ॐ वाङ्मनसि दर्शनाच्छब्दाच्च ॐ
अथ चतुर्थाध्यायस्य द्वितीयः पादः
वाङ्मनसाधिकरणम्
ॐ वाङ्मनसि दर्शनाच्छब्दाच्च ॐ
सूत्रभाष्यम्
देवानां मोक्ष उत्क्रान्तिश्चास्मिन्पाद उच्यते–
।। ॐ वाङ्मनसि दर्शनाच्छब्दाच्च ॐ ।। १ ।।
वागभिमानिन्युमा मनोऽभिमानिनि रुद्रे विलीयते । वाचो मनोवशत्वदर्शनात् । ‘तस्य यावन्न वाङ्मनसि सम्पद्यत’ इति शब्दाच्च ।
‘उमा वै वाक् समुद्दिष्टा मनो रुद्र उदाहृतः ।
तदेतन्मिथुनं ज्ञात्वा न दाम्पत्याद्विहीयते’ इति स्कान्दे ।। १ ।।
तत्त्वप्रदीपिका
देवानां स्वपदगतानामुत्तरोत्तरप्रवेशात्मको मोक्षः, मानुषशरीरिणां ज्ञानिनां शरीरादुत्क्रान्ति-श्चास्मिन्पाद उच्यते । प्रागेव शरीरादुत्क्रान्तानां देवयानेन गतानामन्येषामपि देवमोक्षोक्तावेव मोक्षः सिद्धः । तत्प्रवेशात्मकत्वात्तस्य । अविभागो वचनादित्यन्तेन मोक्ष उच्यते । तत्परत उत्क्रान्तिः । आदितस्तु वागाद्यभिमानिनां देवानां मोक्षोक्तावेवोत्क्रमिष्यत्पुरुषशरीरगतानां वागादीनां लयक्रमोऽपि गम्यते ।। वाङ्मनसि दर्शनाच्छब्दाच्च ।। वाङ्मनसि लीयते । वागाभिमानिन्युमा मनोऽभिमानिनि रुद्रे विलीयते वाचो मनोवशत्वदर्शनात् । मनसा सङ्कल्पितं हि वाचा व्याहरति । ननु कथमेतदुपपद्यते, वागभिमानिन्युमा मनोभिमानिनि रुद्रे विलीयते । मनोभिमानी रुद्रः प्राणे वायौ विलीयत इत्यादि? ‘वह्नीन्द्रोपेन्द्रमित्रका’ इति हि भागवते वागाद्यभिमानिनोऽग्न्यादय उक्ताः । ‘अग्निर्वाग्भूत्वा मुखं प्राविशत्’ इति च श्रूयते । ‘चन्द्रमा मनो भूत्वा’ इति च । क्वचिच्च स्कन्देन्द्रयोर्मनोऽभिमानित्वमुक्तम् । क्वचित्स्वाहापर्जन्ययोर्वाङ्मनसाभिमानित्वमिति । उच्यते । नायं दोषः । एकत्र बहूनामभिमानाविरोधात् ।
‘सर्वाभिमानिनो देवास्तत्रापि ह्युत्तरोत्तरम् ।
आधिक्यं वक्तुमेतेषां पृथक् स्थानमुदीर्यते ।।
आधिक्यक्रम एवात्र शास्त्रतात्पर्यमिष्यते ।
स्थानेषु त्ववरेषां च परे सन्ति न चेतरत् ।।
तथापि पितुरर्थो यः पुत्रस्याप्युपचर्यते ।
अव्यक्तादिपदार्थानां सर्वे तदभिमानिनः’ इति हि ब्रह्मतर्के ।।
‘बहुवाचिनां च शब्दानां लिङ्गप्रकरणादिभिः ।
प्रवृत्तिहेतोश्चाधिक्यान्निर्णयोऽर्थेषु गम्यते’ इति शब्दनिर्णये ।।
‘लिङ्गादिसाम्यं यत्र स्यात्प्रयोगाधिक्यमेव तु ।
नियामकं भवेत्तत्र तेन स्यात्सुबहुश्रुत’ इति च ब्रह्मतर्के ।।
अतोऽग्न्यादिभिरवरैरभिमन्यमानेष्वपि तेषूत्तमानामभिमानाविरोधः । महदभिमानिनस्तदल्पाभि-मानिनश्च भवन्ति । यथा विषयस्वामी ग्रामस्य । दर्शितश्चायं न्यायः सर्वश्रुतिस्मृत्यर्थ-ग्रथनात्मकेऽनुव्याख्याने ‘भूतेषु तच्छ्रुतेः’ इति सूत्रमधिकृत्य–
‘प्रधानवायुस्त्विह वायुनामा भूतेष्विति प्रोक्तगतोऽपि युक्तया ।
यस्माच्छ्रुतौ पवते चेति भूरि प्रोक्तो यतो भूतमानी च सोऽपि ।।
महामानी त्वल्पमानी च यस्मात् तच्छब्देनाप्युच्यते तेन सोऽपि ।
तस्मिंल्लयं यान्ति भूतान्यशेषक्रमाविरोधेन स एव विष्णौ’ इति ।।
अथापि कथमित्थमिह समुत्थितिरस्य भाष्यस्य, यावतोमारुद्रादीनां तद्देहपाते पुनः पदान्तरं प्राप्य ततो मोक्षोऽभिमतः । अत उमा रुद्रे विलीयत इति न मोक्षोक्तिरुपपद्यते । मैवम् । उमा-रुद्रादीनामेवोपरि वारुणीशेषादिभावात्तदानीमपि तेषु पूर्वप्रसिद्धनामप्रयोगाविरोधात् । अर्जुनादि-शरीरपातेऽपि स्वर्गारोहणिकेऽर्जुनादिशब्दप्रयोगवत् । उक्तं च गारुडे–
‘स्थितप्रज्ञोऽपि यस्तूर्ध्वः प्राप्य रुद्रपदं ततः ।
साङ्कर्षणं ततो मुक्तिमगाद्विष्णुप्रसादतः ।।’ इति ।
‘महादेव परे जन्मंस्तव मुक्तिर्निरूप्यत’ इति च नारदीये ।।
अनुव्याख्याने च—
‘उमागिरीशावपि भारतीराविति स्म वाग्वेदगता ब्रवीति ।
