ॐ वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवम् ॐ

१२. वृद्धिह्रासाधिकरणम्

सूत्रभाष्यम्

।। ॐ वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवम् ॐ ।। २० ।।

तस्य च भक्तिज्ञानादेर्वृद्धिह्रासभाक्त्वं विद्यते । ब्रह्मादीनामुत्तमानां सर्वेषां भक्तत्वेऽन्तर्भावात् । एवं भक्त्यादिविशेषाङ्गीकारादेवेश्वरस्य ब्रह्मादीनन्यान्प्रति च सामञ्जस्यं भवति ।

साधनस्योत्तमत्वेन साध्यं चोत्तममाप्नुयुः ।

ब्रह्मादयः क्रमेणैव यथाऽऽनन्दश्रुतौ श्रुता’ इति च ब्राह्मे ।।

तत्त्वप्रदीपिका

भक्त्यंशत्वेऽपि ज्ञानस्य पृथगुक्तिः स्नेहबहुमानात्मको भाव एवापरोक्षज्ञानसाधनमिति सूचयितुम् ।

भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन ।

 ज्ञातुं द्रष्टुं च तत्वेन’ इति च भगवद्वचनम् ।।

पारोक्ष्येणैव तत्वं तु लोकं चापि विदन्ति ये ।

 तेऽपि सत्स्नेहनिर्मुक्तास्तमो यान्ति विनिश्चयात् ।

 नाऽपरोक्ष्येण च ज्ञानं तेषामुत्पद्यते क्वचित्’ इति सद्गुणे ।।

तस्य च भक्तिज्ञानवैराग्यादेः साधनस्याधिकारिभेदेन वृद्धिह्रासभाक्त्वमङ्गीकर्तव्यम् । ब्रह्मादीनामुत्तमानां मनुष्यादीनामधमानां चेति सर्वेषामधिकारिणां भक्तत्वेऽन्तर्भावात् । न हि मनुष्यादयो ब्रह्मादीनपेक्ष्यात्यल्पभक्तियुता अप्यभक्ता उच्यन्ते । अतो भक्तिर्वृद्धिह्रासवतीत्यङ्गीकारो युक्तः । भक्त्यादिसाधनतारतम्याङ्गीकार एव साधकेषु ब्रह्मादिषु मनुष्यादिषु च सामञ्जस्यमीश्वरस्य स्यादन्यथा न स्यादिति ।

तत्त्वप्रकाशिका

अत्र भगवत्प्राप्तिसाधनभक्त्यर्थं तस्य भक्त्यनुसारिफलदानसमर्थनादस्ति शास्त्रादिसङ्गतिः । भक्त्यनुसारिफलाभावे तत्करणानुपपत्तेस्तदर्थतो निरूप्यते । प्रकृता भक्तिरेव विषयः । किं भक्तेष्वेक-प्रकारा वृद्धिह्रासवती वेति सन्देहः । उभयविधधर्मदर्शनं सन्देहबीजम् । एकप्रकारैवेति पूर्वः पक्षः । तत्फलस्य मुक्तत्वानन्दित्वादेः सर्वेषु साम्यात् । अन्यथा फलसाम्येऽपि साधनातिशयस्य वैयर्थ्यं केषाञ्चिदसम्यङ्मुक्तिर्वा स्यात् । न चैवम् । अतो भक्तिरेकप्रकारैवेति ।

सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ।। वृद्धीति ।। अस्त्येव भक्त्यादेः साधनस्य साधकेषु वृद्धिह्रासवत्त्वम् । ब्रह्मादीनामपि भक्तत्वात्तेषां चोत्तमफलत्वादन्येषामल्पफलत्वादिति भावः । महदल्पफलत्वेऽपि ब्रह्मादीनामन्येषां कुतो भक्तितारतम्यमित्यत आह ।। एवमिति ।। यदि विषम-फलानां ब्रह्मादीनामितरेषां च भक्तितारतम्यं स्यात् तर्ह्येव विषमफलदातुर्भगवतो वैषम्यादिदोषाभावः स्यान्न तु समभक्तीनां फलवैषम्ये । अतः फलवैषम्याऽन्यथाऽनुपपत्त्या भक्तेरपि वैषम्यमिति भावः । फलसाधनवैरूप्ये युक्तिविरोधमुक्त्वा स्मृतिविरोधं च दर्शयति ।। साधनस्येति ।। आनन्द-श्रुतिर्वक्ष्यमाणा ।

