ॐ न वियदश्रुतेः ॐ
श्री आनन्दतीर्थभगवत्पादाचार्यविरचितम्
ब्रह्मसूत्रभाष्यम्
अथ द्वितीयाध्याये तृतीयः पादः
अथ वियदधिकरणम्
सूत्रभाष्यम्
जीवपरमात्माधिभूताधिदैवेषु श्रुतीनां परस्परं विरोधमपाकरोत्यनेन पादेन ।
।। ॐ न वियदश्रुतेः ॐ ।। १ ।।
न वियदनुत्पत्तिमत् । तथाऽश्रुतेः ।
श्रीत्रिविक्रमपण्डिताचार्यविरचिता
तत्त्वप्रदीपिका
जीवपरमात्माधिभूताधिदैवेषु श्रुतीनां परस्परविरोधमपाकरोत्यनेन पादेन । अधिभूतेषु महाभूते-ष्वाकाशादिषु । ‘इमानि च पञ्च महाभूतानि पृथिवी वायुराकाश आपो ज्योतींषि’ इति हि श्रुतिः । अधिदैवेषु तदभिमानिषु । अथवाऽधिभूतेष्विति भूततत्सम्बन्धिविवक्षया । अधिदैवेष्विति तदभिमानितत्सम्बन्धिविवक्षया । एतदुक्तं भवति । समन्वयस्य स्मृतियुक्तिविरोधः परिहृतः प्रथमपादे । द्वितीये प्रमाणत्वेन कैश्चिदभिमतानां मतान्तराणां भ्रान्तिमूलकत्वापादनेन तदविरोध उक्तः । भूतेषु तत्कारणेषु चाव्यक्तादिषु भूताभिमानिषु देवेषु तत्कारणेषु चाव्यक्तादिदेवेषु परमात्मनि जीवे चोत्पत्त्यादिविषयाणां श्रुतीनां मिथोऽप्यविरोधं प्रकाशयत्यनेन पादेन । क्रमविपर्यासस्तु द्वन्द्वेऽल्पाक्षरपदप्राथम्यार्थम् । न चायमविरोधः समन्वयानुपयोगीति मन्तव्यम् । मिथोऽप्यनपाकृते विरोधे तेनैव दौर्बल्यमिति स प्रशिथिलतामापद्येत । विरोधनिरासमुखेन च प्रतिपाद्यन्त एव खलु परमात्मन एवोत्पत्तिविलयादयः सर्वस्य ।
ॐ न वियदश्रुतेः ॐ । वियदिति विशेषव्याप्तिमत्त्वादहङ्कारादिकमप्युच्यते । तस्यापि सम्भवात् । ब्रह्मणस्त्वसम्भव एवोच्यते ।। न वियदनुत्पत्तिमत् ।। तथाऽश्रुतेः ।। यथा श्रवणेऽ-नुत्पत्तिमदिति स्यात् । न हि तथा श्रूयते । तथाविधश्रवणाभावं वक्ष्यति । यथा वा ब्रह्मणोऽनुत्पत्तिः श्रूयते, यथा वोत्पत्तिर्बहुशः श्रूयते, न च तथाऽनुत्पत्तिः श्रूयते ।
श्रीजयतीर्थविरचिता
तत्त्वप्रकाशिका
एतत्पादार्थं दर्शयति ।। जीवेति ।। युक्तिसमयविरोधाभावेऽपि न वेदसमन्वयेन विष्णो-र्जगत्कारणत्वं सिद्ध्यति । वेदानां परस्परविरोधेनाप्रमाणत्वात् । न ह्यप्रमाणसिद्धोऽर्थः सिद्ध्यतीत्याशङ्कानिवृत्यर्थं श्रुतीनां विरोधः परिहरणीयो भवति । श्रुतिविरोधश्चाधिभूतादि-विषयोऽध्यात्मविषयश्च । तत्र जिज्ञासोरध्यात्म विषयविचारस्यान्तिमत्वादधिभूतादिविषयश्रुतीनां परस्परविरोधमस्मिन्पादे परिहरतीति भावः । न च वाच्यं श्रुतीनां जीवादिविषय एव विरुद्ध-त्वेनोक्तबाधाभावाद् व्यर्थः पादद्वयारम्भ इति । अभ्युपगतार्थद्वयेऽन्यतरार्थेऽप्रामाण्यप्राप्तावन्यार्थेऽ-नाश्वासप्रसङ्गात् । जगत्स्वरूपानिर्णये तत्कारणत्वानिर्णयाच्च अत्र ‘ज्ञोऽत एव’ इत्यारभ्यापादसमाप्तेर्जीवविचारः । ‘असम्भवस्तु’ ‘नात्माश्रुतेः’ इत्याधिकरणद्वये परमात्मविचारः । एकैकस्मिन्नेवाधिकरणेऽधिभूतादिविचारः । अतो विचारबाहुल्याभिप्रायेण क्रमोल्लङ्घनम् । अधिभूतं नाम सकारणकार्यभूतानि । तदभिमानिदेवता अधिदैवम् । अत्र भूतेष्वाकाशस्योत्पत्त्याद्यष्टके चोत्पत्तेः प्राथम्याद् ब्रह्मणि श्रुतिसमन्वयसिद्ध्यर्थमाकाशोत्पत्तिविषयश्रुतिविरोधपरिहारादस्ति शास्त्रादि-सङ्गतिः । सकलजगज्जन्मादिकर्ता विष्णुरित्युक्तम् । तच्चाकाशस्य नित्यत्वेऽसम्भवि स्यात् । श्रुतिविरोधेन गुणान्तरस्य चाभावापातात् । श्रुत्यविरोधेनाकाशस्योत्पत्तिः समर्थनीया । आकाशोऽत्र विषयः । उत्पत्तिमान्न वेति सन्देहः । ‘आत्मन आकाशः सम्भूतः’ । ‘अनादिर्वा अयमाकाशः’ इति श्रुतिविप्रतिपत्तिः सन्देहबीजम् । वियदनुत्पत्तिमदेवेति पूर्वः पक्षः । आकाश-स्योत्पत्यङ्गीकारेऽनुभूतियुक्तिबहुवाग्विरोधात् । न ह्यवकाशस्योत्पत्तिरनुभवानुसारिणी । वियदनुत्पत्तिमद्विभुत्वादित्यादियुक्तिः । ‘अनादिर्वा अयमाकाशः’ इत्यादिबहुश्रुतयः । न च ‘आत्मन आकाशः सम्भूतः’ इति श्रुत्या तदुत्पत्तिसिद्धिः । अनुभूत्यादिविरुद्धायास्तस्याः प्रामाण्यानुपपत्तेः । अत एवानुत्पत्तिश्रुतेर्भाक्तत्ववर्णनं च परास्तम् । तस्मादाकाशोत्पत्तिश्रुतेरप्रामाण्यादयुक्तं श्रुतिसमन्वयेनाकाशकारणत्वं ब्रह्मणः । न च सम्भूतश्रुतेरन्यार्थतया विरोधाभावः । तथा सति वाय्वादावप्यन्यार्थतापातात् । न ह्यस्ति सम्भवशब्दो यत्र श्रूयते तत्रामुख्यो यत्रापकृष्यते तत्र मुख्य इति । अतो दुष्परिहरं श्रुत्यप्रामाण्यमिति प्राप्ते सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ।। नेति ।। अत्रोत्पत्त्यसम्भवादिति प्रकृतानुत्पत्तिः सम्बध्यते । यदुक्तं वियदनुत्पत्तिमदिति न तद्युक्तम् । तथा अनुत्पत्तौ श्रुत्यभावादित्यर्थः ।।
श्री वादिराजतीर्थविरचिता
गुर्वर्थदीपिका
