ॐ गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ॐ

३. गुहाधिकरणम्

सूत्रभाष्यम्

सर्वात्तैक पर उक्त । "ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धे । छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिनाचिकेता’ । (क.उ.१-३-१) इति पिबन्तौ प्रतीयेते । तौ काविति । उच्यते ।

॥ ॐ गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ॐ ॥ ११ ॥

गुहां प्रविष्टौ पिबन्तौ विष्णुरूपे एव । "घर्मा समन्ता त्रिवृतं व्यापतुस्तयोर्जुष्टिं मातरिश्र्वा जगामे’ (ऋ.सं.१०-११४-१) त्यादिना तद्दर्शनात् ।

"आत्माऽन्तरात्मेति हरिरेक एव द्विधा स्थित ।

 निविष्टो हृदये नित्यं रसं पिबति कर्मजम्’ ॥ इति बृहत्संहितायाम् ।

"शुभं पिबत्यसौ नित्यं नाशुभं स हरि पिबेत् ।

 पूर्णानन्दमयस्यास्य चेष्टा न ज्ञायते क्वचित्’ ॥ इति पाद्मे ॥

"यो वेद निहितं गुहायामि’(तै.उ.२-१)त्यादिना प्रसिद्धं हिशब्देन दर्शयति ॥ ११ ॥

सत्तकदीपावली

यदुक्तं विष्णो सर्वात्तृत्वं तत्र कर्मफलसारभोक्तृत्वापरपर्यायं पातृत्वं श्रूयते । ऋतं पिबन्तौ सुकृतस्य लोक इति कठवल्याम् । तत्रात्तृत्वं विष्णोर्न युज्यते । पिबन्ताविति द्विवचनासम्भवादित्येतं पक्षं प्रतिक्षिपत्सूत्रमुपन्यस्य व्याचष्टे ॥ गुहामित्यादिना ॥ एकस्मिन्द्विरूपाभिप्रायेण विष्णौ द्विवचननिर्देशो युज्यते । तथाहि निर्दिश्यते श्रुत्यन्तरे घर्मेति । घर्मा घृष्टौ दीप्तौ । एतयो सेवां प्रति मुख्यवायुर्गतवानित्यर्थ । मुख्यवायुसेव्यत्वादेव द्विरूपो विष्णुर्निर्दिश्यते । ऋतं पिबन्तावित्यस्य शुभऋतपातृद्विरूपविष्णुपरत्वे आगमवाक्यसंवादमाह ॥ आत्मेति ॥ गुहां प्रविष्टौ परम इति विशेषितत्वात् ऋतं पिबन्तौ विष्णुरूपे एव भवितुमर्हत । सत्यं ज्ञानमनन्तं ब्रह्म । यो वेद निहितं गुहायां परमे व्योमन्नित्यादिगुहानिहितत्वेन प्रसिद्धत्वादित्येतदुक्तं सूत्रगतहिशब्देनाह ॥ यो वेदेति ॥

तत्त्वप्रदीपिका

""ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धे । छायातपौ ब्रह्मविदो वदन्ती’’ति काठके कथ्यते । ऋतं शास्त्रविहितकर्मभिरागतं फलम् । "सुकृतस्य लोक’ सुकृतनिर्मितं शरीरम् । "परमं’ ब्रह्मावासत्वात् । "परार्धं’ परस्य स्थानं, परस्यान्यस्य जीवस्य, अभिमन्यमानत्वात् । ""स हाऽयस्त पितुरर्धमेयाये’’ति हि श्रुति । अत्र पिबन्तौ द्वौ प्रतीयेते तौ काविति संशयं द्योतयति । न च जीवे समन्वयोऽभिधीयत इत्युत्तरवचनात्पूर्वपक्षोऽपि सूचित । अत्रैष संग्रह । तौ किं जीवपरावुत पररूपे एवेति संशय । जीवपराविति पूर्व पक्ष । पातृत्वात् । नहि परस्यापिपासो परमार्थत पातृत्वोपपत्ति । जीवपरपक्षे तु च्छत्रिन्यायेनोपपत्ति । न च परपक्षे द्विवचनं युज्यते । छायारूपत्वं च ज्योतिरात्मनस्तस्य न स्यात् । जीवस्य तु तमस्सम्पृक्तत्वाद्युक्तमेव तादृग्रूपत्वम् । एवं तौ काविति मीमांसायां सिद्धान्त-मारभते । ॐ गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ॐ । गुहां प्रविष्टाविति हेतुगर्भं विशेषणम् । विष्णोरेव हि गुहाप्रवेशस्तत्र तत्र श्रुतिषु प्रसिद्ध इति हिशब्दव्याख्याने दर्शयति । "घर्मौ’ घृष्टत्वेन घर्षकत्वेन च मितौ । "समन्तौ’ सम्पूर्णौ । प्रकृतिपुरुषकालव्यापिनौ यौ देशत कालत गुणत शक्तितश्र्च । तयो सेवां मातरिश्र्वा जगाम । द्युदेव्या वायुपत्न्या स्तन्यं "पयो’ "दिधिषाणा’ पिपासन्तो "देवा’ द्विरूपं तमेक"मवेषन्’ अवनमैच्छन्, अन्वैच्छन्निति वा । विदुश्र्च तम् "अकम्’ अरं कंरूपं, "सहसामानं’ सहवायुम् । ""एष उ एव सामे’’ति हि श्रुति । ""वागेवर्क्तच्छ्रुतौ प्रोक्ता प्राणस्सामेति कीर्तित’’ इति तार्तीये । तद्दर्शनात् उक्तविशेषणैर्निर्णीते विष्णौ द्विवचनदर्शनात्, "एकस्सुपर्ण स समुद्रमाविवेशे’’त्यादिना च तच्छब्देनैकवचनेन परामर्शदर्शनात्, तस्यैव समुद्रनिवेशिनोऽखिलभुवनदर्शिनो""ऽपश्यमन्तित’’ इति गुहाप्रविष्टत्वदर्शनाच्च, तमेव "सुपर्णं’ सुष्टु परमानन्दरूपमेकं सन्तं "विप्रा’ विशेषेण प्रकृष्टज्ञानिनो "वचोभिर्बहुधा कल्पयन्ती’त्येकस्यैव बहुनामरूपत्वदर्शनाच्च पिबन्तौ विष्णुरूपे एव ।

""चतुश्शिखण्डां तु रमां द्विरूपो भगवान्हरि ।

परमानन्दरूपत्वात्सुपर्ण इति नामक ॥

रमयामास तस्यां च निषण्णस्सर्वदैव स ।

एक एव च विष्णुस्स प्रविष्ट क्षीरसागरम् ॥

सर्वं पश्यत्यसौ देव पूर्णाकुण्ठेन चेतसा ।

परिपक्वेन मनसाऽपश्यमित्याह तं त्वज ॥

मातेव व्यञ्जकत्त्वात्तं प्राणस्थं वाक्सरस्वती ।

लिहते लिह्यत इव प्राणस्तेन तु सा सदा ॥

स्वयं तु भगवान्विष्णुर्वाक्पतेर्ब्रह्मणोऽपि हि ।

नित्य पिता स्वतन्त्रश्र्च नास्य माता पिताऽपि वा ॥’’ इति ऋग्वेदसंहितायाम् ।

न च ""अनश्नन्नन्य’’ इति श्रुतिविरोध । न ह्यत्र पराधीनतया भोग, नाप्यप्रियभोग । न च तन्निमित्तोच्चनीचता विष्णो । किन्तु जीवसमवेते भोगे स्वीकारमात्रमुच्यते । अतो न पातृत्वविरोधश्र्च ।

तत्त्वप्रकाशिका

अत्र लोकतोऽन्यत्र प्रसिद्धस्य कर्मफलभोक्तृत्विलङ्गस्य विष्णौ समन्वयसमर्थनादस्ति शास्त्रादिसङ्गति । श्रुत्यादिसङ्गतिं विषयवाक्योदाहरणपूर्वकं विषयं च सूचयति ॥ सर्वेति ॥ सन्देहप्रकारं दर्शयति ॥ ताविति ॥ अत्ता चराचरग्रहणादिति सर्वात्तृत्वमेकस्य हरेरुक्तम् । तन्मध्यपतितं कर्मफलात्तृत्वं पातृशब्द-वाच्यं काठके कयोश्चित्प्रतीयते । यौ सुकृतनिर्मितशरीरे हृदयगुहां प्रविष्टौ । तत्रापि सर्वजीवोत्तमेऽतिपूर्णे वायौ प्रविष्टौ सुकृतफलं भुञ्जानौ । तौ ब्रह्मविद पञ्चमहायज्ञवन्तो द्युपर्जन्यादिपञ्चाग्निविद्यानिष्ठा वा । त्रिवारकृत नाचिकेता । छायातपौ वदन्तीति । तद्यदा विष्णोरन्यस्यैव स्यात्तदा न तस्य सर्वात्तृत्वं यदि चान्यस्यापि भवेत्तदा लक्षणस्यातिव्याप्तिरित्यवश्यं निर्णेयमेव । तत्कर्मफलभोक्तृत्वं विषय । किं विष्णोरन्यस्य वेति सन्देह । सर्वात्तृत्वोक्तिरन्यत्र प्रसिद्धिश्च सन्देहबीजम् । न परमात्मन एवेदं कर्मफलभोक्तृत्वमुच्यतेऽपि तु जीवसहितस्येति पूर्व पक्ष । पिबन्ताविति द्विवचनश्रुते । न च सर्वात्तृत्वेन तद्बाध । श्रुतेर्निरवकाशत्वात् । कर्मबन्धविधुरस्य ईश्वरस्य कर्मफलभोगायोगाच्च । अनश्र्नन्नन्य इत्यादिश्रुते । न चैवं जीवेशग्रहणेऽप्यनुपपत्ति । जीवस्य भोक्तृत्वेन तत्सहितेश्वरे छत्रिन्यायेन भोगोपचारोपपत्ते । न च सर्वात्तृत्वोक्तिविरोध । कर्मफलभोगं विनाऽपि संहर्तृत्वमात्रेण तदुपपत्ते । तथापि जीवेशत्वे को हेतु । एकस्य जीवत्वं पातृत्वान्यथानुपपत्त्या ग्राह्यम् । न च द्वितीयोऽचेतन । सजातीयग्रहणस्यैव न्याय्यत्वात् । न च द्वावपि जीवौ युक्तौ । एकस्मिन्नेव शरीरे भोक्तृजीवद्वयायोगात् । अत पातृत्वं जीवस्यैव द्वयोरप्युपचार इति नेश्वरस्यैव सर्वात्तृत्वम् । तथा च लक्षणमयुक्तमिति भाव । अथ सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ॥ उच्यत इति ॥ यौ पिबन्तौ प्रतीतौ तौ विष्णुरूपे एव । गुहाप्रविष्टत्विलङ्गादित्यर्थ । विष्णू इति वक्तव्ये विष्णुरूपे एवेत्युक्त्या द्विवचनं द्विरूपाभिप्रायेण सावकाशम् इत्युक्तं भवति । ननु विष्णो सर्वशरीरेष्वेकैकरूपेण प्रवेशात्कथं रूपद्वयाभिप्रायेणापि द्विवचनोपपत्तिरित्यत सूत्रसूचितश्रुतिमुदाहरति ॥ घर्मेति ॥ दीप्तौ व्याप्तौ भगवन्तौ तेजोबन्नात्मकं शरीरं विशेषेण गुहास्थाने प्राप्तौ तयो सेवां कर्तुं मातरिश्वाऽपि त्रिवृतं जगामेति द्विरूपतया हरे शरीरे स्थित्युक्तेर्युक्तं रूपद्वयाभिप्रायेण द्विवचनमिति भाव । अस्तु द्विरूपतया विष्णुर्देहनिष्ठस्तथापि तस्य कर्मफलभोगाभावान्नैतद्वाक्यप्रतिपाद्यत्वमित्यत आह ॥ आत्मेति ॥ तथा च गीतासु ।