गुर्वर्थदीपिका

तत्करणानुपपत्तेरित्यस्य विचित्रभक्तिकरणानुपपत्तेरित्यर्थः ।

भावबोधः

भक्त्यनुसारिफलदानेति ।। भक्तेः सामान्यतो फलहेतुत्वसिद्धौ एतद्विशेषस्य स्वानुसारिफल-हेतुत्वचिन्तावसर इत्यनन्तरसङ्गतिरिति भावः ।। अर्थत इति ।। ब्रह्मादिषु भक्तेः वृद्धिह्रासवत्त्वे प्रतिपादिते हि भगवतस्तदनुसारिफलदानमर्थात् सिद्ध्यति । भगवतो भक्त्यनुसारिफलदानं विना भक्तेर्वृद्धिह्रासवत्त्वानुपपत्तेरिति भावः ।। किं भक्तेष्वेकप्रकारेति ।। अत्र भक्तिः किं ब्रह्मादिभक्तेषु एकप्रकारोत वृद्धिह्रासवतीति चिन्ता । तदर्थं ब्रह्मादिमनुष्यान्तानां तारतम्यं भक्त्यादिसाधन-तारतम्यसाधकं न भवत्युत भवतीति । तदर्थं फलतारतम्यरूपहेतोर्व्याप्तिपक्षधर्मते न स्त उत स्त इति । मुक्तत्वादिगुणसाम्याद् ब्रह्मादीनां भक्त्यादिगुणसाम्यमिति न्यायविवरणानुसारेण पूर्वपक्ष-माह– एकप्रकारैवेति ।। अनेन ब्रह्मादीनां भक्त्यादिगुणसाम्यमित्ययमंशो व्याख्यातः । तत्फल-स्येत्यनेन हेत्वंशश्च । आदिपदेननिर्दुःखादेर्ग्रहणम् । हेतोरप्रयोजकतापरिहारार्थमाह– अन्यथेति ।। फलसाम्यमेवासिद्धमित्यत आह– केषाञ्चिदसम्यगिति ।। मुक्तिः संसारनिवृत्तिरूपेत्यर्थः । भक्त्यादेरिति ।। आदिपदेन ज्ञानोपासनादिकम् । यद्यपि भक्तेरेव वृद्धिह्रासभाक्त्वं साधनीयम् । अत एव सुधायामस्ति भक्तेर्वृद्धिह्रासभाक्त्वमित्येवोक्तम् । तथाप्यपरोक्षज्ञानादिसाधनतारतम्याभावे तत्साध्यमुक्तिजनकभक्तौ तारतम्यं न सिध्येदिति ‘प्रज्ञान्तरपृथक्त्ववद्दृष्टिश्च तदुक्तम्’ इति वक्ष्यमाणं ज्ञानादिना तारतम्यं हेतुत्वेन दर्शयितुं भाष्ये ज्ञानादेरिति न्यायविवरणे भक्त्यादीत्युक्त-मिति भावः । उत्तमानामित्यस्याभिप्रायमाह– तेषां चोत्तमफलत्वादिति ।। अन्येषामल्प-फलत्वादिति ।। अनेन भाष्ये उत्तमानामित्यतः परं मनुष्योत्तमानामल्पानां चेतीति शेष इत्युक्तं भवति । अत एव सुधायाम् ‘अन्तर्भावात्’ इति सौत्रो हेतुः ब्रह्मादीनामस्मदादीनां च भक्तत्वेऽन्तर्भावादिति व्याख्यातः । तथा च ब्रह्मादीनामुत्तमानां मनुष्योत्तमानामल्पानां चेत्येवं सर्वेषां मुक्तियोग्यानां भक्तत्वेऽन्तर्भावादिति भाष्ययोजना सूचिता भवति । अनेन ब्रह्मादि-मनुष्योत्तमान्ताः, तारतम्योपेतभक्तिज्ञानादिसाधनवन्तः, तारतम्योपेतानन्दादिफलवत्त्वादित्यनु-मानमुक्तं भवति । व्याप्तिसाधनतर्कप्रदर्शनपरमेव भक्त्यादीति भाष्यम् । तन्निवर्तनीयाशङ्का-प्रदर्शनपूर्वमेवं भक्त्यादीति भाष्यमवतार्य व्याचष्टे– महदल्पफलत्वेऽपीत्यादिना ।। स्मृतिविरोधं चेति ।। उपलक्षणमेतत् । यथा यथा अधिकार इति न्यायविवरणोदाहृतश्रुतिविरोधोऽपि द्रष्टव्यः ।