अहीन्द्रपत्नीमहिपं विरिञ्चपत्नौ विरिञ्चं च विमुक्तिकाले ।।
त एव यत्तत्पदमाप्नुवन्ति तत्काल एतान् समुपास्य जीवाः ।
ब्रह्मत्वकाले प्रविशन्ति चैतानिति स्म वाक् तादृशतामुपैती’ इति ।।
तत्त्वप्रकाशिका
एतत्पादार्थं दर्शयति ।। देवानामिति ।। ज्ञानभोगाभ्यां क्षीणकर्मणामत्र देहक्षयक्रमो वक्तव्यो भवति । स च द्विविधः । देवानां स्वोत्तमप्रवेशेन तत्र देहलयः । अन्येषां तु ब्रह्मनाड्या देहोत्क्रान्ति-रिति । तदुभयमस्मिन्पादेऽधिकार्याधिक्यक्रमेणैव निगद्यत इति भावः । न चैवं सति पादभेदप्रसङ्गः । उपासनावदेकस्यैवार्थस्याधिकारिभेदेन द्वैविध्यात् । तत्र यत्र देवतालये विवादस्स विचार्यते । अत्रादौ भगवत्प्राप्तिलक्षणमोक्षार्थं वाचो मनसि लयसमर्थनादस्ति शास्त्रादिसङ्गतिः । अन्यथा मोक्षाभावप्रसङ्गेनोक्तविरोधः स्यादतः साधनीयमेतत् । प्रकृतज्ञानिनामन्तर्गता वाग्विषयः । मनसि लीयते न वेति सन्देहः । ‘तत्पूर्वकत्वात्’ इति मनोजातत्वोक्तिर्विशेषप्रमाणादर्शनं च सन्देहबीजम् । न वाङ्मनसि लीयत इति पूर्वः पक्षः ।
तथा हि । तदधीनस्य तत्र लयो वक्तव्यः । न च वाङ्मनसयोर्नियम्यत्वादि निश्चेतुं शक्यते । ‘वाक् पूर्वरूपं मन उत्तररूपं’ ‘मनः पूर्वरूपं वागुत्तररूपम्’ इति व्यामिश्रत्वोक्तेः । न चान्यतरग्रहणं युक्तं वचनद्वयस्यापि साम्यात् । अतो वाचो मनसि लयाभावेन मोक्षाभावादनियम इत्युक्तव्याघात इति । सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ।। वागिति ।। अस्त्येव वाचो मनसि लयः प्रत्यक्षत एव वाचो मनोवशत्वदर्शनात् । न चोक्तेर्व्यामिश्रत्वेन मनः प्राधान्यानिश्चयः । अत्र खलु वाक् पूर्वरूपमित्यादिना वाङ्मनसयोः पूर्वोत्तरवर्णदेवतात्वे गुणप्रधानभावे च मुनिमतयोर्विवाद उच्यते । तत्र वर्णदेवतात्वविषये तूक्त्योः साम्यम् । अन्यतरपक्षे विशेषादर्शनात् । न च तत्र व्यामिश्रतापि । उभयोरपि ‘‘वर्णदेवतात्वोपपत्तेः । गुणप्रधानभावे तु साम्यमेव नास्ति । ‘मनसा वा अग्रे सङ्कल्प-यत्यथ वाचा व्याहरति’ इति युक्त्या मनःपूर्वकत्वस्य विशेषश्रवणात्प्रत्यक्षानुसारित्वाच्चेति भावः । न च वाचो मनोऽधीनत्वेऽपि देवतयोः कुतस्तदिति वाच्यम् । अचेतनस्यान्योन्यवशत्वस्य देवतानिमित्तत्वात् । अस्तु वाचो मनोऽधीनत्वं तथापि तत्र कुतो लयो नियामकानामनेकत्वेन निश्चयायोगादित्यत आह ।। तस्येति ।। नन्वेतच्छ्रुतिसूत्रगतौ वाङ्मनःशब्दावुमारुद्रपरौ कुत इत्यत आह ।। उमेति ।। अत्रोमापदेन वारुणी सुपर्णी चोच्येते । रुद्रपदेन च शेषसुपर्णाविति ज्ञातव्यम् ।।
गुर्वर्थदीपिका
गुणप्रधानभाव इत्यत्र वर्णदेवतात्वविषयकगुणप्रधानभावे । न तु स्वरूपयोः गुणप्रधानभाव इत्यर्थः । अन्यथा वक्ष्यमाणसिद्धान्तविरोधः स्यात् । प्रत्यक्षानुसारित्वाच्चेत्यत्र मरणसमये प्राग्वाचः कुण्ठनेऽपि मनोव्यापारदर्शनेन वाचो मनसि लयस्य सर्वैर्दृश्यमानत्वादित्यर्थः ।
भावबोधः
अत्र भाष्ये देवानामित्येतस्य मोक्षोत्क्रान्तिभ्यां सम्बन्धः प्रतीयते । स चायुक्तः । तथात्वे देवेभ्योऽन्येषां शरीरिणामेवावस्थानप्राप्तेः । अन्यत्र वा तच्छरीरपरित्यागप्रकारस्य चिन्तनीयत्वात् । अचिन्तने वा कारणस्य वाच्यत्वादित्यतः ‘‘उत्क्रान्तिमार्गौ देवानां न प्रायेण भविष्यतः’’ इत्यनुव्याख्यानानुसारेण भाष्यं व्याचष्टे– स च द्विविध इत्यादिना ।। अनेन भाष्ये देवानामित्यस्य मोक्ष इत्यनेनैवान्वयः । मोक्षश्च प्रकरणवशाद्देहादिति गम्यते । उत्क्रान्तिश्चेत्यस्यान्येषां देव-व्यतिरिक्तानामित्यध्याहृतेन सम्बन्ध इत्युक्तं भवति ।। उपासनावदेकस्यैवार्थस्येति ।। सकल-वेदोक्तगुणादेर्विशिष्योपासनं तावद्गुणानां विशिष्य