"श्रोत्रं चक्षु स्पर्शनं च रसनं घ्राणमेव च ।

 अधिष्ठाय मनश्चायं विषयानुपसेवत’ इति ।

ननु किमीश्वरो दुखं सुखं वा कर्मफलं भुक्ते नोभयमपि पूर्णानन्दत्वादित्यत आह ॥ शुभमिति ॥ पूर्वार्धेनाऽऽद्यपक्षमनभ्युपगमेन परिहृत्य द्वितीयमभ्युपैति । उत्तरार्धेन तु पूर्णानन्दस्याप्यचिन्त्यैश्वर्यबलेन सुखभोगोपपत्तिरिति द्वितीयपक्षदूषणं परिहरति । विष्णोर्भोक्तृत्वाभ्युपगमेऽनश्नन्नन्य इत्यादिश्रुतिविरोध इत्यतो वाऽऽह ॥ शुभमिति ॥ अशुभभोगाभावविषयं तद्वाक्यमिति भाव । तथा हि वाक्यशेष । "तस्येदाहु पिप्पलं स्वाद्वग्रे तन्नोऽनशद्य पितरं न वेद’ इति । ननु कथं गुहानिविष्टत्विलङ्गात्पिबतोर्विष्णुत्वनिश्चयो जीवेऽपि तद्युक्तेरित्यत आह ॥ यो वेदेति ॥ लिङ्गस्य जीवे सम्भवेऽपि श्रुत्यादिप्रसिद्धमेव ग्राह्यमिति भाव । इत्यादिना प्रसिद्धं हिशब्देन दर्शयतीति । विष्णोरेव गुहानिविष्टत्वमित्यादिना वाक्येन प्रसिद्धमितीममर्थं सूत्रकारो हिशब्देन दर्शयतीत्यर्थ ॥ ११ ॥

गुर्वर्थदीपिका

आ समन्तादृद्ध अर्द्ध । परमतिशयेनार्द्ध परार्ध इति व्युत्पत्तिमाश्रित्यैवोक्तम् अतिपूर्ण इति । छायातपावित्यत्र सतां छायास्थानीयौ संसारधर्मश्रमहरावित्यर्थ । असतामातपावातपस्थानीयौ सन्तापकारिणावित्यर्थ । यद्यप्यन्यस्य कर्मफलमात्रभोक्तृत्वे सर्वात्तृत्वलक्षणस्य नातिव्याप्ति । तथाऽपि स्वातन्त्र्येणैकैकात्तृत्वमपि भगवतो लक्षणम् । तस्यातिव्याप्तिरिति भावेनोक्तं लक्षणस्यातिव्याप्तिरिति । यद्वा सकलजीवकृतसत्कर्मफलभोक्तृत्वमपि भगवतो लक्षणं तस्यातिव्याप्तिरिति भावेनोक्तं लक्षणस्यातिव्याप्तिरिति । यद्वा सकलजीवकृतसत्कर्मफलभोक्तृत्वमपि भगवतो लक्षणमिति भाव । द्वयोरुपचार इत्यत्र द्वयोरपीति यच्छ्रूयते स उपचार इत्यर्थ । यस्माद्गुहां प्रविष्टौ तस्मादात्मानौ भगवद्रूपे एव । नाडीस्थितस्य जीवस्य गुहाप्रविष्टत्वायोगादित्यर्थमभिप्रेत्योक्तं गुहाप्रविष्टत्विलङ्गादिति । अत एव गुहां प्रविष्टावित्यस्य हेतुगर्भविशेषणत्वात्साक्षाद्धर्मिनिदर्शनाय ""ऋतं पिबन्ता’’विति भाष्यम् । विष्णुरूपे एवेति तु ""सर्वं वाक्यं सावधारण’’मिति न्यायेन परपक्षव्यवच्छेदेन स्वपक्षस्थिरीकरणार्थम् । व्याप्तावित्यत्र समन्ताद्विद्यमानाविति योग्यपदाध्याहारेण श्रुतेरर्थमभिप्रैति । स्वादु यत्पिप्पलं कर्मफलं तदग्रे तस्यैतस्यैव परमात्मन एवाऽऽहुर्ज्ञानिन । य पितरं परमात्मानं न वेद स जीव तत्सुखमग्रे नोऽनशन्नाश्र्नादिति श्रुतेरर्थ । लिङ्गस्य जीवे सम्भवेऽपीत्यभ्युगम्योक्तम् । वस्तुगत्या जाग्रत्स्वप्नयो नाडीस्थस्य सुषुप्तौ च हरे कुक्षिं प्रविष्टस्य न कदाचिद्गुहानिविष्टत्वमिति विज्ञेयम् ।

भावबोध

ॐ गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ॐ ॥ श्रुत्यादिसङ्गतिमिति । अव्यवहितपूर्वाधिकरणोपात्त "स यद्यदेवासृजत’ इति श्रुतितदधिकरणाभ्यामित्यर्थ ॥

"आत्माऽन्तरात्मेति हरिरेक एव द्विधा स्थित ।

 स विष्णु परमे वायौ परेभ्योऽप्पृद्धरूपके ॥

 शुभान् पिबति भोगान् स छायेव विदुषां प्रभु ।

 आतप पापिनाम्’ ॥

इति स्मृतिं मनसि निधाय लोकपदस्य शरीरार्थत्वं षष्ठ्या जन्यजनकभावसम्बन्धार्थत्वं परमे परार्धे इत्यत्र वायावित्यध्याहारं चाभिप्रेत्य "ऋतं पिबन्तौ’ इति वाक्यं योजयति यौ सुकृतेत्यादिना । तद्यदा विष्णोरन्यस्यैवेत्यादेरयमर्थ कर्मफलभोक्तृत्वस्य विष्ण्वन्यमात्रनिष्ठत्वे विष्णौ तदभावप्राप्त्या एकदेशवैकल्ये सर्ववैकल्येन सर्वात्तृत्वरूपलक्षणासम्भव । कर्मफलभोक्तृत्वस्य विष्णोरन्यत्रापि विद्यमानत्वे गुहान्तर्निष्ठवायुनिष्ठत्वब्रह्मविद्वचनक्रियाकर्मत्वादेरपि प्राप्तौ सर्वात्तृत्वस्यापि तस्मिन् विष्ण्वन्यस्मिन् सम्भावयितुं शक्यत्वेन सर्वात्तृत्वस्यातिव्याप्तिप्राप्तिरिति । चन्द्रिकायां तु पूर्वत्र सर्वात्तृत्वं लक्षणत्वेनोक्तम् । ब्रह्मणि चाशुभभोक्तृत्वस्यासम्भवेऽपि शुभपातृत्वरूपं शुभभोक्तृत्वं सिद्धान्तरीत्या सम्भवति । तत्र च पिबतोर्जीवेश्र्वरत्वमुपेत्य जीवे पातृत्वं मुख्यमीश्र्वरे त्वमुख्यमिति स्वीकारेऽसम्भव । उभयोरपि मुख्यमिति स्वीकारे तु जीवस्यापि शुभभोक्तृत्वेनेश्र्वरवत् सर्वात्तृत्वस्यापि प्रसङ्गादतिव्याप्तिरिति ॥ तथा च द्वयोरपि पातृत्वं मुख्यमिति पूर्वपक्षोऽप्यत्राभिपे्रत इति द्रष्टव्यम् । यद्वा गुहाप्रविष्टत्वादिब्रह्मिलङ्गसहितस्यापि ऋतपातृत्वस्यासम्भवोऽतिव्याप्तिर्वा यदा तदा तत्सहचरितस्य पूर्वोक्तातृत्वस्यासम्भवोऽतिव्याप्तिर्वा स्यादिति । तथा च लक्षणमयुक्तमिति । यद्यपि सर्वसंहतृत्वरूपलक्षणं ब्रह्मण्येवेति पूर्वपक्षिणापि स्वीकृतम् । अत एव टीका कर्मफलभोगं विना संहर्तृत्वमात्रेण तदुपपत्तेरिति । तथापि सिद्धान्त्यभिप्रेतं संहर्तृत्वविशेषात्मकं भक्षयितृत्वरूपं लक्षणमयुक्तमिति भाव इत्युक्तम् । किं विष्णोरिति । अत्र पिबन्तौ किं जीवेश्र्वरावुत विष्णुरूपविशेषाविति चिन्ता । तदर्थं द्विवचनान्तश्रुतिकर्मफलभोगच्छायातप-त्वादिकं किं गुहाप्रविष्टत्वब्रह्मशब्दादिबाधकमुत तद्बाध्यमिति । तदर्थं द्विवचनश्रुत्यादिकं भेदभोक्तृत्व-श्रुतिविरोधाज्ञानादिप्राप्त्या विष्णावनवकाशमुत विशेषाशुभभोगाभावविद्वदविद्वत्सुखहेतुत्वादिना विष्णौ सावकाशमिति । तदर्थमेतद्वाक्योक्तब्रह्मशब्दगुहाप्रविष्टत्वादिलिङ्गं च किं जीवादिसाधारणमुत विष्णुमात्र-निष्ठमिति । तदर्थं द्विवचनश्रुत्यादे सावकाशत्वे गुहाप्रविष्टत्विलङ्गस्य ब्रह्मशब्दादेश्र्च निरवकाशत्वे प्रमाणं नास्त्युतास्तीति ॥

