परेण चशब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुबन्धः ॐ
३४. ताद्विध्याधिकरणम्
सूत्रभाष्यम्
‘भक्तिरेवैनं नयति भक्तिरेवैनं दर्शयति भक्तिवशः पुरुषो भक्तिरेव भूयसी’ इति माठरश्रुतेर्न परमात्मना दर्शनमिति चेन्न । ‘तस्यैष आत्मा विशते ब्रह्मधाम’ (मुं.उ.३-२-४) इति श्रुतेः । कथं तर्ह्येषा श्रुतिः—
।। ॐ परेण चशब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुबन्धः ॐ ।। ५४ ।।
परमात्मैवं(व) भक्त्या दर्शनं प्राप्य मुक्तिं ददातीति प्रधानसाधनत्वाद्भक्तिः करणत्वे-नोच्यते । मायावैभवे च—
‘भक्तिस्थः परमो विष्णुस्तयैवैनं वशं नयेत् ।
तयैव दर्शनं यातः प्रदद्यान्मुक्तिमेतया ।।
स्नेहानुबन्धो यस्तस्मिन्बहुमानपुरस्सरः ।
भक्तिरित्युच्यते सैव करणं परमी(मे)शितुः’इति ।।
सर्वशब्दानां ब्रह्मणि प्रवृत्तेश्च ।
तत्त्वप्रदीपिका
भक्तेः सर्वसाधनेषु प्राधान्यमुक्तम् । श्रुतिं चाह– ‘भक्तिरेवैनं दर्शयति’ इत्यादि । अतस्तयैवास्य दर्शनं न परमात्मनेति शङ्कां निराकरोति नेत्यादिना । ‘एतैरुपायैर्यतते यस्तु विद्वांस्तस्यैव आत्मा विशते ब्रह्मधाम’ इत्याथर्वणी श्रुतिः ।।
‘नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन ।
यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम्’ इति ।
पूर्ववाक्योक्तैरुपायैर्यतमानस्य ब्रह्मपुरं हृदयमेष परमात्मा विशते तत्र दृश्यत इत्यर्थः । प्रवेशस्य नित्यसिद्धत्वात् । प्रवचनादिभिर्भक्तिरहितैर्न लभ्यते । भक्तिप्रधानैरपि स्वातन्त्र्यान्न लभ्यः । किन्त्वेतैर्भक्तिप्रधानैरुपायैर्यतमानस्यैवं विदुषो हृदये तदानीं प्रविष्ट इवाभिव्यज्यत इति । कथं तर्ह्येषा भक्तिवशत्वश्रुतिरित्यत आह– परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुबन्धः ।। ‘भक्तिरेवैनं नयति भक्तिरेवैनं दर्शयति’ इत्यादेः परमात्मैव भक्त्या स्वात्मानं दर्शयति स्वात्मानं प्रापयति चेत्यभिप्रायः । अतः स्वातन्त्र्यं तस्यैव । साधनेषु प्राधान्याद्भक्तेर्भक्तिरेवेत्युच्यते । ‘हन्ता रामशर’ इतिवत् । अतश्च भक्तिशब्देन परमात्मा भक्त्यधिकरणे भक्तेर्नियामकः प्रोच्यते । तदेव ह्याह– ‘भक्तिस्थः परमो विष्णुस्तयैवैनं वशं नयेत्’ तद्वशोऽहमिति ज्ञापयेत् ।
‘तत्तद्गतस्यैव हरेस्तत्तन्नामानि चाञ्जसा ।
औपचारिकनामानि तदन्येषामिति स्थितिः’इति शब्दनिर्णये ।।
‘दानतीर्थतपोयज्ञपूर्वास्सर्वेऽपि सर्वदा ।
अङ्गानि हरिसेवायां भक्तिस्त्वेका विमुक्तये’ इति च भविष्यत्पर्वणि ।।
‘सर्वस्मादुत्तम इति सम्यक् स्नेहयुता मतिः ।
सुस्थिरा भक्तिरुद्दिष्टा तया मोक्षो न चान्यतः ।।
तया मोक्षो भवत्येव सा चेत्पूर्णा स्वयोग्यतः ।
अपरोक्षदृशा युक्ता सा पूर्णेत्यभिधीयते ।।
अपरोक्षदृशिश्चापि महाचार्योक्तदर्शनम् ।
सोऽपि यन्मोक्षनियतमनसा समुदीरयेत् ।
तस्य दर्शनतो याति मुक्तिं नास्त्यत्र संशयः ।।
ध्यानं च गुरुशुश्रूषा नित्यनैमित्तिकाः क्रियाः ।
तीर्थदानजपाद्याश्च स्वाध्यायो हरिकीर्तनम् ।।
द्वादश्यादिव्रतं चैव तुलस्याद्यैरथार्चनम् ।
सर्वं भक्त्यर्थमुद्दिष्टं निष्फलं तत्तया विना ।।
विष्णुभक्तियुतो मुक्तिं याति नान्यः कथञ्चन ।
एतदन्यत्तु यच्छास्त्रं न तच्छास्त्रं कुवर्त्म तत्’
इति हरिवंशेषु ।।
तत्त्वप्रकाशिका
