ॐ विद्यैव तु निर्धारणात् ॐ

२९. विद्याधिकरणम्

सूत्रभाष्यम्

न च ‘कर्मणैव हि संसिद्धिमास्थिता जनकादय’ (भ.गी.३२०) इत्यादिनाऽन्यन्मोक्ष-साधनम् ।

।। ॐ विद्यैव तु निर्धारणात् ॐ ।। ४८ ।।

तमेवं विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यते अयनाय’ (श्वे.उ.३-८)इति निर्धारणाद्विद्ययैव मोक्षः ।

तत्त्वप्रदीपिका

एवं तावदतिप्रयत्नेनापि गुरुं प्रतोष्य तदुपदिष्टमार्गेण श्रवणादिभिरेव ज्ञानं जायत इत्युक्तम् । तत्रेदमाशङ्क्यते, स्यादेतदेवं यदि ज्ञानस्य मोक्षसाधनत्वम् । न तु तदस्ति । ‘कर्मणैव हि संसिद्धि-मास्थिता जनकादयः’ इत्यादिना अन्यस्य मोक्षसाधनत्वात् । सत्योपाधिबन्धस्य ज्ञान-मात्रेणानपायाच्च । न हि बन्धूकसम्बन्धकृतं स्फटिकलौहित्यं स्वच्छः स्फटिक इति ज्ञानमात्रा-न्निवर्तते । ननु क एवमाह स्वच्छः स्फटिक इतिवच्छुद्धोऽहमिति ज्ञानमात्राद्बन्धनिवृत्तिरिति । ईश्वरज्ञानादेव हि विचक्षणा बन्धमोक्षमाचक्षते । अस्तु तर्हि ज्ञातेश्वरस्य बन्धकारणच्छेदनं कर्म मोक्षहेतुः । ‘न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः’ इत्यात्रापि त्यागेनैक इति वचनात् कर्मणैक इति भवति । ‘अधाते विष्णोर्विदुषा चिदर्ध्यस्तोमो यज्ञश्च राध्यो हविष्मता’इति ज्ञानिनः कर्मविधानाच्चान्यदेवान्यदपि वा मोक्षसाधनमित्यत आह– विद्यैव तु निर्धारणात् ।। ‘तमेव विदित्वा’ इत्यन्यविद्यानिवारणात् ‘नान्यः पन्था’ इति साधनान्तरनिवारणाच्च । एवं निर्धारणात्–

तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते ।।’

न चेदिहावेदीन्महती विनष्टिः ।’

यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः ।

तदा देवमविज्ञाय दुःखस्यान्तो भविष्यति’ इत्यादेश्च भगवद्विद्ययैव मोक्षः ।।

तत्त्वप्रकाशिका

अत्रेश्वरदर्शनसाधनोपासनस्य कर्तव्यतासमर्थनादस्ति शास्त्रादिसङ्गतिः । अन्यथोक्तं व्यर्थं स्यादिति समर्थनीयमेतत् । प्रकृतं भगवदुपासनं विषयः । कर्तव्यं न वेति सन्देहः । द्विविध-क्रियादर्शनं सन्देहबीजम् । न भगवदुपासनं कर्तव्यमिति पूर्वः पक्षः । व्यर्थत्वात् । न च ज्ञानार्थ-मुपासनं तस्यापि वैय्यर्थ्यात् । न च मोक्षार्थं तदनिश्चयात् । यथा खलु ‘तरति शोकमात्मवित्’ इति ज्ञानस्य मोक्षसाधनत्वं प्रतीयते तथा ‘कर्मणैव हि’ इत्यादिना कर्मापि मोक्षसाधनं प्रतीयते । न च ‘भाक्तं वानात्मवित्त्वात्’ इत्युक्तमिति वाच्यम् । तृतीयायाः साक्षात्करणार्थत्वात् । संसिद्धि-पदेन च साक्षान्मोक्षाभिधानाच्च । अतो ज्ञानस्य मोक्षसाधनत्वानिश्चयान्न तदर्थोपासना कर्तव्येत्युक्तं व्यर्थमिति । पूर्वपक्षं प्रतिषेधति ।। न चेति ।। तदुपपादनाय सूत्रमुपन्यस्य व्याचष्टे ।। विद्येति ।। कर्मणैवेत्यादिनान्यन्मोक्षसाधनं प्रतीयत इति मोक्षसाधनानिर्णयादनुपासनमिति न वाच्यम् । ‘नान्यः पन्थाः’ इति सावधारणविद्यावचनस्य कर्मवचनादपि प्राबल्येन तद्बलाद्विद्यैव मोक्षसाधनमिति निर्णयोपपत्तेरिति भावः ।