ननु जीवस्यैव मुख्यत पातृत्वम् ईश्र्वरस्य तु उपचरितं तदित्यङ्गीकारे युगपद् वृत्तिद्वयविरोधप्रसङ्ग इत्यत आह द्वयोरिति । द्वित्वावच्छेदेनोभयत्राप्युपचार इत्यर्थ । अत एव पूर्वं तादृश एव छत्रिन्याय उदाहृत । गुहाप्रविष्टत्विलङ्गादित्यर्थ इति । अनेन सूत्रे ""गुहां प्रविष्टावि’’ति हेत्वर्थगर्भविशेषणमिति "हि’शब्दो यस्मादित्यर्थेऽपि वर्तत इति वा सूचितमिति बोद्धव्यम् ॥

ननु सूत्रे समन्वेतव्यिलङ्गप्रदर्शनाय पिबन्तावित्येव वक्तव्यम् । श्रुत्यनुसारात् । स्पष्टत्वाच्च । आत्मानाविति किमर्थमिति चेत्, ; समन्वेतव्यिलङ्गस्यात्मान्तरात्मेति स्मृतिसमाख्यायाश्र्च प्रदर्शनायात्म-ग्रहणात् । भवति हि पिबच्छब्दवदात्मशब्दोऽपि आदेयं कर्मफलं मात्यनुभवतीति व्युत्पत्त्या कर्मफल-भोक्तृत्विलङ्गप्रतिपादक इति भाव । "तत्तु समन्वयात्’ इत्यत अनुवर्तमानस्य "तत्’ इत्यस्य ""किन्तु विष्णुरेव सर्वत्रोच्यमानो नारायण एवे’’त्यत्र लिङ्गव्यत्यासेन व्याख्यानवदत्रापि वचनव्यत्यासेनापि विष्णू इति व्याख्यानोपपत्तिमभिप्रेत्य रूपपदप्रयोगप्रयोजनमाह विष्णू इति । अनेन द्विवचनश्रुतेरपि बलं निरवकाशत्वं नास्ति । विष्णोरेव द्विरूपत्वादिति न्यायविवरणमुक्ततात्पर्यं भवति । भगवन्ताविति विशेष्यपदस्य श्रुतावध्याहार । "वि’ इत्यस्यार्थो विशेषेण गुहास्थान इति । अशुभभोगाभावविषय-मिति । अत एवाथर्वणभाष्ये जीवाद्यमेव नाश्र्नाति । न तु नाश्र्नात्येवेत्युक्तम् । वाक्यशेष इति । योऽग्रे श्रेष्ठस्तस्यैव स्वादु पिप्पलमाहु । य उत् उत्कृष्टं पितरं न वेद अत एव अनशत् नाशवान् । तस्य स्वादु पिप्पलं नेति वाऽत्र शेषार्थो ज्ञेय । श्रुत्यादिप्रसिद्धमिति । ब्रह्मशब्दात्मशब्दादेर्जीवे प्रयोगेऽपि श्रुत्यादिप्रसिद्ध्यभावात् आनन्दमयाधिकरणादौ यथा तस्य हेतुत्वेनोपादानं तथा प्रकृतेऽपि गुहानिविष्टत्वस्य श्रुत्यादिना विष्णावेव प्रसिद्धस्य हेतुत्वेनोपादानमित्यर्थ । नन्वयमर्थो मूलान्नावगम्यत इत्यत आदौ विष्णोरेव निविष्टत्वमिति प्रसिद्धमित्यनन्तरम् "इति’शब्दमध्याहृत्य व्याख्येयम् । सोदाहरणपूर्वकं "यो वेद’ इति मूलवाक्यं व्याख्याति य इत्यादिना प्रसिद्धमित्यादिना ।