अत्र भगवद्दर्शनसाधनोपासनसाहित्येनोक्तभक्तेः स्वातन्त्र्यनिरासादस्ति शास्त्रादिसङ्गतिः । अन्यथाऽव्यक्तत्वाभावप्रसङ्गात्तन्निरसनीयमेव । प्रकृतं ज्ञानमेव विषयः । किं भक्तिसामर्थ्येन भवत्युत परमात्मनेति सन्देहः । कृष्यादौ राजसेवादौ च तथा दर्शनं सन्देहबीजम् । पूर्वपक्षयति ।। भक्तिरिति ।। भक्तिसामर्थ्येनैवापरोक्षज्ञानं न परमात्मप्रसादेन । ‘भक्तिरेवैनम्’ इति श्रुतौ भक्तेरेव स्वातन्त्र्येण दर्शनादिसाधनत्वदर्शनात् । एवं साधनसामर्थ्यादेव तद्दर्शनान्न तस्याव्यक्तत्वमिति भावः । सिद्धान्त-यति ।। नेति ।। न भक्तेरेव स्वातन्त्र्येण दर्शनादिसाधनत्वं वाच्यम् । किं तु तया प्रसन्नस्य परमात्मन एव । ‘एतैरुपायैर्यतते यस्तु विद्वांस्तस्यैष आत्मा विशते ब्रह्मधाम’ इति श्रुतेरित्यर्थः । एतैः प्रवचनाद्युपायैर्यो दर्शनार्थं यतेत(यतते)तस्यार्थे तैः प्रसन्नः परमात्मा ब्रह्मधाम वायुं विशति तस्य तत्राविर्भवतीत्यर्थः । परमात्मनैव चेद्दर्शनं कथं तर्हि भक्तेरेव तत्साधनत्वाभिधायकश्रुतिरुपपद्यत इति शङ्कते ।। कथमिति ।। परिहाराय सूत्रं पठित्वा व्याचष्टे ।। परेण चेति ।। परमात्मनैव दर्शनादिकं न तु भक्त्या । तथापि भक्तिश्रुतिरुपपद्यते । कथम् । दर्शनमोक्षयोः कर्ता परमात्मा भक्त्यैव करोतीत्यतोऽत्र भक्तेर्दर्शनादौ करणत्वेनोच्यमानत्वात् । न च वाच्यं साधनान्तराण्यनुक्त्वा किं विशिष्याभिधीयते भक्तिरिति । तस्याः साधनेषु प्रधानत्वात् । कर्तृत्वाङ्गीकारे तूक्तविशेष-श्रुतिविरोध इति भावः । अत्रैव स्मृतिमाह ।। मायेति ।। सैवेत्यस्यापि पूर्ववत्सङ्गतिः । एवं ‘हन्ता रामशर’ इति करणे कर्तृत्वव्यपदेशदर्शनात्करणार्थत्वेन श्रुतिमुपपाद्य प्रकारान्तरेणाप्युपपादयति ।। सर्वेति ।। भक्त्यादिसर्वशब्दानां परब्रह्मणि वृत्तेर्ब्रह्मैवैनं नयतीत्याद्यर्थोपपत्तेश्चोपपन्ना श्रुतिरिति भावः । अनेन परेणैव वाच्येन निमित्तेन शब्दस्य ताद्विध्यं युक्तमिति सूत्रांशस्यार्थान्तरमुक्तं भवति । अतो दर्शनादेः पुरुषशक्तिसाध्यत्वाभावाद्युक्तमव्यक्तत्वं ब्रह्मण इति सिद्धम् ।
गुर्वर्थदीपिका
अन्यथाऽव्यक्तत्वाभावप्रसङ्गादित्यत्र स्वतन्त्रसाधनशक्त्यैव दर्शने घटादिवद्विष्णोरव्यक्तत्वा-भावप्रसङ्गादित्यर्थः । ‘परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुबन्धः’ इति सूत्रस्यैवं योजना । चशब्द एवार्थे । परेण परमात्मनैव दर्शनं न तु केवलं भक्तिसामर्थ्येन । तर्हि ‘भक्तिरेवैनं नयति’ इति श्रुतेः का गतिरित्यत उक्तं ‘भूयस्त्वात्त्वनुबन्ध’ इति । दर्शनसाधनेषु भूयस्त्वात् प्रधानत्वात् तु एव अनुबन्धः भक्तिः । ‘हन्ता रामशर’ इति वत् करणे कर्तृत्वोपचाराद्भक्तिः ‘भक्तिरेव’ इति श्रुतौ कर्तृतया विशिष्य चोच्यते । किञ्च ‘नामानि सर्वाणि’ इति श्रुत्या ‘भज सेवायाम्’ इति धातोः कर्मणि क्तिन्प्रत्ययकरणेन च भक्तिर्भगवानित्यभिप्रेत्योक्तं शब्दस्य ताद्विध्यमिति । शब्दस्य भक्तिशब्दस्य ताद्विध्यं तस्य नारायणादिनामसमूहस्य विधा प्रकारो यस्य स तद्विधस्तस्य भावस्ताद्विध्यं यतस्तस्माच्च ‘भक्तिरेवैनम्’ इति श्रुतिः प्रवृत्तेति । अस्यैव तात्पर्यकथनं भाष्ये परमात्मैवेत्यादि ।
भावबोधः
