ॐ कर्ता शास्त्रार्थवत्त्वात् ॐ

१७. अथ कर्तृत्वाधिकरणम्

सूत्रभाष्यम्

ईश्वरस्यैव कर्तृत्वमुक्तम् । ‘यत्कर्म कुरुते तदभिसम्पद्यत’ (बृ.उ. ६-४-५) इति जीवस्योपलभ्यते । अत आह–

।। ॐ कर्ता शास्त्रार्थवत्त्वात् ॐ ।। ३३ ।।

जीवस्य कर्तृत्वाभावे शास्त्रस्याप्रयोजकत्वप्राप्तेर्जीवोऽपि कर्ता ।

तत्त्वप्रदीपिका

जीवस्य कर्तृत्वाभावे स्वर्गादिफलार्थं प्रवर्तमानं शास्त्रमनर्थकं स्यात् । तथाहि ‘ज्योतिष्टोमेन स्वर्गकामो यजेत’ ‘ब्राह्मणो न हन्तव्यः’ इत्येवञ्जातीयकं विधिप्रतिषेधात्मकमिष्टं प्रेप्सन्तमनिष्टं परिजिहीर्षन्तमधिकारिणं शास्ति ।

तत्त्वप्रकाशिका

अत्रेश्वरे श्रुतिसमन्वयसिद्ध्यर्थं जीवकर्तृत्वविषयश्रुतिविरोधपरिहारादस्ति शास्त्रादिसङ्गतिः । ईश्वरे श्रुतिसमन्वय उक्तः । स च जीवकर्तृताविषयश्रुतीनां विरोधेनाप्रामाण्येऽनुपपन्नः स्यादिति तन्निरासः कार्य एव । प्रकृतो जीव एव विषयः । किं कर्ता न वेति सन्देहः । सन्देहबीजं श्रुतिविगानं दर्शयति ।। ईश्वरस्येति ।। ईश्वरस्यैव कर्तृत्वमुक्तमित्यनेन नान्यः कर्तेत्यादि श्रुतिं सूचयति । जीवो न कर्तेति पूर्वः पक्षः । तत्कर्तृत्वाभावस्य श्रुतत्वात् । जीवकर्तृत्वेऽप्यस्ति श्रुतिः न चासावीश्वर-विषया । ‘तदभिसम्पद्यते’ इति फलसम्पत्तिश्रवणादिति चेन्न । अकर्तृकत्वश्रुतेः सयुक्तिकत्वेन प्राबल्यात् । समर्थितं हीश्वरस्यैवानन्ययोगेन कर्तृत्वमितरव्यपदेशादित्यादौ । अत एव द्वयोः कर्तृत्व-मित्यपि प्रत्युक्तम् । ईश्वरस्यैव कर्तृत्वाङ्गीकारे कल्पनालाघवं च स्यात् । जीवस्यापि तदङ्गीकारे तु गौरवं स्यात् । न खलु लाघवाय श्रुत्यादिसिद्धमीश्वरस्य कर्तृत्वं हातुं युक्तम् । अतः सयुक्तिक-श्रुतिविरोधेन कर्तृत्वश्रुतेरप्रामाण्यादयुक्तो नारायणे श्रुतिसमन्वय इति प्राप्ते सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ।। अत इति ।। अस्त्येव जीवस्यापि कर्तृत्वम् । तदभावे विधिनिषेधशास्त्रवैयर्थ्यप्रसङ्गात् । न हि कर्तारमन्तरेणारण्यरोदनायमानशास्त्रस्य सार्थक्यं भवति । न च जडं प्रति तौ भवतो नापीश्वरं प्रति । तथा सति पुण्यपापलेपप्रसङ्गेनानीश्वरत्वापत्तेः । अतो जीवस्य कर्तृत्वाङ्गीकारे शास्त्रस्यार्थवत्त्वसिद्धेः सोऽपि कर्ताऽङ्गीकार्य इति भावः ।

