ॐ स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ॐ
श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितम्
ब्रह्मसूत्रभाष्यम्
अथ द्वितीयाध्यायस्य प्रथमः पादः
अथ स्मृत्यधिकरणम्
सूत्रभाष्यम्
उक्तेऽर्थेऽविरोधं दर्शयत्यनेनाध्यायेन । प्रथमपादे युक्त्यविरोधम् । प्रथमतः स्मृत्यविरोधं दर्शयति–
।। ॐ स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ॐ ।। १ ।।
सर्वज्ञा हि रुद्रादयः । अतस्तेषां वचनविरोधेऽप्रामाण्यमेव स्यादिति चेन्न । अन्यस्मृतीनां विष्ण्वादिभिर्नितरां सर्वज्ञैरेव कृतत्वात् श्रुतेराधिक्यं (च) सिद्ध्यति ।।
श्रीपद्मनाभतीर्थविरचिता
सत्तर्कदीपावली
जगत्कारणे नारायणे निखिलवेदसमन्वयो गताध्यायेऽभिहितः । तत्र विप्रतिपद्यमानवादि-भिरुद्भावितानेकविरोधोऽस्मिन्नध्याये परिह्रियते । तत्र प्रथमपादे विरोधेषु युक्तिविरोधः परिह्रियते । पशुपत्यादिप्रत्यक्षमूलत्वेन च पाशुपतादिस्मृतेः प्रबलत्वात्तद्विरोधोऽत्र प्रथमाधिकरणे परिह्रियते । तथा हि पाशुपतादिस्मृतिविरोधान्न विष्णुर्जगत्कर्तेत्युच्यते । तर्हि पञ्चरात्रादिस्मृतिविरोधाद्रुद्रोऽपि जगत्कारणं न स्यात् । न चैवं सति अनिर्णय इति वाच्यम् । श्रुतिमूलत्वेन पञ्चरात्रादिस्मृतेरेव प्रामाण्यमिति निर्णयोपपत्तेः । श्रुतीनां च जगत्कर्तरि विष्णौ समन्वयस्याभिहितत्वात् । तथा हि उक्तेऽर्थ इत्यादिना ।।
श्रीत्रिविक्रमपण्डिताचार्यविरचिता
तत्त्वप्रदीपिका
प्रथमाध्याये सर्वसृष्ट्यादिकर्तरि सर्वगुणपरिपूर्णे नारायणे सर्ववेदसमन्वय उक्तः ।। तत्र अविरोधं दर्शयत्यनेनाध्यायेन ।। विदितेऽपि वेदार्थे विरोधस्फुरणे तत्त्वनिर्धारणानुपपत्तेः । अनिर्धारिते च निधिध्यासनायोगात् । अनाध्यातस्य चानीक्षणीयत्वेनामोचकत्वात् । अतो यावन्न विरोधपरिहारस्तावन्न पुमर्थपर्यवसायित्वं शास्त्रस्येति तत्तद्विरोधमाशङ्क्य परिहरति ।। प्रथमपादे युक्त्यविरोधं दर्शयति । तदायत्तत्वात्सर्वविरोधाविरोधयोः । प्रथमतो रुद्रादिस्मृत्यविरोधम् ।। तासां श्रुतिमूलत्वेन सर्वज्ञवक्तृकत्वेन वाऽभिमतानां क्वापि दृष्टफलानां वेदसमत्वबुद्ध्या जगत्कारणे समन्वयधर्मित्वेन समाशङ्कनीयत्वात् । ॐ स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनकाशदोष-प्रसङ्गात् ॐ ।। सर्वज्ञा हि रुद्रकपिलकणादादयः । ते च जगत्कारणमन्यदन्यन्मन्यन्ते । न च तत्स्मृतीनामन्योऽवकाशः । उक्तार्थे श्रुतेः प्रामाण्याङ्गीकारे तासां तत्तदुत्कर्षप्रतिपादिकानाम-न्यावकाशरहितानामप्रामाण्यदोषः प्रसज्येत । न च तद्युक्तं सर्वज्ञप्रणीतानाम् । अतः श्रुतेस्तत्रा-प्रामाण्यमिति चेन्न । तेभ्योऽधिकं निरतिशयं सर्वज्ञत्वं विष्णोः । मन्वादिनां च कपिलादिभ्योऽ-धिकम् । अतो विष्ण्वादिस्मृत्यनवकाशदोषोऽत्युल्बणस्तत्प्रामाण्याङ्गीकारे प्रसज्यते । अत एतद्विरोधे तासामप्रामाण्यमेव स्यात् । अन्यसमयिभ्योऽस्माकं श्रुतिप्रामाण्यमधिकं निरपवादं सिद्ध्यति ।
श्रीजयतीर्थविरचिता
तत्त्वप्रकाशिका
पूर्वाध्यायसङ्गतत्वेनैतदध्यायार्थं दर्शयति ।। उक्तेऽर्थे इति ।। अशेषशास्त्रप्रामाण्येन हरिरेव जगज्जन्मादिकर्तेति योऽर्थः प्रथमाध्याये प्रतिपादितस्तस्य युक्त्यादिविरुद्धत्वे न प्रेक्षावदुपादित्सागोचरत्वं स्यात् । अतस्तस्मिन्नुक्तार्थे युक्त्यादिविरोधाभावं दर्शयत्यनेनाध्यायेन सूत्रकार इत्यर्थः । एतत्पादप्रतिपाद्यं दर्शयति ।। प्रथमेति ।। उक्तेऽर्थे विरोधश्चतुर्विधः स्फुरति । युक्तिसमयद्विविधश्रुति (श्रुति, न्यायोपेतश्रुति) विरोधभेदात् । तत्र सर्वविरोधानां युक्तिमूलत्वेन तदविरोधं प्रथमपादे दर्शयतीत्यर्थः । आद्याधिकरणार्थं दर्शयति ।। प्रथमत इति ।। यद्यप्ययं पादः प्रागुक्तार्थे युक्तिविरोधं परिहर्तुमेव प्रवृत्तस्तथापि प्रथमाधिकरणे पाशुपतादिस्मृतिविरोधाभावं दर्शयति । स्मृतीनां युक्तिसमयादिरूपत्वेन तद्विरोधपरिहारस्य समस्ताध्यायार्थभूतस्य प्राथम्योपपत्तेः पादार्थस्याप्यत्र सम्भवेन न कोऽपि दोष इति भावः । अनेनास्याधिकरणस्य शास्त्रादिसङ्गतिरुक्ता भवति । वेद-प्रामाण्येन जगज्जन्मादिकर्तृत्वं विष्णोरुक्तं तस्य च पाशुपतादिस्मृतिविरोधे नोक्तजिज्ञासा सम्भवतीत्यविरुद्धतां नेतव्यम् । तद्विष्णोर्जगज्जन्मादिकर्तृत्वं विषयः । युक्तं न वेति सन्देहः । समयविगानं सन्देहबीजम् । पूर्वपक्षस्य सूत्र एवोक्तत्वात्तदुपन्यस्य पूर्वपक्षांशं तावद्व्याचष्टे ।। स्मृतीति ।। न विष्णोर्जगत्कारणत्वं युक्तम् । तत्प्रमाणाभावात् । न च ‘यतो वा इमानि भूतानि जायन्त’ इत्यादिश्रुतिः प्रमाणम् । श्रुतेर्विष्णोर्जगत्कारणत्वप्रतिपादकत्वे पाशुपतसाङ्ख्ययोगादिस्मृति-विरोधेनाप्रामाण्याख्यदोषप्रसङ्गादन्यार्थतोपपत्तेः । पाशुपतादिस्मृतीनां रुद्रादेर्जगत्कारणत्व-प्रतिपादकत्वात् । न च विरोधेऽप्यप्रामाण्याभावः । वस्तुनि विकल्पप्रसङ्गात् । न च देशकालादिभेदेन श्रुतिस्मृत्योरविरोधः । स्मृतिषु रुद्रादेः सकलजगज्जन्मादिकर्तृत्वाभिधानात् । न च वाच्यं श्रुति-विरोधेन स्मृतीनामेवान्यार्थत्वमप्रामाण्यं वा किं न स्यात् । विरोधे त्वनपेक्षं स्यादसति ह्यनुमानमिति न्यायादिति प्रबलविरोधेनैव दुर्बलस्यान्यार्थतादेः कल्पनीयत्वात् । न हि स्मृतिभ्यः श्रुतेः प्राबल्य-मस्ति । स्मृतीनां रुद्रकपिलकमलासनादिभिराप्तैर्विरचितानां दोषाभावगुणयुक्तत्वात् । रुद्रादीनां सार्वज्ञस्य जगद्धितोपदेष्टृत्वस्य च प्रसिद्धत्वात् । श्रुतेश्च कर्तृगुणशून्यत्वेन पिपीलिकालिपिनिभत्वात् । क्वचिच्छ्रुतिविरोधेन स्मृतेरर्थान्तरकल्पनादि तु स्मृतेः श्रुतिमूलत्व एव भवति । मूलमूलिनोर्मूलस्य प्रबलत्वात् । न च पाशुपतादिस्मृतीनां श्रुतिमूलत्वम् । रुद्रादिप्रत्यक्षस्यैव तन्मूलत्वात् । अतः पाशुपतादिस्मृतिनामाप्तप्रणीतानां प्रबलत्वेन निरवकाशत्वात् श्रुतेश्च तद्विरुद्धाभिधायकत्वेऽ-प्रामाण्यस्यैव प्रसङ्गान्न तया विष्णोर्जगत्कारणत्वं सिध्यति तस्मान्न तस्य जिज्ञास्यतेति भावः । सिद्धान्तांशं व्याचष्टे ।। नेति ।। युक्तमेव विष्णोर्जगत्कारणत्वं श्रुत्युदितत्वात् । न च श्रुतेर्विष्णो-र्जगत्कारणत्वाभिप्राये पाशुपतादिस्मृतिविरोधेनाप्रामाण्यप्रसङ्गादर्थान्तरत्वमिति वाच्यम् । श्रुतिविरोधेन स्मृतीनामेवाप्रामाण्याख्यदोषप्रसङ्गात् । न च स्मृतिभ्यः श्रुतेराधिक्याभावेनाबाधकत्वम् । पञ्चरात्रादि-स्मृत्यनुकूलत्वेन पाशुपतादिस्मृतिभ्यः श्रुतेराधिक्यसिद्धेः । न च वक्तव्यं पञ्चरात्रादिस्मृत्यानुकूल्येऽपि कथं श्रुतेराधिक्यमिति । तासां विष्ण्वादिभिर्नितरां सर्वज्ञैर्जगद्धितोपदेष्टृभिः प्रणीतत्वात् । कुतो विष्ण्वादीनां रुद्रादिभ्योऽप्याप्ततमत्वम् । तदुक्तस्य श्रुतौ संवाददर्शनात् । रुद्राद्युक्तस्य संवादहीन-त्वात् । अतो वैष्णवस्मृतीनां परमाप्तैः पुरुषोत्तमादिभिः प्रणीतत्वेन निरवकाशत्वात्पाशुपतादिस्मृतीनां तद्विरोध एवाप्रामाण्यप्रसङ्गात्सुतरां तत्साहाय्यवत्या श्रुत्या विरोधेऽप्रामाण्यप्रसङ्ग इति युक्तमेव विष्णोर्जगत्कारणत्वं जिज्ञास्यत्वं चेति भावः ।