भावदीपः

भक्त्यनुसारिफलदानेति ।। आर्थिकाभिप्रायमेतत् । कण्ठतो भक्तितारतम्योक्तेः । एतेन पूर्वत्र भक्तेः सम्यक्स्वरूपाभिव्यक्तिफलकत्वोक्तावत्र तर्हि तदैकरूप्यात्साप्येकरूपैव स्यात् । अन्यथा तया केषाञ्चित्सम्यगभिव्यक्तिर्नेत्यापत्तेरिति शङ्कनात्सङ्गतिस्सूचिता । साक्षान्न श्रूयत इत्यत आह ।। तदर्थत इति ।। फलमत उपपत्तेरिति वक्ष्यमाणन्यायेन फलदातुरीश्वरस्य सामञ्जस्योपपत्तये भक्तितारतम्योक्तावर्थात्फलवैषम्येण भक्तिवैषम्यसिद्धेर्भक्त्यनुसारिफलमित्येतदर्थात्सिध्यतीत्यर्थः । एतेन ‘तद्भक्तितारतम्येन तारतम्यं विमुक्तिगम्’ इत्युक्तिरार्थिकाभिप्रायेति सूचितम् ।। उभय-विधेति ।। लोके देवतान्तरभक्तेषु केषुचिदेकप्रकारायाः केषुचिद्द्विरूपाया भक्तेर्दर्शनमित्यर्थः । यद्वोभयविधवस्तूनां लोके दर्शनमित्यर्थः । मुक्तत्वादिगुणसाम्याद्ब्रह्मादीनां भक्त्यादिगुणसाम्यमित्य-न्यत्रोक्तप्रतिज्ञाहेतू व्यनक्ति ।। एकेति ।। अन्यथेति ।। साधनतारतम्य इत्यर्थः ।। फलसाम्येऽ-पीति ।। साधनतारतम्य इति पूर्वेणान्वयः । केषाञ्चित् न्यूनभक्तिमताम् ।। न चैवमिति ।। जीवन्मुक्त्यविशेषापाताद्वा मुक्तेरपुमर्थत्वप्रसङ्गाद्वेति भावः ।। अत इति ।। तत्फलस्य मुक्तत्वादेः साम्यादित्यर्थः ।

भाष्यं व्याचष्टे ।। अस्त्येवेति ।। भाष्ये ज्ञानस्य पृथगुक्तेर्भक्तिपदेन तदेकदेशस्नेहस्य ग्रह इति भावेनोक्तं भक्त्यादेरिति । भाष्ये पृथगुपादानं तु पूर्वसूत्रे स्नेहज्ञानयोः पृथगुक्तेः तदनुवृत्तिसूचनाय । तत्वप्रदीपे तु भक्त्यंशत्वेऽपि ज्ञानस्य पृथगुक्तिः स्नेहबहुमानात्मको भाव एवापरोक्षज्ञानसाधनमिति सूचयितुमित्युक्तम् । पूर्वस्मादम्बुवद्ग्रहणपदाभ्यां भक्तेरेवात्र प्रकृतत्वेऽपि सा वैराग्यादेरुपलक्षणमिति भावेनादिपदप्रयोगः । कियानादिपदार्थ इत्यनियमनिरासायाह ।। साधनस्येति ।। एतेन प्रज्ञान्तरपृथक्त्ववद्दृष्टिश्चेत्यत्र ध्यानतारतम्येन तत्फलस्य दृष्टेः तारतम्योक्तिरयुक्ता ध्यानतारतम्यस्य क्वाप्यनुक्तेरिति प्रत्युक्तम् । अत्रैव भक्त्युपलक्षितसाधनमात्रस्य तत्सिद्धेरिति । यावदधिकारमित्यत्र तु प्राचीनयोग्यताभेदनिबन्धना मुक्तौ तारतम्येनावस्थितिः । न तु साधकप्रयत्नैकनिबन्धनेत्युच्यत इति भेदः । तद्भक्तितारतम्येन तारतम्यं विमुक्तिगमित्यनुभाष्यसङ्क्षेपभाष्ये तु भूयस्त्वात्त्वनुबन्ध इति न्यायेन प्राधान्याभिप्राये ।। तेषां चोत्तमफलत्वादिति ।। सर्वाभेदादन्यत्रेम इत्यत्र वक्ष्यमाणन्यायेनेति भावः । सामञ्जस्यशब्दार्थमाह ।। वैषम्यादिदोषाभाव इति ।। स च प्राक् वैषम्यनैर्घृण्ये न सापेक्षत्वादित्यत्र युक्तिपादे समर्थित इति भावः ।। युक्तीति ।। ईश्वरसामञ्जस्यानुपपत्तिरूप-युक्तीत्यर्थः ।