अध्यात्मविचारस्यान्तिमत्वात् इति वदता स्थूलपृथिव्यादिषु बाह्यार्थेषु दोषदर्शनेन क्रमेण जातवैराग्यस्य तदनन्तरमतिसूक्ष्मेषु दैहिकप्राणेन्द्रियादिषु वैराग्योत्पत्तिरिति सूचितम् । यद्वा सुगम-स्थूलविचारानन्तमतिसूक्ष्माध्यात्मिकचर्चायां शक्तिर्भवति । अतस्तद्विचारस्यान्तिमत्वमित्यभि-संहितम् । अभ्युपगतार्थद्वये इत्यस्य वेदार्थतयाऽभ्युपगते परापराख्यार्थद्वय इत्यर्थः । ननु द्वितीयाध्यायस्य तृतीयपादे ‘न वियदश्रुतेः’ इति ‘एतेन मातरिश्वा व्याख्यातः’ इति ‘तेजोऽ-तस्तथा ह्याह’ इति ‘आपः’ इति ‘पृथिव्यधिकाररूपशब्दान्तरादिभ्यः’ इत्यधिकरणपञ्चकेऽधि-भूतादिविचारः क्रियते ‘विपर्ययेण तु क्रमोऽत उपपद्यते च’ ‘अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात्’ इत्यधिकरणद्वये भूतादिलयविचारचर्चा क्रियते । सोऽप्यधिभूतादि-विचार एव ‘असम्भवस्तु सतोऽनुपपत्तेः’ ‘तदभिध्यानादेव तु तल्लिङ्गात्सः’ ‘नात्माऽश्रुतेः’ इत्यधिकरणत्रये परमात्मविचारः क्रियते । अतोऽधिकरणद्वये परमात्मविचारः एकैकस्मि-न्नधिकरणेऽधिभूतादिविचार इति कथं टीकेति चेत् सत्यं, ‘ज्ञोऽत एव’ इत्यधिकरणे जीवस्या-नादित्वात्तदंशे न भगवतो जन्मादिकारणत्वमित्यापतति । ‘उत्क्रान्तिगत्यागतीनाम्’ इत्यधिकरणे जीवस्य परमात्मवद्विभुत्वात् न जन्मादिमत्त्वमिति प्राप्तम् । ‘व्यतिरेको गन्धवत्तथा च दर्शयति’ इत्यधिकरणे निरवयवत्वाज्जीवस्य न व्यतिरेक इति वदता निरवयवत्वापरपर्यायनित्यत्वमेवोदितम् । अतोऽपि न जन्मादिप्राप्त, ‘पृथगुपदेशात्’ इत्यस्मिन्नधिकरणे जीवपरयोरभेदस्य पूर्वपक्षिणोऽभि-मतत्वान्न जीवस्य जन्मादि प्राप्तम् । ‘यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात्’ इत्यधिकरणे जीवस्य स्वरूपत एवोत्पत्तिमाशङ्कमानस्य जीवप्रागभावदशायामदृष्टाभावेन सृष्टेरेवाभावान्न कुत्रापि भगवतो जन्मादिकारणत्वमित्यापतति । ‘पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात्’ इत्यधिकरणे जीवानादि-त्वादिकमङ्गीकृत्य ‘आनन्दस्यैवोत्पत्तेराशङ्कितत्वात् पूर्ववदेव दोषः । कर्ता शास्त्रार्थवत्वात्’ इत्यधिकरणे जीवस्य सर्वथा कर्तृत्वाभावे तत्कृतपुण्यपापाख्यादृष्टस्याप्यभावप्रसङ्गेन पूर्ववदेव दोषः । ‘अंशो नानाव्यपदेशात्’ इत्यत्रांशश्रुतिबलाज्जीवस्यापि मत्स्यादिवद्भगवदंशत्वे न जन्मादीति प्राप्तम् । ‘अदृष्टानियमात्’ इत्यधिकरणे प्रतिबिम्बभूतजीवानां वैचित्र्ये कारणाभावेन तारतम्याख्य-महाप्रमेयभङ्गः । एवं च ‘ज्ञोऽत’ इत्यारभ्यापादसमाप्तेस्सर्वाण्यधिकरणानि महातत्वविरोधिपूर्वपक्ष-निराकरणरूपत्वादावश्यकानि । तानि च नव । तस्माद् बह्वधिकरणेषु विचार्यमाणत्वेनान्तिम-विचारविषयस्यापि विचारबाहुल्यादादौ ग्रहणं भाष्ये । ‘असम्भवस्तु सतोऽनुपपत्तेः’ ‘नात्माऽश्रुतेः’ इत्यधिकरणद्वये ब्रह्मणोऽप्युत्पत्तिलयवत्त्वेन जीववन्न जगज्जन्मादिकारणत्वमिति प्राप्तम् । अतस्तदधिकरणद्वयमपि महातत्वविरोधि । ‘तदभिध्यानात्’ इत्यधिकरणे संहारमात्रस्यान्यपरत्व-शङ्कायामपि तदतिरिक्तजन्मादिसप्तकर्तृत्वस्य तेनैवाङ्गीकृतत्वान्न बहुविरोधिता । अतस्तदुपेक्षितं टीकाकृता ।
‘तेजोऽतस्तथा ह्याह’ ‘आप’ इत्यधिकरणद्वये ब्रह्मणस्सर्वकारणत्वमङ्गीकृत्य तेजोमात्रे वायोस्तन्मात्रे च तेजसस्साचिव्यमात्रस्याशङ्कितत्वान्न बहुविरोधिता । अतिरिक्ताधिकरणत्रयं तु कथञ्चित् श्रुत्यप्रामाण्यप्रतिपादकमपि न मुख्यतो भगवन्महिमविरोध्यर्थकम् । अतोऽस्मिन्नधिकरणे मातरिश्वाख्याधिदेवताधिकरणे च तयोरनादित्वस्य पूर्वपक्षिणाऽऽशङ्कितत्वात्तदंशे न जन्मादि-कारणत्वं भगवत इति प्राप्तम् । तस्मान्महातत्त्वविरोधित्वादिदमधिकरणद्वयमेकैकस्मिन्निति गृहीतं टीकाकृता । नित्यत्वेनाभिमतगगनस्य भगवतस्सकाशादुत्पत्तिसिद्धौ नित्यत्वेनाभिमत-वाय्वादिभूतचतुष्टयोत्पत्तिरपि तत एव सिद्धेत्यतः अधिभूतोत्पत्तिविषये एकमधिकरणम् । मातरिश्वाधिकरणं तु वाय्वाख्याधिदैवविषयमेवेति भावेन तत्राप्येकमेवाधिकरणमित्युक्तम् । अत आदिपदेनाधिदैवमेवोच्यत इत्यभिप््रोतम् ।