श्रीवादिराजतीर्थविरचिता
गुर्वर्थदीपिका
‘प्रथमतः स्मृत्यविरोधं दर्शयति’ इति वदता भाष्यकृता यद्यपि ‘शास्त्रयोनित्वात्’ इत्यधि-करणे ‘स्मृत्यनवकाशदोषप्रसङ्ग इति चेत्’ इत्यधिकरणे ‘पत्युरसामञ्जस्यात्’ इत्यधिकरणे च शिवादीनामेव जगत्कर्तृता न हरेरिति पूर्वपक्षरचना एकप्रकारैव । तथाऽप्यस्मदभिमतापौरुषेय-वेदाख्यशास्त्रविषयत्वान्न तेषां जगत्कर्तृत्वमिति प्रथमाधिकरणे निरूपितम् । द्वितीयाधिकरणे तु प्रबलप्रतिस्मृतिविरुद्धत्वेन तदीयपाशुपतादिस्मृतीनामप्रामाण्यं प्रतिपाद्य तेषां जगत्कर्तृत्वाभाव-निरूपणम् । तृतीयाधिकरणे तु पशुपत्यादीनामेवाज्ञानजननमरणादिदोषप्रदर्शनेनास्मदादिवज्जग-त्कर्तृत्वाभावनिरूपणमिति दूषणप्रकारभेदान्न पौनरुक्त्यमिति सूचितम् । ‘विरोधे त्वनपेक्षं स्यादसति ह्यनुमानम्’ इति जैमिनिसूत्रस्य तु विशेषेण विरोधे, स्मृतेः श्रुतिविरोधे, अनपेक्षम्, अनपेक्षितम् अप्रमाणं स्मृतिवचनं स्यात् । असति श्रुतिविरोधेऽसति अनुमानं मूलश्रुतेरनुमापकं स्यात् । श्रुत्यर्थस्मरणेन स्मृतीनां करणादिति प्रसिद्धिं हिशब्देनाहेत्यर्थः । क्वचित् श्रुतिविरोधेन इत्यत्र स्मृतिः श्रुत्युपजीविमन्वादिकृता गृह्यते ।
श्रीरघूत्तमतीर्थविरचितः
तत्त्वप्रकाशिकाभावबोधः
‘उक्तः समन्वयः साक्षात्’ इत्यनुव्याख्यानानुसारेणोक्तेऽर्थे इति भाष्याभिप्रायमाह– अशेषशास्त्रप्रामाण्येनेति ।। अत्र ‘न विलक्षणत्वात्’ इत्यादौ वेदप्रामाण्य एव युक्तिविरोधस्य परिहारात् ‘असदिति चेत्’ इत्यादौ जगत्कर्तृत्वादावेव युक्तिविरोधस्य परिहारात् ‘सर्वधर्मोपपत्तेश्च’ इत्यादौ गुणपूर्णत्वादावेव विरोधनिराकरणादध्यायार्थो नैको लभ्यत इत्याशङ्कानिरासायोक्तेऽर्थ इति भाष्यमेवं व्याख्यातम् । जगज्जन्मादिकर्तेत्युपलक्षणम् । समस्तगुणपूर्ण इत्यादिकमपि बोध्यम् । तथा चाशेषशास्त्रप्रामाण्यहेतुकजगज्जन्मादिकर्तृत्वादावविरोधोऽध्यायार्थ इति नार्थभेद इति भावः ।। तस्य युक्त्यादिविरुद्धत्व इति ।। अनेन श्रुतिसमन्वयेनेत्यादिसुधोक्तरीत्या पूर्वाध्यायार्थस्य कार्यत्व- मेतदध्यायार्थस्य कारणत्वमिति पूर्वोत्तराध्याययोः कार्यकारणभावलक्षणसङ्गतिरुक्ता भवति । ‘चतुर्विधस्य तस्य’ इत्यनुव्याख्यानं मनसि निधायाऽऽह– उक्तेऽर्थे विरोधश्चतुर्विधः स्फुरतीति ।। अनेन सकलशास्त्रसमन्वयेन जगज्जन्मादिकारणत्वेन समस्तगुणपूर्णत्वेऽशेषदोषविधुरत्वे च परस्य ब्रह्मणोऽभिहित एव तत्र विरोधः स्फुरतीत्यादिसुधोक्तरीत्या पूर्वाध्यायार्थस्य कारणत्वमे-तदध्यायार्थस्य कार्यत्वमिति पूर्वोत्तराध्याययोर्वैपरीत्येन कार्यकारणभावलक्षणा सङ्गतिः सूचिता भवति । यौक्तो विरोध आदौ प्रबलतया निरसनीयत्वेन प्राप्तः, अत आदौ प्रथमपादे यौक्तो विरोधः परिह्रियत इत्यर्थकं ‘तस्यादौ यौक्तः’ इत्यनुव्याख्यानं मनसि निधाय प्रथमपाद इति भाष्याभिप्रायमाह– तत्र सर्वविरोधानां युक्तिमूलत्वेनेति ।। ‘तत्रापि च स्मृतेः’ इत्यनुव्याख्यानगतं तत्र युक्तिविरोधाभावप्रतिपादकेऽपि पाद इत्यनौचित्यशङ्कासूचकमपि मनसि निधायाह– यद्यपीति ।। ‘तस्याः चतुःस्वरूपत्वात्’ इत्यनुव्याख्यानानुसारेण प्रथमत इत्युक्तप्राथम्यमुपपादयति स्मृतीनां युक्तिसमयादिरूपत्वेनेति ।। पाशुपतादिस्मृतयो हि स्वयमाप्ताभिमतवाक्यतया समयरूपा अपि स्वोक्तार्थे युक्तीः श्रुतीश्च संवादयन्त्यो युक्तिसमयादिविरोधिचतुष्टयरूपा इत्यर्थः । वेद-प्रामाण्यवादिस्मृतिविवक्षयैवेदम् । अत एव युक्तिसमयरूपत्वस्य सर्वस्मृतिसाधारण्यात् स्वशब्देनोपादानम् । तदप्रामाण्यत्वादिस्मृतिविवक्षायां युक्तिसमयरूपोभयरूपत्वमेवेति ज्ञातव्यम् । पाशुपतसाङ्ख्य-बौद्धार्हतादिस्मृतिविरुद्धत्वादिति सुधोक्तेः ।। समस्ताध्यायार्थभूतस्य प्राथम्यो-पपत्तेरिति ।। पादचतुष्टयार्थसङ्गतस्याप्यस्य निष्कृष्टपादार्थाभावेन निष्कृष्यैकत्र पादेऽन्तर्भावेऽप्य-विरोधाध्यायान्तर्भावेनाध्यायस्यादावन्ते वा निवेशने कर्तव्ये प्रथमातिक्रमे हेत्वभावात् वेदा-प्रामाण्यवादिस्मृतेर्युक्तिसमयरूपाया अप्यत्र विरोधपरिहारेणान्ते निवेशनायोगात् युक्तिसमय-विरोधापेक्षाया विरोधचतुष्टयात्मकस्मृतिविरोधस्य प्रबलतया प्रथमं निरसनीयत्वादिति भावः ।। न कोऽपि दोष इति ।। अन्तर्भावरूपसङ्गत्यभावदोषो नेत्यर्थः ।
नन्विदं शास्त्रयोनित्वाधिकरणेन गतार्थम् । रुद्रादेर्जन्मादिकारणत्वस्य तत्रैव निरस्तत्वात् । न च तत्रानुमानावष्टम्भेन पूर्वपक्षे श्रुत्यवष्टम्भेन सिद्धान्तः । इह तु पाशुपतादिस्मृत्या पूर्वपक्षे पञ्चरात्रादिस्मृत्या सिद्धान्त इति वाच्यम्, अनुव्याख्याने ‘शैवाद्यागमसम्प्राप्तदृष्टगेन फलेन तु’ इत्यादिना स्मृतीनामपि तत्र तस्याः चतुःस्वरूपत्वादित्यनेन युक्तेरप्यत्र पूर्वपक्षप्रापकत्वेन, भाष्ये च ‘ऋग्यजुः सामाथर्वाश्च भारतं पञ्चरात्रकम्’ इत्यादिना पञ्चरात्रादिस्मृतीनामपि तत्र श्रुते-राधिक्यं सिध्यतीत्यनेन श्रुतेरप्यत्र सिद्धान्तप्रापकत्वेन चोक्तत्वात् । अत एव तत्र सुधायां पाशुपताद्यागमानुमानावष्टम्भेनातिव्याप्तिमाशङ्क्य परिहरतीत्युक्तमिति चेदुच्यते । पूर्वत्र जन्मादि-कारणत्वलक्षणस्य रुद्रादावतिव्याप्तिपरिहारः । अत्र त्वसम्भवपरिहार इति भेदात् । अत एव तत्र न्यायविवरणे रुद्रादेः सममेतल्लक्षणमित्युक्तम् । सुधायां च तत्रातिव्याप्तिमाशङ्क्य परिहर-तीत्युक्तम् । अत्र तु शिवप्रभृतीनामेव कारणत्वमित्युक्तम् । टीकायां च तत्र कारणत्वस्य भगव-देकनिष्ठत्वाभावादिति पूर्वपक्षोपसंहारः । अत्र तु न विष्णोर्जगत्कारणत्वं सिध्यतीत्येवं पूर्वपक्षोपसंहारः ।