भावदीप

ॐ गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ॐ ॥ लोकतोऽन्यत्रेति ॥ अत्रापि पूर्वोत्तरनयेष्विव द्विवचनश्रुतिरूपान्यसाहित्येनैवान्यत्र प्रसिद्धिर्वाच्या तथापि स्वत एव तस्या सम्भवे त्यागायोगादेवमुक्तम् । प्रतीयेते इत्यन्तं भाष्यं सङ्गतिपरतया व्याचष्टे ॥ अत्तेति ॥ उक्त इत्यनन्तरं तत्रेति पूर्वसङ्गतिभाष्यादनुवृत्तिं वा शेषं वा मत्वा तन्मध्यपतितेत्युक्तम् । पिबन्तावित्यत्र प्रातिपदिकार्थ कर्मफलेति । द्विवचनप्रत्ययार्थ कयोश्चिदिति । तत्कथमित्यत विष्णु स परमे वायौ परेभ्योऽप्यृद्धरूपक इत्यादितद्भाष्यानुरोधेनार्थोक्त्या व्यनक्ति ॥ याविति ॥ पञ्चेति ॥ पञ्च वा एते महायज्ञा इत्यादितैत्तिरीयोक्तदेवयज्ञपितृयज्ञभूतयज्ञ-मनुष्ययज्ञब्रह्मयज्ञरूपपञ्चयज्ञवन्तो वा । स एष यज्ञ पञ्चविधोऽग्निहोत्रं दर्शपूर्णमासौ चातुर्मास्यानि पशु सोम इत्यैतरेयोक्तपञ्चमहायज्ञवन्तो वा ॥ द्युपर्जन्येति ॥ असौ वाव लोको गौतमाग्निरिति छान्दोग्यपञ्चमाध्यायादौ उक्तद्युपर्जन्यपृथिवीपुरुषयोषिद्रूपपञ्चाग्नीत्यर्थ । नाचिकेता नाचिकेतनाम-केष्टकचितवन्त इत्यर्थ ॥ यौ तावित्युक्त्या छायातपत्वं विधेयम् अन्यदनुवाद्यम् इति दर्शितम् । सदसतां छायातपाविवेत्यर्थोऽग्रे परमतापाकृतिप्रस्तावे व्यक्त इति पदद्वयं न व्याकृतम् । इति प्रतीयत इत्यन्वय । भावमाह ॥ तद्यदेति ॥ न तस्येति ॥ तथा च लक्षणमसम्भवीत्यर्थ । एकदेशवैकल्यात् ॥ अतिव्याप्तिरिति ॥ ईश्वरवज्जीवस्यापि स्वातन्त्र्येण कर्मफलभोक्तृत्वे सर्वात्तृत्वस्यापि प्रसङ्गेनाति-व्याप्तिरित्यर्थ इति सङ्गतिसम्भवादित्यर्थ । विष्णोरन्यस्य वेत्यनन्तरं विष्णोरेव वेति सिद्धान्तकोटे शेष । तेन सन्देहस्य न पूर्वपक्षाद्यनानुगुण्यम् । सिद्धान्ते विष्णुरूपे एव इत्युक्त्या सूचितां पूर्वपक्षकोटि-माह ॥ न परमात्मन एवेति ॥ उच्यते ऋतं पिबन्ताविति श्रुतावित्यर्थ । पिबन्तौ प्रतीयेते इति भाष्ये द्विवचनानुवादेन सूचितं हेतुमाह ॥ पिबन्तावितीति ॥ द्विवचनश्रुतेरपि बलं निरवकाशत्वमिति न्यायविवरणोक्तं सौत्रद्विवचनान्तात्मपदव्यावर्त्यं निरवकाशत्वं व्यावर्त्यशङ्कापूर्वमाह ॥ न चेति ॥ प्राग्विष्णौ समन्वितसर्वात्तृत्वान्तपतितकर्मफलात्तृत्विलङ्गेन प्रातिपदिकोक्तेन द्विवचनश्रुतेर्बाध इत्यर्थ ॥ श्रुतेरिति ॥ निर्भेदविष्णौ द्वित्वस्यायोगेन द्य्वेकयोर्द्विवचनैकवचने इति द्वित्ववाचिद्विवचनस्य तत्र वृत्तेरयोगात् । अन्यथा द्वा सुपर्णेत्यादावपि द्वित्वेन भेदो न सिद्ध्येदिति भाव । अङ्गीकृत्येदमुक्तं वस्तुतस्तु सर्वात्तृत्वमध्यपतितं कर्मफलात्तृत्वं न विष्णुनिष्ठमपि । येन श्रुतिबाध स्यादित्याह ॥ कर्मबन्धविधुरस्येति ॥ अत्र हेतुरीश्वरस्येति । उक्तं हि गीताभाष्ये । य कर्मापि नियमयति कथं तत्तं बध्नातीति । अन्यत्र धर्मादन्यत्राधर्मादित्यादिश्रुतेश्चेति भाव । अत एव भाष्ये पिबन्ताविति प्रातिपदिकांशोऽप्युदाहृत । अन्यथा द्वौ प्रतीयेते इत्येवावक्ष्यत् । अत एव च पिबन्ताविति प्रातिपदिकप्रत्ययोक्ताभ्यां पूर्वपक्षकोटिसाधकाभ्यां पूर्वपक्षसम्भवाद्भाष्ये द्विवचनश्रुते निरवकाशत्वानुक्ति । अन्यत्र तदुक्तिस्तु पूर्वपक्षदाढर्याय । गुहाप्रविष्टत्वं तु द्वयोरपि युक्तमिति भाव ॥ छत्रीति ॥ छत्र्यछत्रिसमुदाये छत्रिणो गच्छन्तीति यथोक्तिस्तथेत्यर्थ ॥ भोक्तृजीवेति ॥ व्यवस्थिततत्तज्जीव-कर्मार्जितशरीरे तस्य तस्यैव भोक्तृत्वादनेकभोक्तृत्वेऽन्योन्यनियमनायोगेन शरीरोन्मथनादिप्रसङ्गादिति भाव । चैद्यादिदेहेषु च बलवता निमित्तेन भोक्तृद्वयसमावेश क्वाचित्को हरीच्छया युक्त । जीवस्यैव चेत्कथं पिबन्ताविति द्वयोरप्युक्ति अत आह ॥ द्वयोरिति ॥ द्वयोरप्युक्तिरूपचारबुद्ध्येत्यर्थ ॥ नेश्र्वरस्यैवेति ॥ जीवस्यापि स्वातन्त्र्येण कर्मफलभोक्तृत्वे सर्वात्तृत्वस्यापि प्रसङ्गादिति भाव ॥ अथेति ॥ अथ केन प्रयुक्तोऽयमित्यादाविवार्थान्तरेऽयमथशब्द । ताविति पदमनुवर्त्य तस्यार्थं वदन् प्रतिज्ञांशं व्याचष्टे ॥ याविति ॥ लिङ्गादिति ॥ सूत्रे गुहां प्रविष्टाविति हेतुगर्भमिति भाव । द्विवचनश्रुतेरपि बलं निरवकाशत्वं नास्ति विष्णोरेव द्विरूपत्वादिति न्यायविवरणोक्त्यनुरोधेन रूपपदभावमाह ॥ विष्णू इतीति ॥ अत्रोपपत्तिस्तु ""द्वित्वं चैकस्य युज्यत’’ इत्यनुव्याख्यान-सुधाचन्द्रिकासु व्यक्ता । क्रमेण पदानामर्थमाह ॥ दीप्ताविति ॥ भगवन्ताविति शेष । निविष्टो हृदय इति स्मृत्यनुरोधात् । व्यापतुरित्यत्रोपसर्गार्थं व्यनक्ति ॥ गुहास्थान इति ॥ जुष्टिं सेवां जुषी प्रीतिसेवनयो ॥ आत्मेतीति ॥ आत्मा देहस्थ । अन्तरात्मा जीवहृदयस्थ । कर्मफलादनस्येन्द्रिय-साध्यत्वात् हृदयनिविष्टस्य कथं तदित्यत आह ॥ तथा च गीतास्विति ॥ अर्थबाहुल्याद्बहुवचनम् । यच्चाप्युत्क्रामतीश्वर इति पूर्वत्र पश्यन्ति ज्ञानचक्षुष इत्युत्तरत्र च श्रवणादिदं वाक्यमीश्वरपरमिति भाव । विवृतमेतच्छान्दोग्यभाष्ये भुङ्क्ते गुणान्षोडश षोडशात्मकस्सोऽलङ्कृषीष्ट भगवान्वचांसि म इत्यादौ भगवत एव स्वकीयैरिन्द्रियैर्भोगोक्तेश्चत्यादिना । तथा स एतैरिन्द्रियैर्विष्णुर्भोगाननुभवत्यज । स्वरूपेणैव शक्तोऽपि जीवदेहस्थितो हरि । भुङ्क्ते तदिन्द्रियैर्भोगाञ्छुरितैरिन्द्रियै स्वकैरित्यादिना चाष्टमे व्यक्तमेतत् ॥ अशुभभोगेति ॥ कुत एवं सङ्कोच श्रुतेरित्यतोऽसद्य्वपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषादिति वक्ष्यमाणन्यायेन वाक्यशेषोक्तभोगान्यथानुपपत्त्या ईशभोगस्याशुभविषयकत्वं नेत्येवानशनश्रुतेरर्थ इति मत्वाऽऽह ॥ तथा हीति ॥ आथर्वणे अस्याश्रुतावपि ऋक्शाखायामस्ति श्रवणं य अग्रे अग्र्य श्रेष्ठ तस्यैव स्वादु पिप्पलं कर्मफलमाहु । य पितरं विष्णुमुत् उत्कृष्टं न वेद अत एव नशत् नाशवान् तस्य स्वादु पिप्पलं नेति वाक्यशेषार्थो ध्येय । जीवाद्यमेव नाश्नाति न तु नाश्नात्येव तस्येदाहु पिप्पलं स्वाद्वग्र इत्युक्तत्वादित्याथर्वणभाष्ये वाक्यशेषे जीवानद्यस्वाद्वदनोक्त्याऽन्य पिप्पलं स्वाद्वत्तीति पूर्ववाक्येऽस्वाद्वेव स्वादुत्वेन जीवेनाद्यमानमनश्नन्निति निषिध्यत इति तद्विविक्तसारांशभोक्तृत्वं तु विद्यत एवेत्यर्थान्तरमुक्तम् । प्रविविक्ताहारभुग्यस्माच्छारीरादात्मन इति श्रुते । तथा स्वातन्त्र्येणैव भोक्तृत्वाद् दुखाभोगाच्च सर्वदा । अभोक्ता चैव भोक्ता चेति परतन्त्रभोगदुखरूपाशुभ-भोगनिषेधरूपार्थान्तरद्वयमुक्तम् । ""एकस्तयो खादति पिप्पलान्नमन्यो निरन्नोऽपि बलेन भूयानिति’’ एकादशस्कन्धतात्पर्ये । अत्तिं विनाप्यदौर्बल्यात्तथा नात्तिर्हरेर्भुज इत्यादिना जीववदुपजीवनार्थाशनं नेत्यर्थान्तरमनशनश्रुतेरुक्तम् । वक्ष्यते चैतदेव स्थित्यदनाभ्यां चेति सूत्रे । तथा च गीताभाष्येऽपि स्थूलभोगाभावादिपरतयाऽपि सप्तमे विवृतमेतत् । ऋतं पिबन्तावित्यत्र ऋतशब्द ऋतं सत्यं तथा धर्म इति गीताभाष्योक्त्या धर्ममात्रपर इति भाव ॥ प्रसिद्धमेवेति ॥ शीघ्रमुपस्थिते । न हि मैथिल इत्युक्ते य कश्चिन्मिथिलाभवो भासते । किन्तु यस्तद्भव तदधिप स एवेति भाव । भाष्ये इत्यादिना प्रसिद्धमित्यस्यान्वयाप्रतीतेरपेक्षितपूर्त्याऽन्वयमाह ॥ इत्यादिनेति ॥ आदिपदेन गुहाहितं गह्वरेष्ठं पुराणम् । गुहां प्रविश्य तिष्ठन्तमित्यादि ग्राह्यम् ॥ ११ ॥