भावबोधः

अनन्तरसङ्गतिं सूचयन् विषयमाह– प्रकृत इति ।। अभिव्यक्तज्ञानानन्दबलकर्तृत्वादिगुण-स्वरूपत्वेन प्रकृत इत्यर्थः । तथा चास्त्वानन्दादीनां सतामभिव्यक्तिः, न तु कर्तृत्वस्य तस्य कदाप्यभावादिति पूर्वपक्षोत्थानात् सङ्गतिरिति भावः ।। किमिति ।। अत्र जीवः कर्ता न भवत्युत भवतीति चिन्ता । तदर्थं ‘यत् कर्म कुरुत’ इत्यादिजीवकर्तृत्वश्रुतिः कल्पनालाघवयुक्त्युपोद्बलितया ‘नान्यः कर्त्ता’ इति श्रुत्या बाधितोत नेति । तदर्थं जीवस्य कर्तृत्वं किं काल्पनिकमुत स्वाभाविकमिति । तदर्थं ‘नान्यः कर्ता’ इत्यादिश्रौतो निषेधः किं नोपपद्यत उतोपपद्यत इति । तदर्थं सा श्रुतिर्जीवस्य कर्तृत्वमात्रनिषेधपरोत स्वतन्त्रकर्तृत्वनिषेधपरेति । तदर्थमीश्वराधीनशक्तित्व-रूपं पराधीनकर्तृत्वं जीवस्य किं नोपपद्यत उतोपपद्यत इति । तदर्थं विधिप्रतिषेधशास्त्रस्य पराधीनकर्तृत्वादौ प्रमाणं नास्त्युतास्तीति । भाष्योक्तपूर्वोक्तश्रुत्योः सन्देहबीजत्वप्रतीतावप्यस्मिन् पादे सर्वत्र श्रुतिविगानमेव सन्देहबीजमित्यभिप्रेत्योक्तम् श्रुतिविगानं सूचयति । तदुपपादयति ईश्वरस्यैव कर्तृत्वमुक्तमित्यनेनेति ।। न्यायविवरणे इतरव्यपदेशादित्यत्रास्याः श्रुतेरुदाहृतत्वादिति भावः । ईश्वरस्यैव कर्तृत्वमिति, भाष्योक्तयुक्तिमाह– समर्थितं हीति ।। अनेन हिताक्रियादिरूपा युक्तिरुक्ता भवति । ईश्वरस्यैव कर्तृत्वे कल्पनालाघवमिति न्यायविवरणोक्तयुक्तिमाह– ईश्वरस्यैवेति ।। तर्हि लाघवाय जीवस्यैव कर्तृत्वं भवत्वित्यत आह– न खल्विति ।। जीवकर्तृत्वे हिताक्रियादिदोषप्रसक्तेर्बाधकस्योक्तत्वाच्चेत्यपि ग्राह्यम् । अत्र ‘शास्त्रार्थवत्त्वात्’ इति हेतूक्त्या सूचितं जीवस्य कर्तृत्वाभाव इति भाष्ये जीवस्याकर्तृत्वे शास्त्रवैयर्थ्यादिति हेतूक्त्या सूचितं,  जीवस्याकर्तृत्वे शास्त्रवैयर्थ्यादिति न्यायविवरणे चोक्तं विपक्षे बाधकतर्कमाह– तदभाव इति ।। सौत्रप्रतिज्ञाव्याख्यानपरेण जीवोऽपि कर्तेति भाष्येण हेतुव्याख्यानपरं तस्यापि कर्तृत्वे शास्त्रार्थ-सिद्धेश्चेति न्यायविवरणं संयोजयति– अतो जीवस्येति ।।