अभिनवचन्द्रिका

तस्येति ।। परमात्मनो भक्त्यनुसारिफलदाने तत्र भक्तिः स्यात् । अन्यथा वैषम्यादिदोषवति विश्वासाभावात् भक्तिर्न स्यादिति भावः । नन्वत्र सूत्रे भक्त्यादितारतम्यमेव प्रतिपाद्यं दृश्यते । न तु भगवतो भक्त्यनुसारिफलदातृत्वमित्यत आह– अर्थतो निरूप्यत इति ।। यद्यपि साक्षा द्भक्तितारतम्यमेवेह प्रतिपाद्यते, तथापि अर्थाद्भगवतो भक्त्यनुसारिफलदातृत्वेन सिध्यतीति भावः । ननु आर्थिकार्थेन भक्त्यनुसारिफलदानेनाऽस्य पादसङ्गतिः किमर्थमुच्यते । वाचनिकार्थेन भक्तितारतम्येनैव पादान्तर्भावः किं नोच्यत इति चेत्, न भक्त्युत्पादार्थं भगवन्महिमोक्तेरेव पादार्थत्वेन भक्तिस्वरूपनिरूपणमात्रस्याऽपादार्थत्वात् ।। एकप्रकारैवेति ।। ब्रह्मादीनां, मनुष्योत्त-मानां च, एकप्रकारेत्यर्थः ।। तत्फलस्येति ।। साक्षात् तत्फलस्य मुक्तत्वस्य, तत्प्रयुक्तानन्दाद्या-विर्भावस्य च, सर्वेषु साम्यादित्यर्थः । भक्तिफलं तावदावरणनिवृत्तिरेव । सा च सर्वेषु समा । अभावे तारतम्याभावात् । आनन्दतारतम्येऽपि न तदभिव्यक्त्यर्थं भक्तितारतम्यमपेक्षितम् । आनन्दाभिव्यक्तेरतत्कार्यत्वात् । तद्यथा समाभ्यां प्रदीपाभ्यां गृहद्वयवृत्त्यन्धकारविनाशे यत्र यावदस्ति तत्र तावत्स्वयमेवोपलभ्यते न तु अधिकपदार्थदर्शनाय प्रदीपतारतम्यमपेक्षितमिति भावः ।। अन्यथेति ।। फलसाम्येऽपि आवरणनिवृत्तिरूपस्य फलस्य साम्येऽपि । यदि साधन-तारतम्यमङ्गीक्रियते, तदा वक्तव्यम् मनुष्योत्तमेषु विद्यमाना भक्तिः सम्यगावरणनिवृत्तौ समर्था वा न वा । आद्ये ब्रह्मादिषु भक्तिभागवैयर्थ्यम् । इतरांशेनैव फलसम्भवात् । द्वितीये मनुष्यादीना-मसम्यङ्मुक्तिः स्यादित्यर्थः । वाशब्दो व्यवस्थितविकल्पार्थो बोध्यः ।। तेषां चोत्तमफलत्वादिति ।। मोक्षस्य अधमैः साम्येऽपि आनन्दरूपभक्ति फलस्यात्त्युत्तमत्वादित्यर्थः । आनन्दस्य मोक्षवत् साक्षाद्भक्तिफलत्वमेव, न तु आवरणनिवृत्तौ स्वयमेवानन्दाभिव्यक्तिर्भवति, ‘साधनस्योत्तमत्वेन साध्यं चोत्तममाप्नुयुः’ इति वचनादिति भावः । ननु अनन्दसाधनमपि भक्तिः न प्रधानसाधनम्, अपि तु भगवानेव । ततश्च भक्तिसाम्येऽपि स्वतन्त्रत्वात्प्रसन्नः परमात्मा महदल्पं च फलं पुरुष-वदेव दद्यात् । तद्यथा महाराजोऽमात्यादिभिः सेवितोऽपि केषाञ्चिदल्पम्, अन्येषां महत्फलं ददातीति शङ्कते महदल्पफलत्वेऽपीति ।। एतेन फलतारतम्यस्य साधनतारतम्याधीनत्वात्फल-तारतम्यमङ्गीकृत्य, साधनतारतम्याक्षेपो न युक्त इति परास्तम् ।। वैषम्यादिदोषाभावः स्यादिति ।। अप्रामाणिकवैषम्याद्यप्रसक्तिः स्यादित्यर्थः । एतेन इतेरषां नरकादिहेतुत्वेन वैषम्यादेर्दोषत्वेऽपि न परमात्मनस्ते दोषाः तदहेतुत्वात् । अन्यथा सर्वसंहर्तुर्भगवतः ब्रह्महत्यादयोऽपि दोषाः स्युरिति परास्तम् । अप्रामाणिकत्वेनैव तेषां दोषत्वाङ्गीकारात् । प्रसिद्धं हि प्रामाणिकपरित्यागवत् अप्रामाणिकस्वीकारोऽपि दोष इति ।