अभिनवचन्द्रिका

अत्र लोकतोऽन्यत्रप्रसिद्धस्येति ॥ यद्यप्ययं पादः श्रुतिलिङ्गाभ्यामन्यत्रप्रसिद्धिलङ्गात्मक-शब्दसमन्वयार्थः, तथापि  पादार्थानां प्रायिकत्वेन लोकतोऽन्यत्रप्रसिद्धिलङ्गसमन्वयोक्तिरुपपन्नेति भावः । तन्मध्यपतितेति ॥ एतदधिकरणप्रतिपाद्यस्य पूर्वाधिकरणतच्छ्रुति प्रतिपाद्यैकदेशत्वमेव ताभ्यां सङ्गतिरिति भावः । त्रिवारकृतनाचिकेता इति ॥ त्रिवारकृतनाचिकेताख्ययज्ञवन्त इत्यर्थः । अन्यस्यापीति ॥ ननु पूर्वपक्षे जीवस्यैव पातृत्वमिति वक्ष्यमाणत्वात् तन्निरासाऽऽवश्यकत्वाय प्रागुक्ताऽ-सम्भवव्युत्पादनमेवोचितं, युक्तं च । एकात्तृत्वाभावे सर्वात्तृत्वाभावस्यावर्जनीयत्वात्, न तु "यदि चान्यस्यापि भवेत् लक्षणस्यातिव्याप्ति’ रिति अतिव्याप्तिवर्णनं युक्तम् । पूर्वपक्षे अन्यस्यापीत्यनभिधानात् । अलक्ष्यत्वाभिमते जीवे पातृत्वमात्रसद्भावेऽपि लक्षणत्वाभिमतस्य सर्वात्तृत्वस्याऽऽभावात् । किं च  कर्मफलभोक्तृत्वमन्यस्यैव । अन्यस्यापि वाऽस्तु तथापि न दोषः, दुष्कर्मफलभोगस्य अन्यमात्र-निष्ठत्वेऽप्यसम्भवाभाववत्, इहापि असम्भवाभावसम्भवात् । अन्यथा असम्भवपरिहाराय सत्कर्मफल-पातृत्वसमर्थनवत् असत्कर्मफलपातृत्वमपीश्वरस्य समर्थनीयं स्यात् । न च  सर्वमत्तीत्यनेन दुष्कर्मफला-त्तृत्वस्य लक्षणत्वेनाऽविवक्षितत्वात्, तस्याऽन्यमात्रवृत्तित्वं न दोषायेति वाच्यम् । एवं हि सत्कर्म-फलात्तृत्वस्याऽपि "सर्वमत्ती’ त्यनेनाऽविवक्षितत्वेन एतस्याप्यन्यमात्रगामित्वं न दोष इत्यस्तु । न च "सर्वमत्ती’त्यनेन सत्कर्मफलभोक्तृत्वं विवक्षितम् । असकर्त्मफलभोक्तृत्वं न विवक्षितमित्यत्र किञ्चिन्नियामकमस्ति । "अनश्नन्नन्यो अभिचाकशीती’ त्यशननिषेधस्योभयत्रापि तुल्यत्वात् । न च "रसं पिबति कर्मज’मिति बृहत्संहितोक्तेः, "शुभं पिबत्यसौ नित्यं नाऽशुभं स हरि पिबे’दिति पाद्मोक्तेश्च शुभपातृत्वमेव लक्षणत्वेन विवक्षितम् । नाशुभपातृत्वमिति वाच्यम् । कर्मलेपप्रसङ्गात् । इदमेव हि कर्मिलप्तत्वं यत् तत्फलभोक्तृत्वम् । न च तदिष्टम् । तस्यासङ्गत्वाङ्गीकारादिति चेत्, उच्यते असम्भवनिरासवत् अतिव्याप्तिनिरासस्याप्यावश्यकत्वात् । अनेनाधिकरणेन तदुभयमपि सूत्रकृता निराक्रियत इति द्योतनायाऽसम्भवनिरासायेवाऽतिव्याप्तिनिरासायैतदधिकरणमावश्यकमित्युक्तम् । एकस्यैव पूर्वपक्षस्य प्रदर्शनं तु अपरः पूर्वपक्षः शिष्यैरेवोह्यतामित्यभिप्रेत्य, न तु तदभावाभिप्रायेण । यदत्रोक्तम् अलक्ष्यात्वाभिमते जीवे पातृत्वमात्रसद्धावेऽपि लक्षणत्वाभिमतस्य सर्वात्तृत्वस्याऽभावात् अतिव्याप्ति-वर्णनमयुक्तमिति । अत्र वक्तव्यम् किं पूर्वपक्षिणः अस्वातन्त्र्येण पातृत्वमन्यनिष्ठतयाऽभिमतम् उत स्वातन्त्र्येण । नाद्यः अस्माकमप्रतिपक्षत्वप्रसङ्गात् । द्वितीये स्वातन्त्र्यसद्भावेन कर्मफलात्तृत्ववत् सर्वात्तृत्वस्यापि प्रसङ्गात् कथं नातिव्याप्तिः । न हि स्वतन्त्रस्य कर्मफलात्तृत्वं सम्भवति, अन्यन्न सम्भवतीति सम्भवति । अन्यथा ईश्वरस्यापि तदभावप्रसङ्गः । यदत्रोक्तम् "किञ्चेत्यादिनाऽ-सत्कर्मफलभोक्तृत्वस्याऽन्यमात्रनिष्ठत्ववत् सत्कर्मफलभोक्तृत्वस्यापि अन्यमात्रनिष्ठत्वमन्यनिष्ठत्वं वा न दोषाय । अन्यथा तस्याप्यसम्भवापादकत्वं स्या’दित्यादि । तन्न वैषम्यात् । असत्कर्मफलभोक्तृत्वस्य पूर्णत्वविरोधिनः लक्षणत्वेनाविवक्षितत्वात् । अस्य तु लक्षणत्वेन विवक्षितत्वात् । न चेश्वरस्य कर्मफलभोक्तृत्वे तल्लेपप्रसङ्गः । तत्कर्मफलभोगस्यैव तल्लेपत्वादिति वाच्यम् । नियोगतः फलभोगस्यैव लेपत्वेन फलभोगमात्रस्यैवालेपत्वात् । इदमेव हि ईश्वरस्याऽलिप्तत्वं नाम यन्नियोगतो भोगानर्हत्वम् । पूर्णस्य कुतः फलभोग इति चेत्, किं प्रमाणं पृच्छसि आहोस्वित् प्रयोजनम् । आद्ये  "शुभं पिबत्यसा’विति स्मृतिरित्युत्तरम् । द्वितीयेऽपि किं स्वप्रयोजनं पृच्छसि, आहोस्वित् परप्रयोजनम् । आद्ये नास्तीत्युत्तरम् । द्वितीये अस्तीत्युत्तरम् । परं तु तत्प्रयोजनविशेषं स्थूलदृश्वानो नोत्प्रेक्षितुं प्रभवामः । तदुक्तम् "चेष्टा न ज्ञायते क्वचि’ दिति । जानन्नपि भाष्यकारः तच्छ्रुवणे मन्दानामनधि-कारात् तत्प्रयोजनविशेषं नाऽवादीदिति द्रष्टव्यम् । किं विष्णोरिति ॥ "ऋतं पिबन्तौ’’ इति द्विवचनश्रुतेः, "पिबन्तौ प्रतीयेते तौ कौ’ इति भाष्योक्तेश्च पिबन्तौविषयौ तौ किं जीवपरौ, उत विष्णू एवेति संशयो वक्तव्यः, न तु भोक्तृत्वं विषयः किं विष्णोरन्यस्य वेति सन्देह इति वक्तव्यम् । अथवा  पिबतोः छायाऽऽतपत्वस्य श्रुतावेवोक्तत्वेन संशयानुदयात् छायातपयोरेव संशयो वक्तव्यः । किमिमौ छायातपौ जीवेश्वरौ उतेश्वरावेवेति । अथवा द्वावपि जीवौ उत विष्णू इति संशयो वक्तव्यः, उभयोरपि सिद्धान्ते विष्णुत्वसमर्थनात् । अन्यथा अन्यतरस्यैव विष्णुर्नेति संशयविषयत्वेनो-भयोस्तत्साधनमयुक्तं स्यादिति चेत्, उच्यते  भाष्ये प्रत्यधिकरणं एकैकसंशयस्य प्रदर्शनात्, एक एव संशयः सूत्रनिरस्य इति न मन्तव्यम्, अपि तु  यथासम्भवं सूत्रनिरस्या बहवः संशया द्रष्टव्या इति सूचनाय टीकाकृता "कर्मफलभोक्तृत्वं विषयः, किं विष्णोरन्यस्य वे’ति संशयो दर्शितः । पूर्वोक्तसंशयानां टीकाकृतोऽभिमतत्वात् तेऽपि सूत्रनिरस्यत्वेन शिष्यैरूह्माः । यद्यपि "पिबन्ता’विति द्विवचनं श्रुतं तथापि समन्वेतव्यिलङ्गं कर्मफलभोक्तृत्वमेकमेवेति द्योतनाय "कर्मफलभोक्तृत्वं विषय’ इति उक्तमिति द्रष्टव्यम् । न परमात्मन एवेति ॥ यद्यपि नेदं कर्मफलभोक्तृत्वं परमात्मनः, अपि तु जीवस्यैवेति पूर्वपक्षो वक्तव्यः, तथापि संशयकोट्यवलम्ब्यैव पूर्वपक्षः सूत्रनिरस्य इति न मन्तव्यम्, अपि तु अन्योऽपि पूर्वपक्षः सूत्रनिरस्य इति द्योतनाय सर्वात्तृत्वान्तर्गतमिदं कर्मफलभोक्तृत्वम् । "ऋतं पिबन्ता’विति श्रुत्या न परमात्मन एवोच्यते, अपि तु जीवसहितस्योच्यत इति पूर्वपक्षः प्रदर्शितः । एतेन  उच्यत इति पदं व्यर्थमिति परास्तम् । न चेति ॥ "ऋतं पिबन्ता’विति श्रुतौ विशेषानुक्तेः सर्वकर्मफलाऽत्तृत्वस्यैव लाभात्, तस्य च विष्णुलिङ्गात्, तेन च एतद्वाक्यप्रतिपाद्यत्वं विष्णोरेव न जीवस्येति सिद्धेः, द्विवचनश्रुतिसाध्यस्य द्वयोः प्रतिपाद्यत्वरूपसाध्यस्य बाध इत्यर्थ । एतेन श्रुतौ सर्वात्तृत्वस्याऽश्रवणात् तेन श्रुतिबाधाभिधानमयुक्तम्, असिद्धस्य बाधकत्वायोगादिति परास्तम् । सर्वात्तृत्वशब्देन "ऋतं पिबन्ता’विति श्रुत्युक्तसर्वकर्मात्तृत्वस्य विवक्षितत्वात् । श्रुतेर्निरवकाशत्वादिति ॥ भवेत् द्विवचनश्रुतिसिद्धस्य उभयोः प्रतिपाद्यत्वरूपसाध्यस्य लिङ्गेन बाधः, यद्येकस्य प्रतिपाद्यत्वपक्षे श्रुतिः कथंचिदुपपन्ना स्यात्; न चैवमिति न श्रुतिसिद्धसाध्यापहार इत्यर्थः । अङ्गीकृत्य चेदमुक्तम् । वस्तुतस्तु न सर्वकर्मफलात्तृत्वमीश्वरिलङ्गम् । ततश्च न तेन श्रुतिसिद्धसाध्यापहार इत्याह  कर्मबन्धेति ॥ न केवलं कर्मबन्धवैधुर्येण कर्मफलात्तृत्वस्येश्वरधर्मत्वाभावः सिद्ध्यति अपि तु श्रुत्या चेति भावेनाह अनश्नन्निति ॥ न चैवमिति ॥ यथा ईश्वरस्यैकस्य प्रतिपाद्यत्वपक्षे द्विवचन-श्रुत्यनुपपत्तिः, एवमुभयोः प्रतिपाद्यत्वपक्षेऽप्यनुपपत्तिरस्ति, पिबत्प्रातिपदिकोक्तकर्मफलात्तृत्वस्येश्वरांशेऽ-भावेन श्रुत्यप्रामाण्यप्रसङ्गादिति न वाच्यमित्यर्थः । उपचारोपपत्तेरिति ॥ पिबन्तावित्यस्योपचारत्वेन श्रुतिप्रामाण्योपपत्तेरित्यर्थः । तात्पर्याविषयीभूतार्थाभाव एवाप्रामाण्यम् । ईश्वरस्य पातृत्वं न श्रुतितात्पर्य-विषय इति तदभावो नाऽप्रामाण्यहेतुरित्यर्थः । ननु "अनश्न’न्निति श्रुतिबलेनेश्वरस्य कर्मफलभोक्तृत्वा-भावसाधनमयुक्तम्, "सर्वं वा अत्ती’ति सर्वात्तृत्वाभिधायकश्रुतिविरुद्धत्वादित्याशङ्क्य निषेधति  न चेति ॥ तदुपपत्तेरिति ॥ श्रुत्युक्तसर्वात्तृत्वोपपत्तेरित्यर्थः । ननु अस्तु द्विवचनश्रुतिबलात् द्वियोरेतच्छ्रुतिप्रतिप्रतिपाद्यत्वम् तथापि एको जीवः अपरस्तु ईश्वर इति कुतोऽभ्युपगन्तव्यम् । द्वावप्यचेतनौ किं न स्यातां पिबन्तावित्यस्य सिंहो माणवक इत्यादिवत् उपचारेण नेतुं शक्यत्वादित्याशयेन पृच्छति तथापीति ॥ पातृत्वान्यथानुपपत्त्येति ॥ एकस्य जीवत्वमङ्गीकृत्य पिबन्तावित्यस्य तत्र स्वार्थसमर्पकत्वोपपत्तौ सर्वथा अर्थसमर्पणतात्पर्यवैधुर्यस्याऽन्याय्यत्वादिति भावः । ननु  उभावपि एतच्छ्रुत्युक्तौ जीवावेव "पिबन्ता’ वित्यत्र छत्रिन्यायस्याऽननुसर्तव्यत्वादित्याशङ्क्य निषेधति  न च द्वावपीति ॥ एकस्मिन्नेव शरीर इति ॥ "सुकृतस्य लोक’ इत्युक्तेर्ब्रह्मशरीरे भोक्तृजीवद्वयायोगादिर्थः । द्वात्रिंशल्लक्षणोपेते देहे जीवोत्तमहिरण्यगर्भातिरिक्तस्य भोक्तृत्वमयुक्तमिति भावः । एतेन रावणादिशरीरे द्वयोः, द्रौपदीशरीरे पञ्चानां भोक्तृत्वदर्शनेन भोक्तृजीवद्वयायोग इति परास्तम् । वरशापादिनिमित्तान्तरेण तत्र तथासम्भवेऽपि ब्रह्मशरीरे जीवद्वयायोग इत्यर्थस्य युक्तत्वात् । उपसंहरति  अत इति ॥ जीवेश्वरयोर्द्वयोरपि प्रतिपादनाय प्रवृत्तः पिबन्ताविति शब्दः, उपचारः छत्रिन्यायेन प्रवृत्त इति हेतोः पातृत्वं जीवस्यैव नेश्वरस्य । ततश्च एकदेशापगमात् लक्षणत्वेनाभिमत सर्वात्तृत्वंईश्वरस्यैव लक्ष्यस्यैव नास्तीति लक्षणमयुक्तं असम्भवीत्यर्थः । एतेन  पातृत्वं जीवस्यैवेति जीवस्य पातृत्वमभिधाय द्वयोरप्युपचार इत्यभिधानमयुक्तमिति परास्तम् । तस्येदाहुरिति ॥ यः परमात्मा । अग्न्े = अग्य्रः, तस्येत्, इच्छब्द एवार्थे, तस्यैव । स्वादु पिप्पलं, आहुः= ज्ञानिन इति शेषः । यस्तु जीवः उत् = उत्कृष्टं परमात्मानं न वेद तस्य जीवस्य, तन्न= स्वादुफलं न । अत एव  नशत् नाशवान् इति वाक्यशेषार्थः । ननु  गुहानिहितत्विलङ्गस्य न विष्णुत्वनिश्चायकत्वं जीवनिष्ठत्वादित्याशङ्का "यो वेद निहितं गुहाया’मित्यादिना भाष्येण न परिहृतेत्याशङ्कापरिहाराय आदौ तद्भावमाह  लिङ्गस्येति ॥ सत्यमस्ति गुहानिहितत्वं जीवेऽपि तथापि सूत्रकृता ईश्वरनिष्ठस्य गुहानिहितत्वस्य लिङ्गत्वेनोपादानात् तेन विष्णुत्वनिश्चयो युज्यते । न च  सूत्रकृता विष्णुनिष्ठमेव गुहानिहितत्वं हेतुत्वेनोपात्तम् न जीवनिष्ठमिति कुतो निश्चय इति वाच्यम् । "अजस्य नाभौ’ इति श्रुतौ प्रसिद्धत्वा न्नाभ्यर्पि(र्हि)त-प्रसिद्धपद्मस्यैव ग्रहणमिति निर्णयवत्सूत्रकृतापि प्रसिद्धमेव लिङ्गत्वेन विवक्षितमिति ग्राह्यत्वादिति भावः । ननु  गुहाप्रविष्टत्विलङ्गस्य कण्ठत एवोक्तत्वेन पुनः "हिशब्देन दर्शयती’ति हिशब्दस्य तत्प्रदर्शकत्वाभिधानमयुक्तम् । पौनरुक्त्यापातादित्यत आह  इत्यदिना प्रसिद्धमिति ॥ हिशब्दः लिङ्गनिष्ठप्रसिद्धत्वरूपधर्मस्यैव प्रदर्शकः, न तु लिङ्गस्यैवेति न पौनरुक्त्यमिति भावः ।