भावदीपः

भाष्ये उक्तमित्यस्य श्रुतौ उक्तमित्यप्यर्थमुपेत्य पादसङ्गत्यर्थं तत्सूचितमाह ।। ईश्वरस्यैवेति ।। न कर्तेतीति ।। स्वतन्त्रकर्ता परतन्त्रकर्ता वा नेत्यर्थः । भाष्ये श्रुतिशेषोक्तेरुपयोगं व्यनक्ति ।। न चेत्यादिना ।। सयुक्तिकत्वेन लाघवादिरूपयुक्तिसाहित्येनेत्यर्थः । ईश्वरस्यैव कर्तृत्वे कल्पनालाघव-मित्यन्यत्रोक्तलाघवयुक्तिं वक्तुमनुभवसिद्धजीवकर्तृत्वादप्यप्रामाणिकस्येश्वरकर्तृत्वस्य स्वीकार एव गौरवमित्याशङ्कानिवृत्तये तस्य प्रामाणिकत्वायेश्वरस्यैवेत्यादि भाष्यं व्याचष्टे ।। समर्थितं हीति ।। एवकारार्थोऽनन्ययोगेनेति । यद्यपीतरव्यपदेशादित्यधिकरणे जीवकर्तृत्वमेव निराकृतं तथापि क्षीरवद्धि देवादिवदपि लोके इत्यनेन तस्याप्युक्तेरिति भावः । आदिपदेन प्रवृत्तेश्च अन्यत्राभावाच्च अन्यथानुमितौ च ज्ञशक्तिवियोगात् तेजोऽतस्तथा ह्याह इत्यादिग्रहः । एवकारतात्पर्यमाह ।। अत एवेति ।। हिताक्रियादिना अन्यकर्तृत्वनिरासपूर्वमीशकर्तृत्वसमर्थनादेवेत्यर्थः । एतेन जीवेशयोर्द्वयोः कर्तृत्वायोगादिति युक्तिर्दर्शिता । एवं भाष्योक्तां युक्तिमुक्त्वाधुनान्यत्रोक्तां च युक्तिं व्यनक्ति ।। ईश्वरस्यैवेति ।। गौरवमिति ।। विधिनिषेधशास्त्रवैयर्थ्यं तु सिद्धान्तेऽपि समम् । दारुयोषवज्जीव-स्यापि परतन्त्रकर्तृत्वोपगमादिति भावः । वैपरीत्यं किं नेत्यत आह ।। न खल्विति ।। नापि नान्यः कर्तेति श्रुत्या हिताक्रियादियुक्त्या च निषिद्धं जीवकर्तृत्वमुपादातुं युक्तमित्यपि योज्यम् । एतेन भाष्ये ईश्वरस्यैव कर्तृत्वमुक्तं समर्थितमित्युक्तेरुपयोगो दर्शितः ।। अत इति ।। द्वयोः कर्तृत्वा-योगादीश्वरस्यैव कर्तृत्वे लाघवाच्चेत्यर्थः । सयुक्तिकत्वेऽयं हेतुः । जीवोऽपि कर्तेति भाष्यार्थमाह ।। अस्त्येवेति ।। जीवस्याकर्तृत्वे शास्त्रस्य वैयर्थ्यादित्यन्यत्रोक्त्यनुरोधेन भाष्यार्थमाह ।। तदभाव इति ।। ज्योतिष्टोमेन स्वर्गकामो यजेत ब्राह्मणो न हन्तव्य इत्यादिविधिनिषेधरूपस्येत्यर्थः । तर्कस्याप्रयोजकत्वं निराह ।। न हीति ।। अस्त्वन्यदेव कर्तृ इत्यत आह ।। न चेति ।। तौ विधिनिषेधौ । नापि मुक्तं प्रति व्याहतेरिति भावः । भाष्यं सौत्रहेतोर्व्यतिरेकमुखेनोपपादकमिति भावेन तस्यापि कर्तृत्वे शास्त्रार्थसिद्धेश्चेत्यन्यत्रोक्त्यनुरोधेन भाष्यस्य विपर्यये पर्यवसानमुखेन सूत्रार्थमाह ।। अत इति ।। विपक्षे बाधकभावादित्यर्थः ।। सोऽपीति ।। सूत्रे ज्ञ इत्यनुवृत्तिरिति भावः ।