पूर्वपक्षस्तु ब्रह्मादीनां मनुष्योत्तमानां च भक्तिरेकप्रकारैव । मोक्षरूपैकफलभागित्वात् । न हि यावत्या भक्त्या मनुष्योत्तमानां मोक्षो भवति तावत्या ब्रह्मादीनां मोक्षसम्भवे अधिकानुष्ठानाय प्रेक्षावतां प्रवृत्तिः सम्भवति । अथ न तावती भक्तिः तेषां मोक्षसाधनायालम् । हन्त तर्हि मनुष्योत्तमानामपि मुक्तिर्न स्यात्, पर्याप्तसाधनाभावात् । न हि दुःखाभावरूपे मोक्षे तारतम्य-मस्ति । येन भक्तितारतम्यमुपपन्नं स्यात् । अतो भक्तिरेकप्रकारैवेति ।

सिद्धान्तस्तु नैकप्रकारा सर्वेषां भक्तिः । किंतु वृद्धिह्रासवती । अन्यथा प्रमाणसिद्धं सर्वभक्तान्प्रति परमेश्वरस्य सामञ्जस्यं न स्यात् । ‘साधनस्योत्तमत्वेन साध्यं चोत्तममाप्नुयुः । ब्रह्मादयः क्रमेणैव यथाऽऽनन्दः श्रुतौ श्रुत इति स्मृतेश्च । ननु भवेत्साधनतारतम्यं यदानन्दतारतम्यं स्यात् तदेव कुत इति चेत्– ‘अथात आनन्दस्य मीमांसा भवति’ इत्यादिश्रुतिसिद्धत्वात् । ‘यथा भक्तिविशेषोऽत्र दृश््यते पुरुषोत्तमे । तथा मुक्तिविशेषोऽपि ज्ञानिनां लिङ्गभेदने’ इति स्मृतेश्च । अतो भक्तेः फलानुसारेण तारतम्यसद्भावेन ईश्वरस्य विषमत्वाभावात् युक्ता तत्र भक्तिरिति सिध्दम् ।

