ॐ अन्तर उपपत्ते: ॐ
४. अन्तराधिकरणम्
सूत्रभाष्यम्
आदित्ये विष्णुरित्युक्तम् । "य एष आदित्ये पुरुष सोऽहमस्मि स एवाहमस्मी’-(छां.उ.४-११)त्यादावग्नीनामेवाऽऽदित्यस्थत्वमुच्यते । अतोऽक्ष्यादित्ययोरैक्याद् "य एषोऽन्तरक्षिणि पुरुषो दृश्यत’ (छां.उ.४-१५) इत्यत्राप्यग्निरेवोच्यते । अत"स्तद्यथा पुष्करपलाश आपो न श्र्लिष्यन्त एवमेवंविदि पापं कर्म न श्र्लिष्यत’ (छां.उ.४-१४) इत्यग्निज्ञानादेव सर्वपापाश्र्लेषान्मोक्षोपपत्तिरिति । अतोऽब्रवीत् ।
॥ ॐ अन्तर उपपत्ते: ॐ ॥ १३ ॥
चक्षुरन्तस्थो विष्णुरेव । "त्रिपादस्यामृतं दिवी’ (ऋ.सं.१०-९०-३) त्यादिना तस्यैवा-मृतत्वाद्युपपत्ते । ब्रह्मशब्दाद्युपपत्तेश्र्च । सोऽहमस्मीत्यादि त्वन्तर्याम्यपेक्षया ।
"अन्तर्यामिणमीशेषमपेक्ष्याहं त्वमित्यपि ।
सर्वे शब्दा प्रयुज्यन्ते सति भेदेऽपि वस्तुषु’ इति महाकौर्मे ॥ १३ ॥
सत्तकदीपावली
इदमाम्नायते । य एषोऽन्तरक्षिणि पुरुषो दृश्यत एष आत्मेति । अत्रात्मेतिशब्दनिर्दिष्टोऽक्षिस्थपुरुष कोऽयमिति विचार्यते । अत्राधस्तनवाक्यादादित्यस्थ पुरुष तावदग्निरेवावगम्यते । "अथ हैनं गार्हपत्योऽनुशशास’ "य एष आदित्ये पुरुषो दृश्यते सोऽहमस्मीति स एवाहमस्मीति’ स यथा चन्द्रस्थ-पुरुषोऽह्निविशेषावगतोऽथ हैनमन्वाहार्यपचनोऽनुशशास य एष चन्द्रमसि पुरुषो दृश्यते सोऽहमस्मीति’ । आदित्यस्थपुरुषस्य वाऽक्षिस्थपुरुषत्वेनाक्ष्यादित्यैक्यस्यानेकश्रुतिसिद्धत्वादग्निरेवायमक्षिस्थपुरुष स्यात् । अतश्र्च यश्र्चासावादित्य इत्यादिना यदादित्याधिष्ठातृत्वमुक्तं विष्णोस्तदप्यग्नेरेव समायात् । यद्विष्णुज्ञानमेव मोक्षसाधनं प्रतिपादितम् । "तमेवं विद्वानमृत इह भवति । नान्य पन्था’ इत्यादिना तदपि न सिद्ध्यति अक्षिस्थपुरुषाग्निविदो मोक्षश्रवणात् । "एवमेवंविदि पापं कर्म न श्र्लिष्यत’ इत्येवं पूर्वपक्षयति ॥ आदित्य इति ॥ अत्र सूत्रमवतार्य व्याचष्टे ॥ अन्तरित्यादिना ॥ अक्षिस्थपुरुषोऽयं विष्णुरेव एष आत्मेति होवाच एतदमृतमेतदभयमेतद्ब्रह्मेति श्रूयमाणत्वात् । अमृतत्वादिकं विष्णोरेव श्रूयते त्रिपादस्यामृतं दिवीत्यादिश्रुत्यन्तरे । न च विष्णुवदग्नेरप्यमृतत्वं शङ्कनीयम् । "तमेता पञ्चदेवता परिम्रियन्ते विद्युद् वृष्टिश्र्चन्द्रमा आदित्योऽग्नि’ भयादग्नि तपतीत्यादिश्रुतिविरोधात् । एतद्वाक्यमग्निप्रापकमुक्तं तदन्यथोपपन्नमित्याह ॥ सोऽहमिति ॥
