ॐ भूतेषु तच्छ्रुतेः ॐ
४. भूताधिकरणम्
सूत्रभाष्यम्
।। ॐ भूतेषु तच्छ्रुतेः ॐ ।। ५ ।।
भूतेष्वन्येषां देवानां लयः । ‘भूतेषु देवा विलीयन्ते भूतानि परे न पर उदेति नास्तमेत्यकल एव मध्ये स्थाता’ इति बृहच्छ्रुतेः ।।
।। इति भूताधिकरणम् ।। ४ ।।
तत्त्वप्रदीपिका
अत्रोक्तेभ्योऽन्येषां देवानां भूतेषु लयः ।
तत्त्वप्रकाशिका
अत्र देवानां परमात्मप्राप्त्यर्थं समस्तभूतेषु लयसमर्थनादस्ति शास्त्रादिसङ्गतिः । अग्नावेव सर्वलये प्रागुक्तन्यायबाधः स्यादतः समर्थनीयमेतत् । ‘अग्नौ सर्वे देवा विलीयन्ते’ इत्युक्तदेवा विषयः । किमेकस्मिन्नग्नावेव लीयन्ते उत भूतान्तरेऽपीति सन्देहः । श्रुतिरन्याधीनत्वं च सन्देहबीजम् । अग्नावेव सर्वदेवानां लय इति पूर्वः पक्षः । ‘अग्नौ सर्वे देवा विलीयन्ते’ इति श्रुतिर्विपर्यये प्रमाणा-भावाच्च । न चान्याधीनत्वादन्यत्र लयः । नियामकानां बाहुल्येन तस्यानिर्णायकत्वात् । अतोऽशेषदेवानामग्नावेव लयाद्यदुक्तमधमानामुत्तमेषु लय इति तदयुक्तमिति । सिद्धान्तयत्सूत्र-मुपन्यस्य व्याचष्टे ।। भूतेष्विति ।। येऽत्र विशिष्योक्तेभ्योऽन्ये देवास्तेषां पञ्चस्वपि भूतेषु लयो न त्वेकस्मिन्नग्नावेव । ‘भूतेषु देवा’ इति श्रुतेरेवेत्यर्थः । ‘अत्र भूतानि परे’ इति न साक्षात् । आकाशोर्व्योर्बृहस्पतिद्वारा । भूतवायोः प्रवहस्येन्द्रद्वारा । अपां सोमद्वारेऽपि अतः सर्वेषामग्नौ लयाभावादुक्तं युक्तमिति सिद्धम् ।।
गुर्वर्थदीपिका
येऽत्र विशिष्योक्तेभ्य इत्यस्याग्नावग्नय इति विशिष्योक्तेभ्य इत्यर्थः ।
भावबोधः
अग्नावेव सर्वलये प्रागुक्तन्यायबाधः स्यादिति । पूर्वाधिकरणेषु वागादीनां मनआदिषु लये तन्नियामकतया ततोऽधमत्वं यद्धेतुतयोक्तम्, तन्न युक्तम् । अग्नौ सर्वे देवा विलीयन्त इत्यग्न्युत्त-मानामप्यग्नौ लयस्य श्रुतत्वेन व्यभिचारादित्याक्षेपोत्थानादनन्तरसङ्गतिरिति भावः ।। किमिति ।। केचिद्देवा अग्नौ केचिद्भूतान्तरेऽपीत्यर्थः । अत्र सर्वे देवाः किमेकस्मिन्नग्नावेव लीयन्ते उत सर्वेष्वपि भूतेषु लीयन्त इति चिन्ता । तदर्थं अग्नौ सर्वे देवा विलीयन्ते इति श्रुतिः किम-सङ्कुचितार्थोत सङ्कुचितार्थेति । तदर्थं सर्वेष्वपि भूतेषु देवानां लये विशेषप्रमाणं नास्त्युतास्तीति ।। अन्याधीनत्वमिति ।। इन्द्राश्विन्यादीनां वायुवरुणादिभूतान्तराधीनत्वमित्यर्थः ।। विपर्यय इति ।। भूतान्तरे लय इत्यर्थः ।। नियामकानां बाहुल्येनेति ।। अश्विनिप्रभृतिनियामकानां वायुवरुणादि-भूतानां च बाहुल्यमित्यर्थः ।। अत्र ये विशिष्योक्तेभ्य इति ।। ‘वाङ्मनसि’ इत्याद्यधिकरणत्रये शेषसुपर्णचतुर्मुखपरमात्मसु लीयमानत्वेनोक्तेभ्यो वारुणीसौपर्णीशेषसुपर्णचतुर्मुखेभ्य इत्यर्थः । तेषां विशिष्य लयोक्तेरुक्तसन्देहाविषयत्वादिति भावः । यद्यपि वारुण्यादिचतुर्णामिन्द्रादिवदस्ति वायौ देहलयः, तथापि न भूताभिमानित्वं तद्देहलयाधिकरणतावच्छेदकं, किं तु प्राणत्वमेव । इन्द्रादि-देहलयाधिकरणतावच्छेदकं तु, भूताभिमानित्वम् । ‘वायाविन्द्र इति’ तत्प्रतिपादकश्रुतौ इन्द्रादीनां ग्रहणाद्वारुण्यादीनामग्रहणादिति द्रष्टव्यम् । भूतेषु देवा इति श्रुतेरेवेति । तथा च विपर्यये प्रमाणाभावः सिद्ध इत्यर्थः । न चाग्नौ सर्वे देवा इति श्रुतिविरोधः, भूतेषु इति बहुवचनस्य निरवकाशत्वेन तच्छ्रुतेर्बाधितत्वात् । तस्याश्च सावकाशत्वस्य वक्ष्यमाणत्वात् । न च नियामक-बाहुल्येनानिर्णय इति वाच्यम् । वक्ष्यमाणश्रुत्यनुसारेण निर्णयोपपत्तेरिति भावः । तदिदमुक्तं श्रुतेरेवेति एवकारेण । ‘आकाश उर्वी च गुरुं प्रविश्य’ इत्यनुव्याख्यानं मनसि निधायाह– आकाशोर्व्योः बृहस्पतिद्वारेति ।। ‘‘शक्रं मरुद्गणाः’’ इत्यनुव्याख्यानं मनसि निधायाह– भूतवायोरिति ।। ‘सोमस्तु वारीशयुतः’ इत्यनुव्याख्यानं मनसि निधायाह– अपां सोमद्वारेति ।। अस्मिन्नधिकरणे ‘भूतेषु तच्छ्रुतेः’ ‘नैकस्मिन् दर्शयतो हि’ इत्यनयोरधिकरणयोरनतिभिन्नार्थ-कत्वात् पृथङ्न्यायविवरणाभावः । अत एव न्यायविवरणे ‘तन्मनः प्राण उत्तरात्’ इत्यधिकरण-सम्बन्धित्वेन अनुव्याख्यानोक्तकार्यकारणतादार्ढ्यलक्षणपूर्वोत्तरपक्षयुक्त्योः ‘सोऽध्यक्षे तदुपगमा-दिभ्यः’ इत्यस्मिन्नधिकरणे ‘सोऽध्यक्षे’ इत्यस्याप्येवमेवाशङ्कापरिहारश्चेत्यतिदेशवदत्र युक्त्यतिदेशो न कृतः ।
भावदीपः
समस्तभूतेष्विति ।। तत्र तत्र लये तत्तदधीनत्वस्यातन्त्रतया अग्नावेव लयद इति शङ्का-प्राप्ताविति भावः । तेन तदुपगमादिभ्य इत्यनेन प्रागुक्ततदधीनत्वहेतुना तत्र लय इत्युक्तस्याक्षेपा-त्पूर्वसङ्गतिरपि सूचिता । अत एवाह ।। प्रागुक्तन्यायबाध इति ।। अग्नौ अग्न्यभिमानिनि ।। भूतान्तरेऽपि भूतान्तराभिमानिन्यपीत्यर्थः ।। श्रुतिरिति ।। ‘अग्नौ सर्वे देवा’ इति श्रुतिः । अन्याधीनत्वं देवान्तराधीनत्वम् । विपर्यय इति देवान्तरे लय इत्यत्रेत्यर्थः । प्रागुक्तहेतुमेव प्रमाणत्वेनाशङ्क्य निराह ।। न चान्येति ।। बाहुल्येनेति ।। साक्षात्स्वनियामकमारभ्याध्यक्षपर्यन्तं नियामकानां बहुत्वेनेत्यर्थः । भाष्यं व्याचष्टे ।। अत्रेति ।। वाङ्मनसीति श्रुतौ विशिष्योक्तेभ्यो वागादिभ्य इत्यर्थः । भूतेषु स्वजनकभूतमानिष्वित्यर्थः । नियामकबहुत्वेऽपि यतो यस्योद्भवस्तत्र तस्य लय इति निर्णयोपपत्तेरिति भावः । भूतानां साक्षात्परे लयाभावात् । आकाश उर्वीच गुरुं प्रविश्येति शक्रं मरुद्गणा इति सोमस्तु वारीशयुतोऽनिरुद्धमित्यनुभाष्योक्तरीत्याऽऽह ।। अत्रेति ।। अत इति ।। पञ्चस्वपि भूतेषु लयश्रवणादित्यर्थः ।।