वाक्यार्थमुक्तावली

भक्त्यनुसारीति ।। सामान्यतो भक्तिफलदातृत्वे समर्थित एव तदनुसारिफलदातृत्वविचारावसर इत्यनन्तरसङ्गतिः ।। तत्करणानुपपत्तेरिति ।। साधनाधिक्येऽपि साध्यस्याल्पत्वे तदल्पत्वेऽपि साध्यबाहुल्ये च तस्य साधनत्वाभावेन तत्करणानुपपत्तेस्तद्भक्त्यनुसारि फलं निरूप्यते इत्यर्थः । यद्वा भक्त्यनुसारिफलाभावे वैषम्यनैर्घृण्यवति भक्त्यनुत्पादात्तद्भक्त्यनुसारिफलं निरूप्यत इत्यर्थः । ननु ब्रह्मादिभक्तेः तारतम्यमत्र निरूप्यते न तु तदनुसारिफलं निरूप्यत इत्यर्थः । भगवन्महिमोक्तिपरपादान्तर्भावसिद्धये आर्थिकार्थस्यानुसरणीयत्वादिति भावः ।। किं भक्तेष्विति ।। अत्र भक्तिः किं ब्रह्मादिष्वेकप्रकारोत वृद्धिह्रासवतीति चिन्ता । तदर्थं तेषु फलतारतम्यं नास्त्युता-स्तीति । सिद्धान्ते आनन्दादिगुणतारतम्योक्त्या सूचितं साम्यमित्युक्तन्यायं प्रदर्शयन्पूर्वपक्षमाह ।। तत्फलस्येति ।। मुक्तत्वं लिङ्गदेहात् । आनन्दित्वमलं बुद्धिगोचरपरानन्दवत्वम् । आदिपदेन ‘निर्दुःखत्वं, निर्दुःखत्वं परानन्दो लिङ्गभेदः समा मता’ इत्युक्तेरिति भावः । अस्त्वावरण-निवृत्त्यादिफलसाम्यं भक्तितारतम्यं च भवतु इत्यप्रयोजको हेतुरिति चेदेवं वदन् प्रष्टव्यः । आवरणनिवृत्त्यादिफलसाम्ये किमस्मदादौ विद्यमानाल्पा भक्तिः पर्याप्ता न वा । आद्ये दोषमाह ।। अन्यथेति ।। साध्यं विनापि फलसाम्याङ्गीकारे फलसाम्यं प्रति चास्मदादिनिष्ठभक्तिमात्रस्य पर्याप्तत्वे ब्रह्मादावस्मदधिकसाधनभागस्य वैय्यर्थ्यं स्यादित्यर्थः । फलसाम्यं प्रत्यस्मदादिनिष्ठा भक्तिर्न पर्याप्ता किन्त्वधिकाप्यपेक्षितेति द्वितीये दोषमाह ।। केषाञ्चिदिति ।। अस्मदादिनिष्ठभक्तेः फलसाम्यं प्रत्यपूर्णत्वात्केषाञ्चिदसम्यङ्मुक्तिः स्यादित्यर्थः । वाशब्दो व्यवस्थितविकल्पे । तर्कद्वयस्य विपर्यये पर्यवसानमाह ।। न चैवमिति ।। भावबोधे तु फलसाम्यमेवासिद्धमित्यत आह ।। केषाञ्चिदसम्यगिति ।। मुक्तिः संसारनिवृत्तिरूपेत्यर्थ इत्युक्तम् ।