स्वातन्त्र्यनिरासादिति ।। ईश्वरप्रसादाद्वारकत्वनिरासादित्यर्थः । एवं पूर्वाधिकरणैः अधिकारिभेदेन व्यवस्थितापरोक्षज्ञानस्य भक्तिसाध्यत्वे निर्णीते तस्याः स्वातन्त्र्येण तत्साधनत्वं निरस्यत इत्यनन्तरसङ्गतिरिति भावः ।। किमित्यादि ।। अत्र भक्तिः किं स्वातन्त्र्येणापरोक्ष-ज्ञानसाधनं उत परमात्मनः प्रसादद्वारेति चिन्ता । तदर्थं ‘भक्तिरेवैनं नयति’ इति श्रुतिः भक्तेः स्वातन्त्र्येण ज्ञानसाधनप्रतिपादिका भवत्युत न भवतीति । तदर्थं सा श्रुतिः किं निरवकाशोत सावकाशेति । तदर्थं भक्तेः परमात्मप्रसादद्वारा ज्ञानसाधनत्वे प्रमाणं नास्त्युतास्तीति । ‘तदव्यक्त-माह हि’ इत्यनेन गतार्थताशङ्कापरिहारायाभ्यधिकाशङ्काप्रदर्शनार्थं भाष्ये ‘भक्तिरेवैनं’ इति श्रुत्युदाहरणमित्यभिप्रेत्य तद्व्याचष्टे– भक्तिसामर्थ्येनैवेति ।। अनेन ‘भक्तिरेवैनम्’ इति भक्तेरेव पृथङ्मोचकत्वप्रदर्शनान्नेशकृत्यमिति न्यायविवरणमपि व्याख्यातं भवति । अत्र सूत्रे ‘च’शब्दः एवार्थः । दर्शनादिकमिति शेष इत्यभिप्रेत्याह– परमात्मन एवेति ।। आदिपदेन मुक्तिः । अनेन परमात्मा एवं दर्शनं प्राप्य मुक्तिं ददातीति भाष्यं सूत्रतात्पर्यकथनपरमित्युक्तं भवति । सौत्रः ‘च’ शब्दः अप्यर्थश्च । अपि तथापि शब्दस्य भक्तिरेवैनमिति श्रुतेस्ताद्विध्यं युक्तमिति सूत्रांशयोजना-मभिप्रेत्याह– तथापीति ।। कथमित्यतस्तदुपपादकत्वेन परमात्मैव भक्त्या दर्शनं प्राप्य मुक्तिं ददातीति भक्तिः करणत्वेनोच्यत इति प्रवृत्तं भाष्यं व्याचष्टे– दर्शनमोक्षयोरिति ।। अनेन ‘भक्त्यैव’ इति एवकारसम्बन्धः । ‘इति’शब्दस्य हेत्वर्थकथनत्वेनोच्यत इत्यनेनापि सम्बन्धः । ‘यतः’ शेषो वेत्युक्तं भवति । ‘भूयस्त्वानुबन्धः’ इति सूत्रांशव्याख्यानपरं प्रधानत्वाद्भक्तिरिति भाष्यं तन्निवर्तनीयाशङ्कानिरासपूर्वकं व्याचष्टे– न च वाच्यमित्यादिना ।। तथा च सूत्रे ‘अनुबन्धस्तु’ इति सम्बन्धः । भाष्ये तु प्रधानत्वाद्भक्तिरेव करणत्वेनोच्यते, न तु साधनान्तरा-णीति; एवकारसम्बन्ध इति भावः । स्मृतिमाहेति ।। उपलक्षणमेतत्–
‘अनादितो गुणाः सन्तो भक्त्याद्या न ह्यमूमुचन् ।’
इत्यादि न्यायविवरणोदाहृतमपि स्मृतिवाक्यं ग्राह्यम् ।। सैवेत्यस्यापीति ।। कथं तर्हि ‘भक्तिरेवैनं’ इति श्रुतिरित्यतो वा साधनान्तराण्यनुक्त्वा किं विशिष्य भक्तिरेव कारणत्वेनोच्यत इत्यतो वा ‘सैवेत्युक्तं’ इति पूर्ववत् सङ्गतिरित्यर्थः ।
अत्राद्ये– सा भक्तिः करणमेवेति ‘एव’ शब्दसम्बन्धः । द्वितीये– सैव मुख्यं न त्वन्यदित्यर्थ इति ज्ञातव्यम् ।
भावदीपः
भक्तेः स्वातन्त्र्यनिरासस्य पादानन्तर्भावमाशङ्क्योक्तम् ।। उपासनासाहित्येनोक्तेति ।। अनुबन्धादिभ्य इत्यत्रोक्तेत्यर्थः ।। स्वातन्त्र्येति ।। भगवत्प्रसादनैरपेक्ष्येणेत्यर्थः ।। अन्यथेति ।। प्रसादनिरपेक्षेणोपासनासहितभक्तिमात्रेण भगवद्दर्शन इत्यर्थः । तदव्यक्तमाह हीत्युक्ताव्यक्तत्वेत्यर्थः ।। कृष्यादाविति ।। कृष्यादौ राजादिप्रसादनैरपेक्ष्येण फलोदयो दृष्टः । राजसेवादौ च राजप्रसादद्वारा फलोदयो दृष्ट इत्यर्थः । भाष्ये न परमात्मनो दर्शनमित्यस्य परमात्मविषया-परोक्षज्ञानं परमात्मनः प्रसादेन न भवति किं तु भक्तिसामर्थ्येनेत्यर्थमुपेत्य व्युत्क्रमेण भाष्यं व्याचष्टे ।। भक्तिसामर्थ्येनैवेत्यादिना ।। प्रसादेनेति शेषोक्तिः । न परमात्मनो दर्शनमव्यक्तत्वमित्यपि भाष्यार्थं मत्त्वा प्रागुक्तार्थं हेतूकृत्य पूर्वाक्षेपरूपं फलमाह ।। एवमिति ।। न तस्येति ।। घटादे-रिवेति भावः । भाष्ये नेत्यनन्तरं न परमात्मनो दर्शनमितीति पूर्ववाक्यमनुवर्त्य तत्तात्पर्यार्थमाह ।। न भक्तेरेवेति ।। आदिपदेन मुक्तिः । भाष्ये श्रुतेरित्युक्तावपि भक्तेरेव पृथङ्मोचकत्वदर्शनादिति न्यायविवरणोक्त्यनुरोधेनेयमुक्तिः । तस्येत्याथर्वणवाक्ये