अभिनवचन्द्रिका

श्रुतिसमन्वयसिध्द्यर्थमिति ।। ‘एष उ एव साधुकर्म कारयति’ इत्यादि श्रुतिसमन्वय-सिद्ध्यर्थमित्यर्थः ।। अनुपपन्नः स्यादिति ।। कर्तुरभावे ईश्वरस्य कारयितृत्वायोगादिति भावः । शङ्कते – जीवकर्तृत्वेऽपीति ।। विवेकाग्रहोऽस्त्येवेति ।। परमतकर्तृत्वविषये आत्मीयता-कल्पनमस्त्येवेत्यर्थः ।

वाक्यार्थमुक्तावली

अस्त्वानन्दादीनां सतामेवाभिव्यक्तिः न तु कर्तृत्वस्य कदाप्यभावादिति पूर्वपक्षोत्थानादनन्तर-सङ्गतिः । अत्र जीवः कर्ता न भवत्युत भवतीति चिन्ता । तदर्थं यत्कर्मकुरुत इत्यादि जीवकर्तृत्व-श्रुतिः किं कल्पनालाघवादियुक्त्यनुगृहीततया नान्यः कर्तेत्यादिश्रुत्या बाधितोत नेति । तदर्थमकर्तृकत्वश्रुतिः किं सर्वथा कर्तृत्वनिषेधपरा उत स्वतन्त्रकर्तृत्वनिषेधपरा । तदर्थं जीवस्येश्वर-वत्स्वतन्त्रकर्तृत्वाभावेऽपि परतन्त्रकर्तृत्वमात्रेण विध्यादिविषयत्वमयुक्तमुत युक्तमिति ।। श्रुतिं सूचयतीति ।। तथा च स्ववाक्यश्रुति विरोधस्यात्रापाक्रियमाणत्वादसङ्गतिरिति निरस्तमिति भावः ।। न कर्तेति पूर्वपक्ष इति ।। स्वातन्त्र्येण, पारतन्त्र्येण वा न कर्तेति पूर्वपक्षः । नान्यः कर्तेति जीवस्य कर्तृत्वसामान्याभावस्य श्रुतत्वादित्यर्थः ।। अकर्तृकत्वश्रुतेरिति ।। कर्तृत्वसामान्यनिषेधक-श्रुतेरित्यर्थः ।। तथा हि ।। कर्तृत्वं जीवस्य वदन् प्रष्टव्यः, स्वतन्त्रः कर्ता परतन्त्रो वेति । आद्ये स एक एव स्वतन्त्रः कर्ता ईश्वरोऽपि वेति । आद्योत्तरत्वेन नेश्वरस्यैव कर्तृत्वमिति भाष्यं योजयति ।। समर्थितं हीति ।। अनन्ययोगेनान्यसहायं विना स्वातन्त्र्येणेति यावत् ।। स्वातन्त्र्येण कर्तृत्व-मीश्वरस्यैव न तु जीवस्येतीतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिरित्यत्र समर्थितयुक्त्या साधित-मित्यर्थः । अतिदेशेन द्वितीयं दूषयति ।। अत एव द्वयोरिति ।। द्वितीयं दूषयितुमल्पकत्वे-नेत्युक्तन्यायमीश्वरस्यैव कर्तृत्वमुक्तमिति भाष्यसूचितमाह ।। ईश्वरस्यैवेति ।। ईश्वरस्यैव कर्तृत्वं जीवस्य परतन्त्रकर्तृत्वमपि नास्तीत्यङ्गीकारे कल्पनालाघवं च स्यात् । ईश्वरकर्तृत्वस्य श्रुतियुक्तिभ्यां पूर्वं समर्थितत्वेन प्रामाणिककल्पनारूपत्वादिति भावः ।। जीवस्यापीति ।। पारतन्त्र्येण जीवस्यापि कर्तृत्वाङ्गीकारे गौरवम् । अवश्यं नियामकतयाऽभ्युपेयेनेश्वरेणैवोपपत्तौ व्यसनितया जीवकर्तृत्वाङ्गी-कारस्यायुक्तत्वात् । दारुयोषावद्विधिनिषेधविषयत्वानुपपत्तेश्चेति भावः । लाघवाय जीवत्यागे प्रत्यक्षसिद्धे जीव एव कर्ताङ्गीक्रियताम् । ईश्वरस्त्याज्यो लाघवादित्यत आह ।। न खल्विति ।। प्रत्यक्षसिद्धजीवस्य कर्तृत्वे धर्मिकल्पनालाघवमस्तीत्येतावता श्रुतियुक्तिसिद्धं कर्तृत्वं हातुं शक्यम् । जीवकर्तृत्वं श्रुतावापातत उपलभ्यते न युक्तिसहमतस्त्याज्यमिति भावः । शास्त्रस्यार्थवत्त्वाज्जीवः कर्तेत्यसङ्गतमित्यतः कर्तृत्वानङ्गीकारे विपक्षे बाधकप्रदर्शनमभिप्रेत्य विपर्यये पर्यवसन्नहेतुप्रदर्शनपरं सूत्रमिति भावेन प्रवृत्तभाष्यमाह ।। अस्त्येवेति ।। तर्कोऽप्यप्रयोजक इत्यत आह ।। न हीति ।। विधिनिषेधशास्त्रं हि प्रवर्तकं तच्च विहितकर्तारमुद्दिश्य प्रवर्तते ।। कर्तृत्वाभावे स्वोद्देश्यप्रवृत्य-हेतुत्वाद्वैयर्थ्यमिति भावः । तदेव पारिशेष्येणोपपादयति ।। न च जडमिति ।। अचेतनस्याविधि-नियोज्यत्वादिति भावः । भाष्ये तर्कमुक्त्वा जीवोऽपि कर्तेत्यापादकविपर्ययपर्यवसानमुच्यते नत्वापाद्यविपर्यये पर्यवसानं सूत्रप्राप्तमित्यतः स्वयमाह ।। अत इति ।। यत एवं जीवस्य कर्तृत्वानङ्गीकारे जडमीश्वरं चादाय न शास्त्रस्यार्थवत्वमतो जीवस्य कर्तृत्वाङ्गीकार एव शास्त्रस्यार्थवत्वसिद्धेः सोऽपि कर्ताङ्गीकार्य इत्यर्थः ।। सूत्रे ज्ञ इत्यस्ति ।। जीवस्य कर्तृत्वानङ्गीकारे विधिनिषेधशास्त्रस्याप्रवर्तकत्वलक्षणवैयर्थ्यं स्यात् । शास्त्रं चार्थवत् अतः शास्त्रस्यार्थवत्वाज्जीवोऽपि कर्तेति सूत्रार्थः ।