क्रियायाश्च सामान्यत उपासनम् । बहुगुणोपासनं चतुर्गुणोपासनमिति चतुर्मुखाद्यधिकारिभेदेनावान्तरवैचित्र्ये विद्यमानेऽपि उपासनत्वेनैकीकृततत्प्रति-पादकत्वेन तत्पादस्यैकपादत्ववदत्रापि स्वोत्तमप्रवेश उत्क्रमणमिति, देवाद्यधिकारिभेदेनावान्तर-वैचित्र्ये विद्यमानेऽपि देहक्षयत्वेनैकीकृततत्प्रतिपादकत्वेन पादैक्यं सम्भवतीति भावः ।। भगव-त्प्राप्तिलक्षणमोक्षार्थमिति ।। पूर्वसूत्रे ‘अथ संपत्स्यते’ इत्युक्तभगवत्प्राप्तिलक्षणमोक्षार्थं वाचो मनसि लयसमर्थनादस्ति शास्त्रादिसङ्गतिरिति भावः ।। मनसीति ।। अत्र वाङ्मनसि न लीयते उत लीयत इति चिन्ता । तदर्थं तयोः किं नियम्यनियामकभावो नास्त्युतास्तीति । तदर्थं ‘वाक् पूर्वरूपम् मन उत्तररूपम्’ ‘मनः पूर्वरूपं वा वागुत्तररूपम्’ इत्युक्त्योर्व्यामिश्रत्वेन नियम्य-नियामकभावे विरोधित्वमस्त्युत नास्तीति । तदर्थं वाङ्मनसोर्नियम्यनियामकभावे प्रमाणं नास्त्युतास्तीति । विशेषप्रमाणादर्शनमिति । ‘तत्पूर्वकत्वाद्वाचः’ इत्यत्रोत्तरश्रुतेः वक्ष्यमाणन्यायेन व्यामिश्रत्वान्न विशेषप्रमाणमिति भावः । ‘वाक् पूर्वरूपम् मन उत्तररूपम् मनः पूर्वरूपम् वागुत्तररूपम्’ इत्युक्ते व्यामिश्रत्वादनिर्णय इति न्यायविवरणं मनसि निधाय पूर्वपक्षमाह– तदधीनस्येत्यदिना ।। प्रत्यक्षत एवेति ।। अनेन सूत्रे दर्शनपदस्य श्रुतिपरत्वे शब्दात् इत्येतत् पुनरुक्तं स्यादिति भाष्ये वाचां मनोवशत्वदर्शनादित्यनेन दर्शनात् इति पदस्य प्रत्यक्षपरत्व-मेवोक्तमित्युक्तं भवति ।। मुनिमतविवाद उच्यत इति ।। ‘अथाध्यात्मं वाक् पूर्वरूपं मन उत्तररूपम् प्राणः संहिता’ इति शूरवीरो माण्डूकेयः । अथ हास्याह ज्येष्ठः ‘मनः पूर्वरूपम् वागुत्तररूपम्’ इति शूरवीरमाण्डूकेयतज्ज्येष्ठपुत्राख्यमुनिमतविवाद उच्यत इत्यर्थः । ‘वाक् पूर्वरूपं मन उत्तररूपम्’ इति वाचः पूर्ववर्णदेवतात्वनिर्देशमात्रेण मनः पूर्वरूपम्’’ इत्यनेन साम्यमिति न्यायविवरणं व्याचष्टे– तत्रेति ।। अन्यतरेति ।। मतद्वयेऽपि विष्णुरूपयोरेव पूर्वोत्तरवर्णदेवता-त्वादिति भावः ।। उभयोरपीति ।। वाङ्मनोनामकयोरुभयोरपि विष्णुरूपयोः प्रत्येकं पूर्वोत्तरवर्ण-प्रतिपाद्यत्वेन पूर्वोत्तरवर्णदेवतात्वोपपत्तेरित्यर्थः । ‘मनसा वा अग्रे सङ्कल्पयति अथ वाचा व्यवहार इति युक्तितो विशेषो मनःपूर्वकत्वस्यैव श्रूयत इति प्राधान्यं मनस एव हि ज्ञायत इति न्यायविवरणार्थमाह– गुणप्रधानभावे त्वित्यादिना । युक्तिमात्रेण कथमुक्तेरर्थान्तरविषयत्वमित्यत आह– प्रत्यक्षेति ।। वाचो मनोऽधीनत्वेऽपीति सङ्कल्पव्यवहरणे प्रति, अचेतनयोरेव कारणत्वमिति भावः ।। अचेतनस्येति ।। उपलक्षणमेतत् ।
सृष्टौ च विलये चैव सदा पूर्वप्रवर्तने ।
नियन्तृत्वे च वचसो मनोऽधीशं शिवो हि तत् ।।
इति न्यायविवरणोदाहृतश्रुतेश्चेत्यपि ग्राह्यम् ।
ननु उमायास्तस्मिन् जन्मनि मोक्षाभावाद्रुद्रस्य च मोक्षमार्गत्वाभावात् कथं तस्यास्तत्र मोक्षार्थं देहलय इत्यतः–
‘उमागिरीशावपि भारतीराविति स्म वाग्वेदगता ब्रवीति ।
अहीन्द्रपत्नीमहिपं विरिञ्चपत्नीं विरिञ्चं च विमुक्तिकाले’ ।।
इत्यनुव्याख्यानं मनसि निधायाह– अत्रोमापदेनेति ।।
भावदीपः
एतदित्यादि पूर्ववद्व्याख्येयम् । पादार्थदर्शनं च वृत्तवर्तिष्यमाणयोः सङ्गतिसूचनायेति भावेनाह ।। ज्ञानेति ।। भाष्यदिशा पादैक्याप्राप्तेराह ।। देहक्षयेति ।। तर्हि भाष्ये देहक्षय इत्येव कुतो नोक्तमित्यत आह ।। स चेति ।। मोक्षशब्दार्थस्तत्र देहलय इति । उत्क्रान्तावपि देवकर्तृकत्व-भ्रमनिरासायाह ।। अन्येषामिति ।। निगद्यते अविभागो वचनादित्यतः प्राग्देहलयः ततः परमुत्क्रान्तिरिति भावः । भाष्येऽविभागेनोक्तिर्देवानामित्यधिकार्युक्तिश्च पादभेदशङ्काव्युदासायेति भावेन शङ्कापूर्वं भाष्यभावं व्यनक्ति ।। न चैवमिति ।। उपासनावदिति ।। यथा ‘सच्चिदानन्द आत्मेति मानुषैः’ इत्यादि सङ्क्षेपभाष्यदिशा चतुर्गुणबहुगुणाखिलगुणोपासनेत्यधिकारिभेदे-नोपासनावान्तरभेदेऽपि उपासनात्वेनैकार्थ्यात्पादैक्यं तथेति भावः ।