विवक्षितार्थस्यास्फुटत्वात्पूर्वशेषमाह ।। एतैरिति ।। ‘नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्यः’ इत्यादिपूर्ववाक्योक्तप्रवचनभक्त्यादिप्रकृतपरामर्शित्वमुपेत्य श्रुत्यर्थमाह ।। एतैरित्यादिना ।। ‘प्रधानं धाम विष्णोस्तु प्राण एव प्रकीर्तितः । उपायैर्यो विजानीयात्प्राणस्थं परमेश्वरम्’ इत्याथर्वण-भाष्योक्तेरिति भावः । सूत्रे प्रकृतत्वाद्दर्शनादिपदान्वयमुपेत्य परेण च दर्शनादीति सूत्रांशस्यार्थमाह ।। परमात्मनैवेति ।। दर्शनादिकमिति ।। मुक्तिरादिपदार्थः । उक्तसूत्रांशस्य तात्पर्यार्थोक्तिपरं परमात्मैवेत्यादिभाष्यं साध्याध्याहारपूर्वं हेतुत्वेन व्याचष्टे ।। तथापीति ।। परमात्मन एव दृष्ट्यादि-हेतुत्वेऽपीत्यर्थः । भक्त्यैवेति भाष्यस्थैवकारो भिन्नक्रम इति भावः ।
भाष्यस्थेतिपदं हेत्वर्थं मत्त्वोक्तमित्यत इति । अत्रेति शेषोक्तिः । श्रुतावित्यर्थः । प्रधान-साधनत्वादित्यंशं व्यावर्त्यपूर्वं व्यनक्ति ।। न च वाच्यमिति ।। साधनत्वहेतोरसिद्धिमाशङ्क्याह ।। कर्तृत्वेति ।। उक्तेति ।। एतैरुपायैरित्युक्तेत्यर्थः । विशेषेत्युक्त्या निरवकाशत्वेन भक्तिरेवेति श्रुतितो बलवत्तोच्यते ।। अत्रैवेति ।। परमात्मैवेत्यादिभाष्योक्तार्थ एवेत्यर्थः । स्मृतावेनं विष्णुं स्वात्मानमेवेत्यर्थः । वशं नयेत् । वशोऽहमिति ज्ञापयेदिति तत्वप्रदीपोक्तार्थः । दर्शनादौ हरेरेव कर्तृत्वे कथं भक्तिरेवेति श्रुतिः कथं च साधनान्तराण्यनुक्त्वा भक्तेरेवोक्तिरित्यतः स्मृतौ सैव करणमीशितुरित्युक्तमिति ज्ञेयमित्याह ।। सैवेत्यस्यापीति ।। पूर्ववत् प्रधानसाधनत्वात्करण-त्वेनोच्यत इत्यस्यैवेत्यर्थः । तत्र करणमित्यनेनाद्यचोद्यस्य निरासोऽन्त्यस्य तु सैव परं करणमिति परपदेनेति ध्येयम् । भक्तेः प्राधान्यं च ‘तीर्थदानतपोयज्ञपूर्वाः सर्वेऽपि सर्वदा । अङ्गानि हरिसेवायां भक्तिस्त्वेका विमुक्तये’ इति । सर्वस्मादुत्तम इति सम्यक्स्नेहयुता मतिः । सुस्थिरा भक्तिरुद्दिष्टा तया मोक्षो न चान्यत इत्याद्यनेकवचनैः बृहद्भाष्ये प्रथमाध्याये विवृतम् ।। परब्रह्मणि वृत्तेरिति ।। प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधादित्यत्र सैषा प्रकृतिरित्यादिश्रुतिगतस्त्रीलिङ्गप्रकृत्यादिशब्दानामिव भक्तिशब्दस्यापि ब्रह्मणि वृत्तेरित्यर्थः । यद्वा भक्तिस्थः परमो विष्णुरिति भक्तिस्थत्वोक्त्या ‘तत्तद्गतस्यैव हरेस्तत्तन्नामानि चांजसा । औपचारिकनामानि तदन्येषामिति स्थितिः’ इति स्मृत्युक्तदिशा शरीररूपकविन्यस्तगृहीतेरिति न्यायेन ब्रह्मणि वृत्तेरित्यर्थः । भाष्यं सूत्रारूढं करोति ।। अनेनेति ।। अत इति ।। श्रुतेरन्यपरत्वेनेशप्रसादैकसाध्यत्वाद्दर्शनादेरित्यर्थः ।
अभिनवचन्द्रिका
परेणैव मोक्षो न भक्त्या । कथं तर्हि ‘भक्तिरेवैनं मोचयति’ इति श्रुतेः भक्तिप्राधान्य-प्रतिपादकत्वमित्यत उक्तम् – शब्दस्य ताद्विध्यमिति ।। यतः अनुबन्धः साधनेषु भूयस्त्वा-त्करणम्, अतः शब्दस्य श्रुतेः, ताद्विध्यं ‘भक्तिरेवैनं मोचयति’ इत्येवं रूपत्वमुपपन्नम् । ‘हन्ता रामशर’ इत्यादौ करणे कर्तृत्वव्यवहारस्य बहुलमुपलम्भादिति सूत्रार्थः । कृष्यादाविति । कृष्यादौ स्वव्यापारे फलोत्पत्तौ प्राधान्यदर्शनम् । राजसेवादौ स्वव्यापारे राजप्रसादाङ्गत्वेन अप्राधान्यदर्शनम् सन्देहबीजमित्यर्थः ।। सैवेत्यस्यापीति ।। ‘सैव करणं परमेशितुः’ इति प्रमाणशेषस्य, पूर्ववत् सूत्रे ‘शब्दस्य ताद्विध्यम्’ इत्यंशस्येव सङ्गतिर्द्रष्टव्येत्यर्थः । तथा हि । ननु यदि परमात्मैव मोक्षं ददाति, कथं तर्हि ‘भक्तिरेवैनं मोचयति’ इति श्रुतिरित्यत आह भाष्ये सैव करणं परमेशितुरिति । परमात्मनः कर्तृत्वेऽपि भक्तेः कारणत्वात्, करणे कर्तृत्वोपचारस्य बहुमुपलम्भात्, ‘भक्तिरेवैनं मोचयति’ इति श्रुतिरुपपन्नेति भाव इति ।