तत्त्वसुबोधिनी

अनन्तरसङ्गतिं सूचयन् विषयमाह ।। प्रकृत इति ।। अभिव्यक्तज्ञानानन्दबलकर्तृत्वादि-गुणस्वरूपत्वेन प्रकृत इत्यर्थः । तथा च स्वानन्दादीनां सतामभिव्यक्तिः । न तु कर्तृत्वस्य तस्य कदाप्यभावात् इति पूर्वपक्षोत्थानात् अनन्तरसङ्गतिरिति भावः । सन्देहबीजं श्रुतिविगानं सूचयतीति । एतच्च भाष्ये पूर्वोक्तिः श्रुत्योः सन्देहबीजत्वप्रतीतावपि अस्मिन् पादे सर्वत्र श्रुतिविगानस्यैव सन्देहबीजत्वमित्यभिप्रेत्योक्तम् । तदेवोपपादयति ।। ईश्वरस्यैव कर्तृत्वमुक्तमित्यनेनेति ।। न्यायविवरणे इतरव्यपदेशादित्यत्रास्य श्रुतेरुदाहृतत्वादिति भावः । शङ्कते ।। कतृत्वेऽपीति ।। भाष्ये तदभिसम्पद्यत इति अधिकांशोदाहरणस्य प्रयोजनं वक्तुं तद्व्यावर्त्यामाशङ्कामाह ।। न चेति ।। सयुक्तिकत्वेनेति ।। ईश्वरस्यैवानन्ययोगेन कर्तृत्वरूपयुक्तिसहितत्वेनेत्यर्थः । सयुक्तिकत्वे-नेत्युक्तामेव युक्तिमाह ।। समर्थितं हीति ।। अत एव ।। अनन्ययोगेनेश्वर कर्तृत्वस्य समर्थितत्वादेवेत्यर्थः । कल्पनालाघवाच्चेश्वरस्यैव कर्तृत्वमित्याह ।। ईश्वरस्यैवेति ।। तर्हि लाघवाय जीवस्यैवकर्तृत्वं भवत्वित्यत आह ।। न खल्विति ।। जीवकर्तृत्वे हिताक्रियादिदोषप्रसक्ते-र्बाधकस्योक्तत्वाच्चेत्यर्थः । अत्र शास्त्रार्थत्वोक्त्या सूचितं ‘जीवस्य कर्तृत्वाभावे’ इति भाष्ये चोक्तं विपक्षे बाधकान्तरमाह ।। तदभाव इति ।। ननु कर्तृत्वाभावेऽपि शास्त्रवैयर्थ्यं कुत इत्यत आह ।। न हीति ।। सकर्तृकत्वेऽपि जीवकर्तृत्वं कुत इत्यतः शेषादिभावेन प्रसक्तपक्षान् प्रतिषेधति ।। न चेति ।। विधिनिषेधबद्धत्वे जडत्वभङ्गप्रसङ्गादित्यर्थः ।