वाक्यार्थमुक्तावली

ॐ गुहां प्रविष्टावात्मनौ हि तद्दर्शनात् ॐ । यद्यप्यस्मिन् पादे समन्वीयमानिलङ्गानां लोकतोऽन्यत्र प्रसिद्धश्रुतिलिङ्गसाहित्येनैवान्यत्र प्रसिद्धि न साक्षाल्लोकत । तथापि साक्षाल्लोकत प्रसिद्ध्यभावेपि तदनुसारेणाप्यत्र साक्षात्प्रसिद्धिभावादेवमुक्तम् ।

आत्माऽन्तरात्मेति हरिरेक एव द्विधा स्थित ।

विष्णु स परमे वायौ परेभ्योऽप्यृद्धरूपके ।

शुभान् पिबेद्धि भोगान् स छायेव विदुषां प्रभु ।

आतप पापिनां नित्यं

इति काठकभाष्यं मनसि निधाय लोकपदस्य शरीरार्थत्वं षष्ठ्या जन्यजनकभावसम्बन्धार्थत्वं चाभिप्रेत्य विषयवाक्यार्थमाह ॥ यौ सुकृतेत्यादिना ॥ पञ्चेति ॥ पञ्च वा एते महायज्ञा इत्यादिना तैत्तिरीयोक्तदेवपितृभूतमनुष्यब्रह्मयज्ञरूपपञ्चयज्ञेत्यर्थ । स एष यज्ञ पञ्चविध । अग्निहोत्रं दर्शपूर्णमासौ चातुर्मास्यानि पशु सोम इत्यैतरेयोक्तपञ्चमहायज्ञा इति वार्थ ॥ द्युपर्जन्येति ॥ असौ वाव लोको गौतमाग्निरित्यादि छान्दोग्योक्तदिशा द्युपर्जन्यपृथिवीपुरुषयोषिद्रूपपञ्चाग्नीत्यर्थ । नाचिकेता इति । नाचिकेताग्निहोमा इत्यर्थ ॥ तद्यदा विष्णोरिति ॥ कर्मफलभोक्तृत्वमात्रस्य विष्ण्वन्यमात्रनिष्ठत्वे विष्णौ तदभावप्राप्त्या एकदेशवैकल्ये सर्ववैकल्येन सर्वात्तृत्वरूपलक्षणासम्भव । कर्मफलभोक्तृत्वस्य विष्णोरन्यत्रापि विद्यमानत्वे गुहान्तर्निविष्टवायुनिष्ठत्वब्रह्मविद्वचनस्तुत्यत्वादेरपि प्राप्त्या सर्वात्तृत्वस्यापि तस्मिन् सम्भावयितुं शक्यत्वेनातिव्याप्तिरित्यर्थ । यद्वा ईश्र्वरवत् जीवस्यापि स्वातन्त्र्येण कर्मफलभोक्तृत्वे सर्वात्तृत्वस्यापि प्रसङ्गेनातिव्याप्तिरित्यर्थ । यद्वा एकददेशपातृत्वस्य विष्ण्वेकनिष्ठत्वाभावे सर्वसारभोक्तृत्वं तदेकनिष्ठं न स्यात् । लक्षणस्य तदेकनिष्ठत्वाभावो ह्यतिव्याप्ति इति भाव ॥ किं विष्णोरिति ॥ अत्र पिबन्तौ जीवेश्र्वरौ, उत विष्णुरूपौ इति चिन्ता । तदर्थं द्विवचनश्रुति, कर्मफलभोगछायातपत्वादिकं किं गुहाप्रविष्टत्वब्रह्मशब्दादिबाधकमुत तद्बाध्यमिति । तदर्थं द्विवचनश्रुत्यादिकं भेदभोक्तृत्वश्रुतिविरोधा-ज्ञानादिप्राप्त्या विष्णावनवकाशमुत विशेषाशुभभोगाभावविद्वदविद्वत्सुखादिहेतुत्वेन विष्णौ सावकाशमिति । बहुरूपत्वाच्चेत्यानन्दमयाधिकरणन्यायेन द्विवचनश्रुते सावकाशत्वाद्गतार्थमिति चेन्मैवं । न हि तत्र द्विवचनं बहुवचनं वा शङ्कितम् । तदभावात् । किं नाम संज्ञाधिकरणन्यायेनान्नमयप्राणमयेत्यादि-संज्ञाभेदेनान्नमयादीनां भेदे शङ्किते रूपभेदेन संज्ञाभेदोक्ते । किञ्चाभ्यधिकपूर्वपक्षाच्च न गतार्थतेति भावेन हेत्वन्तरमाह ॥ कर्मबन्धविधुरस्येति ॥ छत्र्यछत्रिसमुदाये छत्रिणो गच्छन्तीति यथोक्ति तथेत्यर्थ ॥ संहर्तृत्वमात्रेणेति ॥ अत्तेत्यस्य सर्वसंहर्तेत्यर्थोपपत्तेरिति भाव ॥ अचेतन इति । बुद्ध्याख्य इत्यर्थ ॥ जीवद्वयायोगादिति ॥ तयोरन्योन्यनियमने शरीरोन्मथनादिप्रसङ्गादिति भाव । चैद्यादिशरीरे भोक्तृद्वयसमावेश क्वाचित्को हरीच्छया युज्यते इति भाव । एककर्मनिर्मितशरीरे भोक्तृ-जीवद्वयायोग इति वा । चैद्यादिशरीरं तूभयकर्मनिर्मितमिति भाव । ननु जीवस्यैव मुख्यत पातृत्वम् ईश्र्वरस्य तूपचारतस्तदङ्गीकारे युगपद्वृत्तिद्वयप्रसङ्ग इत्यत आह ॥ द्वयोरिति ॥ वृत्तिद्वयविरोधेन उभयत्राप्युपचार इत्यर्थ । यद्वा जीवस्यैव चेत् कथं पिबन्ताविति द्वयोरप्युक्तिरित्यत आह ॥ द्वयोरपीति ॥ एकत्र मुख्यो द्वयोरप्युपचार । एकसत्वेऽपि द्वयं नास्तीति प्रतीत्या द्वित्वावच्छिन्नयोरुपचार इत्यर्थ । सूत्रे गुहां प्रविष्टाविति हेतुगर्भविशेषणम् । हिशब्दो वा यस्मादित्यर्थेऽपि भवति । तत्त्वित्येतत् लिङ्गवचनव्यत्ययेन तावित्यनुवर्तते । आत्मानावित्येतत् आदेयमुपादेयं शुभं कर्मफलं मात्यनुभवतीति व्युत्पत्या ऋतं पिबन्ताविति समन्वेतव्यशब्दसूचकम् । पिबन्तावित्येव वक्तव्ये एवमुक्तिस्तु आत्मान्तरात्मेति स्मृतिसूचनार्था । ततश्र्चात्मानौ ऋतं पिबन्तावेवात्मान्तरात्माख्यविष्णुरूपे एव । गुहां प्रविष्टत्विलङ्गात् । गुहाप्रविष्टत्वस्यासिद्धिं व्यभिचारं च परिहर्तुं हीत्युक्तम् । रूपद्वयेन गुहास्थत्वस्या-सिद्धिं परिहर्तुं तद्दर्शनादिति तस्यात्मनो गुहास्थत्वस्य घर्मा समन्तादिति श्रुत्युक्तत्वादित्यर्थमभिप्रेत्य सूत्रभाष्यार्थमाह ॥ यौ पिबन्तावित्यादिना ॥ विष्णू इति वक्तव्ये इति ॥ ऋतं पिबन्ताविति श्रुत्यनुसारेण तत्त्वित्यस्य लिङ्गवचनव्यत्ययेन विष्णू इत्यर्थे वक्तव्ये इत्यर्थ ॥ दीप्ताविति ॥ घृ क्षरादीप्त्यो । भगवन्ताविति शेष । वीत्यस्यार्थो विशेषेण गुहास्थान इति । हृदयाविष्टेश्र्वरस्य कर्मफल-सुखभोक्तृत्वं च तत्तदिन्द्रियविषयभोगद्वारेति भावेनाह ॥ तथा चेति ॥ अर्थबाहुल्याद्वा अतीतानागत-विवक्षया वा बहुवचनम् ॥ नोभयथेति ॥ कर्मसाध्यमीश्र्वर सुखं भुङ्क्त इत्युक्तम् । आगमिष्यत्सुखानु-भवस्यापि सर्वदा पूर्णत्वेनाभिनवतया तद्भोगायोगात् । किञ्च यथा लोके आकण्ठपूर्ति भुक्तवत पुनर्भोजनमशक्यमेवं परिपूर्णानन्दस्य पुनर्भोगशक्तिरेवायुक्तेति भाव । अचिन्त्यैश्र्वर्येति ॥ एतेन चेष्टा भोगक्रियाशक्तिर्न ज्ञायतेऽचिन्त्येत्यर्थ उक्तो भवति ॥ तस्य स्वादु आहुरित्यस्यायमर्थ । य अग्रे अग्र्य श्रेष्ठ तस्यैव स्वादु पिप्पलं कर्मफलमाहु । य पितरम् उत् उत्कृष्टं न वेद अत एव नशत् नाशवान् तस्य स्वादु पिप्पलं नेति ॥ प्रसिद्धमेवेति ॥ ब्रह्मशब्दादेर्जीवे प्रयोगेऽपि श्रुत्यादौ मुख्य-प्रसिद्ध्यभावात् तस्यैवानन्दमयस्य विष्णुत्वे हेतुत्वेनोपादानं तथा श्रुत्यादौ विष्णावेव प्रसिद्धस्य गुहानिहितत्वस्यात्रापि हेतुत्वेनोपादानमित्यर्थ । भाष्ये प्रसिद्धमित्यस्यान्वयाप्रतीते शेषोक्त्याऽन्वयमाह ॥ इत्यादिनेति ॥