ॐ वाङ्मनसि दर्शनाच्छब्दाच्च ॐ ।। १ ।। तर्हि वादिलयविचारे को हेतुरित्यत आह ।। तत्रेति ।। देहलयप्रकारेऽवश्यवक्तव्ये सतीत्यर्थः । श्रुतौ वाचः प्रथमं श्रवणादाह ।। अत्रादाविति ।। भवदिति शास्त्रे मोक्षार्थमित्यध्याये लयेति पादे सङ्गतिरुपपादिता । एवमग्रेऽपि ।। अन्यथेति ।। देहलयाभाव इत्यर्थः ।। उक्तेति ।। अनियम इत्युक्तविरोध इत्यर्थः । वागादेर्ज्ञानित्वेन सामान्यतः प्रकृतत्वमाह ।। प्रकृतेति ।। वाक् उमादेवी । मनसि रुद्रे । एते च भूतपूर्वगत्या तयोर्नामनी । वर्तमाने तु वारुणीशेषावित्यग्रे व्यक्तम् ।। तदिति ।। तत्पूर्वकत्वाद्वाच इति सूत्र इत्यर्थः ।। विशेषेति ।। वाङ्मनसि संपद्यत इति श्रुतेः इतः पूर्वं क्वापि सूत्रकृदनुक्तेरदर्शनमित्युक्तम् । यद्वा वाचो मनोजातत्वे विशेषप्रमाणादृष्टिरित्यर्थः । मनः पूर्वरूपमिति तु सामान्यमिति भावः । सूत्रभाष्यव्यावर्त्यकोटिमाह ।। न वागिति ।। कुत इत्यतः वाक्पूर्वरूपं मन उत्तररूपं, मनः पूर्वरूपं वागुत्तररूपमित्युक्तेर्व्यामिश्रत्वादनिर्णीतिरेवेत्यन्यत्रोक्तं परिष्कृत्य हेतुत्वेन योजयति ।। तदधीनेति ।। विपर्ययेण तु क्रमोऽत उपपद्यते चेत्यत्र तथोक्तेः । ‘स्रष्टृष्वेव च सृज्यानां प्रवेशो ब्रह्मणो लय’ इत्याद्यनुभाष्योक्तेश्चेति भावः । अचतुरेत्यादिना निपातनाद्वाङ्मनसयोरित्युक्तिः । पूर्वरूपं कारणं उत्तररूपं कार्यमिति शङ्कितुराशयः । उक्तेरप्रयोजकत्वं निराह ।। न चेति ।। अत इति ।। व्यामिश्रत्वोक्त्या वाचो मनोवशत्वानिर्णयात्तद्वश एव तत्र लीयत इति वाच्यत्वादित्यर्थः ।
भाष्यं व्याचष्टे ।। अस्त्येवेति ।। अनिर्णयनिरासायैवकारः ।। प्रत्यक्षत इति ।। मनः प्रवृत्त्यनन्तरमेव वाक्प्रवृत्तेः सर्वानुभवसिद्धत्वादित्यर्थः । वाक्पूर्वरूपं मन उत्तररूपमिति वाचः पूर्ववर्णदेवतात्वनिर्देशमात्रेण मनः पूर्वरूपमित्यनेन साम्यमित्यन्यत्रोक्तं प्रागुक्तशङ्कोत्तरत्वेन परिष्कारपूर्वं व्यनक्ति ।। न चेत्यादिना ।। अत्र ऐतरेयश्रुतौ । वाङ्मनसयोः ‘वक्तृत्वाच्चैव वाङ्नामा मनोमंत्तृत्वहेतुतः’ इति तद्भाष्योक्त्या वाङ्मनोनामकभगवद्रूपयोर्विष्णुनामगतपूर्वोत्तरवर्णदेवतात्व इत्यर्थः । निर्देशमात्रेणेति मात्रपदव्यावर्त्यायाह ।। गुणेति ।। वाङ्मनोनामकभगवद्रूपोपासनायां स्थानभूतयोर्वाङ्मनोऽभिधयोस्तदभिमानिदेवतयोर्गुणप्रधानभावेनेत्यर्थः । एतेन श्रुतौ पूर्वरूपोत्तर-रूपशब्दौ प्रधानाप्रधानपरावित्यपि व्याख्या सूचिता । मुनिमतयोः माण्डूकेयतज्ज्येष्ठपुत्रमतयोर्विवाद उच्यत इत्यर्थः ।
तथा हि श्रूयते । ‘अथातः संहिताया उपनिषत्’ इत्युपक्रम्य ‘वाक्पूर्वरूपं मन उत्तररूपं’ प्राणस्त्वेव संहितेत्यादि । एवं परिष्कृत्य पूर्ववर्णेत्यादि व्याचष्टे ।। तत्रेति ।। देवतात्व-गुणादिभावरूपार्थद्वयमध्ये इत्यर्थः । नन्वेवमुक्त्योः साम्ये देवतात्वानिर्णयादुपासनायोगादित्यतः साम्यपदभावमाह ।। न चेति ।। किं चेति चार्थः ।। उभयोरिति ।। रूपयोरेकैक-वर्णदेवतात्वोपपत्तेरित्यर्थः । न चैवमैतरेयभाष्ये अत्र प्राणाख्यस्य प्राणे स्थितस्य विष्णोः संहितानामत्वे पितापुत्रयोः साम्यमेव अन्यत्र तु पुत्रपक्ष एव बलीयान् । युक्तिमत्त्वादित्युक्तिविरोध इति चेन्न । अन्यत्र तु गुणप्रधानभावे इत्यर्थोपपत्तेरिति