ॐ अत एव चानन्याधिपतिः ॐ

७. अनन्याधिपतित्वाधिकरणम्

सूत्रभाष्यम्

।। ॐ अत एव चानन्याधिपतिः ॐ ।। ९ ।।

सत्यसङ्कल्पत्वादेव ।

परमोऽधिपतिस्तेषां विष्णुरेव न संशयः ।

ब्रह्मादिमानुषान्तानां सर्वेषामविशेषतः ।।

ततः प्राणादिनामान्ताः सर्वेऽपि पतयः क्रमात् ।

आचार्याश्चैव सर्वेऽपि यैर्ज्ञानं सुप्रतिष्ठितम् ।

एतेभ्योऽन्यः पतिर्नैव मुक्तानां नात्र संशय’ इति वाराहे ।। ९ ।।

।। इति अनन्याधिपतित्वाधिकरणम् ।। ७ ।।

तत्त्वप्रदीपिका

यथा लोके परतन्त्राणां न स्वस्वामिसम्बन्धनियतिः । कदाचिदन्यनियतत्वं च दृश्यते । नैवं मुक्तानामित्याह अत एव चानन्याधिपतिः ।। अयमस्माकमेव नियम्यः स्यादिति तेषां सत्यसङ्कल्पत्वादहमियतामेव नियम्यः स्यामिति तस्यापि सत्यसङ्कल्पत्वात् पर एव ब्रह्मादीनां मनुष्यान्तानामविशेषेणाधिपतिः । अवरेषां ब्रह्माद्युषः पर्यन्ताश्च क्रमेण । एतेभ्यो नियताधि-पतिभ्योऽन्याधिपतिमुक्तानां नास्ति । चकारादन्याधिपतित्वे प्रमाणाभावात् । न च बहूनामाधि-पत्येऽपि तन्नियम्यस्य व्यग्रतापत्तिः । तदैकमत्यस्य प्रसाधितत्वात् ।।

तत्त्वप्रकाशिका

अत्र ब्रह्मप्राप्तिमतां मुक्तानां स्वाधमनियामकराहित्येन भोगसाधनादस्ति शास्त्रादिसङ्गतिः । अन्यथा मुक्तेः संसारसमानधर्मत्वप्रसङ्गात्समर्थनीयमेतत् । प्रकृतो मुक्त एवात्र विषयः । क्लृप्त-पतिभ्योऽन्यपतियुक्तो न वेति सन्देहः । उभयथा सम्भवः सन्देहबीजम् । मुक्तस्याधमा अप्यधिपतयः सन्तीति पूर्वः पक्षः । तस्यापि परगृहगतत्वात् । यथा खलु राजगृहगतानामधमा अपि प्रतीहारादयो नियामका दृश्यन्ते । अन्यथा लोकविरोधात् । अतो मुक्तस्याधमनियम्यत्वान्मुक्तेः संसारसमान-धर्मत्वमिति । सिद्धान्तयत्सूत्रमुपन्यस्य किंचिद्व्याचष्टे ।। अत एवेति ।। चशब्दो विपक्ष-व्यावृत्त्यर्थः । न मुक्तः क्लृप्तपतिभ्योऽन्याधिपतियुक्तः । सत्यसङ्कल्पत्वात् । लोके स्वावरनियम्यत्वं ह्यनपेक्षितमेव भवति । तच्च मुक्तस्य सत्यसङ्कल्पत्वादेव न युज्यत इति भावः । अत्र स्मृतिं चाह ।। परम इति ।। आचार्याश्च पतय इत्यन्वयः । अतो मुक्तस्याधमाधिपतिशून्यत्वाद्युक्तं मुक्तेः संसारवैलक्षण्यमिति सिद्धम् ।।

गुर्वर्थदीपिका

प्रतिहारादय इत्यत्र प्रति जनान् हरन्त्यन्तःपुरमिति प्रतिहाराः द्वारपालका इत्यर्थः ।