तत्त्वसुबोधिनी

ॐ गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ॐ ॥ पूर्वत्रादितिप्रदिपादकश्रुतिबलादन्यत्र प्रसिद्धक्रियालिङ्ग समन्वय उक्त । अत्र पिबन्ताविति प्रत्यक्षश्रुतिबलात् अन्यत्र प्रसिद्धक्रियालिङ्गसमन्वय उच्यते इति अवान्तरसङ्गति । श्रुत्यादिसङ्गतिमिति । अव्यवहितपूर्वाधिकरणोपात्त स यद्येवासृजत इति श्रुतितदधि-करणाभ्यामित्यर्थ । लोकपदस्य शरीरार्थत्वं षष्ठ्या जन्यजनकभावसम्बन्धार्थत्वं परमे परार्ध इत्यत्र वायावित्यध्याहारं चाभिप्रेत्य ऋतं पिबन्ताविति वाक्यं योजयति । यौ सुकृतेत्यादिना । तद्यदा विष्णो अन्यस्यैव स्यादित्यादि । पूर्वत्र सम्भवात्सर्वात्तृत्वं लक्षणत्वेनोक्तम् । ब्रह्मणि चाशुभभोक्तृ-त्वस्यासम्भवेऽपि शुभपातृत्वरूपं शुभभोक्तृत्वं सिद्धान्तरीत्या सम्भवति । तत्र च पिबतो जीवेश्र्वरत्वं उपेत्य जीवे पातृत्वं मुख्यं ईश्र्वरे त्वमुख्यमिति स्वीकारेऽसम्भव । उभयोरपि मुख्यमिति स्वीकारे तु जीवस्यापि शुभभोक्तृत्वेनेश्र्वरवत् सर्वात्तृत्वस्यापि प्रसङ्गादतिव्याप्तिरित्यर्थ । यद्वा गुहाप्रविष्टत्वादि-ब्रह्मिलङ्गसहितस्यापि ऋतपातृत्वासम्भवोऽतिव्याप्तिर्वा यदा तदा तत्सहचरितस्य पूर्वोक्तात्तृत्वस्या-सम्भवोऽतिव्याप्तिर्वा स्यादित्यर्थ । तथा च द्वयोरपि पातृत्वं मुख्यमिति पूर्वपक्षोऽप्यत्राभिमत इति द्रष्टव्यम् । अथवा कर्मफलभोक्तृत्वस्य विष्ण्वन्यमात्रनिष्टत्वे विष्णौ तदभावप्राप्त्या एकदेशवैकल्येन सर्वात्तृत्वरूपलक्षणासम्भव । कर्मफलभोक्तृत्वस्य विष्णोरन्यत्रापि विद्यमानत्वे गुहाप्रविष्टात्वादेरपि प्राप्तौ सर्वात्तृत्वस्यापि विष्ण्वन्यस्मिन्सम्भावयितुं शक्यत्वेन सर्वात्तृत्वस्यातिव्याप्तिरित्यर्थ । ननु बहुरूपत्वस्यानन्दमयाधिकरण उक्तत्वात् द्विवचनश्रुति रूपद्वयाभिप्रायेण सावकाशेत्यतो हेत्वन्तरमाह । कर्मबन्धविधुरस्येति । ननु कर्मबन्धविधुरत्वेऽप्यस्तु कर्मफलभोग इत्यत आह । अनश्र्नन्नन्य इत्यादि-श्रुतेरिति । अन्यथा एतच्छ्रुतिविरोध स्यादिति भाव । न चैवमित्यत्र ईश्र्वरपक्षे अनुपपत्त्यभिधाने इत्येवंशब्दार्थ । ननु जीवस्य मुख्यत पातृत्वम् ईश्र्वरस्य तूपचारेण तदित्यङ्गीकारे युगपत् वृत्तिद्वय-विरोधप्रसङ्ग इत्यत आह । द्वरोरिति । द्वित्वावच्छेदेन उभयत्राप्युपचार इत्यर्थ । अत एव पूर्वं तादृश एव छत्रिन्याय उदाहृत । तथा च लक्षणमयुक्तमिति । यद्यपि सर्वसंहर्तृत्वरूपं लक्षणं ब्रह्मण्येवेति पूर्वपक्षिणा स्वीकृतम् । अत एव टीका कर्मफलभोगं विनापि संहर्तृत्वमात्रेण तदुपपत्तेरिति । तथापि सिद्धान्त्यभिप्रेतं संहर्तृत्वविशेषात्मकं भक्षयितृत्वरूपं लक्षणमयुक्तमिति भाव । गुहाप्रविष्टत्विलङ्गादित्यर्थ इति । अनेन सूत्रे गुहां प्रविष्टाविति हेतुगर्भं विशेषणं हिशब्दो यस्मादित्यर्थेऽपि वर्तत इति सूचितमिति बोद्धव्यम् । न च समन्वेतव्यिलङ्गप्रदर्शनाय पिबन्ताविति वक्तव्यं श्रुत्यनुसारादिति वाच्यम् । आत्मशब्दस्यापि आदेयं कर्मफलं माति अनुभवतीति व्युत्पत्या कर्मफलभोक्तृत्विलङ्ग-प्रतिपादकत्वेन स्मृतिसमाख्याप्रदर्शनाय तद्ग्रहणात् । तथा च आत्मशब्दग्रहणेन उभयमपि प्रयोजनं सिद्ध्यतीति भाव । रूपपदप्रयोगप्रयोजनमाह । विष्णू इति । घर्मेत्यस्यार्थो दीप्ताविति । समन्तेत्यस्यार्थो व्याप्ताविति । भगवन्ताविति विशेष्यपदस्य श्रुतावध्याहार । वीत्यस्यार्थो विशेषेण गुहास्थान इति । वाक्यशेष इति । य अग्रे श्रेष्ट तस्यैव स्वादु पिप्पलमाहु । य उत् उत्कृष्टं पितरं न वेद । अत एवानशत् नाशवान् । तस्य स्वादु पिप्पलं नेत्यर्थ । तद्युक्तेरिति । गुहानिविष्टत्वयोगादित्यर्थ । श्रुत्यादिप्रसिद्धमिति । ब्रह्मशब्दादे जीवे प्रयोगेऽपि श्रुत्यादिना विष्णावेव प्रसिद्धस्य हेतुत्वेन उपादान-मित्यर्थ । नन्वयमर्थ मूलान्नावगम्यत इत्यत आदौ विष्णोरेव गुहानिविष्टत्वमिति प्रसिद्धमित्यनन्तर-मितिशब्दमध्याहृत्य व्याख्येयम् । सोदाहरणपूर्वकं यो वेदेति मूलवाक्यं व्याख्याति । य इत्यादिना प्रसिद्धं हीत्यादिना ।