यद्वा शास्त्रयोनित्वाधिकरणे यत्पाशुपतादिस्मृतीनामप्रामाण्यमभिप्रेतं तस्यैवात्र प्रपञ्चनान्न गतार्थता । भाष्यकारीयपाशुपतादिस्मृत्यप्रामाण्यव्युत्पादनं तु ‘जन्माद्यस्य यतः’ इति सूत्रानु-सारेण प्रथमाधिकरणे ‘ब्रह्मशब्दश्च विष्णावेव’ इत्यादिव्युत्पादनवदेतधिकरणानुसारेण शिष्य-हितार्थमिति द्रष्टव्यम् ।। वेदप्रामाण्येनेति ।। ‘जन्माद्यस्य यतः’ इत्यादि ‘एतेन सर्वे व्याख्याताः’ इत्यन्तसूत्रोपात्त ‘यतो वा इमानि भूतानि जायन्ते’ ‘असद्वा इदमग्र आसीत्’ इत्यादिवेदप्रामाण्येनेत्यर्थः । तथा च तेनैवानन्तरसङ्गतिरप्युक्ता भवति ।। युक्तं न वेति ।। अत्र जगज्जन्मादिकर्तृत्वं किं विष्णोर्न युक्तमुत युक्तमिति चिन्ता । तदर्थं पाशुपतादिस्मृतिविरोधेन यतो ‘वा’ इत्यादिश्रुतिबाध उत श्रुतिविरोधेन स्मृतिबाध इति । तदर्थं स्मृतिः प्रबलोत श्रुतिर्वेति । तदर्थं पाशुपतादिस्मृतिप्रणेतृरुद्रादीनामाप्तत्वमुत श्रुत्यनुकूलपञ्चरात्रादिस्मृतिप्रणेतृविष्ण्वादीना-मेवाप्तत्वमिति । तदर्थं रुद्राद्युक्तस्य संवाददर्शनं विष्ण्वाद्युक्तस्य तदभाव उत विष्ण्वाद्युक्तस्य संवाददर्शनं रुद्राद्युक्तस्य तदभाव इति ।। पाशुपतसाङ्ख्ययोगादिस्मृतिविरोधेनाप्रामाण्याख्य-दोषप्रसङ्गादिति ।। अनेन स्मृतीनां पाशुपताद्यागमानामनवकाशत्वेन तद्विरोधे श्रुतेरप्रामाण्याख्य-दोषप्रसङ्ग इति सूत्रांशयोजना सर्वज्ञा हीत्यादिभाष्येण दर्शितेत्युक्तं भवति । वेदप्रामाण्यवादि-नामपि पूर्वपक्षित्वाभिप्रायेणेयं योजना । अत एव सांख्यपाशुपतयोगादि इत्येवोक्तम् । तद-प्रामाण्यवादिनामपि पूर्वपक्षित्वे च श्रुतिः प्रमाणमिति शङ्कायाः तस्या अप्रमाणत्वादित्येव परिहारे वक्तव्ये ‘श्रुतेर्विष्णोः’ इत्याद्युक्तपरिहारस्यासङ्गतत्वात् । सुधायां तु ‘इतरेषां चानुपलब्धेः’ इति सामान्यतो निराकरणं समयानां कृतमित्युत्तरपादीयभाष्यानुरोधेन तेषामपि पूर्वपक्षित्वाभि-प्रायेण शिवादीनां जगत्कारणत्वाभावे पाशुपतादिस्मृतीनामवकाशाभावेनाप्रामाण्याख्यदोषप्रसङ्ग इति सौत्राक्षेपांशस्य विष्णोर्जगत्कारणत्वानङ्गीकारे पाशुपतादिभ्योऽन्यासां पञ्चरात्रादिस्मृती-नामवकाशान्तराभावेनाप्रामाण्याख्यदोषप्रसङ्गादिति परिहारांशस्य च योजना दर्शिता । अत एव सुधायां पाशुपतसांख्यबौद्धार्हतादिस्मृतिविरुद्धत्वादिति वेदाप्रामाण्यवादिबौद्धार्हतादिग्रहणम् । रुद्रादिवचनविरोधस्याप्रयोजकत्वमाशङ्क्य परिहरति न च विरोध इति ।। तस्यैवासिद्धिमाशङ्क्य परिहरति ।। न च देशकालेति ।। अन्यार्थत्वमप्रामाण्यं वेति ।। ‘औदुम्बरीं स्पृष्ट्वोद्गायेत्’ इति श्रुतिविरोधेन ‘औदुम्बरी वा सर्वा वेष्टयितव्या’ इति स्मृतेर्भाट्टैरन्यार्थत्वस्य प्राभाकरैरप्रामाण्यस्य च उक्तत्वादिति भावः ।। विरोधे त्विति ।। श्रुतिस्मृत्योर्विरोधेऽसति स्मृतिरनुमानं स्वमूलभूत-श्रुत्यनुमापिका । तयोर्विरोधे त्वपौरुषेयतया मूलानपेक्षं श्रुतिवचनमेव मानं स्यादिति जैमिनि-सूत्रार्थः । सौत्रानवकाशपदसूचिताप्तेत्यनुव्याख्यानोक्तयुक्तिमाह– स्मृतीनामिति ।। तदुपपाद-कत्वेन ‘सर्वज्ञा हि रुद्रादयः’ इति भाष्यं व्याचष्टे रुद्रादीनामिति ।। ‘पिपीलिकालिपिनिभा’ इत्यनुव्याख्यानं मनसि निधायाह– श्रुतेश्चेति ।।
नन्वेवं स्मृतीनामेव प्राबल्ये कथं सर्ववेष्टनस्मृतेः श्रुतिविरोधेन स्पर्शनार्थं द्वित्राङ्गुलं हित्वा तदितरसर्ववेष्टनरूपार्थान्तरकल्पनमप्रामाण्यं वेत्यत आह– क्वचित् श्रुतिविरोधेनेति ।। ‘आप्तैः प्रत्यक्षतो दृष्ट्वा प्रोक्तमर्थम्’ इत्यनुव्याख्यानं मनसि निधायाह– रुद्रादिप्रत्यक्षस्यैवेति ।। श्रुते-राधिक्यं सिध्यतीति भाष्यं सोपस्करं व्याचष्टे– पञ्चरात्रादिस्मृत्यनुकूलत्वेनेति ।। विष्ण्वादिभि-र्नितरां सर्वज्ञैरिति ।। अनेन रुद्रादीनां सकाशात् विष्ण्वादीनामेव आप्तत्वमपि व्याख्यातं भवति । श्रुत्यनुसारित्वादिति न्यायविवरणं तन्निवर्तनीयाशङ्काप्रदर्शनपूर्वकं व्याचष्टे– कुत इत्यादिना ।। सूत्रांशाक्षराणि योजयन्नुपसंहरति– अत इति ।।
श्रीराघवेन्द्रतीर्थविरचितः
भावदीपः
यत्पादपद्मे संस्मृत्य लोकोऽवद्यान्यवद्यति ।
तं वन्दे परमा(नन्द)त्मानमिन्दिरामन्दिरोरसम् ।। १ ।।
उक्तेऽर्थ इत्यादेरुपयोगस्यास्पष्टत्वादाह ।। पूर्वाध्यायेति ।। अर्थेति ग्राह्यम् । उक्तेऽर्थे मानोक्तिं विना अविरोधोक्तिरसङ्गतेत्यतो व्याचष्टे ।। अशेषेति ।। स्वरवर्णपदवाक्यात्मकाशेष-शास्त्रस्य शक्तितात्पर्याभ्यां कारणत्वादिना भगवत्प्रमाजनकत्वेनेत्यर्थः ।। कर्तेति ।। उक्तदि-शाऽनन्तगुणत्वं चोपलक्ष्यते । उक्तं च सङ्क्षेपभाष्ये ‘उक्ता गुणाश्चाविरुद्धास्तस्य वेदेन सर्वशः’ इति ।। प्रतिपादित इति ।। न्यायैरुपपादित इत्यर्थः । न प्रेक्षावदिति नञो न स्यादिति क्रिय-यान्वयः ।। अत इति ।। अविरोध एवोक्तार्थस्योपादेयत्वसम्भवादित्यर्थः । अनेन पूर्वाध्यायः एतन्निरसनीयविरोधशङ्काविषयभूतार्थोपस्थापकतयाऽस्य हेतुः । अयं वोक्तार्थे विरोधनिरासे-नोक्तार्थस्थैर्यसाधकत्वात्तस्य हेतुरित्यध्याययोर्हेतुहेतुमद्भावरूपा सङ्गतिरुक्तेति ध्येयम् । विवृता चैवमेव सुधायां सङ्गतिः । परं तु ‘उक्तः समन्वयः साक्षादविरोधोऽत्र साध्यत’ इत्यनुभाष्य-सुधयोः समन्वेयप्राधान्येन सङ्गतिरुक्ता । अत्र तु भाष्यटीकयोः समन्वयार्थप्राधान्येनेत्येव भेदः । यद्यपि ‘विकारशब्दान्नेति चेन्न प्राचुर्यात्’ ‘उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात्’ ‘साक्षादप्यविरोधं जैमिनिः’ ‘कल्पनोपदेशाच्च’ ‘मध्वादिवदविरोधः’ इत्यादिभिर्विरोधाभावं पूर्वत्राप्यदर्शयत्सूत्रकारः । तथापि क्वचित्क्वचिदेवात्र तु सर्वथेति सुधायामेव व्यक्तम् । युक्ती-त्युक्त्या सूचितावान्तरभेदं वक्ष्यमाणद्वितीयादिपादाद्यभाष्यदिशा विभज्यात्र दर्शयन्नत्र प्राथम्ये बीजमाह ।। उक्तेऽर्थ इति ।। द्विविधेति ।। केवलश्रुतियुक्तियुक्तश्रुतिभेदादित्यर्थः । क्वचित्तु श्रुतिन्यायोपेतश्रुतिविरोधेति पाठः । स्मृत्यविरोधोक्तेः