वस्तुतस्तु भाष्यमर्यादया सूत्रमर्यादया च सकलसूत्रार्थस्यापि सङ्ग्राह्यत्वाद्भाष्यकृता च जीवपरमात्माधिभूताधिदैवेष्वित्येवोक्तत्वेनाधिकरणसङ्ख्याया अनुक्तत्वाच्च जीवविषये नवाधि-करणानि । ब्रह्मविषये त्रीण्येवाधिकरणानि । अधिभूताधिदैवविषये उक्तविधया महातत्व-विरोधित्वादेकमेकमधिकरणम् । अत एव विचारबाहुल्यापेक्षया क्रमोल्लङ्घनं भाष्ये । अवशिष्ट-मधिकरणपञ्चकमपि परम्परयोपयोगित्वादधिभूतपदेनैव सङ्गृहीतमिति ज्ञेयम् । सूत्रकारस्तु मन्दमतीनामप्युपकाराय सूचीकटाहन्यायेन प्राक्प््राबलैकैकविषये एकमेकं, मध्ये त्वेकस्य विषये द्वे, अन्ते पुनरेकस्यैव विषये बहून्यधिकरणानि सूत्रितवान् । अल्पविरोधपरिहारायापि कानिचि-दधिकरणानि निर्ममे । अतोऽसौ निरवधिककृपाम्बोधिरिति युक्तमुत्पश्यामः । श्रुतिविरोधेन गुणान्तराभावापातादित्यत्र श्रुतिविरोधेन आकाशोत्पत्तिविषयश्रुत्योर्मिथो विरोधेनाप्रामाण्ये गुणप्रतिपादकवेदस्याप्यप्रामाण्येन स्रष्टृत्वातिरिक्तसार्वज्ञादिगुणान्तरस्याप्यभावापातादित्यर्थः । अवकाशस्योत्पत्तिः कुत्रेति पृष्टे अत्रेति देशाख्यावकाशस्यैव प्रागपि वक्तव्यत्वेन साक्षिविरुद्धत्वा-त्तदुत्पत्तिरनानुभाविकीति भावेनाह न हीति ।
यद्वा सर्वलयेऽवकाशस्य सुतरां सत्वेन पुनः सृष्टिकाले तस्योत्पत्तिरनानुभाविकीति भावः । अत्रोपत्त्यसम्भवादित्यत्र मतुबर्थसङ्ग्रहेण विभक्तिव्यत्ययेन च सम्बध्यत इत्यर्थः । अत एव अनुत्पत्तिमदिति फलितमाह । ‘अनादिर्वा अयमाकाशः’ इत्यादिबहुश्रुतिष्वाकाशानादित्व-श्रवणात्कथमनुत्पत्तेरश्रुतिरित्यत उक्तं भाष्यकृता तथाऽश्रुतेः’ इति । यथा सूत्रकारस्योत्पत्तिरभिमता तद्विरोधितयाऽनुत्पत्तेरश्रुतत्वादित्यर्थः । ‘आत्मन आकाशः सम्भूतः’ इति भूतचतुष्टयप्रायपठितस्य तद्वदेव सम्भूतपदेनोत्पत्तिर्वक्तव्या, न चात्रोपचरितोत्पत्तिर्वक्तुं शक्या भूतान्तरेऽपि तत्प्रसङ्गात् । न हि सम्भवति यत्र साक्षात्सम्भूतपदेनोत्पत्तिः श्रूयते तत्र साऽमुख्या यत्राऽऽकृष्यते तत्र मुख्येति । अतो निरवकाशोत्पत्तिश्रुतिविरोधादव्याकृताकाशादिषु सावकाशा ‘अनादिर्वा अयमाकाशः’ इत्यादिश्रुतिः नैतदनुत्पत्तिं श्रावयतीति भावेनाऽश्रुतेरित्युक्तमित्यर्थः । अन्यत्रापि स्वरूपानादित्व-परवादिसम्भवेनाभिमानिनि देहोत्पत्तेरव्याकृताकाशे तदभिमानिश्रीदेव्यां च पराधीनविशेषावाप्ति-रूपोत्पत्तेरभञ्जकत्वेन सूत्रकृदभिमतोत्पत्त्यभावरूपानुत्पत्तेरश्रुतेरित्यर्थ इति भावः ।
श्री रघूत्तमतीर्थविरचितः
तत्त्वप्रकाशिकाभावबोधः
‘अध्यात्मप्रवणो भूत्वा तस्य सन्निहितत्वतः’ इत्यनुव्याख्यानं मनसि निधायाह– तत्र जिज्ञासोरिति ।। सुगमस्थलाधिभूतादिविचारानन्तरम् अतिसूक्ष्माध्यात्मिकचर्चायां शक्तिर्भवति । अतस्तद्विचारस्यान्तिमत्वमिति भावः । अधिभूतादिविषयश्रुतीनां परस्परविरोधमिति ।। तथा च सूत्रकृता सर्वानपि वेदविरोधान् परिहर्तुं द्वितीयाध्यायस्यारब्धत्वात् श्रुतीनां परस्परविरोधपरिहार-स्यावसरप्राप्तत्वाच्चास्य पादस्यान्तर्भावलक्षणानन्तर्यलक्षणा च सङ्गतिरिति भावः । न चैवमस्य पादस्यानेकविषयत्वेनानेकत्वापत्तिरिति वाच्यम्; अध्यात्मेतरविषयत्वेनैकत्वोपपत्तेरिति ।। अभ्युपगतार्थद्वय इति । श्रुत्यर्थत्वेनाभ्युपगते परापरतत्त्वरूपार्थद्वयेऽन्यतरार्थे जगति श्रुतीनाम-प्रामाण्यप्राप्तावन्यार्थे परमात्मगुणपूर्त्यादावनाश्वासप्रसङ्गादित्यर्थः । हेत्वन्तरमाह– जगत्स्वरूपा-निर्णय इति ।। विचारबाहुल्याभिप्रायेण क्रमोल्लङ्घनमिति ।। सूचीकटाहन्यायेन वर्तिष्यमाण-क्रमानुसारेणाधिभूताधिदैवपरमात्मजीवेति वक्तव्ये जीवपरमात्माधिभूताधिदैवेष्विति जीवादिशब्दानां पूर्वनिपातोऽत्र जीवादिविचारस्य बह्वर्थविषयकत्वेन जिज्ञासुं प्रत्यभ्यर्हितत्वादल्पाक्षरत्वाच्चेत्यर्थः ।। आकाशोत्पत्तिविषयेति ।। ‘उत्पत्त्यसम्भवात्’ इति पूर्वसूत्रप्रकृतोत्पत्तेराकाशसम्बन्धित्वेनात्र विचारादनन्तरसङ्गतिरिति भावः ।
उत्पत्तिमान्न वेति ।। अत्र पादे श्रुतिसमन्वयेन विष्णोः जगज्जन्मादिकारणत्वमयुक्तमुत युक्तमिति चिन्ता । तदर्थं जगत्कारणत्वाद्यभिधायकश्रुतिरप्रमाणमुत प्रमाणमिति चिन्ताद्वयानुवृत्तिः सर्वत्र द्रष्टव्या । अत्राकाशः किमनुत्पत्तिमानुतोत्पत्तिमानिति चिन्ता । तदर्थमाकाशस्योत्पत्तिमत्त्व-मनादित्वश्रुतिविरुद्धं न वेति । तदर्थमनादित्वश्रुतिः किं मुख्यार्थोत गौणीति । तदर्थं सा श्रुतिः किमनुभूत्यादियुक्तत्वेन निरवकाशोत सावकाशेति । तदर्थं वियत उत्पत्तिमत्वे श्रुतियुक्त्यादि-रूपप्रमाणमस्त्युत नास्तीति । वियत उत्पत्तिमत्त्वेऽनुभूतियुक्तिबहुवाग्विरोधोऽस्तीति न्याय-विवरणोक्तपूर्वपक्षयुक्तिमाह– आकाशस्योत्पत्त्यङ्गीकार इति ।। भाक्तत्ववर्णनमिति ।। अनादित्व- श्रुतेः स्वरूपानादित्वपरत्वेन भाक्तत्ववर्णनमित्यर्थः ।। अन्यार्थतयेति ।। प्रादुर्भावार्थतयेत्यर्थः ।
श्रीराघवेन्द्रतीर्थविरचितः
भावदीपः