तत्त्वप्रदीपिका
""यश्र्चासावादित्ये’’ ""अन्तरादित्ये मनसा चरन्तमि’’त्यादावादित्ये विष्णुरित्युक्तम् । ""य एष आदित्ये पुरुषो दृश्यते सोऽहमस्मि स एवाहमस्मि,’’ ""य एष चन्द्रमसि पुरुषो दृश्यते सोऽहमस्मि स एवाहमस्मि,’’ ""य एष विद्युति पुरुषो दृश्यते सोऽहमस्मि स एवाहमस्मी’’त्यग्नीनां गार्हपत्यान्वाहार्य-पचनावहनीयानामुपकोसलोपदेष्टॄणामादित्यादिस्थत्वमुच्यते । अतोऽक्षीन्द्रियप्रेरकादित्ययोरैक्यात् "य एषोऽन्तरक्षिणि पुरुषो दृश्यत’’ इत्यत्र सत्यकामवाक्येऽप्यक्ष्यभिमान्यन्तस्थोऽग्निरेवोच्यते । "एवमेवंविदि पापं कर्म न श्र्लिष्यत’ इति प्रकृताग्निज्ञानफलत्वेन सर्वपापाश्र्लेषवचनादग्निज्ञानादेव मोक्षोपपत्ति । अत फलवत्त्वादग्नौ समन्वयो युक्तोऽस्य प्रकरणस्येति पूर्वपक्षाभिप्राय । अतो यावदत्र ब्रह्मणस्समन्वयो न निर्णीत, ताव""द्यश्र्चसावादित्य’’ इत्यादावप्यतिसुनिर्णयो न स्यात् । अत सर्ववेदार्थनिर्णये प्रत्यधिकरणनिर्णयास्सुदृढा भवन्तीति ज्ञापयन्नधिकरणसङ्गतिमदीदिशत् ।
ॐ अन्तर उपपत्ते: ॐ । अन्तरशब्देनान्तस्थो रतिरूपो विवक्ष्यते । तथा चोक्तमाचार्यवर्येणैवानु-व्याख्याने
""अन्त स्थित्वा रमणकृदन्तरस्समुदाहृत ।
रमणं चाऽत्मशब्देनाऽदेयं मातीति चोच्यत’’ इति ॥
चक्षुरभिमान्यन्तस्थो विष्णुरेव । ""त्रिपादस्यामृतं दिवि’’ ""अमृतैवैषा देवता’’ ""आत्माऽजरोऽ-मृतोऽभयो ब्रह्मे’’त्यादिना तस्यैवामृतत्वाभयत्विलङ्गोपपत्ते । ब्रह्मात्मशब्दोपपत्तेश्र्च । ""एष आत्मेति होवाचैतदमृतमभयमेतद् ब्रह्मे’’ति ह्यत्रोक्तम् ।
""दृश्यते ज्ञानदृष्ट्या यस्सूर्ये चक्षुषि चैकराडि’’ति हि मानसे । ""सोऽहमस्मि स एवाह-मस्मी’’त्यन्तर्याम्यपेक्षयैवोच्यते । अत्र चोक्तं छन्दोगोपनिषद्भाष्ये भगवतैव ""स एवाहमस्मी’’-त्यन्तर्यामिणोस्सर्वविशेषाभावज्ञापनार्थम् । पूर्वं ""सोऽहमस्मी’’त्यभेदे तात्पर्याधिक्यज्ञापनाय । जीवैक्यपक्ष आदित्ये पुरुषश्र्चन्द्रमसि विद्युतीति भेदव्यपदेशो न युक्त इति ॥
""यस्सूर्यसोमविद्युत्सु तत्तन्नामा हरि पर ।
अहेयत्वादहंनामा गार्हपत्यादिसंस्थित ॥’’ इति च तत्वसंहितायाम् ॥
तत्त्वप्रकाशिका