वाक्यार्थविवरणम्

भाष्ये यत्फलमुद्दिश्य कर्म कुरुते तत्फलमभिसम्पद्यते प्राप्नोतीत्यर्थः ।। श्रुतत्वादिति ।। नान्यः कर्ता’ इति श्रुतावन्यस्य कर्तृत्वनिषेधादिति भावः । शङ्कते ।। जीवकर्तृत्वेऽपीति ।। अत एवेति ।। ईश्वरस्यैव कर्तृत्वसमर्थनादेवेत्यर्थः । ननु गौरवपरिहारायैकस्य कर्तृत्वेऽङ्गीकरणीये जीवस्यैव तत्किमिति नाङ्गीक्रियत इत्यत आह ।। न खल्विति । वैय्यर्थ्यप्रसङ्गादित्यनेन भाष्येऽप्रयोजकत्व-प्राप्तेर्वैय्यर्थ्यप्राप्तेरिति व्याख्यातं भवति । ननु जीवस्य कर्तृत्वाभावेऽपि शास्त्रस्य न निरधिकारित्वेन वैय्यर्थ्यं प्रसज्यते । जडं प्रतीश्वरं प्रति वा विधिनिषेधात्मकशास्त्रप्रवृत्यङ्गीकारादित्यत आह ।। न चेति ।। न हीत्यर्थः । तौ विधिनिषेधौ । ननु कुत ईश्वरं प्रति तौ न भवत इति आशङ्काया ‘विधेर्निषेधस्य च नैव गोचरः पुमान् यदि स्याद्भवतो हि तौ हरेः । तेनैव लेपश्च भवेदमुष्य पुण्येन पापेन च नैव चासौ । लिप्येत ताभ्यां परमः स्वतन्त्रः’ इति महाभारततात्पर्यनिर्णयं हृदि निधायोत्तरमाह ।। तथा सतीति ।। अर्थवत्त्वेति ।। अधिकारिप्राप्त्या सार्थक्यसिद्धेरित्यर्थः ।

वाक्यार्थमञ्जरी

अन्यः ईशात् । शङ्कते ।। जीवकर्तृत्वेति ।। तत्कर्मफलं सम्पद्यते प्राप्यते । अनन्ययोगेन अन्यसाहाय्यत्यागेन । हि यस्मादत एवेत्यन्वयः । तथा च स्ववचनविरोध इति भावः । तर्हि लाघवाय जीवस्यैव कर्तृत्वमस्त्वित्यत आह ।। न खल्विति ।। ॐ कर्ताशास्त्रार्थवत्वात् ॐ । जीवः कर्तैव कुतः तथात्वे शास्त्रस्य विधिनिषेधरूपस्य प्रयोजनवत्त्वलाभात् अन्यथा तद्वैय्यर्थ्या-पत्तेरित्यर्थः ।

Load More