावेन व्याचष्टे ।। नामादिवदिति ।। प्राणो वावेति ।। यद्यपि श्रुतौ न मुख्यप्राणलिङ्गमस्ति तथाऽपि भाष्यकारोक्तिप्रामाण्यात्पूर्वत्रोत्तरत्र वा श्रुतिशेषे मुख्यवायुलिङ्ग-मनुमेयमिति वा ब्रह्मपरत्वेऽपि ऐतरेयभाष्योक्तदिशा सर्वत्र वायुपरत्वमप्यस्तीति वाऽभिप्रायः ।

अभिनवचन्द्रिका

ब्रह्मण एवेति ।। ब्रह्मण एव सर्वगुणोपास्तियोग्यत्वमिति यत्प्रागुक्तं तन्न स्यादित्यर्थः ।। नामादिवदिति ।। नामादिवदिति दृष्टान्तं प्रदर्श्य प्राणादधिकोऽधिकारी न साध्य इत्यर्थः ।

वाक्यार्थमुक्तावली

प्राणावधित्वेति ।। पूर्वाधिकरणे मनुष्योत्तममारभ्य प्राणान्तमधिकारितारतम्ये कथिते प्राणादप्यधिकः स्यादित्याक्षेपोत्थानादनन्तरसङ्गतिः ।। नामादिप्राणेति ।। नामवाङ्मनःसङ्कल्प-चित्तज्ञानविज्ञानबलान्नाप्तेज आकाशस्मरणप्राणशब्दवाच्याः उषास्वाहापर्जन्यमित्राग्निवरुणविधु-प्रवहानिरुद्धाहङ्कारिकप्राणेन्द्रोमारुद्रवाणीमारुतान्ता इत्यर्थः । किमिति । अत्राधिकारिणः प्राणा-वसाना न भवन्त्युत भवन्तीति चिन्ता । तदर्थं प्राणादप्युत्तमाधिकारिसाधकमनुमानं प्राणो वाव सर्वेभ्यो भूयानिति श्रुतिबाधितं न भवत्युत भवतीति । तदर्थं सर्वशब्दस्य विष्णाविवान्यत्र सङ्कोच उतासङ्कोच इति । नामाद्यारभ्येति भाष्येऽन्तराभूतग्रामवदिति सूत्रानुसारेण पूर्वपक्षमुद्घाट््य निषेधात् दृष्टवैरूप्यमित्युक्तन्यायप्रदर्शकतया पूर्ववदस्यापीत्यंशं व्याचष्टे । नामादीनामिति । ननु भूमनये प्राणाद्भूयसोऽनुक्त्या तस्यैव भूमत्वमित्याक्षेपे सत्यं भूयसोऽनुक्तिरिति ।। तथा तदन्तर्गतस्य हरेर्भूमत्वमित्युक्तत्वात् कथमनुमानेन तदुत्तमाधिकारिसाधनमित्यतः तस्याक्षेपोऽयमिति भावेन भाष्ये नामाद्यारभ्येत्युक्तम् । तत्र तथापीत्यस्यानुसारेणादौ यद्यपीति संयोज्य व्याचष्टे । यद्यपीत्यादिना ।

सूत्रेऽधिकारिणामिति वर्तते । अधिकार्युत्तमत्वेन प्रकृतप्राणावधित्वमियदिति परामृश्यत इति भावेन वाच्यमित्यतः परं भाष्येऽध्याहार्यभागं दर्शयन् व्याचष्टे । किन्त्वित्यादिना । प्राणाद्येवेति श्रुतिः हि यस्मात् प्राणः सर्वेभ्यो भूयान् तस्माद्भूयान्नामेत्यर्थः । उपलक्षणमेतत् । आमनना-दित्येतदर्थतया यः सर्वमेव जानीयादिति प्रतिक्रियाविधायकश्रुतिरपि भाष्ये द्रष्टव्या । तेन प्रतिक्रियाविरोधश्चेत्युक्तन्यायोऽपि सूत्रभाष्यारूढो भवति । तत्र चशब्देन भाष्योपात्तश्रुतेर्ग्रहणात् । तदुक्तं शङ्कराचार्यैः सम्बन्धदीपिकायाम् । चकाराद्विवरणगतप्रतिक्रियाविरोधादित्यादिशब्दाच्च ‘प्राणो वाव सर्वेभ्यो भूयान्’ इत्यादिश्रुतिर्गृह्यत इति ।

तत्त्वसुबोधिनी

अधिकारिणामिति ।। यावदधिकारमित्यधिकारतारतम्येऽभिहिते तन्निरवधिकत्वसावधिकत्व-संशये प्राणावसानत्वरूपसावधिकत्वसमर्थनादनन्तरसङ्गतिरिति भावः ।। स्वोत्तमेति ।। स्वोत्तमयुक्त इत्येतावन्मात्रसाधने विष्णुरूपोत्तममादाय सिद्धसाधनमुक्तम् ।। अधिकारीति ।। तथापि प्राणा-दुत्तमाधिकार्यनुक्तेरनुक्तिबाधोऽनुमानस्येत्यत आह ।। प्राणादिति ।। प्रमाणानुक्तर्योर्मध्ये प्रमाणस्य प्रबलत्वादनुमानेन प्राणादुत्तमाधिकारी स्वीकार्य एवेति भावः ।

वाक्यार्थविवरणम्

निरवधिकत्वे प्राणावसानत्वाभावे ।। ब्रह्मण एवेति ।। प्राणस्यैव भाविब्रह्मत्वादेवमुक्तम् । एवं च तदुत्तमस्यैवाधिकारिणस्तत्स्यादिति भावः ।। उभयथेति ।। विद्यमानस्याप्यनुक्तिरविद्यमानत्वा-दप्यनुक्तिर्दृष्टेति भावः ।। नोक्त इति ।। तथा च तस्यैवाधिकार्युत्तमत्वमिति भावः ।। प्रमाणात् ।। उक्तानुमानरूपात् ।। इत्युक्तमिति ।। तदुत्तम एव तद्योग्य इति भावः ।

वाक्यार्थमञ्जरी

प्राणावसानत्व इति ।। प्राणावधिकत्वेत्यर्थः । निरवधिकत्वे प्राणावधिकत्वाभावे ।। नामादीति ।। नामवाङ्मनःसङ्कल्पचित्तज्ञानविज्ञानबलान्नाप्तेज आकाशस्मराशाप्राणाः क्रमेणोत्तम-त्वेनोक्ता इत्यर्थः ।। उभयथासत्वे सत्वेऽपि ।। सोत्तरत्वेति ।। सोत्तमत्वेत्यर्थः ।

ॐ इयदामननात् ॐ ।। उपासनाधिकारिणां इयत् प्राणावधिकत्वमेव कुतः आमननात् प्राणो वावेति श्रुतौ तथोक्तत्वादित्यर्थः ।


Load More