असाङ्गत्यमाशङ्क्य व्याचष्टे ।। यद्यपीत्या-दिना ।। युक्तीति ।। शैवादिस्मृतयः स्वयमभियुक्तवाक्यतया स्मृति (समय) रूपा अपि स्वोक्तार्थे युक्तीः श्रुतीश्च संवादयन्तीति युक्तिसमयादिरूपत्वेनेत्युक्तम् ।। प्राथम्येति ।। महामल्लभङ्गन्यायेनैकैकविरोधनिरासकात्प्राथम्योपपत्तेरित्यर्थः ।। न कोऽपीति ।। अध्याये पादेऽनन्तर्भावदोषो वा अप्राथम्यदोषो वा नेत्यर्थः ।। अनेनेति ।। प्रथमत इति भाष्येण । शैवादिस्मृतिविरोधस्य युक्त्यादिविरोधरूपत्वात् हरेर्जगज्जन्मादिकर्तृत्वे युक्त्यादिविरोधात्मक-स्मृतिविरोधपरिहारकथनाच्छास्त्राध्यायपादसङ्गतिरित्युक्तं भवतीत्यर्थः । श्रुत्यधिकरणसङ्गती आह ।। वेदेति ।। जन्मादिसूत्रे ‘यतो वा इमानि भूतानि’ इत्यादिवेदवाक्यानां कारणतया विष्णोरेव प्रमापकत्वेनेत्यर्थः । एतेनैतद्विचारस्य फलमपि दर्शितं भवति । अस्य शास्त्रयोनिसूत्रादगतार्थत्वं तत्रैव चन्द्रिकायां व्यक्तम् । भाष्यं व्याख्यातुं परिष्करोति ।। नेति ।। तेषां वचनेत्येतत्सौत्र-स्मृतिपदस्य व्याख्यानमिति भावेनार्थमाह ।। पाशुपतेति ।। विरोध इति निमित्तसप्तमीति भावेन विरोधे नेत्युक्तम् । ‘अप्रामाण्यमेव स्यात्’ इत्येतत् ‘दोषप्रसङ्गात्’ इत्यस्य व्याख्येति मत्वाऽऽह ।। अप्रामाण्याख्येति ।। अन्यार्थतेति ।। श्रुतेरित्यनुषङ्गः । स्मृत्यनुरोधेन शिवादिकर्तृत्वार्थकत्वो-पपत्तेरित्यर्थः विरोधं व्यनक्ति ।। पाशुपतेति ।। विरोधस्यासिद्धिं निरस्याप्रयोजकत्वं निराह ।। न चेति ।। वस्तुनीति ।। पूर्वविकल्पः प्रकरणात्स्यात्क्रियामानसवदित्यादौ वक्ष्यमाणदिशा गुरूपादानत्यागादिरूपक्रियाया अव्यवस्थितविकल्पस्य विकल्पो विशिष्टफलत्वादित्यादौ वक्ष्य-माणदिशा फलविशेषकामनादिना नृसिंहध्यानादिक्रियाया व्यवस्थितविकल्पस्य सम्भवेऽपि विष्ण्वादिरर्थः कर्ताऽकर्ता वेति वस्तुनि विकल्पो न युक्त इत्यर्थः । वस्तुन्यपि व्यवस्थित-विकल्पमाशङ्क्य निराह ।। न च देशेति ।। सौत्रानवकाशपदव्याख्यानं सर्वज्ञा हीत्यादिभाष्यं तद्व्यावर्त्योक्तिपूर्वं व्याचष्टे ।। न च वाच्यमिति ।। प्रामाण्यमुपेत्याह ।। अन्यार्थत्वमिति ।। विरोधे त्विति ।। पूर्वतन्त्रे प्रथमे तृतीयपादे धर्मस्य शब्दमूलत्वादशब्दमनपेक्षं स्यादिति स्मृतिनये सर्वस्मृतीनां मूलश्रुत्यनुमापकत्वेन प्रामाण्यमुक्त्वा विरुद्धानामप्रामाण्यं वक्तुमिदं सूत्रम् । स्मृतेः श्रुतिविरोधे सति अनपेक्षं स्मृतिप्रामाण्यमनादरणीयं स्यात् । न चैवं तत्रत्यपूर्वाधिकरणविरोधः । असति ह्यनुमानम् । स्मृतेः श्रुतिविरोधे असति अविद्यमान एव स्मृतिरनुमानं मूलभूत-श्रुत्यनुमापिका सती प्रमाणमित्युक्तं स्मृत्यधिकरण इत्यर्थः । जैमिनीयन्यायवैषम्यं वक्तुकामः भाष्यस्थतेषामिति पदे प्रकृतिप्रत्ययार्थं वदन् तत्तात्पर्यमाह ।। स्मृतीनामिति ।। भ्रमप्रमादादि-दोषाभावेन यथार्थज्ञानपूर्वकत्वरूपगुणेन च युक्तत्वादित्यर्थः । सर्वज्ञा हीत्यादि व्यनक्ति ।। रुद्रादीनामिति ।। हिशब्दार्थः प्रसिद्धत्वादिति । सार्वज्ञमुपलक्षणं मत्त्वोक्तम् ।। जगदिति ।। श्रुतेश्चेति ।। ‘आप्तैः प्रत्यक्षतो दृष्ट्वा प्रोक्तमर्थं कथं श्रुतिः । पिपीलिकालिपिनिभा वारयेत्सर्व-गाहित’ इत्यनुभाष्योक्तेरिति भावः । जैमिनीयन्यायस्य गतिमाह ।। क्वचिदिति ।। भट्टमते अर्थान्तरकल्पनं प्राभाकरमते अप्रामाण्यमादिपदार्थः । अस्य पूर्वोक्तविरोधनिरासकत्वद्योतनाय प्रतिज्ञाहेतू बहिरेवाह ।। युक्तमिति ।। भाष्योपात्तस्य सौत्रनञः पूर्वकृतचोद्येनान्वय इति भावेनाह ।। न च श्रुतेरिति ।। तत्र हेतुत्वेन दोषप्रसङ्गादिति सूत्रांशं आकाङ्क्षितपूर्त्या योजयति श्रुति-विरोधेनेति ।। प्रसङ्गादिति ।। प्रकृष्टसम्बन्धादित्यर्थः । इदानीं तु श्रुतेरित्यादिभाष्यां (शव्या-वर्त्यपूर्वं) शं अवतार्य शेषपूर्त्या व्याचष्टे ।। न चेति ।। अन्येत्याद्यंशं व्यावर्त्यपूर्वं व्याचष्टे ।। न च वक्तव्यमिति ।। विष्णुमनुप्रभृतिभिरित्यर्थः । नितरां निरतिशयं निस्संशयं वा । भाष्य-स्थैवकारभावमाह ।। जगदिति ।। श्रुत्यनुसारित्वादित्यन्यत्रोक्तं हेतुमत्र व्यावर्त्यशङ्कापूर्वं योजयति ।। कुत इति ।। भाष्ये नितरां सर्वज्ञैरेवेत्येतद्रुद्रादीनां सकाशाद्विष्ण्वादीनामेवाप्तत्वमित्य-न्यत्रोक्ताप्तशब्दार्थविवरणमिति भावेनाप्ततमत्वमित्यनुवादः । यत्तु श्रुतावनुक्तमेव जीवोत्पत्त्यादि पञ्चरात्रे कथ्यत इत्यादि तत्तु अनुव्याख्यानसुधाचन्द्रिकासु समयपादान्ते निरस्तं ध्येयम् । अन्यस्मृतीनामित्यादिसूत्रांशस्य शेषपूर्त्या बाधातिबाधयोरुक्तिपरत्वेन द्वेधार्थं वदन् उपसंहरति ।। अत इति ।। तदुक्तस्येत्यादिहेतुद्वयपरामर्शः । आप्तत्वे हेतुरयं निरवकाशत्वादिति । अप्रामाण्याख्यस्य वाऽर्थान्तरपरत्वरूपस्य वा अवकाशस्याभावादित्यर्थः । अत्रापि प्रसङ्गशब्दः प्रकृष्टसङ्ग(सम्बन्ध)वाची । एतेन श्रुतेरित्यतःपूर्वं भाष्यं बाधोक्तिपरं श्रुतेरित्यादि त्वति-बाधोक्तिपरमिति भाष्याभिप्रायः उक्तो ध्येयः ।।
श्रीमत्सत्यनाथतीर्थयतिविरचिता
श्रीमत्तत्वप्रकाशिकाव्याख्याऽभिनवचन्द्रिका
सीतया सहितं मूलराममिक्ष्वाकुपूजितम् ।
आनन्दतीर्थमुनिपं नमामि ज्ञानसिद्धये ।। १ ।।
यदनुग्रहमात्रेण सद्भिरिष्टमवाप्यते ।
भक्त्या नमामि तं सत्यनिधिं लोकगुरुं मुदे ।। २ ।।
पूर्वाध्यायेति ।। ‘ब्रह्मस्वरूपनिरूपणेऽनवशेषात् किमध्यायशेषेणेत्यतः’ इति वर्तते । ततश्चैवं योजना प्रथमाध्यायेन ब्रह्मस्वरूपस्य निरूपितत्वेन ब्रह्मस्वरूपनिरूपणेऽनवशेषादध्यायसंज्ञकेन किमनेन शास्त्रशेषेणेत्यतः पूर्वाध्यायसङ्गतत्वेन एतदध्यायप्रतिपाद्यं तावद्दर्शयतीति ।। विरोधाभावं दर्शयत्यनेनेति ।। युक्त्यादिबाधितत्वतत्प्रतिरुद्धत्वाभावं दर्शयतीत्यर्थः । एतेन प्रमाणाप्रमाणयोः सर्वदा विरोधस्य सत्त्वेन तदभावप्रदर्शने सूत्रकारस्य प्रतारकत्वं स्यादिति निरस्तम् ।। एतत्पादप्रतिपाद्यं दर्शयतीति ।। ‘तर्ह्यध्यायस्यैकार्थत्वात् पादभेदः किं निबन्धन इत्यतः’ इति वर्तते । ‘अविरोधेऽप्यवान्तरभेदेन पादभेद उपपन्न इति भावेन’ इति ग्राह्यम् । तस्यैतत्पादप्रतिपाद्यं दर्शयतीत्यनेन सम्बन्धः ।। उक्तेऽर्थे विरोधश्चतुर्विधः स्फुरतीति ।। ननु युक्तिसमयविरोध एव उक्तेऽर्थे विरोधः न तु श्रुतिविरोधः न्यायोपेतश्रुतिविरोधश्च । तयोश्चाधिभूतादिविषयत्वात्, इति चेत्,