सूत्रे अम्बुवदग्रहणपदोक्ता भक्तिरन्वेतीति भावेन भाष्ये तस्य च भक्तिज्ञानादेरित्युक्तम् । ज्ञानादेरित्यादिपदेन भक्तिसाधनवैराग्यस्य तत्साध्योपासनस्य च ग्रहणम् । यद्यपि भक्तेरेव वृद्धिह्रासवत्वं साधनीयम् । अत एव सुधायां अस्ति भक्तेर्वृद्धिह्रासवत्वमित्येवोक्तं तथापि भक्ति-साधनसाध्यतारतम्याभावेऽधिकरणार्थमुक्तिफलतारतम्यं न सिद्ध्येदिति साधनान्तरस्यापि ग्रहणम् । ननु प्रज्ञान्तरपृथक्त्ववद्दृष्टिश्च तदुक्तमित्यत्रोपासनाभेदवद्दर्शनभेदस्य वक्ष्यमाणत्वात् अत्र भक्तेरित्येव वाच्यमिति चेन्न । वक्ष्यमाणानुकूल्याय भक्तितारतम्यमेवोपासनादितारतम्यसाधनमिति वक्तुं भाष्यकृता ज्ञानादिग्रहणोपपत्तेः । यद्वा तत्त्वप्रदीपोक्तदिशा भाष्ये भक्तिपदेन तदेकदेशस्नेह उच्यते । ज्ञानपदेन भक्त्यंशो ज्ञानं, आदिपदेन वैराग्यं, त्रयाणां पूर्वप्रकृतत्वात् तच्छब्देन पूर्वप्रकृतपरामर्शो-पपत्तिः, नापि वक्ष्यमाणस्य गतार्थतेति भावेन भाष्यार्थमाह ।। अस्त्येवेति ।। ब्रह्मादीनां सर्वेषामुत्तमानामित्यत्र ब्रह्मादीनामुत्तमानां मनुष्यादीनामधमानां चेति सर्वेषामित्यर्थं मत्वाह ।। ब्रह्मादीनामिति ।। उत्तमत्वमधमत्वं चानन्दादिफलानुभवकृतमिति भावेनाह तेषां चेति ।। एतेन ब्रह्मादयो भक्त्यादिसाधनतारतम्यवन्तः आनन्दादिफलतारतम्यवत्वात् इत्यनुमानमुक्तं भवति । हेतोरप्रयोजकत्वमाशङ्क्य विपक्षे बाधकप्रदर्शकत्वेनैवमित्यादिभाष्यं व्याचष्टे महदिति ।। सूत्रे एवमित्यस्य एवं सत्येवेत्यर्थः । परस्येत्यनुवर्तते । उभयसामञ्जस्यादित्यस्योभयान्प्रति सामञ्जस्य सम्भवादित्यर्थः । एवं सत्येवेत्यनेनान्यथासम्भवादित्यर्थः ।। फलसाधनवैरूप्य इति ।। फलमनेकरूपं साधनं तु नेत्येवं वैरूप्ये सूत्रोक्ततर्कबाधमुक्त्वा स्मृतिविरोधं स्वयं दर्शयतीत्यर्थः ।

तत्त्वसुबोधिनी

भक्त्यनुसारिफलदानेनेति ।। भक्तेः सामान्यतः फलहेतुत्वसिद्धावेव तद्विशेषस्यानुसारि-फलहेतुत्वचिन्तावसर इत्यनन्तरसङ्गतिरिति भावः ।। अर्थत इति ।। ब्रह्मादिषु भक्तेर्वृद्धिह्रासवत्वे प्रतिपादिते भगवतः तदनुसारिफलदानमर्थात्सिद्ध्यतीति भगवतो भक्त्यनुसारिफलदानं विना भक्तेर्वृद्धिह्रासवत्वानुपपत्तेरिति भावः । तत्र हेतुमाह ।। तत्फलस्येति ।। नन्वस्तु मुक्तानन्दित्वादेः साम्यम् । तथापि भक्तेः भिन्नप्रकारत्वं कुतो नेत्यप्रयोजकत्वमित्यत आह ।। अन्यथेति ।। फलसाम्येऽपि साधनस्य बहुप्रकारत्वे इत्यर्थः । फलसाम्यमेवासिद्धमित्याह ।। केषाञ्चिदिति ।। मुक्तिः संसारनिवृत्तिरूपेत्यर्थः । भक्त्यादेरित्यादिपदेन ज्ञानोपासनादिकम् । यद्यपि भक्तेरेव वृद्धिह्रासभाक्त्वं साधनीयम् । तथापि अपरोक्षज्ञानादिसाधनतारतम्याभावे तत्साध्यमुक्तिजनकभक्तौ तारतम्यं न सिद्ध्येदिति ज्ञानादितारतम्यं हेतुत्वेन दर्शयितुं भाष्ये ज्ञानादेरित्युक्तमिति भावः । अस्तु तेषां भाक्त्वं ततः किमित्यत आह ।। तेषां चेति ।। अनेनोत्तमानामिति भाष्याभिप्राय उक्तो भवति ।। अन्येषामिति ।। अनेनोत्तमानामित्यतः परं मनुष्योत्तमानामल्पानां चेत्येव सर्वेषां मुक्तियोग्यानां भक्तत्वेंऽतर्भावादिति भाष्ययोजना सूचिता भवति । अनेन ब्रह्मादिमानुषोत्तमान्ताः ज्ञानिनः तारतम्योपेतभक्तिज्ञानादिसाधनवन्तः । तारतम्योपेतानन्दादिफलवत्वादित्यनुमानमुक्तं भवति । व्याप्तिसाधकतर्कप्रदर्शनपरमेव भक्त्यादीति भाष्यं तन्निवर्तनीयाशङ्काप्रदर्शनपूर्वकमवतार्य व्याचष्टे ।। महदल्पेति ।। फलसाधनवैरूप्येति ।। अधिकारिणां फलस्य वैषम्यं साधनसाम्यमिति । वैरूप्ये इत्यर्थः । तर्हि फलतारतम्यं कथं घटत इत्यत आह ।। फलेति ।।