गुर्वर्थदीपिका

नन्वपरोक्षज्ञानस्य मोक्षसाधनत्वप्रतिपादकं ‘विद्यैव तु निर्धारणात्’ इति सूत्रं चतुर्थपादस्यादौ निबन्धनीयम् । उपासनापादमध्ये कुतो निबबन्धेति चेत्सत्यम् । ज्ञानस्येष्टानिष्टप्राप्ति-परिहाररूपत्वाभावेन साक्षात्पुरुषार्थत्वाभावात्तदर्थं विहिते कष्टसाध्ये उपासने न निश्शङ्का प्रवृत्तिः स्यात् यावज्ज्ञानस्येष्टानिष्टप्राप्तिपरिहाररूपमोक्षसाधनता नोच्यते । अतः फलाशयाधिकारिणो निश्शङ्कतया प्रवर्तयितुं मध्ये ज्ञानफलनिरूपणस्य सार्थकत्वादिति ज्ञेयम् ।

भावबोधः

उपासनस्य कर्तव्यतासमर्थनादिति ।। पूर्वाधिकरणे श्रवणादिना परोक्षज्ञानार्थं पूर्वप्राप्तगुरुं परित्यज्य समग्रानुग्रहकर्ता पश्चात्तनः सम उत्तमो वा मुमुक्षुणाऽवश्यं स्वीकार्य इत्युक्ते कर्मणा मोक्षस्य सम्भवात् निष्फलज्ञानार्थं गुरुस्वीकारो व्यर्थ इत्याक्षेपोत्थानादनन्तरसङ्गतिरिति भावः ।। कर्तव्येत्यादि ।। अत्र किं भगवदुपासनं कर्तव्यमुताकर्तव्यमिति चिन्ता । तदर्थमुपासनस्य ज्ञानद्वारा मोक्षसाधनत्वं न सम्भवत्युत सम्भवतीति । तदर्थं मोक्षस्य कर्मादिसाधनान्तरसाध्यत्वमुत ज्ञानैकसाध्यत्वमिति । ज्ञानैकसाध्यत्वेऽपि किं साधनस्यावश्यकत्वं नास्त्युतास्तीति । तदर्थं ‘तमेव’ इत्यादौ श्रुतो विद्याशब्दः ज्ञानसामान्यपर उतापरोक्षज्ञानरूपविशेषपर इति । विद्या कर्म वा संसारनिवृत्तिकारणमिति कारणानिर्णय इति न्यायविवरणानुसारेण ‘कर्मणैव’ इत्यादिभाष्यं व्याचष्टे– यथा खल्वित्यादिना ।। भाष्ये ‘अपाम सोमं’ इति श्रुतिमनुदाहृत्य ‘कर्मणा’ इति श्रुत्युदाहरणं ‘भाक्तं वा’ इत्येनास्य गतार्थताशङ्कापरिहारायाभ्यधिकाशङ्का प्रदर्शनार्थमित्यभिप्रेत्य तमाह– तृतीयाया इति ।। तथा च ‘वा’शब्दज्ञापितः परंपराकारणत्वं न सम्भवतीत्यर्थः ।। संसिद्धपदेनेति ।। तथा च ‘भाक्तं’ इत्युक्तस्वर्गादिकारणत्वमपि न सम्भवतीत्यर्थः । ‘नान्यः पन्था अयनाय विद्यते’ इत्यवधारणाद्विद्यावचनस्य प्राधान्यादिति न्यायविवरणानुसारेण ‘तमेवं इत्यादिभाष्यं व्याचष्टे– नान्यः पन्था इति ।।