भावेनाह ।। गुणेति ।। कुत इत्यतो न्यायविवरणशेषोक्तं हेतुमाह ।। मनसेति ।। प्रत्यक्षेति ।। वाचो मनोवशत्वस्यानुभाविकत्वादित्यर्थः । जडं मत्वा शङ्कते ।। न चेति ।। देवतेति ।। अभिमानिनयन्यायादिति भावः ।। अनेकत्वेनेति ।। छान्दोग्ये सप्तमे कुमारनारदसंवादे वाचः स्वाहात्वं मनसः पर्जन्यत्वं भाष्यते । अग्निर्वाग्भूत्वेति श्रुतेर्वाचोऽग्नित्वं क्वचिदुच्यते । स्कन्देन्द्रादीनां मनस्त्वं क्वचिदुच्यते । वह्नींद्रोपेंद्रमित्रका इति भागवते वाचो वह्न्यादित्वमुच्यते । क्वचिच्च वाग्रसः वागष्टमी ब्रह्मणी संविदानेत्यादौ वाचो वाणीत्वमुच्यत इति वाङ्मनसाभिमानिनामनेकत्वाद्वागुत्तमदेवस्य कथं मनसि लय इति सन्देहाव-स्कन्दनेनानिर्णयादित्यर्थः ।। इत्यत आहेति ।। अभिमानिनामनेकत्वेऽपि बह्वीनामेकमानेन त्वेकं नाम च युज्यत इति ऋग्भाष्योक्त्या एकवस्त्वभिमानिनां वागादीनामनेकत्वेऽपि इह वाचो मनसि लयोक्त्या वाङ्मनसपदाभ्यामुमारुद्रयोरेव ग्रहणमिति भावः ।। कुत इत्यत आहेति ।। वाङ्मनसयोः सूत्रादौ सहनिर्देशाल्लिङ्गात्स्मृतौ दम्पतित्वेन सहभूततयोक्तावुमारुद्रावेव सूत्रादावभिमतौ ।
बहुवाचिनां च शब्दानां लिङ्गप्रकरणादिभिः ।
प्रवृत्तिहेतोश्चाधिक्यान्निर्णयोऽर्थेषु गम्यते ।
इति तृतीये गीतातात्पर्योक्तेरिति भावः ।
यद्वा
लिङ्गादिसाम्यं यत्र स्यात्प्रायो नाधिक्यमेव तु ।
नियामकं भवेत्तत्र तेन स्यात्स बहुश्रुतः ।।
इति तत्रैवोक्तदिशा स्मृतौ समुद्दिष्टेति प्रयोगाधिक्यात्तयोरेवात्र ग्रहणमिति भावः । ननु षष्ठे गीताभाष्ये ‘स्थितप्रज्ञोऽपि यस्तूर्ध्वं प्राप्य रुद्रपदं ततः ।। साङ्कर्षणं ततो मुक्तिमगाद्विष्णुप्रसादत’ इति गारुडे । महादेव परे जन्मंस्तव मुक्तिर्निरूप्यत इति च नारदीये इत्युक्त्या देहानंतरमेव न मुक्तिरतः कथमेवमुक्तिरित्यत आह ।। अत्रेति ।। स्मृत्यादौ । अर्जुनादिदेहपातेऽपि स्वर्गारोहण-कालेऽर्जुनादिशब्दप्रयोगवद्भूतपूर्वगत्या वारुण्यादावुमादिपदप्रयोग इति भावः । एतच्च समान-देवतयोरप्युपलक्षणं मत्वाऽऽह ।। शेषसुपर्णाविति ।।
उमागिरीशाविति भारतीराविति स्म वाग्वेदगता ब्रवीति ।
अहीन्द्रपत्नीमहिपं विरिंचपत्नीं विरिंचिं च विमुक्तिकाले ।।
इत्यनुभाष्योक्तेरिति भावः ।।
अभिनवचन्द्रिका
एतत्पादार्थं दर्शयतीति ।। अध्यायस्यैकार्थत्वात्पादभेदः किं निबन्धन इत्यतः फलेऽप्यवान्तरभेदेन पादभेद उपपन्न इति भावेनेति वर्तते । तस्यानेन सम्बन्धः ।। उपासनावदिति ।। उपासनस्य बहुगुणत्वेन चतुर्गुणत्वेनेत्यधिकारिभेदेनाऽनेकप्रकारत्वेऽपि उपासनत्वेनैक्यसद्भावात् उपासनापादस्यार्थैक्यवत् इहापि ‘स्वोत्तमप्रवेश उत्क्रमणम्’ इत्यवान्तरभेदसद्भावेऽवि देहक्षयत्वेनैक्यसद्भावेन एकार्थत्वसम्भवात् न पादभेद इति भावः ।। तत्पूर्वकादिति ।। वाचो मनोजन्यत्वोक्तिः तत्र लयसम्भावकत्वात्सन्देहबीजम् । एवमुत्तराधिकरणेष्वपि द्रष्टव्यम् । अनियम इत्युक्तेति ।।
केषाञ्चिज्ज्ञानिनां मोक्षः केषाञ्चिन्नेति नियममपहाय ज्ञानिमात्रस्य मोक्ष इत्युक्तनियमव्याघात इत्यर्थः । अत्र खल्विति ।। अत्र मनः पूर्वरूपं वागुत्तररूपं, वाक्पूर्वरूपं मन उत्तररूपम्’ इति श्रुतिभ्यां न किञ्चिदुच्यते किन्तु मुनिमतविवाद एवोच्यते । तथा च श्रुत्योर्व्यामिश्रत्वमिति भावः । प्रसङ्गादृषिमतयोः किं वरमिति जिज्ञासायासाह– तत्रेति ।। वर्णदेवतात्वविषये ऋष्युक्त्योः साम्यमित्यर्थः । हेतुमाह – अन्यतरेति ।। अन्यतरपक्षस्वीकाराय श्रुत्या विशेषाऽनभिधाना-दित्यर्थः । ननु द्वयोरपि ऋषिवचनयोर्वर्णदेवताविषये साम्योक्तिरनुपपन्ना विरुद्धवादित्वेन अन्यतराऽप्रामाण्याऽवश्यं भावादित्याशङ्क््य