अभिनवचन्द्रिका
प्रागुक्तन्यायबाधः स्यादिति ।। ‘अग्नौ सर्वे देवा विलीयन्त’ इति उत्तमानामपि अग्नौ लयश्रवणात् तत्र लये ‘तदधीनत्वमेव प्रयोजकम्’ इत्युक्तन्यायबाधप्रसङ्गात् समर्थनीयमेतदित्यर्थः । किमिति ।। केचिदग्नौ, केचिद्भूतान्तरे, उत सर्वे अग्नावेव लीयन्त इति संदेह इत्यर्थः । विपर्यय इति ।। भूतान्तरेऽपि लय इत्यर्थः । येऽत्र विशिष्योक्तेभ्य इति । वाङ्मनसि’ इत्याद्यधिकरणत्रयोक्तेभ्यः वारुणीशेषसौपर्णीसुपर्णचतुर्मुखेभ्योऽन्ये ये देवाः तेषां यथायोगं पञ्चस्वपि भूतेषु लयः, न तु अग्नावेवेति नियम इत्यर्थः । यद्यपि वारुण्यादिचतुर्णाम् इन्द्रादिवदस्ति वायौ देहलय इति, उक्तेभ्योऽन्येषां भूतेषु लय इति न वक्तव्यम्, तथापि न भूताभिमानित्वं तद्देहलयप्रयोजकं, किन्तु प्राणत्वमेव । भूतेषु लयप्रतिपादक ‘वरुणोश्विनौ’ इत्यादिश्रुतौ ‘वायाविन्द्र’ इति विशिष्योक्तः । अन्यथा वायाविन्द्रादय इत्यवक्ष्यत् इति भावेन विशिष्योक्तेभ्योऽन्य इत्युक्तम् ।
पूर्वपक्षस्तु अग्नावेव सर्वेषां देवानां लयो न तु ऋभूणां पृथिव्याम्, अग्नीनामग्नौ, अश्विनोर्वरुणे, वायाविन्द्रस्य, साध्यानामाकाश इति सिद्धान्त्यभिमतो विभागेन भूतेषु लयः । ‘अग्नौ सर्वे देवा विलीयन्त’ इति श्रुतेः । विपर्यये च प्रमाणाभावात् । अतोऽशेषदेवानामग्नौ लयादुक्तमयुक्तमिति ।
सिद्धान्तस्तु नाऽग्नावेव सर्वेषां लयः विशिष्योक्तेभ्योऽन्येषां योग्यतानुसारेण तत्तद्भूतेषु लयः । ‘भूतेषु देवा विलीयन्ते’ इति श्रुतेः । न च ‘अग्नौ सर्वे देवा’ इति श्रुतिविरोधः । ‘भूतेषु’ इति निरवकाशबहुवचनश्रवणबलेन पूर्वश्रुतेः सङ्कोचनीयत्वात् । अतः सर्वेषामग्नौ लयाभावादुक्तं युक्तमिति सिद्धम् ।
वाक्यार्थमुक्तावली
प्रागुक्तन्यायबाध इति । योऽधमस्स उत्तमे लीयत इति न्यायबाधः । अधमेऽप्युत्तमलय-प्राप्तेरित्याक्षेपोत्थानादनन्तरसङ्गतिरिति भावः ।। किमिति ।। अत्र सर्वे देवाः किमग्नावेव लीयन्त उत सर्वेष्विति चिन्ता । तदर्थमग्नौ सर्वे देवा विलीयन्त इति श्रुतेः सङ्कोचकल्पकं विशेषप्रमाणं नास्त्युतास्तीति ।। अन्याधीनत्वमिति ।। इन्द्रादीनां वायुवरुणरूपभूतान्तराधीनत्वमित्यर्थः । नन्वग्नौ सर्वे देवा इति सर्वशब्दस्य सङ्कोचः किं न स्यादसंकुचितार्थत्वं कुत