नारायणं नरसखं ध्यात्वा नत्वा पुनः पुनः ।
असमर्थः समाधातुं वक्ष्येऽहं तदनुग्रहात् ।।
तथा हि – न ब्रूमो वयमुक्तेऽर्थे साक्षाद्विरोध इति । येनोक्तदोषः स्यात् । किं नाम युक्तिसमयाभ्यां विरोधौ साक्षाद्विरोधौ । श्रुतिन्यायोपेतश्रुतिविरोधौ तु श्रुत्यप्रामाण्यप्रसञ्जनद्वारा श्रुत्यवष्टम्भेनोक्तस्य जगत्कारणत्वाद्यर्थस्याऽऽक्षेपहेतू इति परम्परया विरोधौ । अत एव टीकाकारः तेषु केष्वधिकरणेषु तथैव वक्ष्यतीति ।। सर्वविरोधानां युक्तिमूलत्वेनेति ।। विरोधोऽत्र बाधः, प्रतिरोधो वा । तज्ज्ञानं च प्रबलत्वसमबलत्वज्ञानाभ्याम् । प्रबलत्वसमबलत्वज्ञाने च न युक्तिं विना भवत इति सर्वविरोधस्य युक्तिमूलत्वमुपचारेणोक्तमिति द्रष्टव्यम् । एतेन श्रुतेः स्वतः प्रबलत्वेन तद्विरोधस्य युक्त्यनुपजीवित्वात् प्रत्यक्षश्रुतिमूलकसमयाभ्यां विरोधस्य प्रत्यक्षश्रुतिमूलत्वेन युक्त्यनुपजीवित्वात् सर्वविरोधानां न युक्तिमूलत्वमिति परास्तम् । ‘प्रथमतः स्मृत्यविरोधं दर्शयति’ इति भाष्यस्य प्रथमतः प्रथमभागे कतिपयाधिकरणेषु स्मृत्यविरोधं दर्शयतीत्यर्थ इति भ्रमं निराकर्तुमाह– आद्याधिकरणार्थमिति ।। यद्यपीति ।। यद्यप्ययं पादः युक्तिविरोधमेव परिहर्तुं प्रवृत्त इति नास्याधिकरणस्य प्रथमं निवेशो युक्त इति भावः ।। तथापीति ।। स्मृतीनां युक्तिसमयादिरूपत्वेन तद्विरोधपरिहारस्य समस्ताध्यायार्थभूतस्य प्राथम्योपपत्तेः प्रथमाधिकरणे पाशुपतादिस्मृतिविरोधाभावं दर्शयतीति सम्बन्धः । द्वितीयाधि-करणमारभ्यैव पादारम्भः, समस्ताध्यायार्थप्रतिपादकस्यास्याधिकरणस्य निष्कृष्य पादेष्वन्तर्भावा-सम्भवादादौ वा अन्ते वा निवेशे प्राप्ते प्रथमातिक्रमे कारणाभावात् प्रथमतो निवेशः कृत इति भावः । मूलस्य निष्कृष्य पादान्तर्भावासम्भवेऽपि कथञ्चिदन्तर्भावसद्भावात् प्रथमतः स्मृत्यविरोधं दर्शयतीति योजनान्तरं मनसि कृत्वा आह – पादार्थस्येति ।। पादार्थस्याप्यत्र सद्भावात् पादानन्तर्भावलक्षणदोषोऽपि नेति भावः । अस्मिंस्तु व्याख्याने आद्याधिकरणमारभ्यैव पादारम्भ इति द्रष्टव्यम् ।
अस्यार्थः – न श्रुतेर्विष्णोर्जगत्कारणत्वे तात्पर्यम् । तथात्वे श्रुतेः सर्वज्ञप्रणीतत्वेन प्रबलया विस्पष्टत्वेन निरवकाशया स्मृत्या विरुद्धत्वेनाऽप्रमाण्यप्रसङ्गः । अतो न तत्र तात्पर्यमिति चेत्, न । विष्णुकारणत्वे तात्पर्यं परित्यज शिवादिकारणत्वे तात्पर्याङ्गीकारे विष्ण्वादिभिः प्रणीतया व्याख्यानरूपया अन्यस्मृत्या अतिसर्वज्ञप्रणीतत्वेन पाशुपतादिस्मृतितोऽप्यनवकाशया विरुद्धत्वेन श्रुत्यप्रामाण्यप्रसङ्गः स्यात् । तथा च श्रुत्यैव पाशुपतादिस्मृतिबाधे युक्तः । श्रुतेर्व्याख्येयत्वेन दुर्बलत्वेऽपि विष्ण्वादिप्रणीतस्मृतिसाहित्येन प्राबल्यादिति । विष्णुपरत्वे विरोधः शिवादिपरत्वे चाऽविरोधः कथमित्यत आह – पाशुपतादिस्मृतीनामिति ।। वस्तुनि विकल्पप्रसङ्गादिति ।। विरुद्धद्विरूपत्वप्रसङ्गादित्यर्थः ।। विरोधेत्विति ।। ‘श्रुतिस्मृत्योर्विरोधेऽसति स्मृतिरनुमानं स्वमूलभूतश्रुत्यनुमापिका तयोर्विरोधे तु पौरूषेयतया मूलानपेक्षं श्रुतिवचनमेव मानं स्यात्’ इति जैमिनिसूत्रार्थः ।। पिपीलिकालिपिनिभत्वादिति ।। अस्पष्टत्वमात्रेऽयं दृष्टान्तः, न तु अर्थविवक्षाभाव इति बोध्यम् । एतेन ‘अन्यार्थतोपपत्तेः’ इत्यर्थविवक्षा-प्रतिपादकपूर्वग्रन्थविरोध इति निरस्तम् ।। क्वचिदिति ।। सर्ववेष्टनविषये । ‘औदुम्बरी सर्वा वेष्टयितव्या’ इति स्मृतेः, ‘औदुम्बरीम् स्पृष्ट्वोद्गायेत्’ इति श्रुतिबाधेनार्थान्तरकल्पनमित्यर्थः ।। प्रबलत्वेन निरवकाशत्वादिति ।। श्रुत्या बाधावकाशराहित्यादित्यर्थः । ‘अन्यस्मृत्य-नवकाशदोषप्रसङ्गात्’ इति सूत्रखण्डस्य फलितमाह ।। श्रुतिविरोधेन इति ।। श्रुतौ संवाददर्शनादिति ।।
ताम्रपर्णी श्रीनिवासाचार्यविरचिता
वाक्यार्थमुक्तावली
युक्तिभिस्ससमयैः शुद्धवेदैर्युक्त्युपबृंहितैः ।
यद्गुणा न विरुद्ध्यन्ते तमुपासे श्रियः पतिम् ।।
पूर्वाध्यायेति ।। ब्रह्मस्वरूपनिरूपणे शेषोक्तिं द्वितीयेनेत्यतः इति पूरणीयम् । ‘उक्तः समन्वयः साक्षादविरोधोऽत्र साध्यत’ इत्यनुभाष्ये समन्वयप्राधान्येन सङ्गतिरुक्ता । अत्र तु समन्वयार्थप्राधान्येनेति भेद इति भावेनोक्तेत्यर्थ इति भाष्यभावमाह ।। अशेषेति ।। शास्त्रयो-नित्वादिति जगज्जन्मादिकारणत्वमुख्यानन्तगुणपूर्णत्वे शास्त्रं प्रमाणीकृत्य समन्वयमुखेनेत्यर्थः । तेन न विलक्षणत्वादित्यादौ वेदप्रामाण्यसमर्थनमप्युक्तेऽर्थे विरोधपरिहारायेति सूचितम् । यद्वक्ष्यति अत्र विष्णोर्जगत्कारणत्वे प्रमाणत्वेनोक्तवेदादिप्रामाण्यस्य युक्तिविरोधपरिहारादिति । जगत्कर्तेत्युपलक्षणम् । अनन्तगुणपूर्णोऽशेषदोषदूरश्च’ इत्यपि ग्राह्यम् । आनन्दमयादिशब्दसमन्वय- मुखेनानन्तगुणानाम्, अदृश्यत्वादिगुणको, अन्यभावव्यावृत्तेश्चेत्यादौ दोषाभावानां चोक्तत्वात् । अत्रापि सर्वधर्मोपपत्तेश्च’ इत्यत्र साक्षाद्विरोधपरिहाराच्च । दोषवर्जितमित्येतद्द्वितीयाध्यायार्थकथन-मित्येतत्प्राचुर्यविवक्षया । समन्वयविरोधिदोषविवक्षया पूर्वाध्याये विकारशब्दान्नेति चेत्, साक्षादप्य-विरोधं जैमिनिः’ इत्यादौ विरोधापाकरणेऽपि क्वचित् किञ्चिदेव न सर्वत्रेति सुधायामेव व्यक्तम् ।। तस्येति ।। अनेनायमध्यायो विरोधनिरासेन समन्वयसाधकत्वात्तस्य हेतुः पूर्वाध्यायश्च कार्यमिति कार्यकारणभावलक्षणसङ्गतिरुक्ता भवति ।। विरोधाभावमिति ।। युक्त्यादिबाधितत्व-तत्प्रतिरोधाभावमित्यर्थः ।। एतत्पादेति ।। तर्ह्यध्यायस्यैकार्थत्वात्पादभेदः किं निबन्धन इत्यत इत्यनुषज्जते ।। प्रथमपाद इति ।। भाष्ये उक्तेऽर्थ इत्यनुवर्तते इति भावेन युक्तीति विशेष्योक्त्या सूचितमवान्तरभेदमाह ।। उक्तेऽर्थ इति ।। एतेन पूर्वाध्याये निरसनीयविरोधशङ्काविषयी-भूतार्थोपस्थापकतया अस्य हेतुरिति पूर्वोत्तराध्याययोर्वैपरीत्येन कार्यकारणभावलक्षणसङ्गतिरुक्ता भवति ।। समयेति ।। अलौकिकार्थगोचरबहुजनपरिगृहीतवाक्यसन्दर्भस्समयः । तद्विरोधः समयविरोधः ।। द्विविधेति ।। केवलश्रुतिविरोधः । युक्तीनां श्रुत्या-दावुक्ततया सयुक्तिकश्रुतिविरोध इति द्विविधः श्रुतिविरोध इत्यर्थः । यद्यपि तृतीयचतुर्थयोरधिभूताध्यात्मविषयश्रुतिविरोध-निरासकत्वान्न साक्षादुक्तार्थविषयकत्वम् । तथापि श्रुत्यप्रमाण्यप्रसञ्जनद्वारा श्रुत्यवष्टम्भेनोक्त-जगत्कारणत्वाद्यर्थस्याक्षेपसमाधायकत्वात् पर्यवसानेनोक्तार्थविषयकत्वम् । अत एव टीकाया-मशेषशास्त्रप्रामाण्येनेत्युक्तम् । उत्तरत्र तृतीयचतुर्थयोः प्रत्यधिकरणं तथैव वक्ष्यतीति ज्ञेयम् ।