निषेधति – न चेति ।। तत्र वर्णदेवताविषये । ऋषि वचनयोः व्यामिश्रता विरुद्धार्थभाषिता नेत्यर्थः । गुणप्रधानभावविषये तु पुत्रवचनमेव ग्राह्मं न तु नामतः शूरवीरस्य माण्डूकेयस्य वचनं ग्राह्यमिति भावेनाह – गुणप्रधानभावे त्विति ।। पितापुत्रवचनयोः साम्यमेव नास्ति किमत्र तत्वमिति कुतः संदेहः स्यादिति भावः । कुतः पुत्रमतस्य विशिष्टत्वमित्यत आह – मनसा वा अग्रे सङ्कल्पयतीति ।। अस्तु वाच इति ।। अस्तु वाचो मनोवशत्वं तथापि वाचो मनसि लयः कुतः प्रमाणादङ्गीकर्तव्यः । उपन्यस्तस्य तद्वशत्वस्य सम्भावकत्वमात्रेण । तेन तन्निश्चयायोगादित्यर्थः । तद्वशत्वस्य सम्भावकत्वमेव कुत इत्यत उक्तं – नियामकानामिति ।। देवानामित्यर्थः । इदमुक्तं भवति वाचो मनसि लयं प्रतिज्ञाय तत्सिद्धये वाचो मनोवशत्वमुक्तम् । न चेदं तन्निश्चायकं, वाचो मनोवशत्वमिव नियामकानां बहुत्वेन अन्यवशतापि विद्यते । मनोवशत्वेन मनसि लयसाधनेऽन्यवशत्वेनाऽन्यत्रापि लयसिद्धिप्रसङ्गात् । ततोऽकामेनापि नेदं प्रमाणम् अपि तु सम्भावकमात्रमिति वक्तव्यम् । न च सम्भावनामात्रेणार्थः सिध्यतीति प्रमाणस्याऽऽवश्यकत्वात् किं तत्प्रमाणं, कुतो वाचो मनसि लयः प्रतिपत्तव्य इति ।
वाक्यार्थमुक्तावली
एतत्पादेति ।। अध्यायस्यैकार्थत्वात् पादभेदः किंनिबन्धनः इत्यतः फलेऽप्यवान्तरभेदा-दित्याशयेन एतत्पादार्थं दर्शयतीत्यर्थः । पूर्वपादेनास्य पादस्यानन्तरसङ्गतिमाह ।। ज्ञानेति ।। ज्ञानेन क्षीणप्रारब्धकर्मणामस्मिन्पादे चरमशरीरक्षयो वक्तव्यो भवति । तदारम्भकप्रारब्धक्षये तदवस्थानायोगादनन्तरसङ्गतिरिति भावः । भाष्ये देवानामित्येतद्यदि मोक्षोत्क्रान्तिभ्यां सम्बध्यते तदा देवेभ्योऽन्येषां चरमदेहविसर्गक्रमोऽत्र न चिन्तितः स्यादिति न्यूनता । यदि च मोक्षेणैव सम्बध्यते तदा देवानां मोक्ष इतरेषामुत्क्रान्तिश्चेत्युक्तं भवति । मोक्षश्च प्रकरणभेदात् देहादिति गम्यते । देहक्षय इति वोत्क्रान्तिरिति वाऽस्मिन्पादे उच्यत इति सामान्येन वक्तव्यं किमनेन विभागेनेत्यतः ‘उत्क्रान्तिमार्गौ देवानां न प्रायेण भविष्यतः’’ इत्यनुव्याख्यानुसारेण भाष्यं व्याचष्टे ।। स चेति ।। उपासनावदिति ।। सर्वगुणोपासनं ब्रह्मणः बहुगुणोपासनं देवानां चतुर्गुणोपासनमेव मनुष्याणामित्यधिकारिभेदेन वैचित्र्यसद्भावेऽपि यथोपासनत्वे प्रतिपाद्यप्रमेयस्यैकत्वान्न पादभेद-स्तथाऽत्रापि स्वोत्तमप्रवेशेन तत्रैव देहक्षयो देवानामितरेषामुत्क्रमणमित्यधिकारिभेदेनावान्तरवैचित्र्ये विद्यमानेऽपि देहलयत्वेनैकीकृत्य तत्प्रतिपादकपादैक्यं सम्भवतीति भावः ।
अन्यथेति ।। अथ सम्पत्स्यत इति पूर्वाधिकरणोक्तमोक्षाभावप्रसङ्गादनन्तरसङ्गतिरिति भावः ।। मनसीति ।। वाङ्मनसि न लीयत उत लीयत एवेति चिन्ता । तदर्थं वाचो मनोनियम्यत्वनिश्चयो न सम्भवत्युत सम्भवतीति ।। मनोजातत्वोक्तिरिति ।। तज्जन्यत्वे तत्र लयस्य सम्भावितत्वादिति भावः । एवमुत्तरत्रापि । वाचो मनोवशत्वदर्शनादिति भाष्यनिरस्यं व्यामिश्रतेत्युक्तन्यायं व्यनक्ति ।। न चेति ।। पूर्वरूपं कारणम् । अत एव प्रधानं च । उत्तरं रूपं कार्यं अप्रधानं च ।। प्रत्यक्षत एवेति ।। मनोऽनुसारेणैव वाक्प्रवृत्तेः सर्वानुभवसिद्धत्वादिति भावः । नन्वथाध्यात्मं वाक्पूर्वरूपं मन उत्तररूपं प्राणस्संहितेति सूरवीरो माण्डूकेयः । अथास्य पुत्र आह ज्येष्ठः । मनः पूर्वरूपं वागुत्तररूपमिति स्मृत्योर्व्यामिश्रत्वात् प्राधान्यानिश्चय इत्युक्तमित्याशङ्क्य विशेषसाम्यश्रुतिरित्युक्त-सिद्धान्तन्यायं व्यञ्जयन्प्रतिषेधति ।। न चेति ।। अत्र खल्विति ।। अत्र खलु वाक्पूर्वरूप-मित्यादिना