भावबोधः

स्वाधमनियामकराहित्येन भोगसाधनादिति ।। अनेनास्याधिकरणस्य भोगे इत्थंभावसाधन-परत्वेनास्मिन् पादेऽन्तर्भावलक्षणसङ्गतिरुक्ता भवति । अनन्तरसङ्गतिः ‘अत एव’ इति पूर्वोक्त-सत्यसङ्कल्पत्वस्यात्र स्वाधमपतिराहित्येऽप्यतिदेशात् स्पष्टैवेति भावः ।। क्लृप्तेति ।। अत्र मुक्तः क्लृप्तपतिभ्योऽन्यपतियुक्तो भवत्युत न भवतीति चिन्ता । तदर्थं तत्साधकत्वेनाभिमतपरगृहगतत्वस्य सत्यसङ्कल्पत्वेन बाधो नास्त्युतास्तीति । तदर्थं सत्यसङ्कल्पत्वस्य स्वाधमनियम्यत्वाभाव-साधकत्वाङ्गीकारे लोकविरोधापत्तिरूपतर्कविरोधोऽस्त्युत नास्तीति । तदर्थं लौकिकराजादीनां ईश्वरादीनां च विशेषरूपमापादकमस्त्युत नास्तीति । परगृहगतत्वादस्य राजगृहगतस्येव स्वाधमा अपि कदाचिदीशते इति न्यायविवरणं मनसि निधायाह– मुक्तस्याधमा अपीत्यादि ।। किञ्चिद्व्याचष्टे इति ।। ‘अत एव’ इत्यस्यैव सत्यसङ्कल्पत्वादेवेति व्याख्यानादिति भावः ।अनन्यभृत्यत्वमिहोदितेभ्यस्तु अन्यस्य भृत्यत्वनिवारणाय’ इत्यनुव्याख्यानं, ‘एतेभ्योऽन्यपतिर्नैव मुक्तानाम्’ इत्युदाहरिष्यमाणस्मृतिं च मनसि निधाय सौत्रप्रतिज्ञाभागं व्याचष्टे– न मुक्तः क्लृप्त-पतिभ्य इति । क्लृप्तपतिभ्य इति अन्यपदप्रयोगसामर्थ्यलब्धम् । सर्वथा पतिनिवारणाभिप्राये सूत्रे ‘‘पतिः’’ इत्येवावक्ष्यदिति भावः । अस्मिन्नधिकरणे ‘न च लोकविरोधः’ ‘निर्दोषभगवदोकसि तथात्वस्यैव युक्तत्वात्’ इति पूर्वाधिकरणोक्तप्रकारेण निर्दोषत्वादेव मुक्तेश्वरस्य तत्रस्थानां च मुक्तान्तराणां राजदोषवद्दोषासम्भवाद्यथायोग्यमेव स्वीकारोपपत्तेरित्येतदधिकरणसिद्धान्तन्याय-विवरणम् । न च लोकविरोधः । मुक्तस्वामिनो हरेस्तदोकोगतानां ब्रह्मादिमुक्तान्तराणां च निर्दोषत्वाद्धेतोः लौकिकराजादिवद्दोषासम्भवादुत्तममुक्तनियमनार्थं तदवरान् प्रत्यनियोजकत्वस्यैव युक्तत्वेन यथायोग्यमेवाधमोत्तमभावानतिक्रमेणैव नियम्यनियामकाभावस्य स्वीकारोपपत्तेरिति योजयितुं शक्यत्वेन टीकायां न व्याख्यातमिति ज्ञातव्यम् ।।

भावदीपः

सौत्रैकवचनं जात्यभिप्रायमित्युपेत्य परमोऽधिपतिस्तेषामिति स्मृत्यनुरोधेनाह ।। मुक्तानां स्वाधमेत्यादि ।। प्रागभिमतहेतुनैवेति योज्यम् । एतेन भोगस्योपकरणसाधने निरूप्य तद्भोक्तुः स्वाधमानधीनत्वधर्मः पूर्वोक्तहेत्वतिदेशेनात्र साध्यत इति पूर्वसङ्गतिरपि सूचिता ।। उभयथेति ।। लोकदृष्ट्यलौकिकत्वाभ्यां उभयथा सम्भव इत्यर्थः । परगृहगतत्वादस्य राजगृहगतस्येव स्वाधमा अपि कदाचिदीशते इत्यन्यत्रोक्तप्रतिज्ञाहेतू व्यनक्ति ।। मुक्तस्येति ।। अस्येत्याद्युक्त्यनु-रोधादेकवचनाद्युक्तिः ।। परगृहेति ।। परमात्मरूपान्यगृहेत्यर्थः । दृष्टान्तांशं व्यनक्ति ।। यथेति ।। प्रतिहारादयो द्वारपालादयः । हेतोरप्रयोजकत्वं निराह ।। अन्यथेति ।। अत इति ।। परगृहगतत्वादित्यर्थः ।। किञ्चिदिति ।। हेत्वंशमात्रमित्यर्थः । समग्रसूत्रं स्वयं व्याचष्टे ।। चशब्द इति ।। परगृहगतत्वेन नावरनियतत्वं मुक्तस्य ज्ञेयमित्यर्थकश्चशब्द इत्यर्थः । अनन्याधि-पतिरित्यस्यार्थो नेत्यादि ।। सत्येति ।। अहमियतामेव नियम्यः स्यामिति सत्यसङ्कल्पत्वादित्यर्थः । यथा खल्वित्यादिनोक्तलोकदृष्टिविरोधमेवकारसूचितेन हेतुबलवत्वेन निराह ।। लोक इति ।। सत्येति ।। अप्रतिहतेत्यर्थः । सत्यसङ्कल्पत्वं चाविभागो वचनादित्यत्र स यदि पितृलोकेत्यादि-पूर्वोक्तश्रुत्या च सिद्धमिति भावः । अप्रतीतेराह ।। इत्यन्वय इति ।। अत इति ।। सत्यसङ्कल्पत्वादेवेत्यर्थः ।।