ननु श्रुतीनामन्योन्यमविरोधोक्तिर्व्यर्था । तत्राप्येतत्पादीयश्रुत्यविरोधस्य प्राथम्यं निर्बीजमित्यत आह ।। युक्तिसमयेति ।। अन्तिमत्वादिति ।। ‘अध्यात्मप्रवणोः भूत्वा तस्य सन्निहितत्वतः’ इत्युपासनापादीयानुभाष्योक्तेरिति भावः ।। अभ्युपगतेति ।। पादद्वयप्रतिपाद्यजीवाधिभूताध्यात्म-रूपेऽर्थद्वये अन्यतरार्थे अधिभूतादिरूपे अध्यात्मरूपे चार्थेऽप्रामाण्यप्राप्तावीश्वरकर्तृत्वाद्यर्थेऽप्यना-श्वासप्रसङ्गादित्यर्थः । यद्वा विरुद्धश्रुतिभ्यामभ्युपगतार्थद्वयेऽन्यतरार्थेऽप्रामाण्यप्राप्तावित्यर्थः । अन्यतरार्थे वेति वाशब्दसंयोजनेन विरुद्धश्रुतिद्वयाप्रामाण्यमिति पूर्वपक्षस्थलेऽर्थद्वयेऽप्यप्रामाण्यप्राप्तौ दौर्बल्येनान्यतरश्रुत्यप्रामाण्ये तत्पूर्वपक्षस्थलेऽन्यतरार्थेऽप्राप्ताविति ध्येयम् । अथवा समन्वयाध्याये सर्वश्रुतीनां कल्पनोपदेशादित्यादिन्यायेन परममुख्यमुख्यवृत्तिभ्यामभ्युपगते परमात्मतदन्यरूपेऽर्थ-द्वयेऽन्यतरस्मिन्जीवादिरूपेऽर्थे अप्रामाण्यप्राप्तौ परमात्मपूर्णगुणत्वाद्यर्थेऽनाश्वासप्रसङ्गादित्यर्थः । तथा च विरुद्धश्रुत्योः प्रामाण्यायाविरोधेन तयोरर्थव्यवस्थापनाय पादद्वयारम्भो युक्त इति भावः ।
ननु जगत्स्वरूपविषयश्रुतीनां विरोधेन तदर्थे तासामप्रामाण्येऽन्यार्थेनाश्वासो निर्बीजः । तत्र श्रुतिविरोधाभावात् । शङ्कामात्रस्याप्रयोजकत्वादित्यत आह ।। जगदिति ।। ननु सूत्रेषु वक्ष्यमाणक्रमानुरोधेन भाष्य अधिभूताधिदैवपरमात्मजीवेष्विति वाच्ये विपरीतक्रमेण निर्देशो निर्बीज इत्यत आह ।। अत्र ज्ञोऽत एवेतीति ।। अत्र पाद इत्यर्थः ।। अधिभूतादिविचार इति ।। एकैकाधिभूतादिविचार इत्यर्थः । भूतमधिकृत्य स्थितमधिभूतं भूतकार्यमिति भ्रान्तिनिरासायाह ।। अधिभूतं नामेति ।। तथा चैतन्नयार्थोऽपि सङ्गृहीत इति भावः । अत्र देवताविचारपरं सूत्रं नोपलभ्यत इत्यत आह ।। तदभिमानीति ।। भूतविचारपरसूत्राण्येवाधिदैवविचारपराणीति भावः ।
ॐ नवियदश्रुतेः ॐ ।। प्राथम्यादिति ।। ‘आकाशाद्वायुः’ इत्यादिश्रौतक्रमाल्लब्धजन्मनः स्थित्यादेरिति भावः । अन्येषामुपलक्षणतया विचारः सिद्ध्यतीति हृदयम् ।। ब्रह्मणि श्रुतिसमन्वयसिद्ध्यर्थमिति ।। अभ्युपगतार्थद्वय इत्याद्युक्तदिशा हेतुहेतुमद्भावो बोध्यः । अनेन शास्त्रेऽन्तर्भाव उपपादितः । श्रुतीति पादे विरोध इति चाध्याय इति विवेक्तव्यम् । एवमग्रेऽपि । श्रुत्यधिकरणसङ्गती आह ।। सकलेति ।। श्रुतिविरोधेनेति ।। अनुत्पत्तिश्रुतिविरोधे-नोत्पत्तिश्रुतेरप्रामाण्यप्राप्तौ सर्वस्रष्टृत्वासिद्धावानन्दादिश्रुतिप्रामाण्येऽप्यनाश्वासापत्त्या तदुक्तगुण-स्याप्यभावापातादित्यर्थः । अजन्मश्रुत्यविरोधाय जन्मैव नेति निर्णयस्य दुःशकत्वान्निर्णयप्रकारमाह ।। श्रुत्यविरोधेनेति ।। न वियदनुत्पत्तिमदिति भाष्यसूचितप्रतिज्ञामाह ।। वियदनुत्पत्तिमदेवेति ।। वियदिति प्रकृतिजीवचैतन्यकालवेदमहदहंमनोबुद्ध्यादीनामुपलक्षणम् । वियत उत्पत्तिमत्त्वे अनुभूतियुक्तिबहुवाग्विरोधोऽस्ति व्यवस्थायोगादित्यन्यत्रोक्तयुक्तिमाह ।। आकाशस्योत्पत्त्यङ्गीकारे अनुभूतियुक्तीति ।। तां विवृणोति ।। न हीत्यादिना ।। व्यक्तमेतद्वैशेषिकनयानुभाष्यसुधयोः केवलं साक्षिमानेन कालो देशोऽपि नान्तवानित्यादौ । विभुत्वात् व्याप्तत्वादित्यर्थः । निरुपादानत्वादि-रादिपदार्थः । न चासिद्धिः । धर्मिग्राहकसाक्ष्यनुभवसिद्धत्वात् । अत एवानुभवस्य प्रागुक्तिः । न च क्षणलवादिसूक्ष्मकालावयवेषु विभुत्वे सत्यप्यनुत्पत्तेरभावाद्व्यभिचारः । ‘सर्वे निमेषा जज्ञिरे’ इत्यादिश्रुत्या तेषां सिद्धान्ते जन्माङ्गीकारात् । तथैव वैशेषिकाधिकरणभाष्यादावुक्तेरिति वाच्यम् । पूर्वपक्षे तेषु जन्मासम्प््रातिपत्तेरिति भावः ।
ननु वियदिति भूतस्य पक्षत्वे विभुत्वमसिद्धम् । ‘आकाशस्तल्लिङ्गात्’ इत्यत्र तस्यान्त-वत्त्वोक्तेः । अव्याकृतस्य पक्षत्वे सिद्धसाधनमिति चेन्न । आकाशद्वैताज्ञानेन तदैक्यबुध्द्यैवमुक्तेः । अव्याकृतस्य पक्षत्वेऽपि विष्णोः सर्वस्रष्टृत्वासिद्धेश्च । यद्वा काशद्वित्वोपगमेऽपि ‘अनादिर्वा अयमाकाशः’ इत्यादौ सामान्याकाशपदेन द्वयोरपि गृहीतेर्भूतेऽप्यन्तवत्त्वादिकमप्यसिद्धमिति भावेन पूर्ववादिनैवमनुमानमवादीति ध्येयम् ।। इत्यादीति ।। ‘आकाशवत्सर्वगतश्च नित्यः’ । ‘स यथा अनन्तोऽयमाकाश’ इत्यादिरादिपदार्थः । विरोधपदतात्पर्यं व्यावर्त्यपूर्वं व्यनक्ति ।। न चात्मन इति ।। नन्वनादित्वश्रुतेरनेककालवर्तित्वमात्रेण वा श्रुतिद्वयबलेनाकाशद्वयं कल्पयित्वा एकैका-काशविषयत्वेन व्यवस्था वाऽस्त्वित्यतो व्यवस्थायोगादिति न्यायविवरणांशतात्पर्यमाह ।। अत एवेति ।। सम्भूतश्रुत्यप्रामाण्यादेव कल्पकाभावादित्यर्थः । व्यवस्थायोगादित्यस्य श्रुतौ सम्भूत-शब्दस्य आकाशे अभिव्यक्त्यर्थत्वं