वाङ्मनसोर्विष्णुनामि्न, पूर्वोत्तरदेवतात्वविषये तु मुनिमतयोर्माण्डूकेयतज्जेष्ठपुत्रमतयोरेको विवाद उच्यते । गुणप्रधानभावे च पूर्वोत्तरवर्णदेवताभूतवाङ्मनोनामकभगवद्रूपोपासनायां प्रतिमा-भूतयोर्वाङ्मनोनियामकयोर्देवतयोर्गुणप्रधानभावविषये चापरोऽपि विवाद उच्यत इति योज्यम् ।। उभयोरिति ।। वाङ्मनोनामकयोरुभयोरपि विष्णुरूपयोः प्रत्येकं वर्णदेवतात्वोपपत्तेरित्यर्थः । एवं विशेषसाम्यश्रुतिरित्यत्र साम्यश्रुतिरित्यंशं व्याख्याय विशेषश्रुतिरित्यंशस्फोरकत्वेन वाचो मनोवशत्वदर्शनादिति भाष्यं युक्त्या प्रत्यक्षेण च दर्शनादिति भावेन व्याचष्टे ।। गुणेति ।। साम्यमिति ।। उक्त्योरित्यनुवर्तते ।। व्याहरतीति ।। युक्त्येति ।। व्याहरति यस्मात्तस्मान्मन एव पूर्वरूपमिति पुत्रोक्तयुक्तिवचनं न वाङ्मनःपूर्वकत्वस्य वाचो मनःकारणकत्वेऽस्य वाक्पक्षस्य मनःपक्षविवक्षया दौर्बल्यं मनस एव प्रधानत्वमिति मनःपक्षस्य ज्यायस्त्वश्रवणाद्वाचो मनोवशत्व-ग्राहकसाक्षिप्रत्यक्षानुसारित्वाच्चेत्यर्थः ।। देवतानिमित्तत्वादिति ।। उभयोरचेतनत्वेन साम्या-दन्यस्यान्यवशत्वायोगाद्देवताकारितत्वादित्यर्थः ।। नियामकानामिति ।। नियामकदेवताना-मित्यर्थः । तथा च मनोधीनत्वमात्रस्याप्रयोजकत्वात् कुतः प्रमाणान्मनस्सिद्धिरिति भावः ।। तस्य यावदिति ।। जीवमरणकाले देवताप्रवेशस्य देवतालयक्रमानुसारित्वान्नैतदुदाहरणमसङ्गतम् । तदुक्तं अनुव्याख्याने–
तत्र प्रवेशो देवानामुत्तरोत्तरतः क्रमात् ।
उच्यते देहगानां च वृत्तीनामेवमेव तु ।। इति ।
ननूमायास्तस्मिञ्जन्मनि मोक्षाभावाद्रुद्रस्य च संसारिणो मोक्षमार्गत्वाभावात्कथं तस्यास्तत्र मोक्षार्थं देहलय इत्यत आह ।। अत्रेति ।। उमादिशब्दानां वारुण्यादौ वृत्तौ किं निमित्तमिति चेदत्रोक्तं सुधायाम् । उमात्वादीनां वारुणीत्वादीनां चैकद्रव्यसम्बन्धो लक्षणाबीजमिति । अत एवानुव्याख्याने त एव मरुत्पदमाप्नुवन्तीत्युक्तम् । उमादिपदेन सौपर्ण्यादिलक्षणायां तु पदसादृश्यं प्रवृत्तिनिमित्तमित्युक्तं ज्ञेयम् ।
तत्त्वसुबोधिनी
अत्र यथा भाष्ये देवानामित्यस्य भोगोत्क्रान्तिभ्यां सम्बन्धः प्रतीयते स चायुक्तः । तथात्वे देवस्यान्येषां सशरीरिणामेवावस्थानप्राप्तेः । अन्यत्र तच्छरीरपरित्यागप्रकारस्य चिन्तनीयत्वात् । अचिन्तने वा कारणस्य वाच्यत्वात् मनः इत्यतो उत्क्रान्तिमार्गौ देवानामित्यनुव्याख्यानानुसारेण भाष्यार्थमाह ।। स च द्विविध इति ।। अनेन भाष्ये देवानामित्यस्य मोक्ष इत्यनेनान्वयः । मोक्षस्य प्रकरणवशाद्देहादिति गम्यते उत्क्रान्तिश्चेत्यस्यान्येषां देवव्यतिरिक्तानां इत्यध्याहृतेन सम्बन्ध इत्युक्तं भवति ।। उपासनावदेकस्यैवार्थस्येति ।। सकलवेदोक्तगुणादविशिष्योपासनं तावद्गुणानां विशिष्य क्रियायाश्च सामान्यत उपासनं, बहुगुणोपासनं, चतुर्गुणोपासनमिति चतुर्मुखाद्यधिकारिभेदेना-वान्तरवैचित्र्ये विद्यमानेऽपि उपासनात्वेन एकीकृततत्प्रतिपादकत्वेन तत्पादस्यैकपादत्ववदत्रापि स्वोत्तमप्रवेश उत्क्रमणमिति देवाधिकारिभेदेनावान्तरवैचित्र्ये विद्यमानेऽपि देहक्षयत्वेनैकीकृत-तत्प्रतिपादकत्वेन पादैक्यं सम्भवतीति भावः । भगवता पूर्वसूत्रे ‘अथ संपत्स्यते इत्युक्तभगव-त्प्राप्तिलक्षणमोक्षार्थं वाचो मनसि लयसमर्थनात् अनन्तरसङ्गतिरिति भावः । उक्तविरोधः स्यादित्यर्थः ।। विशेषप्रमाणादर्शनमिति ।। तत्पूर्वकत्वात् इत्युक्तश्रुतेः वक्ष्यमाणन्यायेन व्यामिश्रितत्वान्न विशेषप्रमाणत्वमिति भावः ।। प्रत्यक्षत एवेति ।। अनेन सूत्रे दर्शनपदस्य श्रुतिपरत्वे शब्दादित्येतत्पुनरुक्तं स्यात् इति भाष्ये वाचो मनोवशत्वदर्शनादित्यनेन दर्शनादिति