भावदीपः

कर्तव्यतेति ।। कारणानिर्णयेनाकर्तव्यत्वप्राप्ताविति भावः । एवं चोक्तदिशाऽतिप्रयत्नेन गुरुं प्रतोष्य तदुपदिष्टमार्गेण श्रवणादिभिरेव ज्ञानं लभते । ततश्च मोक्षमिति प्रागुक्तमयुक्तम् । उपायान्तरस्यापि सम्भवेन ज्ञानस्यैव मोक्षोपायत्वानिर्णयादिति शङ्कनाद्वा पूर्वत्र विकल्पोक्तौ तर्हि साधनेऽपि अयं वाऽयं वेति विकल्प एव न निर्णय इति शङ्कनाद्वा पूर्वसङ्गतिरपि सूचिता ध्येया ।। उक्तमिति ।। गुरुप्रदानादिकमित्यर्थः ।। प्रकृतमिति ।। तदपीत्यनेन प्रकृतमित्यर्थः । यद्वाऽतिदेशा-च्चेत्यत्रोक्तश्रुतावित्यर्थः ।। द्विविधक्रियेति ।। अन्नादनविषभक्षणक्रिययोर्दर्शनमित्यर्थः । विद्या कर्म वा संसारनिवृत्तिकारणमिति कारणानिर्णय इति न्यायविवरणोक्तसौत्रैवकारव्यावर्त्यं कारणानिर्णय-हेतुं परंपरया योजयति ।। व्यर्थत्वादित्यादिना ।। तदिति ।। ज्ञानमित्यर्थः ।। अनिश्चयादिति ।। ज्ञानस्य मोक्षार्थत्वानिश्चयादित्यर्थः । विद्या कर्म वेत्यन्यत्रोक्त्यनुरोधेन शेषोक्त्या भाष्यं व्याचष्टे ।। यथेति ।। वाक्यविशेषोक्तेः कृत्यं व्यनक्ति ।। न चेति ।। ज्ञानद्वारा परंपरया मोक्षकारण-मित्युक्तमित्यर्थः ।। करणेति ।। कर्तृकरणयोस्तृतीयेति विहितायाः कर्मणेति तृतीयायाः करणार्थत्वादित्यर्थः । एतेन श्रुतितः स्मृतिर्दुर्बला सती न निर्णयप्रतिबन्धिकेति प्रत्युक्तम् । स्मृतेर्भगवद्वाक्यत्वेन साक्षात्करणत्वार्थविभक्तियुक्ततया च श्रुतिसाम्योपपत्तेरिति भावः । एतेनैव वचनद्वयप्रामाण्यादाग्नेयादिषड््यागवत्समुच्चयोऽस्तु ज्ञानकर्मणोरित्यपि निरस्तम् । तृतीयया निरपेक्ष-करणत्वप्रतीतेः । अत एव व्रीहियववन्न विकल्पः । द्वयोर्नित्यवच्छ्रवणविरोधात् । पक्षे बाध-प्रसङ्गात् । तरतिवाक्येऽधिकारिभेदानुक्त्या कल्पकाभावेन व्यवस्थितविकल्पस्याप्ययोगादिति भावेन फलोक्त्योपसंहरति ।। अत इति ।। कर्मणोऽपि ज्ञानवन्मोक्षार्थत्वप्रतीतेरित्यर्थः । ज्ञानचिन्ता ज्ञानपादे सङ्गतेत्यतः शेषाक्तिपूर्वं सौत्रैवकारान्तविद्यापदव्यावर्त्योक्तिपरतया भाष्यं व्याचष्टे ।। कर्मणैवेति ।। अवधारणाद्विद्यावचनस्य प्राधान्यादिति न्यायविवरणं भाष्ये संयोज्य सूत्रारूढं दर्शयति ।। नान्य इति ।। भाष्ये विद्यते अयनायेत्युक्तम् । न्यायविवरणे चायनाय विद्यत इति । तथा च भेदेनोक्तवाक्यद्वयस्याप्युपादानाय नान्यः पन्था इति साधारणपूर्वभाग एवोपात्तः । विद्यैवेति परोक्षज्ञानम् ।