पूर्वपक्षस्तु– भक्त्यैवापरोक्षज्ञानं न परमात्मप्रसादेन । भक्तिरेवैनं मोचयति’ इति श्रुतेः । ततश्च साधनसामर्थ्येनैव दर्शनसम्भवान्न तस्याव्यक्तत्वमिति ।
सिद्धान्तस्तु– भक्त्या प्रसन्नपरमात्मनैवापरोक्षज्ञानम् । ‘एतैरुपायैर्यतते यस्तु विद्वान् तस्यैष आत्मा विशते ब्रह्मधाम’ इति श्रुत्या स्वेच्छयैव भक्तापरोक्षसिध्द्यर्थं, ब्रह्मधामशब्दवाच्यवायु-प्रवेशोक्तेः । न च पूर्वश्रुतिविरोधः भगवत्प्रसादसाधनेषु भक्तेः प्राधान्याभिप्रायेण ‘भक्तिरेवैनं मोचयति’ इत्यभिधानात् । अतो दर्शनादेः पुरुषसाध्यत्वाभावात् युक्तमव्यक्तत्वं ब्रह्मणः इति सिद्धम् ।
वाक्यार्थमुक्तावली
पूर्वाधिकरणे ईश्वरः प्रसन्नो बिम्बभूतमात्मानं प्रदर्श्य मोचयतीत्युक्तं समोऽपि भगवान् स्वबिम्बदर्शन एवैनं मोचयतीति । तदयुक्तम् । ज्ञानमोक्षयोः भक्त्यायत्तत्वादित्याक्षेपोत्था-नादनन्तरसङ्गतिः ।। साहित्येनेति ।। साहित्येनानुबन्धादिभ्य इत्यत्रोक्तभक्तेरित्यर्थः ।। स्वातन्त्र्य-निरासादिति ।। ईश्वरप्रसादाद्वारकत्वनिरासादित्यर्थः । अन्यथेति ।। साधनसामर्थ्येन प्रत्यक्षत्व इत्यर्थः ।। किमिति ।। ज्ञानं किं भक्तिसामर्थ्येनोत परमात्मनेति चिन्ता । तदर्थं भक्तिरेवैनमिति श्रुतिः किं भक्तेः स्वतन्त्रकारणत्वपरोत कारणत्वपरत्वेन भगवत्परत्वेन वा सावकाशेति ।। कृष्यादाविति ।। कृष्यादौ पुरुषप्रयत्नादेव फलं तेन प्रसन्नदेवतया । राजसेवादौ तु सेवया प्रसन्नेनैव फलमित्युभयथा दर्शनमित्यर्थः । अत्र पृथग्दृष्टिरित्युक्तन्यायं पृथगीश्वरप्रसादं विना भक्तिसामर्थ्येनैव दर्शनादिकमिति श्रुतेर्न परमात्मना दर्शनादीत्यर्थतया प्रदर्शयद्भाष्यं व्याचष्टे ।। भक्तिसामर्थ्येनेति ।।
यद्वा ननु तदव्यक्तमाह हि इत्यत्रापि संराधन इति दर्शनस्य पुरुषप्रयत्नस्य अतोऽनन्तेनेति प्रसादसाध्यत्वस्य चोक्तत्वान्न पुनः शङ्कावकाश इत्यतः पृथग्दृष्टिरिति न्यायं पृथक् साधनान्तर-वैलक्षण्येन भक्तिरेवेति भक्तेरपरोक्षादिहेतुत्वावधारणाच्छ्रवणपूजादिसंराधनासाध्यत्वेऽपि भक्ति-साध्यत्वमस्त्वित्यभ्यधिकाशङ्काप्रदर्शकत्वेन व्याकुर्वद्भाष्यं व्याचष्टे ।। भक्तिसामर्थ्येनेति ।। यद्वा ननु व्यतिरेकानवस्थितेश्चानपेक्षत्वादितीश्वरव्यतिरेकेण कस्यापि कर्मणोऽनवस्थानोक्तेः कथं भक्तेरेव ज्ञानहेतुत्वम् । श्रुतिस्तु तेजोऽधिकरणन्यायेन द्वारकारणत्वपरा भविष्यति । समन्वयाध्यायोक्तरीत्या भगवत्परा वेति पुनर्गतार्थतेत्यतः पृथग्दृष्टिरिति न्यायं द्वारकारणान्तराणां श्रवणादीनां विद्यमान-त्वेऽपि पृथक् भक्तिरेवेति दृष्टेः श्रुतेः भगवद्वाचकशब्दान्तरे विद्यामानेऽपि पृथग्विशिष्यभक्ति-रेवैनमिति दृष्टेः श्रुतेः, न द्वारकारणत्वपरत्वेन वा भगवत्परत्वेन वा सावकाशत्वमिति न परमात्मनो दर्शनादिकमित्यर्थकतया प्रदर्शयन् भाष्यं व्याचष्टे ।। भक्तिसामर्थ्येनेति ।। एतैः प्रवचनाद्यैरिति । भक्तिपूर्वकप्रवचनाद्यैरित्यर्थः । अथर्वणे तत्पूर्ववाक्ये ‘नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन’ इति भक्तिहीनप्रवचनादेर्न ज्ञानहेतुत्वं किन्तु ‘यमेवैष वृणुते तेन लभ्यः’ यमधिकारिणमेष परमात्मा वृणुते तेन भक्तिमता प्रवचनादिसाधनैः लभ्य इति भक्तिपूर्वकप्रवचनादेः प्रस्तुतत्वादिति भावः ।