वाय्वादावुत्पत्त्यर्थत्वमिति व्यवस्थाया अयोगादित्यर्थान्तरमुपेत्य शङ्कापूर्वं व्यनक्ति ।। न च सम्भूतश्रुतेरिति ।। अत इति ।। अनुभूत्यादिविरोधादित्यर्थः । एवं वियत्पदोपलक्षितप्रकृत्यादेरपि पूर्वपक्षो ध्येयः । ‘अनुत्पत्तिमत्’ इति भाष्यमनुवृत्तसौत्रपदार्थ इति दर्शयति ।। अत्रोत्पत्त्यसम्भवादितीति ।। अप्राप्तस्य निषेधायोगादाह ।। यदुक्तमिति ।। अश्रुतेरित्यादिवक्ष्यमाणयुक्तीनां सामान्यादत्रापि वियदिति प्रकृत्यादेरुपलक्षणं ध्येयम् । एतेन सूत्रे वियदुत्पत्तिमदेवेत्येव कुतो नोक्तमिति शङ्काऽपास्ता । अनुत्पत्तेरेव शङ्किततया तस्या एव निरस्यत्वात् । पूर्वस्मादनुत्पत्तेरेव प्रकृतत्वाच्चेति भावः । तथेति भाष्यस्थानुवादः । अनुत्पत्ताविति व्याख्या पराधीनविशेषावाप्तिरूपोत्पत्त्यभाव इत्यर्थः ।
श्रीसत्यनाथतीर्थविरचित
अभिनवचन्द्रिका
एतत्पादार्थमिति ।। ‘अध्यायस्यैकार्थत्वात् पादभेदः किं निबन्धन इत्यत’ इति वर्तते । तस्य एतत्पादार्थं दर्शयतीत्यनेन सम्बन्धः । ननु ‘जीवपरमात्माधिभूताधिदैवेषु’ इति भाष्यमनुपपन्नम् । जीवविचारस्य प्रथममदर्शनादित्यत आह तत्र जिज्ञासोरिति ।। भाष्यं न पादप्रतिपाद्यक्रमप्रदर्शनाय प्रवृत्तमपि तु पादप्रतिपाद्यमात्रप्रदर्शनाय प्रवृत्तम् । यद्यपि जीवविचार-स्यानेकाधिकरणनिर्वाह्यत्वात् सूत्रकृता महामल्लभङ्गन्यायेन जीवविचारं कृत्वा अन्यविचारः कर्तव्यः । तथा हि जिज्ञासोरध्यात्मविचारस्यान्तिमत्वसूचनाय सूचीकटाहन्यायेन अधिभूताधिदैव-परमात्मजीवविचारः क्रमेण कृत इति भावः ।। व्यर्थः पादद्वयारम्भ इति ।। ईश्वरे श्रुतिविरोधपरिहारार्थान्येवाधिकरणान्यारम्भणीयानि नाऽन्यानीति भावः । अनुत्पत्तिश्रुत्य-विरोधेनोत्पत्तिसमर्थनस्याऽऽवश्यकत्वमाह सकलजगज्जन्मादिकर्तेत्यादिना ।। श्रुत्यविरोधेनाकाशो-त्पत्तिः समर्थनीयेति विशिष्टा प्रतिज्ञा । तत्र उत्पत्तिसमर्थनाभावे तच्चाऽऽकाशस्य नित्यत्वेऽसम्भवि स्यादिति बाधकमुक्तम् । तस्यार्थः यदि श्रुतिविरोधेनैवाकाशोत्पत्तिः समर्थ्यते, अनादित्व-श्रुतेरप्रामाण्यमभ्युपेत्यैव समर्थ्यत इति यावत् । तर्ह्याकाशानादितानियामकत्वलक्षणगुणहानिः स्यादिति ।। अन्यार्थतयेति ।। प्रादुर्भावाद्यर्थतयेत्यर्थः । अत्र टीकायां न वियदश्रुतेरिति सूत्रप्रतीकग्रहणानन्तरं श्रूयमाणम् ‘अत्रोत्पत्त्यसम्भवादिति प्रकृतानुत्पत्तिः सम्बध्यत’ इति वाक्यं प्रक्षिप्तं न टीकावाक्यम् । अवश्यं चैतदेवं विज्ञेयम् ‘उत्पत्त्यसम्भवात्’ इति सूत्रे अनुत्पत्तिशब्दाभावात् अनुत्पत्तिमच्छब्दस्यापेक्षितत्वेनाऽनुत्पत्तिशब्दस्यानपेक्षितत्वाच्च ।
ताम्रपर्णी श्रीनिवासविरचिता
वाक्यार्थमुक्तावली
पादप्रतिपाद्यमिति ।। अन्यथैतत्पादस्यैतदध्यायान्तर्भावपूर्वपादानन्तर्यसङ्गत्योरज्ञानप्रसङ्गादिति भावः । श्रुतीनां परस्परविरोधपरिहारस्यानन्तरसङ्गतिमुपपादयति ।। युक्तीति ।। सर्वविरोधानां युक्तिमूलत्वेन युक्तिविरोधस्याप्राथम्ये तत्प्रपञ्चात्मकत्वेन समयविरोधस्य तदानन्तर्ये श्रुतीनां परस्परविरोधस्यावसरप्राप्तत्वादस्यानन्तरसङ्गतिविरोधपरिहारादेवाध्यायान्तर्भावश्चेति भावः । चतुर्थ-पादेऽपि श्रुतिविरोधपरिहारात्कथमस्य ततो विषयभेद इत्याशङ्कां परिहरन्नस्य प्राथम्ये च कारणमाह श्रुतिविरोधश्चेति ।। अधिभूतादिविषय इत्यनेनैवास्य पादस्यानेकविषयत्वेऽप्यध्यात्मेतर-विषयत्वोपाधिनैकत्वमिति सूचयति । तदुक्तं सुधायाम् । अध्यात्मेतरविषयकत्वेनेकत्वोपपत्तेरिति ।। जिज्ञासोरिति ।। ‘अध्यात्मप्रवणो भूत्वा तस्य सन्निहितत्वतः’ इत्यनुव्याख्यानोक्तेरिति भावः ।। अभ्युपगतार्थद्वय इति ।। ‘आकाशः सम्भूत’ इत्यादीनामभ्युपगतमुख्यामुख्यार्थद्वय इत्यर्थः । यद्वा ‘सत्यं ज्ञानमनन्तं’ ‘आकाशः सम्भूतः’ इत्यादि श्रुतीनामर्थत्वेनाभ्युपगतपरापरतत्वयोर्मध्य इत्यर्थः । पूर्वमनाश्वासमुखेनोक्तबाध उक्तः । इदानीं साक्षादाह ।। जगदिति ।। सूचीकटाहन्यायेन वर्तिष्यमाणसौत्रक्रमानुरोधेनाधिभूताधिदैवपरमात्मजीवा इति वक्तव्ये प्रतिपाद्यक्रमोल्लङ्घनमनुचित-मित्यतो बह्वधिकरणप्रतिपाद्यत्वलक्षणप्राधान्यविवक्षयोक्तमिति भावेनाह ।। अत्रेत्यादिना ।। एकैकस्मिन्निति ।। एकैकस्मिन्नेवाधिकरणे एकैकाधिभूततदभिमानिविचार इत्यर्थः । भूतमधिकृत्य स्थितं भूतकार्यमेवाधिभूतमिति प्रतीतिनिरासायाह अधिभूतं नामेति ।। भूतपदेन भूतसमुदाय उच्यते । तमधिकृत्य विद्यमानमधिभूतम् । तच्च भूतकार्यं भूतकारणं तदेकदेशवियदादिकं चेति समुदायाकारेण कार्यभूतान्यधिभूतमित्यर्थः । उक्तं च न्यायविवरणटीकायाम्, अधिभूतादि-शब्देनाकाशादीन्युच्यन्ते ।। समुदायैकदेशाश्रयणेनाधिकरणाधिकर्तव्यतोपपत्तेरिति । अत्र देवता-विचारपरं सूत्रं नोपलभ्यत इत्यत आह ।। तदभिमानीति ।। अधिगतं च तद्दैवं चेति विग्रहः । भूतपराण्येव सूत्राण्यधिदैवपराणीति भावः ।