पदस्य प्रत्यक्षपरत्वमेवोक्तमित्युक्तं भवति । मुनिमतयोः विवाद उच्यते इति । अथात्मा वाक् पूर्वरूपं मन उत्तररूपं प्राणः संहिते शूरवीरोमाण्डूकेथा हास्य पुत्र आह ज्येष्ठो मनः पूर्वरूपं वागुत्तररूपं इति शूरवीरमाण्डूकेयतज्ज्येष्ठपुत्राख्यमुनिमतविवाद उच्यते इत्यर्थः ।। अन्यतरेति ।। मतद्वयेऽपि विष्णुरूपयोरेव पूर्वोत्तरवर्णदेवतात्वादिति भावः ।। उभयोरपीति ।। वाङ्मनोनामकयोः उभयोरपि विष्णुरूपयोः प्रत्येकं पूर्वोत्तरवर्णप्रतिपाद्यत्वेन पूर्वोत्तरवर्णदेवतात्वोपपत्तिरित्यर्थः । युक्तिमात्रेण कथं युक्तेरर्थान्तरविषयत्वमित्यत आह ।। प्रत्यक्षेति ।। वाचो मनोऽधीनत्वेऽपीति । सङ्कल्पव्यवहरणे सत्यचेतनयोरेव कारणत्वमिति भावः । ननूमायाः स्वस्मिञ्जन्मनि मोक्षभावेन रुद्रस्य च मोक्षमार्गाभावात् कथं तस्याः मोक्षार्थं देहलयः इत्यत आह ।। अत्रोमापदेनेति ।। उमागिरीशावपि भारतीराविति स्म वाग्वेदगता ब्रवीति । अहीन्द्रपत्नीमहिपं विरिञ्चपत्नीं विरिञ्चेत्यनुव्याख्यानोक्तेरिति भावः ।
वाक्यार्थविवरणम्
उपासनावदिति ।। मनुष्योत्तममारभ्य ब्रह्मपर्यन्तमुपासनायाधिकारिभेदे विद्यमानेऽपि उपा-सनात्वेनैकीकृतोपासनाप्रतिपादकत्वेनैकपादत्वम् । एवमत्रापि देवाद्यधिकारिभेदे विद्यमानेऽपि स्वोत्तमप्रवेशोत्क्रमणयोर्देहक्षयत्वेनैकत्वाद्देहक्षयरूपैकार्थप्रतिपादकत्वेन पादैक्यं युक्तमिति भावः । ‘इन्द्रप्रवेशस्तु यदोच्यतेऽत्र तदा ह्युमेत्येव सुपर्णपत्नी । उक्ता सुपर्णश्च गिरीशनाम्ना’ इत्यनु-व्याख्यानं मनसि निधायाह ।। उमारुद्रपदाभ्यामिति ।। वारुणीशेषयोर्ग्रहणे गरुडमार्गस्थस्येन्द्रस्य वारुण्यां लयाभावादिति भावः ।
वाक्यार्थमञ्जरी
तत्रोत्तमेषु ।। उपासनावदिति ।। चतुर्मुखाद्यधिकारिभेदेन सकलगुणोपासनं चतुर्गुणोपासन-मित्याद्यवान्तरवैचित्र्ये विद्यमानेऽप्युपासनात्वेनैकीकृततत्तत्प्रतिपादकत्वेन तस्य पादैक्यवदत्रापि देहक्षयत्वेन एकीकृततत्प्रतिपादकत्वेन पादैक्यं सम्भवतीति भावः ।। उक्तेति ।। अनियम इत्युक्तेत्यर्थः । वागिति ।। वाङ्नामा भगवान् विष्णुनामि्न पूर्वरूपे पूर्ववर्णदेवता मनः मनोनामा उत्तरवर्णदेवता तथा वाक् वागिन्द्रियं पूर्वरूपं पूर्वभाविव्यापारत्वेन प्रधानं मनः मनोरूपेन्द्रियं उत्तररूपं पश्चाद्भाविव्यापारत्वेन अप्रधानमित्यर्थः । एवमुत्तरवाक्यमपि द्वेधा व्याख्येयम् ।। व्यामिश्रेति ।। विरुद्धेत्यर्थः ।। ॐ वाङ्मनसि दर्शनाच्छब्दाच्च ॐ ।। वागभिमानी वाणी सौपर्णी च मनसि मनोभिमानिनि शेषे गरुडे च विलीयते कुतः दर्शनात् वाचो मनोवशत्वस्य प्रत्यक्षत एव दर्शनात्तस्य न यावदिति शब्दाच्छ्रुतेश्चेत्यर्थः ।। मुनिमतविवाद इति ।। अथाध्यात्मं वाक् पूर्वरूपं मन उत्तररूपं प्राणःसंहितेति शूरवीरो माण्डूकेयोऽथाहास्य पुत्र ज्येष्ठो मनः पूर्वरूपं वागुत्तररूपं इति शूरवीरो माण्डूकेय तज्ज्येष्ठपुत्राख्यमुनिमतविवाद उच्यत इत्यर्थः ।। अन्यतरेति ।। मतद्वयेऽपि विष्णुरूपयोरेव पूर्वोत्तरवर्णदेवतात्वमिति भावः ।। उभयोरपि ।। वाङ्मनसनामकयोरुभयोरपि विष्णुरूपयोः प्रत्येकं पूर्वोत्तरवर्णप्रतिपाद्यत्वेन पूर्वोत्तरवर्णदेवतात्वमिति भावः ।। युक्तेति ।। मनसा सङ्कल्पितस्यैव वाचा व्यवहरणरूपयुक्त्येत्यर्थः । युक्तिमात्रेण कथं श्रुतेरर्थान्तरविषयत्वमित्यत आह ।। प्रत्यक्षेति ।। वाचो मनोऽधीनत्वेऽपीति ।। सङ्कल्पव्याहरणे प्रति चेतनयोरेव कारणत्वमिति भावः ।। अनेकत्वेनेति ।। ब्रह्मादेरपि तन्नियामकत्वादिति भावः । ननूमायास्तस्मिन् जन्मनि मोक्षाभावाद्रुद्रस्य मोक्षमार्गत्वाभावात्कथं तस्यास्तत्र मोक्षार्थं देहलय इत्यत आह ।। अत्रोमापदेनेति ।।