अभिनवचन्द्रिका

सौत्रचशद्बार्थमाह – चशद्ब इति ।। चशब्दः पूर्वपक्षव्यावृत्त्यर्थं इत्यर्थः । तस्यैव विवरणम् – ‘अनन्याधिपतिः’ इति सौत्रपदमितिभावः । एतेन अत एव चेत्यनेनैव पूर्णत्वात् अनन्याधिपतिरिति व्यर्थमिति परास्तम् ।।

पूर्वपक्षस्तु मुक्ताः स्वावरनियम्याः सर्वाधिपतिसदननिविष्टत्वात् राजसदननिविष्टामात्यादिवत् । दृश्यन्ते हि अमात्या अपि राजसदननिविष्टा नीचैरपि प्रतिहारैर्नियम्यमानाः । अन्यथा लोकविरोधः स्यात् । अतो मुक्तस्याऽधमनियम्यत्वात् मुक्तेः संसारसमानधर्मत्वमिति ।

सिद्धान्तस्तु सर्वेषां परमात्माऽधिपतिः । प्राणादिनामपर्यन्ता देवाः क्रमेणाऽधिपतयः । यैर्ज्ञानं सुप्रतिष्ठितं त आचार्याः अपि अधिपतयः । नाऽतोऽन्यो नीचोऽधिपतिर्विद्यते । सत्यसङ्कल्पत्वात् । लोके अवरनियम्यत्वं हि अनपेक्षितमेव भवति । तच्च मुक्तस्य सत्यसङ्कल्पत्वादेव न युज्यते । उक्तं च ‘परमोऽधिपतिस्तेषां विष्णुरेव न संशय’ इत्यादिना । अतो मुक्तस्याऽधमाधिपतिशून्यत्वात् युक्तं मुक्तेः संसारवैलक्षण्यमिति सिद्धम् ।