ननु जीवविचारोऽप्यध्यात्मविचार एव तस्यापीन्द्रियादिवदात्मशब्दितं शरीरमधिकृत्य विद्यमानत्वादिति चेन्न । आत्मानं जीवमधिकृत्य वर्तते यत् तदध्यात्ममिति विवक्षितत्वेन जीव-भोगसाधनप्राणादीनामेवाध्यात्मपदेन विवक्षितत्वात् ।। ॐ न वियदश्रुतेः ॐ ।। आकाशोत्पत्ति-विषयेति ।। उत्पत्यसम्भवादिति पूर्वाधिकरण प्रकृतोत्पत्तेराकाशसम्बन्धित्वेनात्र विचारादनन्तर-सङ्गतिरिति भावः ।। उत्पत्तिमान्न वेति ।। आकाशोऽनुत्पत्तिमानुत उत्पत्तिमानिति चिन्ता, तदर्थमाकाशानुत्पत्तिश्रुतिः अनुत्पत्तेरनुभूतियुक्ति बहुवाक्सिद्धत्वेन निरवकाशतया मुख्यार्थतोत्पत्ति-श्रुत्यादिबाहुल्येन गौणीति ‘गौण्यसम्भवात्’ इत्यत्र, श्रुत्यनुभवयुक्तीनां व्यवस्थाश्रयेणाविरोधो त्वया सूचितं पूर्वपक्षसाधकमनुभूतियुक्तिबहुवाग्विरोधलक्षणन्यायमुक्त्वा अनुभूतिविरोधमुपपादयति न हीति ।। आकाशस्योत्पत्यङ्गीकारेऽत्राकाशो नेति तत्प््र•गभावोऽवश्यं प्रत्येतव्यः । न चाकाशा-भावस्याश्रयप्रतीतिरुपपद्यते । यदेवेह’ इति निर्दिश्यते तस्यैवाकाशत्वात् । अतस्तदभावस्य धर्मिग्राहकानुभवबाधितत्वेनाकाशोत्पत्तिर्नानुभवानुसारिणीति भावः ।। विभुत्वादिति ।। क्षण-लवादिव्यतिरिक्तत्वे सतीति विशेषणीयम् । अन्यथा तत्र व्यभिचारात् । अथवा सोऽपि पक्षसम इति न व्यभिचारः । निरुपादानत्वात्प््र•गभावशून्यत्वादित्यादिपदार्थः । न चासिद्धिः । धर्मिग्राहकसाक्ष्यनुभवसिद्धत्वादिति भावः ।। इत्यादीति ।। ‘आकाशवत्सर्वगतश्च नित्यः’ । ‘स यथाऽनन्तो यमाकाशः’ इत्यादिरादिपदार्थः ।। न चात्मन आकाश इति ।। ननु अव्याकृताकाशोपीह पूर्वपक्षविषयः । कथमेतच्छ्रुत्युदाहरणमस्याभूतप्रकरणत्वादिति चेन्नपरेणाकाश-द्वैतस्यानङ्गीकृतत्वेन तं प्रति तदुदाहरणासम्भवात् ।
यद्वाऽव्याकृताकाशविषये, ‘इदं सर्वमसृजत’ इति श्रुतेरुदाहर्तव्यत्वात् । उक्तमेतत्सुधायाम् । ननु अव्याकृताकाशस्योत्पत्यभावे माभूत् ‘आत्मन आकाशः सम्भूतः’ इति श्रुतिविरोधः ‘इदं सर्वमसृजत’ इति श्रुतिविरोधो भविष्यतीति । नन्वनादित्वश्रुतेः बहुकालवर्तित्वमात्रेण वा श्रुतिद्वय-बलेनाकाशद्वयमङ्गीकृत्यैकैकाकाशविषयत्वमात्रेण वा सूक्ष्मरूपानादित्वपरत्वेन वा भाक्तत्व-मस्त्वित्यत आह ।। अत एवेति ।। उक्तन्यायविरोधेनोत्पत्तिश्रुतेरप्रामाण्येन कल्पकाभावादेवेत्यर्थः ।। अन्यार्थतयेति ।। व्यक्त्यर्थतयेत्यर्थः । अत्र वियत्पदं नाकाशमात्रपरं किं नाम ‘अथ ह वाः’ नित्यानि पुरुषः प्रकृतिरात्मा कालः इत्यादि श्रुतिविगानविषयाणां प्रकृतिपुरुषकाल तदभिमानि-देवमहदहङ्कारमनोबुद्धीन्द्रियभूतसूक्ष्मतन्मात्रवदादीनामुपलक्षणार्थम् । मातरिश्वप्रभृतिषु पुनरभ्यधिका-शङ्कानिरासायाधिकरणान्तरारम्भः । प्रकृत्यादीनां भूतकारणत्वादधिभूतपदेन तत्सम्भवोपपत्ते-र्नाधिकरणावच्छेदकोपाध्यानाक्रान्तत्वं कालाव्याकृतवेदादीनां भूतकारणत्वाद्यभावेऽपि न्यायसाम्येन विचार्यता । मनोबुद्धीन्द्रियाणामध्यात्मत्वाच्चतुर्थ एव विचार्यतेति चेन्न ।। तेषामिति भूतकारण-त्वेनाधिभूतत्वस्येह विवक्षितत्वादध्यात्मत्वस्याविवक्षितत्वात् । स्पष्टं चैतदनुव्याख्यान इति ज्ञेयम् । तथेति भाष्यानुवादः । अनुत्पत्ताविति व्याख्या पराधीनविशेषावाप्तिरूपोत्पत्यभाव इत्यर्थः ।
पाण्डुरङ्गि श्रीनिवासाचार्यविरचिता
तत्त्वसुबोधिनी
पूर्वपादेनास्य सङ्गतिमाह ।। युक्तीति ।। नन्वध्यात्मविषयश्रुतिविरोधपरिहारः प्रथमं किं न क्रियते इत्यत आह ।। तत्रेति ।। अधिभूतादिविषयेति ।। तथा च सूत्रकृता सर्वानपि विरोधान् परिहर्तुं द्वितीयाध्यायस्यानारब्धत्वात् श्रुतीनां परस्परविरोधपरिहारस्य तदानन्तर्ये सति श्रुतीनां परस्परविरोधपरिहारस्यापि तदन्तर्भूतत्वात् प्राधान्याद्युक्तिविरोधस्य प्राथम्ये तत्प्रपञ्चनात्मकत्वेन समयविरोधपरिहारस्य तदानन्तर्ये सति श्रुतीनां परस्परविरोधपरिहारस्यावसरप्राप्तत्वाच्चास्य पादस्यान्तर्भावलक्षणा आनन्तर्यलक्षणा च सङ्गतिरिति भावः ।। अभ्युपगतार्थद्वय इति ।। श्रुत्यर्थत्वेनाभ्युपगते परापरतत्वरूपार्थद्वये अन्यतरार्थे जगति श्रुतीनामप्रामाण्यप्राप्तौ अन्यार्थे परमात्मगुणपूर्त्यादावनाश्वासप्रसङ्गादित्यर्थः । तत्र हेत्वन्तरमाह जगदिति ।।