अभिनवचन्द्रिका

कर्तव्यतासमर्थनादिति ।। अर्थादिति शेषः । एतेन सूत्रस्य विद्यामोक्षसाधनत्वस्यैव प्रतिपादकत्वादुपासनस्य कर्तव्यतासमर्थनादित्ययुक्तमिति परास्तम् ।। भगवदुपासनमिति ।। यद्यपि अस्याधिकरणस्य विद्याविषयः, तथापि  आर्थिकविचारे उपासनस्य विषयत्वात्तथोक्तम् । एवमुत्तरत्रापि द्रष्टव्यम् । व्यर्थत्वादिति ।। सुखदुःखाऽवाप्तिहान्योरन्यतरहेतुत्वाभावादित्यर्थः । साक्षात्तद्धेतुत्वाभावेऽपि ज्ञानद्वारा तद्धेतुत्वमिति अनुष्ठेयमेवोपासनमित्याशङ्क्य निषेधति ।। न च ज्ञानार्थमिति ।। तस्यापीति ।। ज्ञानस्यापि सुखदुःखावाप्तिहान्योरन्यतरहेतुत्वाभावादित्यर्थः । ज्ञानस्य मोक्षार्थत्वात् मोक्षस्य सुखरूपत्वात् असिद्धं ज्ञानवैयर्थ्यमित्यनुष्ठेयमेवोपासनमित्याशङ्क्य निषेधति ।। न च मोक्षार्थमिति ।। ज्ञानस्य मोक्षसाधनत्वात्, तत्साधनमुपासनं कार्यमिति नेत्यर्थः ।। तदनिश्चयादिति ।। अस्तु वैयर्थ्यमसिद्धम्, तथापि नोपासनं युज्यते । सफलत्वा-निर्णयात् । यद्यपि फलसन्देहादपि कृष्यादौ प्रवृत्तिर्दृश्यते तथापि बहुवित्तव्ययायाससाध्या पारत्रिकी प्रवृत्तिर्न तथा भवितुमर्हतीति भावः । एतेन असिद्धिं परिहरतः सन्दिग्धासिद्धिरापन्नेति परास्तम् । असिद्धिमङ्गीकृत्य प्रकारान्तरेण उपासनाकर्तव्यतानिषेधस्येहाभिमतत्वात् ।

वाक्यार्थमुक्तावली

अन्यथेति ।। ज्ञानवैय्यर्थ्येनोपासनाया अकर्तव्यत्वे उपासनायाः योग्यगुणोपदेशार्थमुक्त-मुत्तमगुरुस्वीकरणं व्यर्थं स्यादित्यर्थः । अत एवानन्तरसङ्गतिरिति भावः ।। कर्तव्यमिति ।। भगवदुपासनं न कर्तव्यमुत कर्तव्यमिति चिन्ता । तदर्थमुपासनाजन्यस्य ज्ञानस्य मोक्षसाधनत्वं तरति शोकमात्मवित् इति श्रुत्युक्तं कर्मणैव हि संसिद्धिमित्यादिसत्प्रतिपक्षवचनविरुद्धं न वेति । अत्र कारणानिर्णय इति पूर्वपक्षन्यायप्रदर्शकत्वेन कर्मणैव हीत्यादि भाष्यं व्याकुर्वन्पूर्वपक्षमाह । न भगवदुपासनमित्यादिना ।। तदनिश्चयादिति ।। ज्ञानस्य मोक्षकारणत्वनिश्चायकप्रमाणा-भावादित्यर्थः । ‘तरति शोकमात्मवित्’ इति निश्चायकं प्रमाणमस्तीत्यत आह ।। यथेति ।। इत्यादिनेति ।। आदिपदेन ‘त्यागेनैके अमृतत्वमानशुः’ ‘प्रयागमरणेन वा’ इत्यादेर्ग्रहणम् ।। कर्मापीति ।। एतेनेत्यादिना अन्यन्मोक्षसाधनमिति भाष्ये न चेत्यत्रान्यश्चशब्दोऽन्वेति । तथा च ज्ञानादपीत्यर्थो लभ्यत इत्युक्तं भवति । भाष्ये ‘अपाम सोमममृता अभूम’ इति श्रुतिमनुसृत्य कर्मणेति श्रुत्युदाहरणं भाक्तं वेत्यन्तेनास्य गतार्थताशङ्कापरिहारायाभ्यधिकाशङ्काप्रदर्शनार्थ-मित्यभिप्रेत्य तामाह ।। तृतीयाया इति ।। कर्मणैवेति तृतीयाया इत्यर्थः । तथा च वाशब्द-ज्ञापितपरम्परया कारणत्वं न सम्भवतीत्यर्थः ।। साक्षान्मोक्षेति ।। लिङ्गभङ्गरूपेत्यर्थः ।