सूत्रे चशब्द एवार्थः । दर्शनमोक्षयोः प्रकृतत्वात् दर्शनादिकमित्यन्वेतीति भावेन व्याचष्टे ।। परमात्मनैवेति ।। एतेन परमात्मैव दर्शनादिकं प्राप्य मुक्तिं ददातीति भाष्यांशो व्याख्यातो भवति । सौत्रश्चशब्दोऽप्यर्थश्च । अपि तथापिशब्दस्य भक्तिरेवैनं नयतीति श्रुतेः ताद्विध्यं तद्विधत्वं भक्तेर्दृष्टिं प्रति कर्तृत्वप्रतिपादकत्वमिति सूत्रांशयोजनामभिप्रेत्याह ।। तथापीति ।। एतेन भक्तिरुच्यत इति भाष्यांशः भक्तिः श्रुतावुच्यते भक्तिरेवेति श्रुतिरुपपद्यत इति व्याख्यातो भवति ।। कथमिति ।। यदि परमात्मैव दर्शनादिकं न तु भक्त्या स्वतन्त्रया कथं तर्हि भक्तिरेवेति भक्तेः कर्तृत्वश्रुतिरुपपन्ना विरोधादिति भावः । तत्परिहाराय शब्दस्य ताद्विध्यमित्यावर्तते । चशब्दो यस्मादित्यर्थे । अनुबन्धेनेति विपरिणम्यान्वेति । परेण दर्शनादिकमिति च । ततश्च यस्मात् परेण कर्त्रा अनुबन्धेन भक्त्यैव दर्शनादिकं भवति अतः शब्दस्य भक्तिरेवेति श्रुतेः ताद्विध्यं तद्विधत्वमेतैरुपायैः श्रुति-समानत्वभक्तेः करणत्वप्रतिपादकत्वम् । अतः करणे कर्तृत्वोपचारा श्रुतिरुपपद्यत इति सूत्रार्थं हृदि निधाय प्रवृत्तं परमात्मैवेत्यादिसमग्रभाष्यं प्रधानत्वादित्यंशं विहाय व्याचष्टे ।। दर्शनमोक्षयोरिति ।। अनेन भाष्ये भक्त्यैवेत्येवकारसम्बन्ध इति शब्दस्य हेत्वर्थकस्य यथाश्रुतमुच्यत इत्यनेनापि सम्बन्ध इत्युक्तं भवति । भूयश्चाननुबन्ध इति सूत्रांशव्याख्यापरं प्रधानसाधनत्वाद्भक्तिरेव कारणत्वेनोच्यत इति भाष्यं तन्निवर्तनीयाशङ्कानिरासपूर्वं व्याचष्टे ।। न च वाच्यमित्यादिना ।। तथा च सूत्रेऽनुबन्धस्त्विति तुशब्दसम्बन्धः । भाष्ये तु प्रधानसाधनत्वाद्भक्तिरेव कारणत्वेनोच्यते न तु साधनान्तराणीत्येवकारसम्बन्ध इति भावः । अत्रैव स्मृतिमिति । अनादिगुणविस्तर इति न्यायं सूचयन्निति पूरणीयम् । भक्तिस्थो भक्तिनामकः परमो विष्णुरनादिभूतया स्वानुग्रहेणेषद्व्यक्त्या तया भक्त्या करणेनैनं जीवं स्वाभिमुखं कुर्यात् । यद्वा परमात्मवशोऽहमिति ज्ञापयेत् । ततः परं पुनरधिकप्रसादेनाभिव्यक्त्या दर्शनं ययाऽतः पुनरभिव्यक्त्या एतया भक्त्या मुक्तिं प्रदद्यादिति । अनादितो विद्यमानस्य भक्त्यादिगुणस्य भगवत्प्रसादेन क्रमेणाभिवृद्धस्यैव करणतया मुक्तिहेतु-त्वस्योक्तत्वेन स्वतः सामर्थ्याभावादिति भावः । तदुक्तं न्यायविवरणे । ‘अनादितो गुणाः सन्तो भक्त्याद्या न ह्यमूमुचन् । जीवं तद्गुणसुव्यक्तिं कृत्वैनं मोचयेद्धरिः’ इति । सैव इत्यस्यापीति । कथं तर्हि भक्तिरेवैनमिति श्रुतिरित्यतो वा साधनान्तराण्यनुक्त्वा किं विशिष्य भक्तिरेव करणत्वेनोच्यत इत्यतो वा सैवेत्युक्तमिति पूर्ववत्सङ्गतिरित्यर्थः ।
अत्राद्ये सा भक्तिः करणमेवेत्येव सम्बन्धः । द्वितीये सैव मुख्यं करणं न त्वन्यदित्यर्थ इति ज्ञातव्यम् ।। सूत्रांशस्येति ।। ननु भगवद्वाचकं साधनान्तरवाचकं च शब्दान्तरं विहाय भक्तिशब्देन तदुक्तौ किं कारणमित्यतः प्रधानसाधनवाचकत्वात् भक्तिशब्दस्य शरीररूपकविन्यस्तगृहीतेरिति न्यायेन तत्रस्थभगवद्ग्रहणायोपादानमिति भूयस्त्वात्त्वनुबन्ध इत्यनेन सुगममिति सूत्रांशस्यार्थान्तर-मुक्तमिति भावः । अत एव भक्तिस्थः परमो विष्णुरित्युक्तम् । तत्वप्रदीपे च भक्तिनामक इत्युक्तम् ।