ननु सूचिकटाहन्यायेन वर्तिष्यमाणक्रमानुसारेण अधिभूताधिदैवेति वक्तव्यम्, तथा च जीव-परमात्मेति क्रमोल्लङ्घने किं बीजमित्यत आह ।। अतो विचारबाहुल्येति ।। यत एवं विचारबाहुल्यं अतस्तदभिप्रायेणेत्यर्थः । विचारबाहुल्यमेव दर्शयति ।। अत्र ज्ञोऽत एवेति अधिभूतादिविचार इति ।। एकैकाधिभूताधिविचार इत्यर्थः । तथा चात्र जीवादिशब्दानां पूर्वनिपातोऽत्र जीवादि-विचारस्य बह्वर्थमाह ।। अधिभूतमिति ।। नन्वादौ आकाशविचार एव कुतः, तत्रापि उत्पत्ति-विचार एव कुतः इत्यत आह अत्र भूतेष्विति ।। आकाशोत्पत्तिविषयेति ।। उत्पत्त्यसम्भवादिति ।। पूर्वसूत्रप्रकृतापत्तेराकाशस्यानादिनित्यत्वे न केवलं सकलजगज्जन्मादिकारणत्वस्यैवासम्भवः किन्तु आकाशस्य नित्यत्वेन तत्संहर्तृत्वाङ्गीकारे तन्नित्यत्वप्रतिपादकश्रुतिविरोधापत्त्या सर्वसंहर्तृत्वरूपगुणान्तरस्याभावप्रसङ्ग इत्यर्थः । आकाशस्य नित्यत्वे नित्यत्वस्य भगवल्लक्षण-त्वानुपपत्तिः । नित्यत्वस्य तल्लक्षणत्वे, आकाशस्य नित्यत्वप्रतिपादकश्रुतिविरोधादित्यर्थः इत्याह । अनुभवादिविरोधमेव दर्शयति ।। न हीति ।। अत एवेति अनुभूतादिविरोधेन उत्पत्तिश्रुतेरप्रामाण्यादेवेत्यर्थः ।। भाक्तत्ववर्णनमिति ।। अनादित्वश्रुतेः स्वरूपानादित्वपरत्वेन भाक्तत्ववर्णनमित्यर्थः ।। अन्यार्थतयेति ।। प्रादुर्भावार्थतयेत्यर्थः ।। वाय्वादीति ।। आकाशाद्वायुरिति ।। वाय्वनित्यत्वप्रतिपादकश्रुतेरपि प्रादुर्भावार्थत्वं स्यादित्यर्थः । ननु सम्भूतः श्रुतेराकाशे प्रादुर्भावार्थत्वेत्यन्यत्रोत्पत्त्यर्थत्वमेवास्त्वित्यत आह ।। न ह्यस्ति सम्भव इति ।। यत्र ‘आकाशाद्वायुः’ इत्यत्र सम्भूतिशब्दः आकृष्यते अत्रायं मुख्योत्पत्त्यर्थकः । यत्र ‘आत्मन आकाशः’ इत्यत्र सम्भूतशब्दः श्रूयते तत्र तु प्रादुर्भावरूपमुख्योत्पत्त्यर्थक इति न कुत्रापि दृष्टमित्यर्थः ।
श्रीनिवासतीर्थविरचिता श्रीतत्त्वप्रकाशिकाव्याख्या
वाक्यार्थविवरणम्
अन्तिमत्वादिति ।। आध्यात्मिका हि भावा मिथ्या सम्यग्वा विदिता बन्धमोक्षयोरन्तरङ्गता-मश्नुवते न तथा बाह्याः । अत आध्यात्मिकपदार्थविचारेऽप्यन्ते सावधानताया अपेक्षितत्वेनादौ बाह्यविचारे व्युत्पन्नं प्रति पश्चादध्यात्मविचारस्य कार्यत्वेनाध्यात्मविचारस्य चरमत्वमिति भावः ।। अधिभूतादिति ।। न चैवमस्य पादस्यानेकविषयत्वेनैकवाक्यत्वायोग इति वाच्यम् । अत्र देहमधिकृत्य विद्यमानमिन्द्रियमध्यात्मपदेन विवक्षितम् । तथा च जीवपरमात्मनोरप्यध्यात्मत्वात् कथं तदितरत्वेनैकार्थतेति शङ्कानवकाशः । अध्यात्मेतरविषयकत्वेन तदुपपत्तेरिति ध्येयम् ।। उक्तबाधाभावादिति ।। उक्ते जगज्जन्मादिकर्तृत्वरूपे प्रमेये विरोधाभावादित्यर्थः । उक्तेऽर्थे विरोधं दर्शयतीति ह्युक्तम् ।। अनिर्णयाच्चेति ।। ततश्चोक्तबाधोऽस्त्येवेति भावः । क्रमः । प्राधान्यक्रमः ।
ननु भूतमधिकृत्य विद्यमानं यत्प्रकृत्यादिकारणं ब्रह्माण्डादिकार्यं तदेवायास्यति । न तु भूतम् । न प्रकृते च भूतविषय एव श्रुतिविरोधः परिह्रियते । अतः कथमेतदित्यतो व्याचष्टे ।। अधिभूता-नामिति ।। सत्यम् । प्रकृत्यादि कारणं, ब्रह्माण्डादि कार्यमेव पूर्वोक्तव्युत्पत्त्याऽधिभूतशब्दम् न तु भूतम् । तथापि कारणकार्यसाहित्यस्य भूतेऽपि सत्त्वेनोपचाराद् भूतेषु अधिभूतशब्द इति भावः । अत एव सकारणकार्यभूतानीत्युक्तमिति । अधिदैवमित्यत्र दैवशब्दो देवतावाची । तथा च देवानधिकृत्य विद्यमानं यत्तेषां पदादिकं तदेवायास्यति । न तु स्वयं देवताः । प्रकृते च भूतविषय एव श्रुतिविरोधपरिहारेण तदभिमानिदेवताविषय एव श्रुतिविरोधः परिह्रियते । अतः कथमेतदिति चेदुच्यते । अत्र न देवतावाची दैवशब्दः । किन्तु देवानां सम्बन्धि दैवमिति व्युत्पत्त्या देवतासम्बन्धि यदाकाशादितत्त्वजातं तद्वाची । एवं च देवानां सम्बन्धि यत्तत्त्वजातं तदधिकृत्य तदभिमानितया विद्यमाना ये देवास्ते अधिदैवमित्यभिप््रोत्याह ।। तत्त्वाभिमानिनो देवा अधिदैवमिति ।। भूतादितत्त्वाभिमानिन इत्यर्थ इत्याहुः ।
वस्तुतस्तु न्यायविवरणटीकानुसारेणाधिभूताधिदैवशब्दयोरयमर्थः । अव्ययविभक्तीति सूत्रे विभक्त्यर्थे अधिकरणमात्रे अव्ययसमास उक्तः । यथा अधिहरि प्रवृत्ता कथा, हरौ प्रवृत्ता कथेत्यर्थः । एवं प्रकृते विभक्त्यर्थेऽधिकरणमात्रे अधीत्यव्ययं भूतदैवपदाभ्यां समस्तम् । तथाचाधिभूतं भूतेष्वित्यर्थः । एवमधिदैवं देवेष्वित्यर्थः । विषयसप्तमीयम् । तथा चाधिभूताधिदैवेषु भूतदैवविषयेष्विति भावार्थः । एवं भाष्ये भूतमात्रवाचिना अधिभूतशब्देन तत्कारणकार्येऽपि लक्षणया ग्राह्ये इत्याशयेन सकारणकार्येत्युक्तम् । तदभिमानिन इति तु देवानां स्वरूपकथनमिति ध्येयम् । यथोक्तं न्यायविवरणटीकायां टीकाकारैः ‘अत्र विभक्त्यर्थेऽधिकरणमात्रे अव्ययं समस्तम् । ततश्चाधिभूतं भूतेष्वित्यर्थः । सर्वत्र विषयसप्तमी’ इत्यादि । ननु एवमधिभूतशब्दस्याव्ययीभावत्वे ‘अधिदैवानि अव्यक्ताद्यभिमानिदेवता, अधिभूतानि अव्यक्तादिकारणकार्योपेतानि भूतानि’ इति वियत्पादीयसुधाविरोधः । अव्ययीभावत्वे नपुंसकैकवचनत्वप्राप्त्या अधिदैवान्यधिभूतानीति प्रयोगानुपपत्तिरिति चेन्न । यथाऽत्र नानुपपत्तिस्तथा गुरुचरणैस्तट्टीकायां प्रतिपादितमनुसन्धेयम् ।। उत्पत्त्यष्टकेति ।।