इत्यतस्तच्छ्रुतेरिति सूत्रनिरस्यमर्थक्लृप्तिरित्युक्तन्यायं प्रदर्शयितुमाह ।। विपर्यय इति ।। केषाञ्चित् भूतान्तरे लय इत्यत्र विशेषप्रमाणाभावेन निर्बाधयाऽनयैव श्रुत्या सर्वदेवानामग्नौ लय इत्यसङ्कुचितार्थक्लृप्त्युपपत्तेरिति भावः । युक्तिरूपं विपर्ययबोधकं प्रमाणमाशङ्क्यापाकरोति ।। न चेति ।। अश्विप्रभृतीनां वरुणा-द्यधीनत्वादित्यर्थः ।। नियामकानामिति ।। अश्विप्रभृतिनियामकानां वायुवरुणादिभूतानां बाहुल्येनेत्यर्थः । अत एव च सर्वाणीति सूत्रात्सर्वाणीत्यनुवर्तते । तथा च देवा इति लभ्यते । पूर्वविरोधपरिहाराय पूर्वोक्तेभ्योऽन्य इत्युपस्कर्तव्यम् । तथा च वाङ्मनसीत्याद्यधिकरणत्रये शेष-सुपर्णचतुर्मुखपरमात्मसु लीयमानत्वेनोक्तेभ्यो वारुणीसुपर्णीशेषसुपर्णचतुर्मुखेभ्योऽन्ये देवाः भूतेषु भूताभिमानिषु लीयन्ते । न त्वेकस्मिन्नग्नावेव । कुतः तच्छ्रुतेः भूतेषु देवानां लयस्य श्रवणादिति भावेन व्याचष्टे ।। येऽत्रेति ।। अनेन समानलोप इत्युक्तसिद्धान्तन्यायोऽपि भूतेषु देवा इति मानसाहित्यात्पञ्चस्वपि भूतेषु लोपो लयः न त्वग्नाविति सूत्रारूढो भवति । यद्यपि न्यायविवरणे-नैतौ पूर्वोत्तरपक्षन्यायावेतदधिकरणत्वेन योजितौ तथापि सम्बन्धदीपिकायां शङ्कराचार्यैरे-तदधिकरणेऽप्येतयोर्न्याययोर्व्याख्यातत्वादत्राप्यनुसन्धेयौ । तर्हि सोऽध्यक्ष इत्यत्राप्येवमेव शङ्का-परिहारश्चेति न्यायविवरणे पूर्वातिदेशवदत्रोत्तरानुकर्षो व्याख्येयः । प्रथमातिक्रमे कारणाभावश्चेति चेन्न । अस्याधिकरणस्य सामान्यतः भूतेषु देवा विलीयन्त इति सामान्यप्रमाणप्रदर्शकतया प्रष्टव्यत्वादुत्तरस्याभ्यधिकाशङ्कायां विशेषप्रमाणोपन्यासेन तत्परिहाराय प्रवृत्तत्वात्तस्य प्राधान्य-विवक्षायां तद्भेदाधिकरणत्वविजिज्ञापयिषया च न्यायविवरणे तत्रैव न्यायस्य विवृतत्वेऽप्यत्र तदनुकर्षाविरोधात् । स्पष्टं चैतत्सर्वं शङ्कराचार्यकृतसम्बन्धदीपिकायाम् । आकाश उर्वी च गुरुं प्रविश्य । शक्रं मरुद्गणः । सोमस्तु वारीशयुतोऽनिरुद्धमित्यनुव्याख्यानवचनानि मनसि निधायाह ।। आकाशोर्व्योरित्यादिना ।।
तत्त्वसुबोधिनी
अग्नावेव सर्वलय इति ।। पूर्वाधिकरणेषु वागादीनां मन आदिषु लये तन्नियम्य न्यायतोऽ-धमत्वं यद्धेतुतयोक्तं तन्न युक्तम् । अग्नौ सर्वे देवा विलीयन्ते इति अग्न्युत्तमानामप्यग्नौ लयस्य श्रुतत्वेन व्यभिचारादित्याक्षेपोत्थानादनन्तरसङ्गतिरिति भावः ।। किमिति ।। केचित् देवाः अग्नौ केचित् भूतान्तरेऽपीत्यर्थः । अन्याधीनत्वमिति ।। इन्द्राश्विन्यादीनां वायुवरुणरूपभूतान्तरा-धीनत्वमित्यर्थः ।। विपर्यय इति ।। भूतान्तरे लय इत्यर्थः ।। नियामकानां बाहुल्येनेति ।। अश्विनिप्रभृतिनियामकानां वायुवरुणादिभूतानां च बाहुल्यमित्यर्थः । अत्र विशिष्योक्तेभ्यः वारुणीसौपर्णीशेषसुपर्णचतुर्मुखेभ्य इत्यर्थः । तेषां विशिष्यलयोक्तेरुक्तसंदेहाविषयत्वादिति भावः । तथापि न भूताभिमानित्वं तद्देहलयाधिकरणतावच्छेदकं किं तु प्राणत्वमेव । इन्द्रादिदेहलयाधि-करणतावच्छेदकं तु भूताभिमानित्वम् । वायाविति तत्प्रतिपादकश्रुतौ इन्द्रियकानां ग्रहणात् वारुण्यादीनामग्रहणादिति द्रष्टव्यम् ।। भूतेषु देवा इति ।। तथा च विपर्यये प्रमाणाभावोऽसिद्ध इत्यर्थः । न चाग्नौ सर्वे देवा इति श्रुतिविरोधः । भूतेष्विति बहुवचनस्य निरवकाशत्वेन श्रुतिबाधितत्वात् । वक्ष्यमाणश्रुत्यनुसारेण निर्णयोपपत्या नियामकबाहुल्येनातिनिर्णयोऽपि चेति भावः । आकाशत्वेन आकाश उर्वीं च गुरुं प्रविश्य इत्यनुव्याख्यानं मनसि निधायाह ।। आकाशोर्व्योरिति ।। भूतवाय्वोरिति ।। शक्रं मरुद्गणा इत्यन्यत्रोक्तेरिति भावः ।।
वाक्यार्थविवरणम्
प्रागुक्तेति ।। अधमानामुत्तमेषु लयो नोत्तमानामधमेष्विति पूर्वोक्तन्यायबाधः स्यादित्यर्थः । ‘आकाश उर्वीं च गुरुं प्रविश्य तेनैव यातः पुरुहूतदेवम्’ इत्युक्तं मनसि निधायाह ।। आकाशोर्व्योरिति ।। विघ्नेशभूदेव्योरित्यर्थः ।। बृहस्पतिद्वारेति ।। बृहस्पतिशक्रसौपर्णी-सुपर्णसरस्वतीद्वारा परे लय इत्यर्थः । शक्रं मरुद्गणा इत्युक्तिं हृदि निधायाह ।। भूतवाय्वोरिति ।। इन्द्रद्वारेति ।। इन्द्रसौपर्णीसुपर्णवाणीचतुर्मुखद्वारा परे लय इत्यर्थः ।। अपां सोमद्वारेति ।। वरुणस्य सोमानिरुद्धकामवारुणीशेषवाणीचतुर्मुखद्वारा परे लय इत्यर्थः ।
वाक्यार्थमञ्जरी
प्रागुक्तेति ।। अत एव च सर्वाण्यनु इत्युक्तस्याधमानामुत्तमेषु लयस्य बाध इत्यर्थः ।। अन्याधीनत्वमिति ।। इन्द्राश्विन्यादीनां वायुवरुणरूपभूतान्तराधीनत्वमित्यर्थः ।। विपर्यय इति ।। भूतान्तरलय इत्यर्थः । नियामकबाहुल्येनेति ।। अश्विनीप्रभृतिनियामकानां वायुवरुणरूपभूतानां बाहुल्येनेत्यर्थः ।। ॐ भूतेषु तच्छ्रुतेः ॐ ।। प्रागुक्तेभ्योऽन्ये देवा भूतेषु पञ्चसु देहाभिमानिषु लीयन्ते न त्वेकस्मिन्नग्नौ कुतः तच्छ्रुतेः तस्य भूतेषु देवलयस्य भूतेषु देवा इति श्रवणादित्यर्थः ।। अत्र विशेष्योक्तेभ्य इति ।। वाङ्मनसीत्याद्यधिकरणत्रये शेषसुपर्णचतुर्मुखपरमात्मसु क्रमेण लीयमानत्वेनोक्तेभ्यो वारुणीसौपर्णीशेषसुपर्णचतुर्मुखेभ्य इत्यर्थः । तेषां विशिष्यलयोक्तेरुक्त-सन्देहाविषयत्वादिति भावः ।।
।। इति भूताधिकरणम् ।। ४ ।।