वाक्यार्थविवरणम्

फलभोक्तृत्वं नाम कर्मानुसारेण प्राप्तशुभविषयभोक्तृत्वमेव विवक्षितम् । अत एव "विषयानुपसेवत’ इति गीतावाक्यमुदाहृतम् । कर्मफलभूतसुखभोक्तृत्वविवक्षायाम् एतद्वाक्योदाहरणमसङ्गतं स्यादिति ध्येयम् ॥

वाक्यार्थमञ्जरी

एकस्येत्येदद्द्विवचनानुपपत्तिस्फुरणायोक्तं कर्मफलात्तृत्वं न प्रतीयत इत्यत आह ॥ पातृत्वशब्द-वाच्यमिति ॥ षष्ठ्यर्थो जन्यजनकभावसम्बन्ध इत्याह ॥ सुकृतनिर्मित इति ॥ आ ऋद्ध अर्द्ध परेभ्योऽप्यर्द्ध परार्ध इत्याशयेन परार्धशब्दार्थमाह ॥ अतिपूर्णेति ॥ पञ्चमहायज्ञेति ॥ देवपितृभूतमनुष्य-ब्रह्मयज्ञरूपपञ्चमहायज्ञा इत्यर्थ । यद्वा दर्शपूर्णमासौ चातुर्मास्यानि पशु सोम इति पञ्चमहायज्ञा इत्यर्थ ॥ द्युपर्जन्येति ॥ द्युपर्जन्यपृथिवीपुरुषयोषिद्रूपपञ्चाग्निविद्येत्यर्थ । नाचिकेता नाचिकेत-नामकेष्टिवन्त । छायातपौ विद्वदविद्वत्सुखदुखकरौ । अन्यस्यैव द्वयोर्बुद्धिजीवत्वपक्षे न तस्य सर्वात्तृत्वं तथा चासम्भव इति भाव । अन्यस्यापि द्वयोर्जीवेश्र्वरत्वपक्षे गुहां प्रविष्टत्वादिविष्णुलिङ्गसहचरितकर्मफल-भोगवत सर्वात्तृत्वस्यापि सम्भावयितुं शक्यत्वादिति भाव ॥ विष्णोरन्यस्य वेति ॥ किं विष्णोरेवातोऽ-न्यस्यापीत्यर्थ ॥ निरवकाशत्वादिति ॥ तद्वाच्यद्वित्वस्य निर्भेदे हरौ कथमपि घटयितुमशक्यत्वादिति भाव । बहुरूपत्वाच्चेत्यानन्दमयनयोक्तरीत्या द्विवचनश्रुति सावकाशेत्यतो निमित्तान्तरमाह ॥ कर्मेति ॥ हरि कर्मफलाभोक्ता तद्बन्धविधुरत्वाद् घटवदिति युक्तिविरोधमभिधाय श्रुतिविरोधं चाह ॥ अनश्र्नन्निति ॥ जीवादन्यो हरि पिप्पलं कर्मफलम् अनश्र्नन्नेवाभिचाकशीतीत्यर्थ । छत्रिन्यायेनेति ॥ छत्र्यछत्रिसमुदाये यथा छत्रिणो गच्छन्तीत्यौपचारिकप्रयोग एवं भोक्त्रभोक्तृसमुदायेऽप्यौपचारिक-पिबन्ताविति प्रयोग इत्यर्थ । विरोध ईश्वरस्य भोगानङ्गीकारे को हेतुरिति प्रश्र्नस्योत्तरमाह ॥ एकस्येति ॥ न्याय्यत्वात् । अस्य गौरिति वक्ष्यमाणरीत्या ॥ भोक्तृजीवद्वयेति ॥ तच्छरीरजन्यकर्मफलभोक्तृजीव-द्वयेत्यर्थ । तेन पिशाचावेशवत्किं न स्यादिति निरस्तम् । ननु जीवस्यैव मुख्यत पातृत्वमीश्र्वरस्य तूपचारतस्तदङ्गीकारे युगपद्वृत्तिद्वयप्रसङ्ग इत्यत आह ॥ द्वयोरपीति ॥ द्वित्वावच्छेदेनोभयत्राप्युपचार इत्यर्थ । अत एव पूर्वं तादृश एव छत्रिन्याय उदाहृत ॥ ॐ गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ॐ ॥ कर्मफलभोक्तारावात्मानावेव । आत्मान्तरात्माख्यभगवद्रूपविशेषावेव न जीवेश्र्वरौ । कुत हि यस्माद्गुहां प्रविष्टौ गुहाप्रविष्टत्वं च यो वेद निहितं गुहायामित्यादिना तत्रैव प्रसिद्धमित्यपि हिशब्दार्थ । रूपद्वयस्य गुहास्थत्वं कुत इत्यत उक्तं तद्दर्शनात् तस्यात्मनो गुहास्थत्वस्य घर्मा समन्तेत्यादि-श्रुत्युक्तेरित्यर्थ । वीत्युपसर्गार्थो विशेषेण गुहास्थान इति आवृत्तिं मत्वाह ॥ त्रिवृतमिति ॥ आत्मा देहस्थ । अन्तरात्मा जीवस्थ । कर्मफलभोगस्येन्द्रियसाध्यत्वाद्धृदयप्रविष्टस्य कथं तदित्यत आह ॥ तथा चेति ॥ अर्थबाहुल्याद्बहुवचनम् । अधिष्ठाय तत्र स्थित्वा । उपसेवते भुङ्क्ते ॥ पूर्णानन्दत्वादिति ॥ पूर्णानन्दत्वेन दुखावकाशाभावात् । प्राप्तव्यसुखापेक्षाभावाच्चेति भाव । शुभाशुभशब्दौ सुखदुखपरौ । अन्तरङ्गज्ञापकं चाह ॥ तथा हीति ॥ यो भगवानग्रे अग्र्य सर्वत श्रेष्ठ तस्येत् तस्यैव पिप्पलं कर्मफलं स्वादु शुभमाहु । यस्तु जीव पितरं जगज्जनकं भगन्तम् उत् उत्कृष्टत्वेन न वेद । अत एव नशत् नरकाद्यनर्थरूपं नाशं प्राप्नुवानो पुरुषार्थनाशवान्वा तस्य पिप्पलं न स्वाद्वाहुरित्यर्थ । इत्यादिनेत्याद्यनुवाद । विष्णोरेवेत्यादि व्याख्या ॥

विवृति

पूर्वत्रादितिप्रतिपादकश्रुतिबलादन्यत्रप्रसिद्धक्रियालिङ्गसमन्वय । उक्त अत्र तु पिबन्ताविति प्रत्यक्षश्रुतिबलादन्यत्र प्रसिद्धक्रियालिङ्गसमन्वय उच्यते इत्यवान्तरसङ्गति ॥ श्रुत्यादिसङ्गतिमिति ॥ अव्यवहितपूर्वाधिकरणोपात्त "स यद्यदेवासृजत’ इतिश्रुतितदधिकरणाभ्यामित्यर्थ । लोकपदस्य शरीरार्थत्वं षष्ठ्या जन्यजनकभावसम्बन्धार्थत्वं, परमेपरार्ध इत्यत्र वायावित्यध्याहारं चाभिप्रेत्य ऋतं पिबन्ताविति वाक्यं योजयति ॥ यौ सुकृतेत्यादिना ॥ तद्यदा विष्णोरन्यस्यैव स्यादित्यादि पूर्वत्र सम्भवात्सर्वात्तृत्वं लक्षणत्वेनोक्तम् । ब्रह्मणि चाशुभभोक्तृत्वस्यासम्भवेऽपि शुभपात्तृत्वरूपं शुभभोक्तृत्वं सिद्धान्तरीत्या सम्भवति । तत्र च पिबतोर्जीवेश्र्वरत्वमुपेत्य जीवे पातृत्वं मुख्यम् ईश्र्वरे त्वमुख्यमिति स्वीकारेऽसम्भव । उभयोरपि मुख्यमिति स्वीकारे तु जीवस्यापि शुभभोक्तृत्वेनेश्र्वरवत्सर्वात्तृत्वस्यापि प्रसङ्गात् इति ॥ आत्मशब्दस्यापि आदेयं कर्मफलमनुभवतीति व्युत्पत्या कर्मफलभोक्तृत्विलङ्गप्रतिपादकत्वेन स्मृतिसमाख्याप्रदर्शनाय तद् ग्रहणात् । तथा चात्मशब्दग्रहणेनोभयमपि प्रयोजनं सिध्यतीति भाव । रूपपदप्रयोगप्रयोजनमाह ॥ विष्णू इति ॥ घर्मेत्यस्यार्थो दीप्तौ व्याप्ताविति ॥ भगवन्ताविति विशेष्यपदस्य श्रुतावध्याहार ॥ वीत्यस्यार्थो विशेषेण गृहस्थ इति ॥ वाक्यशेष इति ॥ य अग्रे श्रेष्ठस्तस्यैव स्वादु पिप्पलमाहु ॥ य पितरं न वेद अत एव नशत् नाशवान् स्वादुपिप्पलं नेत्यर्थ ॥ तद्युक्तेरिति ॥ गृहानिविष्टत्वयोगादित्यर्थ ॥ श्रुत्यादिप्रसिद्धमिति ॥ ब्रह्मशब्दादेर्जीवेप्रयोगेऽपि श्रुत्यादिप्रसिध्यभावादानन्दमयाधिकरणादौ यथा तस्य हेतुत्वोपपादनं तथा प्रकृतेऽपि गुहानिविष्टत्वस्य श्रुत्यादिना विष्णावेव प्रसिद्धस्य हेतुत्वेनोपादानमित्यर्थ ॥ नन्वयमर्थो मूलान्नावगम्यत इत्यत आदौ विष्णोरेव गुहानिविष्टत्वं प्रसिद्धमित्यनन्तरमितीतिशब्दमध्याह्रत्य व्याख्येयम् सोदाहरणपूर्वकं यो वेदेति मूलवाक्यं व्याख्याति ॥ इत्यादिना प्रसिद्धं हीत्यादिना ॥

Load More