वाक्यार्थमुक्तावली

भोगसाधनादिति ।। अत एव सत्यसङ्कल्पत्वादेवेति पूर्वोक्तहेत्वतिदेशेनेत्यर्थः । तथा चानन्तरसङ्गतिरिति भावः ।। अन्यथेति ।। स्वाधमनियामकसद्भावे संसारसमानधर्मत्व-प्रसङ्गात्तद्भोगायोग इति भावः । एतेनास्याधिकरणस्य भोगे आक्षेपनिवर्तकत्वात्पादान्तर्भावो युक्त इत्युक्तं भवति ।। क्लृप्तेति ।। अत्र मुक्तः क्लृप्तपतिभ्योऽन्यपतियुक्तो भवत्युत न भवतीति चिन्ता । तदर्थं तस्य परगृहगतत्वस्याप्यन्यपतिराहित्ये लोकविरोधः स्यादिति तर्कबाधो न भवत्युत भवतीति । पूर्वपक्षन्यायं विशदयति ।। तस्यापीति ।। हेतोरप्रयोजकत्वं विपक्षे बाधकोक्तयाऽपा-करोति ।। अन्यथेति ।। चशब्द इति ।। राजगृहं प्रविष्टस्य प्रतिहारपालादिनियतत्ववदत्रापि तदोक इत्युक्तपूर्वपक्षन्यायं व्यनक्ति ।। तस्यापीति ।। मुक्तः स्वावरनियतः परगृहं गतत्वाद्राजगृह-प्रविष्टपुरुषवदिति । अस्मत्पक्षप्रतिपक्षप्रमाणस्याभासत्वेन तन्निरासार्थ इत्यर्थः । कुतस्तस्याभासत्त्व-मित्यतः प्रबलानुमानबाधितत्वादिति भावेन प्रवृत्तं अत एवानन्याधिपतिरित्यंशं व्याचष्टे ।। न मुक्त इति ।। सत्यसङ्कल्पत्वादिति तत्वप्रदीपोक्तरीत्याऽऽह ।। महद्भिरेव नियम्यः स्यादिति ।। सत्यसङ्कल्पत्वादित्यर्थः । हेतोरप्रयोजकत्वं परिहरति ।। लोक इति ।। अत्र स्मृतिं चेति ।। अनुमानत्वाविशेषादस्य कथं प्राबल्यमित्यतः प्रतिज्ञातार्थे चशब्दसमुच्चितस्मृतिं चाहेत्यर्थः । तदुक्तं तत्वप्रदीपे । चशब्दोऽनन्याधिपतित्वे परमोऽधिपतिरित्यादिप्रमाणप्रसिद्धिद्योतक इति । प्रमाणे च ‘एतेभ्योऽन्यः पतिर्नैव मुक्तानां नात्र संशय’ इत्युक्त्या मुक्तानां मात्सर्यादिदोषमुक्तानामिति लाभात् । अस्तदोष इति सिद्धान्तन्यायोऽपि मुक्तानां मात्सर्यादिदोषशून्यत्वाद्योग्यतानुसारेणैव नियम्यनियामकभावसम्भवान्न राजगृहं गतानां प्रतिहारपालाद्यवरनियम्यत्वादवरनियम्यत्वमिति विवृतो भवति । तदिदमुक्तं टीकायां स्वावरनियम्यत्वं मुक्तस्य निवर्तत इति ।

तत्त्वसुबोधिनी

स्वाधमनियामकराहित्येनेति । अनेन अस्य अधिकरणस्य भोगेच्छाभावसाधनपरत्वेन अस्मिन् पादे अन्तर्भावलक्षणा सङ्गतिरुक्ता भवति । अनन्तरसङ्गतिस्तु अत एवेति । पूर्वोक्त-सत्यसङ्कल्पत्वस्यात्र स्वाधमपतिराहित्येऽतिदेशात् स्पष्टैवेति भावः ।। किञ्चिद्व्याचष्टे इति ।। अत एवेत्यस्य सत्यसङ्कल्पत्वादेवेति व्याख्यानादिति भावः । प्रतिज्ञाभागं व्याचष्टे । न मुक्तः क्लृप्तपतिभ्य इति क्लृप्तपतिभ्यः इति अन्यपदप्रयोगसामर्थ्यात् लब्धम् । सर्वथा पतिनिवारणाभिप्राये सूत्रे पतिरित्येव अवक्ष्यदिति भावः । न च लोकविरोधः । मुक्तस्वामिनो हरेः तदोकोगतानां ब्रह्मादि-मुक्तान्तराणां च निर्दोषत्वात् लौकिकराजादिवद्दोषासम्भवादिति भावः ।

वाक्यार्थविवरणम्

प्रतिहारादय इति ।। द्वारपालकादय इत्यर्थः ।। चशब्द इति ।। अनन्याधिपतिरित्युक्त-विपक्षव्यावृत्तिविवरणरूप इति केचित् । वस्तुतस्तु अनन्याधिपतिपदेनैव पूर्वपक्षव्यावृत्तेर्जातत्वात् । चशब्दः पूर्वपक्षफलभूतं यत् मुक्तेः संसारसमानधर्मत्वं तद्व्यावृत्यर्थ इत्यर्थः ।। न मुक्त इति ।। अत्र च व्यतिरेके देवदत्तादिर्दृष्टान्तो द्रष्टव्यः ।।

वाक्यार्थमञ्जरी

प्रतिहारेति ।। द्वारपालका इत्यर्थः ।। ॐ अत एव चानन्याधिपतिः ॐ ।। मुक्तोऽनन्याधिपतिः स्वोत्तमेभ्योऽन्याधिपतिरहितः । कुतः अत एव सत्यसङ्कल्पादेवेत्यर्थः ।।

।। इति अनन्याधिपतित्वाधिकरणम् ।। ७ ।।