सूत्रे मोक्षसाधनमिति शेषः । तुशब्दः कर्मणैवेत्यतोऽपि ‘नान्यः पन्थाः’ इत्यस्य प्राबल्य-सूचकः । निर्धारणम् अवधारणम् । निरवयोरुपसर्गमात्रत्वात् । नान्यः पन्थेत्यवधारण-व्यावर्त्यकथनेन विदित्वैवेति लाभात् । यद्वा निर्धारणं नितरां धारणम् । निर्धारणमिति यावत् । यद्वा निर्धारणं निश्चयः । निर्णायकवचनादिति यावत् इत्यभिप्रेत्य प्राधान्यमित्युक्तन्यायप्रदर्शकत्वेन व्याख्याति ।। नान्यः पन्थेति ।।

तत्त्वसुबोधिनी

उपासनस्य कर्तव्यतेति ।। पूर्वाधिकरणे श्रवणादिना परोक्षदर्शनार्थं पूर्वप्राप्तं गुरुं परित्यज्य समग्रानुग्रहकर्ता पश्चात्तनः स उत्तमो वा मुमुक्षुणाऽवश्यं स्वीकार्य इत्युक्ते कर्मणा मोक्षसम्भवा-न्निष्फलज्ञानार्थं गुरुस्वीकारो व्यर्थ इत्याक्षेपोत्थानादनन्तरसङ्गतिरिति भावः । अन्यथोक्तं व्यर्थमिति ।। कर्तव्यता समर्थनाभावे उक्तं गुरुपरिग्रहादि व्यर्थं स्यादित्यर्थः ।। तदनिश्चयादिति ।। ज्ञानस्य मोक्षसाधनत्वानिश्चादित्यर्थः । कुतोऽनिश्चय इत्यत आह ।। यथा खल्विति ।। ननु भाक्तमित्यत्र कर्मणोऽन्तरशुद्धिद्वारा ज्ञानसाधनत्वमुक्तम् ।। तथा इति ।। कर्मणेत्यस्या इत्यर्थः । तथा च वाशब्दज्ञापितपरम्पराकारणत्वं न सम्भवतीत्यर्थः । तथापि मोक्षं प्रति कारणत्वं कुत इत्यत आह– संसिद्धिपदेनेति ।। अन्यथा संशब्दवैय्यर्थ्यं स्यादित्यर्थः । तथा च भाक्तमित्युक्त-परम्पराकारणत्वमपि सम्भवतीत्यर्थः ।

वाक्यार्थविवरणम्

उक्तम् ।। गुणोपसंहारादिकम् । ननु वचनबलान्निश्चयः सम्भवतीत्यत आह ।। यथा खल्विति ।। ध्यानोपासनं ध्यानरूपोपासनम् । विद्यया श्रवणादिरूपपरोक्षज्ञानेन । दर्शनात् । अपरोक्षज्ञानात् ।

वाक्यार्थमञ्जरी

उक्तं पादमारभ्य कुत इत्यतः कोट्यन्तरसद्भावादित्याह ।। यथेति ।। भाक्तं वेति ।। तत्र मोक्षं प्रति कर्मणः परम्परया हेतुत्वस्य साक्षादमुख्यामृतहेतुत्वस्य चोक्तत्वादिति भावः ।। ॐ विद्यैव तु निर्धारणात् ॐ ।। विद्यैव ब्रह्मविषयापरोक्षज्ञानमेव मोक्षहेतुर्न कर्म कुतः निर्धारणात् । ‘नान्य’ इत्यन्यनिषेधे न तस्यैव मोक्षहेतुत्वस्यानिर्धारितत्वादित्यर्थः ।। कर्मवचनादपीति ।। तत्रत्यैवकारस्यायोगव्यवछेदकत्वेन सावकाशत्वादिति भावः ।


Load More