तत्त्वसुबोधिनी
स्वातन्त्र्यनिरासादिति ।। ईश्वरप्रसादाद्वारकत्वनिरासादित्यर्थः । एवं पूर्वाधिकरणैरधिकारि-भेदेन व्यवस्थितापरोक्षज्ञानस्य भक्तिसाध्यत्वे निर्णीते तस्य स्वातन्त्र्येण तत्साधनत्वं निरस्यत इत्यनन्तरसङ्गतिरिति भावः ।। अन्यथेति ।। सामर्थ्येन व्यक्तत्वे स्वतः परमात्मनो व्यक्तत्वं न स्यादित्यर्थः ।। तथा दर्शनमिति ।। कृष्यादिकं स्वसामर्थ्येनापि सफलं भवति परमात्मनाप्येवं राजसेवादिकमपि स्वसामर्थ्येनापि सफलं राजसेवयापीत्यर्थः । तदव्यक्तमाह हीत्यनेन गतार्थता-शङ्कापरिहाराय भाष्ये भक्तिरेवैनं नयति इति श्रुत्युदाहरणमित्यभिप्रेत्य तद्व्याचष्टे ।। भक्तिसामर्थ्ये-नेवेति ।। अत्र सूत्रे चशब्द एवार्थः । दर्शनादिकमिति शेष इत्यभिप्रेत्याह ।। परमात्मनैवेति ।। आदिपदेन मुक्तिः ।। अनेन परमात्मैव भक्त्या दर्शनं प्राप्य मुक्तिं ददातीति भाष्यं सूत्रतात्पर्य-कथनपरमित्युक्तं भवति । सौत्रश्चशब्द अप्यर्थः अपि तथापि शब्दस्य भक्तिरेवैनमिति श्रुतेस्ताद्विध्यं युक्तमिति सूत्रांश योजनामभिप्रेत्याह ।। तथापीति ।। कथमित्यतस्तदुपपादकत्वेन परमात्मैव भक्त्या दर्शनं प्राप्य मुक्तिं ददातीति मुक्तिकारणत्वेन उच्यत इति प्रवृत्तं भाष्यं व्याचष्टे । दर्शनमोक्षयो-रिति ।। अनेन भक्त्यैवेत्येवकारसम्बन्ध इतिशब्दस्य हेत्वर्थकत्वेन उच्यते इत्यनेनापि सम्बन्ध इत्युक्तं भवति । भूयस्त्वात्त्वनुबन्ध इति सूत्रांशव्याख्यानपरं प्रधानसाधनत्वाद्भक्तिरिति भाष्यं तन्निवर्तनीयाशङ्कापरिहारपूर्वकं व्याचष्टे ।। न च वाच्यमित्यादिना ।। तथा च सूत्रे अनुबन्ध-स्त्विति सम्बन्धः । भाष्ये तु प्रधानाद्भक्तिरेव कारणत्वेनोच्यते इति न तु साधनान्तराणीत्येवकार-सम्बन्धः । सैवेत्यस्यापि इति ।। कथं तर्हि भक्तिरेवैनमिति श्रुतिरित्यतो वा साधनान्तराण्यनुक्त्वा किं विशिष्य भक्तिरेव कारणत्वेनोच्यत इत्यतो वा सैवेत्युक्तमिति पूवसङ्गतिरित्यर्थः । आद्ये सा भक्तिः कारणमेवेत्येवशब्दसम्बन्धः । द्वितीये सैव मुख्यं न त्वन्यदित्यर्थ इति वाच्यम् । अनेनेवैति प्रकारान्तरेण श्रुत्युपपादनेनेत्यर्थः सूत्राक्षरार्थस्तु चशब्द एवार्थः । एवं च परेणैव परमात्मनैवदर्शनादिकं भवतीति सम्बन्धः । चः अप्यर्थे । तथापि शब्दस्य ताद्विध्यं तादृशार्थ-प्रतिपादकत्वं स्वातन्त्र्येण साधनत्वाप्रतिपादकत्वं युक्तं परमात्मदर्शनोक्तेः मुख्यतः कारणत्वेनोच्य-मानत्वात्तथापि साधनान्तराण्यपहाय किं भक्तिरैव विशिष्याभिधीयत इत्यत उक्तं अनुबन्धस्तु भक्तिस्तु भूयस्त्वात् प्रधानत्वादिति विशिष्योच्यते । यद्वा परेणैव वाच्येन निमित्तेन भक्तिरेवैनमिति शब्दस्य ताद्विध्यं स्वातंत्र्येण कर्तृत्वप्रतिपादकत्वं युक्तमित्यर्थः ।
वाक्यार्थविवरणम्
उपासनसाहित्येनोक्तेति ।। उपासनं प्रति सहकारित्वेनोक्तभक्तिरित्यर्थः ।। स्वातन्त्र्येति ।। भगवदपरोक्षज्ञानादिजनन इत्यर्थः । अव्यक्तत्वेऽपि भक्तेरेव स्वातन्त्र्ये भक्तिरूपपुरुषप्रयत्नेनैव भगवतो व्यक्तत्वप्राप्त्या ‘तदव्यक्तमाह हि’ इत्यत्रोक्तमव्यक्तत्वं न स्यादित्यर्थः ।। कृष्यादाविति ।। धान्यादिरूपफलं कर्षणादिसाधनसामर्थ्येनैव दृष्टम् । भृत्येन राजसेवादौ कृते सति धनप्राप्तिरूपं फलं प्रसन्नेन राज्ञैव भवददृष्टम् । ज्ञानमपि फलम् । अतस्तत्किं भक्तिरूपसाधनसामर्थ्येनैव भवति उत प्रसन्नेन परमात्मनैवेति सन्देह इत्यर्थः । ‘भक्तिरेवैनम्’ इति श्रुतिः (श्रुताः) भक्तिरेवैनं जीवं प्रति एनं परमात्मनं दर्शयति भक्तिरेवैनं जीवं एनं परमात्मानं नयति प्रापयति । पुरुषः हरिर्भक्तिवशः भक्तिपराधीन इत्यर्थः । प्रवचनं व्याख्यानम् । आदिपदेन भक्त्यादिपरिग्रहः । तस्यार्थं तदर्थं तद्दर्शनार्थमित्यर्थः । तत्र वायुरूपाधिष्ठाने । तस्य अधिकारिणः । सर्वैरपि वासनामयी मूर्तिर्ध्यातव्या । तदन्तस्तदाकारा मुख्यप्राणमूर्तिर्ध्यातव्येति । ‘प्रतिमां प्रतिमान्तस्स्थाम्’ इत्यादिना तन्त्रसारे स्पष्टम् । अतो वायुरूपाधिष्ठाने आविर्भवतीत्युक्तं युक्तमिति ज्ञातव्यम् । करोति दर्शनमोक्षौ जीवस्य ददातीत्यर्थः । अत्र ‘भक्तिरेवैनम्’ इति श्रुतौ । तथा च हन्ता रामशर इतिवत् करणे कर्तृत्वोपचार इति भावः ।। उक्तविशेषश्रुतीति ।। एतैरुपायैर्यतते इति प्रवचन-भक्त्याद्युपायानां करणत्वाभिधायकविशेषश्रुतीत्यर्थः । भाष्ये भक्तिस्थः भक्तिविषयः । परमः विष्णुः तयैव भक्त्यैव एनं जीवं वशं स्ववशम् । नयेत् प्रापयेत् । स्ववशं कुर्यादित्यर्थः । यातः प्राप्तः सन् ।। पूर्ववदिति ।। परमात्मन एव दर्शनादिकर्तृत्वे कथं तर्हि भक्तेरेव तत्साधनत्वाभि-धायकश्रुतिरुपपद्यत इत्यत आह– सैवेति ।। दर्शनादिकं विष्णुर्भक्त्यैव करोतीत्येवं ईशितुः विष्णोः सा भक्तिः करणमेव । अन्तःकरणे कर्तृत्वोपचारेण श्रुतिरुपपन्ना । साधनान्तराण्यनुक्त्वा किं भक्तिरेव विशिष्याभिधीयत इत्यतः परमित्युक्तम् । प्रधानकरणमित्यर्थः । तथा च प्रधानसाधनत्वा-द्विशिष्य तदुक्तिरिति पूर्ववत्सङ्गतिरित्यर्थः । तथा च सूत्रे चशब्द एवार्थोऽप्यर्थश्च । दर्शनादिकं भवतीति शेषः । एवं च परेणैव परमात्मनैव दर्शनादिकं भवति, न भक्त्या । अपि तथापि शब्दस्य ‘भक्तिरेवैनम्’ इति श्रुतेः ।। ताद्विध्यम् ।। मोक्षप्रतिपादकत्वं युज्यते । परमात्मैव भक्त्या दर्शनादि करोतीति करणे कर्तृत्वोपचाराङ्गीकारात् । ‘हन्ता रामशरः’ इतिवत् । साधनान्तराण्यनुक्त्वा विशिष्य भक्तिः कस्मादुच्यत इत्यत उक्तम् भूयस्त्वादिति ।। अनुबन्धः भक्तिरितरसाधनान्तराणि विहाय विशिष्योच्यते । भूयस्त्वात् साधनेषु प्रधानत्वादिति सूत्रार्थः । एवं सति ‘भक्तिरेवैनमिति श्रुत्यर्थः कथमित्यत उक्तम् ‘ब्रह्मैवेनं नयति’ इत्यादीति । वाच्येन भक्तिशब्दवाच्येन शब्दस्य ताद्विध्यं ‘भक्तिरेवैनम्’ इति श्रुतेः स्वातन्त्र्येण दर्शनादिकर्तृत्वप्रतिपादकत्वमित्यर्थः ।। पुरुषशक्तीति ।। भक्त्यादिरूपपुरुषप्रयत्नेनेत्यर्थः ।
वाक्यार्थमञ्जरी
स्वातन्त्र्यानिरासादिति ।। भगवत्प्रसादाद्वारकत्वनिरासादित्यर्थः ।। अव्यक्तत्वाभावेति ।। भक्तिसामर्थ्येनैव दृष्टत्वादिति भावः ।
ॐ परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुबन्धः ॐ ।। ज्ञानं परेण च परमात्मनैव भवति न भक्त्या तर्हि ‘भक्तिरेवैनम्’ इति श्रुतेः का गतिरित्युक्तम् ।। शब्दस्य ताद्विध्यमिति ।। शब्दस्योक्तश्रुतेस्ताद्विध्यं तु भक्तिहेतुत्वप्रतिपादकत्वं भक्तेः करणत्वादुपपन्नम् । साधनान्तरत्यागेन भक्तेरेवेत्युक्तिः कुत इत्यत उक्तम् ।। भूयस्त्वात्त्वनुबन्ध इति ।। अनुबन्धस्तु भक्तिस्तु करणेषु भूयस्त्वात्प्रधानत्वादुक्त इत्यर्थः ।। सैवेत्यस्यापीति ।। साधनान्तराण्यनुक्त्वा किं विशिष्य भक्तिरेव करणत्वेनोच्यत इत्यतः सैवेत्युक्तमिति पूर्वसङ्गतिरित्यर्थः । तथा च सैव मुख्यं न त्वन्यदित्यर्थः ।
।। इति ताद्विध्याधिकरणम् ।। ३४ ।।