वाक्यार्थविवरणम्

उभयविधेति ।। आत्मत्वादिधर्मा एकप्रकाराः । ज्ञानाद्यास्तु धर्मा वृद्धिह्रासवन्त इत्यर्थः ।। मुक्तत्वेति ।। लिङ्गभङ्गरूपेत्यर्थः । ब्रह्मादीनां भक्तिरेकप्रकारा तत्फलभूतमुक्तत्वादेः समत्वा-दित्यनुमानेऽप्रयोजकतां परिहरति ।। अन्यथेति ।। फलसाम्ये साधनभूतभक्तेरेकप्रकारत्वाभावे । तद्विवरणं फलसाम्येऽपीति ।। भक्तेरेकप्रकारत्वाभाव इति शेषः ।। वैय्यर्थ्यमिति ।। फलवैषम्ये स साधनातिशयो युक्तः । न चैवमिति भावः । फलसाम्यमेवासिद्धमिति चेत्तत्राह ।। केषाञ्चिदिति ।। असम्यगिति ।। बहुभक्तिमतो बह्वीअल्पभक्तिमतोऽल्पा लिङ्गभङ्गरूपा मुक्तिः स्यादित्यर्थः । अनिष्टं चेदम् । ध्वंसे तारतम्यायोगादिति द्रष्टव्यम् ।। विषमफलदातुरिति ।। भक्तिरूपसाधनमपेक्ष्य तदनुसारेणेति शेषः ।। फलसाधनवैरूप्य इति ।। फलमविचित्रं भक्तिरूपं साधनं विचित्रमित्येवं फलसाधनयोर्वैचित्र्यावैचित्र्यरूपवैरूप्याङ्गीकारे भगवतो वैषम्यादिदोषप्राप्तिरूपयुक्तिविरोध-मुक्त्वेत्यर्थः ।

वाक्यार्थमञ्जरी

अर्थत इति ।। ब्रह्मादिषु भक्तेर्वृद्धिह्रासवत्त्वरूपतारतम्ये प्रतिपादिते भगवतस्तदनुसारिफल-दानमर्थात्सिद्ध्यति । भगवतो भक्त्यनुसारिफलदानं विना भक्तेर्वृद्धिह्रासवत्त्वनुपपत्तेरिति भावः ।। मुक्तत्वेति ।। संसारध्वंसवत्त्वेत्यर्थः । साम्यहेतोरप्रयोजकत्वं परिहरति ।। अन्यथेति ।। फल-साम्येऽपि साधनतारतम्याङ्गीकार इति भावः । साम्यमेवासिद्धमित्यत आह ।। केषाञ्चिदिति ।। मुक्तिः संसारनिवृत्तिः ।। ॐ वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामंजस्यादेवम् ॐ ।। भक्तेर्वृद्धिह्रासभाक्त्वं आधिक्यन्यूनतावत्त्वमस्ति । कुतः ? अन्तर्भावात् महाफलवतां ब्रह्मादीनामल्पफलवतामस्मदादीनां भक्तत्वेऽन्तर्भावादेवं भक्तितारतम्याङ्गीकार एव परमात्मनः उभयान् ब्रह्मादीनस्मदादींश्च प्रति सामंजस्यात् समीचीनत्वसम्भवादित्यर्थः । वैरूप्ये वैषम्ये ।


Load More