‘‘ॐ तदभिध्यानादेव तु तल्लिङ्गात् सः ॐ इति सप्तमाधिकरणमारभ्याधिकरणदशकपर्यन्तं संहारविषयेऽपि श्रुतिविरोधपरिहारात्तदपेक्षयोत्पत्तेः प्राथम्यादुत्पत्तिविषय एव श्रुतिविरोधः परिह्रियत इत्यर्थः । श्रुत्यविरोधेनास्योत्पत्तिस्समर्थनीयेत्यत्र निमित्तमुक्तं श्रुतिविरोधेनेति पूर्वभागेन । उत्पत्तिश्रुतेरनादित्वश्रुतिविरोधेनाप्रामाण्ये तद्दृष्टान्तेन सर्ववेदस्याप्यप्रामाण्यापत्त्या तत्प्रतिपादितजग-ज्जन्मादिकर्तृत्वरूपगुणान्तरस्याप्यभावापातादित्यर्थः । तथा च अनादित्वश्रुत्यविरोधेन तद्विरोधो यथा न स्यात्तथोत्पत्तिः समर्थनीयेत्यर्थः ।। अवकाशः ।। अव्याकृताकाशः ।। अत एवेति ।। अनुभूत्यादिविरुद्धाया उत्पत्तिश्रुतेरप्रामाण्येन तद्विरोधाभावादेवेत्यर्थः । उत्पत्तिश्रुतेरप्रामाण्यं नास्तीत्याशङ्क्य निराकरोति ।। न चेति ।। तथा सतीति । ‘आकाशः सम्भूत’ इत्यत्र सम्भूतशब्दस्य प्रादुर्भावार्थतयाऽनादित्वश्रुतेस्तद्विरोधाभावोक्तौ ‘आकाशाद्वायुः’ इत्यादौ सम्भूत इत्यस्याकर्षणेन तत्र आकृष्टस्य सम्भूतशब्दस्यापि प्रादुर्भावाद्यन्यार्थोपपत्तौ वाय्वादेरप्युत्पत्तिर्न स्यादित्यर्थः । नन्वाकाशादौ श्रुतः सम्भूतशब्दोऽमुख्यार्थो वाय्वादावाकृष्टस्तु मुख्यार्थ एवेति चेत्तत्राह ।। न हीति ।। सम्बध्यत इति ।। तथा च ‘वियदुत्पत्त्यसम्भववन्न तथा श्रुतेः ।।’ इति सूत्रयोजना भवति । ‘न वियदनुत्पत्तिमत्’ इति तात्पर्यतो व्याख्यातमित्यवधेयम् । भाष्ये तथेत्यस्यानुत्पत्तिमत्त्वेनेत्यर्थः ।
शर्करा श्रीनिवासविरचिता
वाक्यार्थमञ्जरी
अध्यात्मेति ।। आत्मानं देहमधिकृत्य वर्तमानमिन्द्रियादीत्यर्थः ।। अन्तिमत्वादिति ।। तस्याः सन्निहितत्वेन प्रथममविचारविषयत्वेन तद्विचारश्चतुर्थपाद इति भावः ।। उक्तेति ।। जगत्कारणत्वादीत्यर्थः ।। अभ्युपगतार्थद्वय इति ।। श्रुत्यर्थत्वेनाभ्युपगते परापरतत्वरूपद्वये अन्यतरार्थे जगति श्रुतीनामप्रामाण्यप्राप्तावन्यार्थे ब्रह्मणो जगत्कारणत्वादावनाश्वासप्रसङ्गादित्यर्थः । प्रकारान्तरेणोक्तोपयोगमाह ।। जगत्स्वरूपेति ।। नन्वत्र पादे सूचीकटाहन्यायेन वक्ष्यमाणक्रमानुसारेणाधिभूताधिदैवपरमात्मजीवेति वक्तव्यम् । अतः कथं जीवादित्वेन ग्रहणमित्यत आह ।। अत्रेति ।। जीवादिविचारस्य बह्वर्थविषयकत्वेन जिज्ञासुं प्रत्यभ्यर्हितत्वादल्पाच्तरत्वाच्च क्रमोल्लङ्घनमित्यर्थः । नन्वधिभूताधिदैवेष्विति कथम् । अव्ययं विभक्तीत्यादिनाऽव्ययीभावे सति तस्याव्ययीभावश्चेत्यव्ययत्वापव्ययादात्’ ‘असुपः इति सुपो’ लुकाभाव्यत्वादिति चेदुच्यते । नात्राव्ययीभावः । येनोक्तदोषः किन्तु कर्मधारय एव । तत्राधिभूतेत्यत्राधिराधिक्यार्थः । एवं चाधि अधिकानि च तानि भूतानि चेत्यधिभूतानि । भूतानामाधिक्यं च कार्यकारणसाहित्येनेत्यभिप््रोत्य तस्य तात्पर्यमाह ।। सकारणकार्यभूतानीति ।। कारणमव्यक्तादिकार्यमन्नादितत्सहित-पञ्चभूतानीत्यर्थः । वक्ष्यमाणरीत्या वियदादिशब्दानामन्योपलक्षकत्वादिति भावः । अधिदैवे-त्यत्राधिरैश्वर्यार्थः । ततश्चाधि ईश्वराणि च तानि दैवतानि चेति विग्रहमभिप््रोत्य तत्तात्पर्यमाह ।। तदभिमानिदेवतेति ।। सकारणकार्यभूताभिमानिदेवतेत्यर्थः । आकाशोत्पत्तीत्येतदुपपादनाय भूतेष्वित्याद्युक्तम् ।। असम्भवीति ।। आकाशोत्पत्तिविनाशाकर्तृत्वादिति भावः । आकाशोत्पत्ति-समर्थनेनैवासम्भवे निवृत्ते किं श्रुत्यविरोधेनेत्यत उक्तम् । श्रुतिविरोधेनेति ।। आकाशोत्पत्तिश्रुतेः श्रुत्यन्तरविरोधेनाप्रामाण्ये तद्दृष्टान्तेन विशिष्टभागस्याप्यप्रामाण्यप्रसङ्गादिति भावः ।। अत एवेति ।। उत्पत्तिश्रुतेरप्रमाणत्वे न तद्विरोधाभावादेवेत्यर्थः ।। भाक्तत्ववर्णनमिति ।। आकाशपदवाच्यानां भूताव्याकृततदभिमानिनां मध्ये अव्याकृतादीनां स्वरूपानादित्वपरत्ववर्णनमित्यर्थः ।। अन्यार्थ-तयेति ।। प्रादुर्भावतयेत्यर्थः । वाय्वादावित्यनन्तरमनुवृत्तसम्भूतशब्दस्येति योज्यम् । कुत इत्यत आह ।। न हीति ।। ॐ न वियदश्रुतेः ॐ । वियदनुत्पत्तिमन्न भवति कुतः अश्रुतेः अनुत्पत्तिश्रुत्यभावादित्यर्थः ।