प्रथमपादे युक्त्यविरोधमिति सूचितं युक्तिप्राबल्ये नियामकमाह ।। सर्वेति ।। समयस्य युक्त्यवष्टम्भेन प्रवृत्तत्वात् । तृतीये शङ्क्यमानश्रुतिविरोधस्यापि युक्त्युपोद्बलेनैव सिद्धान्त्यभिमत-जगत्कारणत्वादिप्रतिपादकश्रुतिबाधकत्वात् । अत एव अनादिर्वाऽयमाकाश इति श्रुतेः विभुत्वानुमानसाहित्येन ‘आत्मन आकाशस्सम्भूतः’ इति श्रुतिबाधकत्वं वक्ष्यत इति भावः ।
प्रथमतः स्मृत्यविरोधमित्यत्र प्रथमतः कतिपयैरधिकरणैरित्यन्यथाप्रतीतिं वारयन्नवतारयति आद्याधिकरणार्थमिति ।। युक्तिविरोधपरिहारपादे कथं स्मृतिविरोधपरिहारस्यान्तर्भावः । अन्तर्भावे वा कथं प्राथम्यमित्याशङ्क्य परिहरति ।। यद्यपीति ।। तथापीति ।। तथापित्यतः परं स्मृतीनामिति वाक्यं सम्योज्यातः परं प्रथमाधिकरण इति वाक्यं सम्योजनीयम् ।। युक्ति-समयादीति ।। पाशुपतादीनामनादिकालतो वृत्तसमयोपोद्बलकत्वात् आपाततः श्रुतियुक्ति-संवादित्वाच्च युक्तिसमयादिरूपत्वात्तद्विरोधपरिहारस्य पादचतुष्ट्यात्मकाध्यायार्थभूतस्यैकैकविध-परिहारमात्रपरेष्वेतेषु पादेषु निवेशायोगेन समस्तशास्त्रार्थभूतजिज्ञासाद्यधिकरणानां शास्त्रादौ निवेशनवदस्याप्यधिकरणस्याध्यायादौ निवेशनमुपपद्यते । किञ्च स्मृतेश्च तु स्वरूपत्वेन प्रबल-त्वान्महामल्लभङ्गन्यायेन प्रथमनिरसनीयत्वादध्यायादौ निवेश उपपद्यत इति भावः ।
ननु जिज्ञासाद्यधिकरणानामध्यायपादपीठत्वेनोपोद्घातस्यासङ्गत्याऽध्यायपादान्तनिर्वेशः सम्भवति कथमस्याधिकरणस्य पादान्तर्निवेश इत्यत आह ।। पादार्थस्यापीति ।। इतरपादार्थ-प्रतिपादेऽप्येतत्पादार्थस्याप्यत्र सद्भावेनेत्यर्थः ।। न कोऽपीति ।। प्राथम्यायोगदोषः, पाद-बहिर्भावदोषश्चेत्यर्थः । अत्र ‘इतरेषां चानुपलब्धेः’ इति सामान्यतः समयानां निराकरणं कृतमिति वक्ष्यमाणरीत्या सर्वसमयनिराकरणेऽपि वेदप्रामाण्यवादिशैवादिस्मृतिविवक्षया युक्त्यादि- चतुरूपत्वं तदप्रामाण्यवादिस्मृतिविवक्षया तु युक्तिसमयोभयरूपत्वमेवेति ज्ञेयम् ।
ॐ स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ॐ
नन्विदं सूत्रं शास्त्रयोनित्वाधिकरणेन गतार्थम् । रुद्रादेः जन्मादिकारणत्वस्य तत्रैव निरस्त-त्वात् । न च तत्रानुमानावष्ठम्भेन पूर्वपक्षे प्राप्ते श्रुत्यवष्टम्भेन सिद्धान्तः इह तु पाशुपतादिस्मृत्या पूर्वपक्षे पञ्चरात्रादिस्मृत्या सिद्धान्त इति मानभेदेनागतार्थत्वम् । मानमेयविशेषेण पुनरुक्तिर्न जायते इति वचनस्य सत्त्वादिति वाच्यम् । पाशुपताद्यागमानुमानावष्टम्भेनातिव्याप्तिमाशङ्क्य परिहरतीति तदधिकरणीयसुधायाम् ।
तत्र स्मृत्यवष्टम्भेन पूर्वपक्षस्य तस्याश्चतुस्स्वरूपत्वादित्यनुव्याख्याने युक्तिसमयादिरूपत्वेनेति टीकायां च । अत्रापि युक्त्यवष्टम्भेन पूर्वपक्षस्य ‘ऋग्यजुस्सामाथर्वाश्च पञ्चरात्रं च’ इत्यादिना तत्र पञ्चरात्राद्यवष्टम्भेन सिद्धान्तस्य श्रुतेराधिक्यं च सिध्यतीत्यादिना अत्रापि श्रुत्यवष्टम्भेन सिद्धान्तस्योक्त्या मानविशेषाभावात् । न चातिव्याप्तिमाशङ्क्य परिहरतीति तदधिकरणीय-सुधायां जन्मादिकारणत्वस्य भगवदेकनिष्ठत्वाभावादित्यन्येषामप्यस्तीति पूर्वः पक्ष इति टीकायामुक्तेः तत्रातिव्याप्तिनिरासः ।
अत्र तु न विष्णोर्जगत्कारणत्वं सिध्यतीत्युक्त्याऽसम्भवमाशङ्क्य निरास इति प्रमेय-भेदेनागतार्थत्वमिति वाच्यम् । न्यायविवरणटीकायामतिव्याप्तिरित्यापाततः । वस्तुतस्तु जीव-विशेषेऽसम्भवान्नालौकिकं कल्पयितुमलमित्युक्त्या तत्राप्यसम्भवनिरासे तात्पर्यस्योक्तत्वात् तद्गतार्थतैवेति चेन्न । तत्र अनुमानतोऽन्ये न कल्पनीया इति भाष्यानुसारेण युक्तिप्राधान्येन पूर्वः पक्षः । स्मृतेरुपसर्जनत्वम् । अत्र तु स्मृतेर्मुख्यतः युक्तेस्तु स्मृत्या स्वोक्तार्थयुक्तिसंवाद-कत्वेनोपसर्जनत्वमिति भेदः । किञ्च तत्र पाशुपतादिस्मृत्यप्रामाण्यं जगत्कारणत्वस्य शास्त्रयोनित्वोक्त्याभिप्रेतम् । अत्र तु मुख्यतः उच्यत इति भेदः । भाष्यकारैः स्पष्टं नैव शास्त्रं कुवर्त्म तदिति । स्पष्टमैतत्सूत्रानुसारेणेति बोध्यम् । किञ्च तत्र भिक्षुपादप्रसरणन्यायेन लक्षण-स्यान्यगामित्वमुक्त्वाऽसम्भवे तात्पर्यतः सिद्धान्तिनातिव्याप्तिपरिहारः । अत्र स्पष्टमसम्भवचोदने तदुद्धार इति भेदः ।। युक्तमिति ।। अत्र जगत्कारणत्वं विष्णोर्युक्तमुत न युक्तमिति चिन्ता । तदर्थं पाशुपतादिस्मृतिविरोधेन ‘यतो वा’ इत्यादि श्रुतेर्बाधः । उत पञ्चरात्रस्मृत्यानुकूल्येन स्वतश्च प्रबलया श्रुत्या अन्यस्मृतिबाध इति । तदर्थमाप्तोक्तत्वादन्यस्मृतेः प्रामाण्यं तद्विरोधात् पञ्चरात्रादेरप्रामाण्यम् । श्रुतेश्च आप्त्यमूलाया अन्यार्थता उत पाशुपताद्युक्तानुपलब्ध्या तद-प्रामाण्यमिति स्मृत्यनवकाशदोषप्रसङ्ग इत्युक्त्यापाद्यस्यापादकापेक्षत्वात्तत्प्रदर्शनपूर्वं व्याचष्टे ।। श्रुतेरिति ।। भाष्ये विरोध इति निमित्तसप्तमीति भावेन विरोधेनेत्युक्तं विपर्यये पर्यवसानं सूचयितुमुक्तम् । अन्यार्थतोपपत्तिरिति विरोधं व्यनक्ति ।। पाशुपतेति ।। विरोधस्यासिद्धिं निरस्याप्रामाण्यं स्यादेवेत्येवकारसम्बन्धं मत्वा अप्रयोजकत्वं निरस्यति ।। न चेति ।। वस्तुनि विकल्पेति ।। जगत्कारणाख्यैकवस्तुनि शिवत्वविष्णुत्वाख्यविरुद्धद्विरूपमप्रसङ्गादित्यर्थः । यद्वा विष्णोरेव कारणत्वं शिवस्यैव कारणत्वमित्युभयाङ्गीकारे कारणस्य स्वतन्त्रत्वेनैकस्यैव स्वातन्त्र्यपारतन्त्र्यापातादित्यर्थः । अप्रामाण्यमेव न चाव्यवस्था इत्येवकारार्थं मत्वाऽऽह
।। न चेति ।। देशकालादीत्यादिपदेन कार्यं गृह्यते ।। सकलेति ।। सार्वकालिकसार्वदैशिक-सर्वकार्य इत्यर्थः ।
सौत्रानवकाशपदव्याख्यानपरं सर्वज्ञादीत्यादिभाष्यं व्याख्यातुमाह ।। न च वाच्यमिति ।। ‘औदुम्बरीं स्पृष्ट्वा उद्गायेत्’ इति श्रुतिविरोधेन ‘औदुम्बरी सर्वावेष्टयितव्या’ इति स्मृतेर्भाट्टैरन्यार्थ-त्वस्य प्राभाकरैरप्रामाण्यत्वस्योक्तत्वादित्यर्थः ।। विरोधेत्विति ।। श्रुतिस्मृत्योर्विरोधेऽसति । स्मृति-रनुमानं स्वमूलभूतस्मृत्यनुमापिका । तयोर्विरोधेत्वपौरुषेयतया मूलानपेक्षं श्रुतिवचनमेव प्रमाणं स्यादिति जैमिनिसूत्रार्थः । यदा श्रुतिस्मृत्योर्विरोधे स्मृतिवचनमनपेक्षमन्यार्थमप्रमाणं वा । असति तु विरोधे अनुसृत्यमानमित्यर्थः ।। दोषाभावेति ।। दोषाभावगुणाभ्यां युक्तत्वादित्यर्थः । सर्वज्ञा हीति भाष्यं व्यनक्ति ।। रुद्रादीनामिति ।। पिपीलिकेति ।। आप्तमूलकत्वे दृष्टान्तः । विरोधाधिकरणन्यायविरोधं वैषम्योक्त्या परिहरति ।। क्वचिदिति ।। विरोधाधिकरणे श्रुतिमूल-त्वेनाभिमतायाः सर्ववेष्टनस्मृतेः स्पर्शनश्रुतिविरोधेन स्पर्शनार्थं द्वित्राङ्गुलं हित्वा तदितरसर्ववेष्टन-रूपमर्थान्तरमप्रामाण्यं चोक्तम् । पाशुपतादिस्मृतिस्तु शिवादिप्रत्यक्षमूला न तु सर्ववेष्टनस्मृतिरिव श्रुतिमूलतो वैषम्यमिति भावः । पूर्वपक्षफलप्रदर्शनमुखेन पूर्वपक्षसूत्रांशं विवृणोति ।। अत इति ।।
अनेन पाशुपतादिस्मृतीनामाप्तिमूलतया अर्थान्तरे निरवकाशत्वेनाप्रामाण्येन वाऽनवकाशत्वेन तद्विरोधे श्रुतेरप्रामाण्याख्यदोषप्रसङ्गादतदर्थत्वान्न विष्णोर्जगत्कारणत्वमिति नञाकर्षेणार्थ उक्तो भवति ।
सिद्धान्तभाष्यं व्याख्यातुं प्रतिज्ञाहेतू बहिरेवाह ।। युक्तमिति ।। नेत्येतद्व्याचष्टे ।। न चेति ।। अन्यानवकाशेत्यंशं विहाय सिद्धान्तांशमध्याहारपूर्वं व्याचष्टे ।। श्रुतिविरोधेन इति ।। निमित्तसप्तमी श्रुतेर्विरोधादित्यर्थः ।। दोषप्रसङ्गादिति ।। अप्रामाण्यदोषस्य प्रकर्षेण लग्नत्वादित्यर्थः ।
अन्यस्मृत्यनवकाशेत्येतद्व्याख्यापरम् अन्यस्मृतीनामित्यादिभाष्यं योजयितुमाह ।। न च स्मृतिभ्यः इति ।। कुतो न वाच्यमित्यत अन्यस्मृतीनां श्रुतेराधिक्यमित्यंशं व्याचष्टे ।। पञ्च-रात्रादीति ।। तेनान्यस्मृतीनां पञ्चरात्रादिस्मृतीनामानुकूल्यात् पाशुपतादिस्मृतिभ्यः स्मृते-राधिक्यमिति भाष्यं योजितं भवति । अन्यस्मृतीनां विष्ण्वादिभिर्नितरां सर्वज्ञैरेव कृतत्वादिति यथास्थितान्वयेन व्याचष्टे ।। न च वाच्यमिति ।। सर्वज्ञैरित्युक्त्यैव विवक्षादिकमपि ग्राह्यम् । संसारिणमधिकारिजनमवलोक्यातः परमकारुणिकस्य तदीयहितसाधनमनुपदिश्यावस्थानानु-पत्तेरिति भावेन जगद्धितोपदेष्ट्रभिरित्युक्तं भाष्ये । श्रुतेराधिक्यं च सिध्यतीति चशब्दस्य न केवलं वैष्णवस्मृतिविरोधेनैवान्यस्मृतीनामप्रामाण्यम् । किन्तु तत्साहाय्येन श्रुतेराधिक्यं च सिद्ध्यतीति सुतरां तद्विरोधेनाप्रामाण्यमित्यर्थं मत्वोपसंहारव्याजेन पिण्डीकृत्य सूत्रार्थमाह अत इति ।। ततश्च पाशुपताद्यन्यपञ्चरात्रादीनामप्रामाण्यादर्थान्तरपरत्वरूपानवकाशत्वेन तद्विरोधात् व्याख्यानरूप-स्मृतिसाहाय्येन स्मृतीनामप्यर्थान्तरे अनवकाशत्वेन सुतरां तद्विरोधात् पाशुपतादिस्मृतीनाम-प्रामाण्यस्य लग्नत्वान्न पूर्ववद्युक्तमित्यर्थ उक्तो भवति । इयं च सूत्रयोजना वेदप्रामाण्यवादि-पूर्वपक्ष्यभिप्रायेणात्रकृता । अत एव साङ्ख्ययोगपाशुपतादीत्युक्तम् । सुधायान्तु इतरेषां चानुप-लब्धेरिति सामान्यतो निराकरणं समयानां कृतमित्युत्तरपादीयभाष्यानुसारेण वेदाप्रामाण्य-वादिनामपि तद्विवक्षया शिवादीनां जगत्कारणत्वाभावे पाशुपतादिस्मृतीनामवकाशाभावेना-प्रामाण्यदोषप्रसङ्ग इति चेन्न । विष्णोर्जगत्कारणत्वानङ्गीकारेण पाशुपताद्यन्यपञ्चरात्रादि-स्मृतीनामप्यवकाशाभावेनाप्रामाण्याख्यदोषप्रसङ्ग इति भावेन योजनोक्ता ज्ञेया । अत एव तत्र सांख्यपाशुपतबौद्धार्हतादीत्युक्तम् ।
पाण्डुरङ्गि श्रीनिवासाचार्यविरचिता
तत्त्वसुबोधिनी
।। अशेषशास्त्रेति ।। अत्र जगज्जन्मादिकर्तृत्वादिविष्णुधर्मस्य स्मृत्यनवकाश इत्यादौ साक्षात् न विलक्षणत्वादित्यादौ तु वेदप्रामाण्याक्षेपमुखेन युक्त्यादिविरोधपरिहारस्य क्रियमाण-त्वादेवमुक्तं हरिरित्येवावक्ष्यत् । जगज्जन्मादिकर्त्तेत्युपलक्षणम् । अनन्तगुणपरिपूर्णाशेषदोषविधुर इत्यपि ग्राह्यम् । ततः सर्वधर्मोपपत्तेरित्यादेरप्यध्यान्तर्भावसिद्धिरिति बोध्यम् । तस्य युक्त्यादि-विरुद्धत्वे इति । तथा च अस्याध्यायस्य पूर्वाध्यायसमन्वये प्राप्तविरोधपरिहारेण तत्स्थैर्य-साधकत्वात्पूर्वाध्यायस्य कार्यत्वं एतदध्यायार्थस्य कारणत्वमिति पूर्वोत्तराध्याययोः कार्यकारण-भावलक्षणा सङ्गतिरिति भावः ।। उक्तार्थ इति ।। अनेन पूर्वेण समन्वये उक्ते सति अनन्तरं विरोधस्फुरणात् । तत्परिहारात्मकत्त्वात् अस्य कार्यत्वं पूर्वस्य कारणत्वं इति वैपरीत्येन कार्यकारणभावसङ्गतिः सूचिता भवति । चातुर्विध्यं दर्शयति ।। युक्तीति ।। ननु प्रथमपादे युक्तिविरोधपरिहार एव कुतः क्रियते समयाद्यविरोध एव किं न प्रतिपाद्यते इत्यतः आह ।। अत्रेति ।। समयादिवादिभिरपि युक्तेः उपन्यस्यमानत्वात्, एकस्य समयिनः समयान्तरे इव युक्तौ कस्याप्यनादराभावाच्च तस्य प्राबल्यमिति भावः ।
ननु युक्तिविरोधपरिहारपादे स्मृतिविरोधनिराकरणमसङ्गतं इत्यत आह ।। यद्यपीति ।। प्राथम्ये हेतुमाह ।। स्मृतीनामिति ।। पाशुपतादिस्मृतयो हि स्वयमाप्ताभिमतवाक्यतया समय-रूपा अभिमतार्थे युक्तीः श्रुतीश्च संवादयन्त्यः युक्तिसमयादिविरोधचतुष्टयरूपा इत्यर्थः । वेद-प्रामाण्यवादिस्मृतिविवक्षयैवेदं, तदप्रामाण्यवादिस्मृतेः श्रुतियुक्तिसमयरूपोभयरूपत्वमेवेति भावः ।। समस्तेति ।। एकैकविरोधापेक्षया विरोधचतुष्टयात्मस्मृतिविरोधस्य प्रबलतया प्रथमं निरसनीय-त्वादिति भावः । तथापि पादासङ्गतिः कथं परिहृता इत्यतः आह ।। पादार्थस्यापीति ।। न कोऽपि दोष इति ।। अन्तर्भावरूपसङ्गत्यभावदोषो न इत्यर्थः ।। अनेनेति ।। स्मृतिविरोधस्य युक्तिविरोधाद्यात्मत्वकथनेनेत्यर्थः ।। वेदप्रामाण्येनेति ।। जन्मादिसूत्रोपात्तयतो वेत्यादि-वेदप्रामाण्येनेत्यर्थः । अत्र जगज्जन्मादिकर्तृत्वस्य विष्णावयुक्तत्वे ‘असद्वा इदमग्र आसीत्’ इत्यत्रोक्तासदादिशब्दवाच्यत्वमपि अन्यस्यैव स्यादिति पूर्वाक्षेपेण पूर्वपक्षोत्थानादनन्तरसङ्गतिः ।। समयविगानमिति ।। विष्णुरुद्रकर्तृत्वप्रापकसमययोर्विगानमित्यर्थः ।। पाशुपतसाङ्ख्येति । एवं च स्मृतीनां पाशुपताद्यानां अनवकाशत्वेन तद्विरोधे श्रुतेरप्रामाण्याख्यदोषप्रसङ्गः इति सूत्रांश-योजना सर्वज्ञापीति भाष्येण दर्शितेत्युक्तं भवति । असिद्धः पाशुपतादिस्मृतिविरोधः इत्यतः आह ।। पाशुपतेति ।। रुद्रादिवचनविरोधस्याप्रयोजकत्वमाशङ्क्य परिहरति ।। न च विरोध इति ।। विरोधोऽसिद्धः इत्याशङ्क्य निषेधति ।। न च देशकालेति ।। अन्यार्थत्वमप्रामाण्यं चेति ।। ‘औदुम्बरीं स्पृष्ट्वा उद्गायेत्’ इति श्रुतिविरोधेन औदुम्बरीं वा सर्वा वेष्टयितव्या’ इति स्मृतेर्भाट्टैः स्मार्तत्वस्य प्राभाकरैरप्रामाण्यस्य चोक्तत्वात् इति भावः ।। विरोधे त्विति ।। श्रुतिस्मृत्योरविरोधे सति स्मृतिरनुमां, स्वमूलश्रुत्यनुमापिका स्यात् । तयोर्विरोधे तु अपौरुषेयतया मूलानपेक्षं श्रुतिवचनमेव मानमित्युदाहृतजैमिनिसूत्रार्थः । स्मृत्यपेक्षया श्रुतेरप्राबल्यमुपपादयति ।। स्मृतीनामिति ।। ननु रुद्रादीनां सर्वज्ञत्वात् तत्प्रणीतस्मृत्यादिकमप्रमाणमित्यत आह ।। रुद्रादीनामिति ।। ननु श्रुतिरप्यपौरुषेयत्वेन प्रबला इत्यतः आह ।। श्रुतेश्चेति ।।
नन्वेवं स्मृतीनामेव प्राबल्ये कथं सर्ववेष्टनस्मृतेः श्रुतिविरोधेन स्पर्शनार्थं द्वित्राङ्गुलं हित्वा तदितरसर्ववेष्टनरूपार्थान्तरकल्पनमप्रामाण्यं वेत्यतः आह ।। क्वचिदिति ।। मूलत्वेऽपि स्मृति-विरोधेन श्रुतेरेवाप्रामाण्यमस्त्वित्यत आह ।। मूलेति ।। अतदर्थत्वमिति ।। जगत्कारणत्व-रूपार्थाभाववत्वमित्यर्थः ।। श्रुतेः आधिक्यमिति भाष्यं सोपस्करं व्याचष्टे ।। पञ्चरात्रादिति ।। तदुक्तस्येति ।। विष्ण्वादिभिरुक्तस्येत्यर्थः । रुद्राद्युक्तस्यापि संवाददर्शनात्तेषामप्याप्तत्वमत आह ।। रुद्रादीति ।। सूत्राक्षराणि योजयन्नुपसंहरति ।। अत इति ।।
श्रीनिवासतीर्थविरचितं
वाक्यार्थविवरणम्
जगद्धितोपदेष्टृत्वस्येति ।। अनेनाविप्रलिप्सोपपादितेति ध्येयम् ।। भागान्तरवदिति । तथा च सत्प्रतिपक्षतया न निर्णय इत्याशयः ।
शर्करा श्रीनिवासाचार्यविरचिता
वाक्यार्थमञ्चरी
यत्पादसेवया सन्तो जाता दुःखादिवर्जिताः ।
तं रामं सर्वदोषघ्नं प्रणमामि निरन्तरम् ।।
पूर्वाध्यायेति ।। अशेषशास्त्रप्रामाण्येनेति ।। स्वरवर्णपदवाक्यात्मकाशेषशास्त्रस्य जग-ज्जन्मादिकारणत्वादिना विष्णुप्रमापकत्वेनेत्यर्थः प्रतिपादितः ।। तस्य युक्त्यादिविरुद्धत्वे इति ।। तथा च विरोधे परिहृत एव समन्वयसिद्धेः । पूर्वाध्यायार्थसमन्वयस्य कार्यत्व-मेतदध्यायार्थाविरोधस्य कारणत्वमिति पूर्वोत्तराध्याययोः कार्यकारणभावलक्षणा सङ्गतिरिति भावः ।। उपादित्सा उपादातुमिच्छा । समयः सिद्धान्तः । ननु स्मृत्यविरोधप्रतिपादकत्वेऽस्य नैतत्पादान्तर्भावः । कथञ्चिदन्तर्भावेऽपि न प्राथम्ये बीजमित्याशङ्क्य निराकरोति ।। यद्य-पीत्यादिना ।। स्मृतीनामिति ।। पाशुपतादिस्मृतयो हि स्वयमात्माभिमतवाक्यतया समयरूपा अपि स्वोक्तार्थे युक्त्यादींश्च संवादयन्त्यो युक्त्यादिविरोधिचतुष्टयरूपा इत्यर्थः ।। प्राथम्यो-पपत्तेरिति ।। एकैकविरोधापेक्षया विरोधचतुष्टयात्मकस्मृतिविरोधस्य प्रबलतया प्रथमं निरसनीय-त्वादिति भावः । दोषः सङ्गत्यभावरूपः ।। अनेनेति ।। विष्णोर्जगत्कारणत्वे युक्त्यादि-रूपस्मृत्यविरोधं दर्शयतीत्यर्थकभाष्येणेत्यर्थः । विगानं विवादः ।। ॐ स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ॐ ।। स्मृतीनां पाशुपतादीनां रुद्रादिसर्वज्ञप्रणीतत्वा-न्निरवकाशत्वेन एतद्विरोधे विष्णुजगत्कारणत्वप्रतिपादकश्रुतेरप्रामाण्याख्यदोषप्रसङ्ग इति चेन्न । अन्यासां पञ्चरात्रस्मृतीनामत्याप्तविष्ण्वादिप्रणीतत्वेन श्रुतिसंवादेन च नितरां निरवकाशेन तद्विरुद्धपाशुपतादिस्मृतिनामप्रामाण्याख्यदोषस्य प्रकर्षेण सङ्गात् सम्बन्धात् अत्यन्ताप्रामाण्या-दित्यर्थः । विरोधं व्यनक्ति ।। पाशुपतेति ।। वस्तुनिविकल्पेति ।। उभयोरपि प्रामाण्ये तदु-भयानुसारेण एकस्मिञ्जगति विष्णुमात्रजन्यत्वशिवमात्रजन्यत्वरूपविरुद्धधर्मवत्वप्रसङ्गादित्यर्थः ।। देशकालेति ।। श्रुतिर्यद्देशकालीनं विष्णोर्जगत्कारणत्वं प्रतिपादयति तद्भिन्नदेशकालीनं रुद्रस्य जगत्कारणत्वं स्मृतिः प्रतिपादयतीत्यविरोध इत्यर्थः ।। सकलेति ।। सकलदेशकालीनेत्यर्थः ।। विरोधे त्विति ।। प्रथमे प्रथमाध्याये स्मृतिपादे चिन्तितम् । ज्योतिष्टोमे ‘औदुम्बरीं स्पृष्ट्वो-द्गायेत्’ इति श्रुत्या औदुम्बरीं यज्ञसदस्थूणां स्पृष्ट्वा उद्गात्रा गानं कर्तव्यमिति विहितं स्मृति-कारास्तु तत्स्पर्शविरुद्धं तस्याः कार्त्स्न्येन वाससा वेष्टनं स्मरन्ति । औदुम्बरी सर्वा वेष्टयित-व्येति तत्स्मरणं प्रमाणमप्रमाणं वेति संशये स्मृत्यधिकरणे स्मृतीनां मूलश्रुत्यनुमापकतया श्रुति-मूलत्वेन प्रामाण्यसमर्थनादियमपि स्मृतिः मूलश्रुतिमनुमापयन्ती प्रमाणमिति पूर्वपक्षः । सर्वथाऽ-प्रामाण्यस्यान्याय्यत्वात्स्पर्शार्थं द्वित्राङ्गुलं हित्वा तदितरसर्ववेष्टनरूपार्थान्तरपरत्वं स्मृतेरिति भाट्टरीत्या सिद्धान्तः । प्रभाकररीत्या तु स्पर्शनसर्ववेष्टनयोर्विरुद्धतया तत्कर्तव्यताबोधकयोरपि विरुद्धत्वादग्नावौष्ण्यग्राहिप्रत्यक्षेण तच्छैत्यानुमानस्येव स्पर्शनश्रुतिप्रत्यक्षेण सर्ववेष्टनस्मृत्यनु-मानस्य बाधान्मूलश्रुत्यभावेनाप्रामाण्यमिति सिद्धान्तः । सूत्रार्थश्च श्रुतिस्मृतिविरोधेऽसति स्मृतिः अनुमानं स्वमूलभूतश्रुत्यनुमापिका । तयोर्विरोधे तु अपौरुषैयतया मूलानपेक्षं श्रुतिवचनमेव मानं स्यादिति तथा च तद्वदेव प्रकृतेऽन्यार्थत्वमप्रामाण्यं वा स्यादित्यर्थः ।। सार्वज्ञ्यस्येति ।। तथा च विवक्षितार्थतत्त्वज्ञानकरणपाटवयोर्हितोपदेष्टृत्वेनाविप्रलम्भकत्वविवक्षयोर्लाभ इति भावः ।। श्रुतेश्चेति ।। यदबुद्धिपूर्वकं तदप्रमाणं यथा पिपीलिकालिपिः अबुद्धिपूर्वकश्च वेदोऽपौरुषेयत्वाङ्गी-कारादतो अप्रमाणमेवेति भावः । तर्ह्युदाहृतजैमिनिसूत्रविरोध इत्यत आह ।। क्वचिदिति ।। सर्ववेष्टनविषय इत्यर्थः । तदपि कुत इत्यत आह ।। मूलमूलिनोरिति ।। उपजीव्योपजीवक-योरित्यर्थः । अतदर्थत्वं विष्णुजगत्कारणार्थत्वाभावः । नितरां निरतिशयम् ।