अत्राग्निश्रुतिसाहित्येनान्यत्र प्रसिद्धस्य चक्षुरन्तस्थत्विलङ्गस्य परब्रह्मणि समन्वयसमर्थनादस्ति शास्त्रादिसङ्गति । श्रुत्यादिसङ्गतिं विषयवाक्यं विषयसंशयौ सयुक्तिकं पूर्वपक्षं च दर्शयति ॥ आदित्य इति ॥ "यश्चासावादित्य’ इत्यानन्दमयस्याऽऽदित्यस्थत्वमुक्तम् । ततश्चार्थादक्षिस्थत्वमप्युक्तम् । तदक्षि-स्थत्वं छन्दोगश्रुतौ कस्यचित्प्रतीयते । य एषोऽन्तरक्षिणि पुरुषो दृश्यते एष आत्मेति होवाचैतदमृत-मभयमेतद्ब्रह्मेति । तच्च यद्यन्यस्य स्यात्तदाऽऽदित्यस्थत्वमानन्दमयत्वं चान्यस्यैव प्रसज्येतेत्यवश्यं निर्णेयमेव । तदक्षिस्थत्वं विषय । विष्णोरग्नेर्वेति सन्देह । यश्चासावादित्ये इत्युक्तिरग्निश्रुतिश्च सन्दहबीजम् । य एषोऽन्तरक्षिणीति वाक्येऽग्निरेवाक्षिस्थत्वेनोच्यत इति पूर्व पक्ष । यतो य एष आदित्ये पुरुष सोऽहमस्मि स एवाहमस्मीत्यग्नेरेवाऽऽदित्यस्थत्वमुच्यते । न च वाच्यमग्नेरादित्यस्थत्वेऽपि कुतोऽक्षिस्थत्वमिति । आदित्यश्चक्षुर्भूत्वाऽक्षिणी प्राविशदिति श्रुतेरक्ष्यादित्ययोरेकविधत्वादादित्यस्थितत्वेनाग्नेरक्षिस्थत्वसिद्धे । एतस्मिन्प्रकरणेऽथ हाग्नय समूदिरे गार्हपत्योऽनुशशासेत्यादिबह्वग्निश्रुतिसद्भावाच्च । न च वाच्यमग्ने-रादित्यस्थत्वकथनमौपचारिकं किं न स्यात् । यश्चासावादित्य इति श्रुतिविरोधादिति । सोऽहमस्मि स एवाहमस्मीत्यभ्यासात् । अभ्यासस्य च समाख्यातो बलवत्त्वात् । न च विष्णुग्रहणेऽपूर्वतयाऽभ्यासस्यापि बाध । स य एतदेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकीभवति सर्वमायुरेतीत्यर्थवादात् । अर्थवादस्य चापूर्वताया प्राबल्यात् । अतोऽक्ष्यादित्यस्थोऽग्निरेवेति स एवानन्दमयोऽपीति भाव । न केवलमग्ने-रक्षिस्थत्वसिद्धावानन्दमयत्वप्राप्ति किं तु यद्विष्णुज्ञानादेव मोक्ष इति मतं तदपि बाधितं स्यादित्याह ॥ अत इति ॥ यतोऽग्निरक्षिस्थोऽतस्तज्ज्ञानान्मोक्षोऽपि भवेत् । तद्यथेति तज्ज्ञानात् सर्वपापाश्लेषोक्ते । तज्ज्ञानात्सर्वपापाश्लेषे च मोक्षस्यापि तदन्यथाऽनुपपत्त्यैवोपपत्तेरित्यर्थ । अत्राऽऽदित्यस्थत्विलङ्गस्यापि विष्णौ समन्वयसिद्ध्यर्थं वक्रसङ्गत्याऽधिकरणारम्भ इति ज्ञातव्यम् । अग्नीनामिति बहुवचनमादिपदद्वयं च बह्वग्निश्रुतिसूचनाय प्रयुक्तम् । सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ॥ अत इति ॥ विष्णुरेव चक्षुरन्तर । एतदमृतमभयमित्यमृतत्वाभयत्वोक्ते । अमृतत्वादेश्च विष्णावेवोपपत्ते । "त्रिपादस्यामृतं दिवि’ "अभयं तितीर्षतां पारम्’ इति श्रुते । न चाग्नेरमृतत्वाद्युपपद्यते । "परि ह्येनं म्रियन्ते विद्युद्वृष्टिश्चन्द्रमा आदित्योऽग्नि’ "भीषाऽस्मादग्निश्चेन्द्रश्च’ इत्यादिश्रुतेरिति भाव । यदेवं निरवकाशत्वानेकत्वाभ्यां बलवल्लिङ्गबलाच्चक्षुरन्तस्थस्य विष्णुत्वनिश्चय किमु तदोभयथापि बलवच्छ्रुतितोऽपीति भावेन सूत्रांशं प्रकारान्तरेण व्याचष्टे ॥ ब्रह्मेति ॥ नन्वेवं बलवच्छ्रुतिलिङ्गबलाद्विष्णुरेव चेदक्षिस्थस्तदादित्यस्थोऽपि स एव स्यात् तर्हि सोऽहमस्मि स एवाहमस्मीति श्रुते का गतिरित्यत आह ॥ सोऽहमिति ॥ अन्तर्यामिण्यहमादिशब्दवृत्तिं स्मारयति ॥ अन्तर्यामिणमिति ॥ एवं श्रुते सावकाशत्वेन तदनुयायिनो-रभ्यासार्थवादयोरपि सुतरां सावकाशत्वम् ॥ १३ ॥
गुर्वर्थदीपिका
अक्ष्यादित्ययोरैक्यादित्यत्र प्रमाणीक्रियमाणश्रुतावादित्यपदेनाऽऽदित्यमण्डलं तद्गतं तेन तदभिमानी सूर्यश्र्च चक्षुपदेन चक्षुरिन्द्रियं तदभिमानी देव अक्षिणीत्यनेन चक्षुर्गोळकं च गृह्यते । तामेव श्रुतिं प्रमाणीकुर्वता भाष्यकारेणाप्यक्ष्यादित्यपदाभ्यां त्रिकत्रिकं गृह्यते । एवमतिसाम्ये हि तत्र स्थितस्यात्रापि स्थितिराशङ्कितुं शक्या । नो चेत्पशुत्वेनेषद्गोसदृशे महिषेऽपि सास्नादिकं स्यात् । तत्राभिमानिमात्र-स्यैक्यसम्भवेऽपि तेजोमण्डलयोश्र्चैक्यायोगात् एकविधत्वादित्युक्तम् । अत्राक्ष्यन्तस्थस्य विष्णोरन्यत्वे ""तद्यथा पुष्करपलाश आपो न श्र्लिष्यन्त’’ इत्याद्युक्तविधया तज्ज्ञानान्मोक्षस्यापि प्राप्तेर्जन्मादिसूत्रोक्तं सृष्ट्याद्यष्टकर्तृत्वं न भगवत इति सङ्गतिसम्भवेऽपि कुतो वक्रमुद्राश्रयणमिति शङ्कां परिहरति । अत्रेति ।
भावबोध
ॐ अन्तर उपपत्ते: ॥ ॐ ॥ अग्निश्रुतिसाहित्येनेति । "ब्रह्मेन्द्रमग्निम्’ इति वाक्यगताग्निशब्दस्य विष्णुपरत्वेऽपि नैतत्प्रकरणगताग्निशब्दस्य विष्णुपरत्वम् । उपकोसलं प्रति विद्योपदेष्टृत्वादिना तस्य प्रसिद्धाग्निपरत्वावगमादिति भाव । श्रुत्यादिसङ्गतिमिति । अव्यवहितपूर्वाधिकरणसङ्गतिस्तु अत्र ""अन्तर्याम्यन्तरश्र्चेति क्रियाभावाख्यमुच्यत’’ इत्यनुव्याख्याने तत परमित्यस्यानुवृत्तौ तदनुसारेण क्रिया-प्रधानकभावरूपविशिष्टविचाराद् विशेषणाच्चेति सूत्रगृहीताक्षरं ब्रह्मा""भयं तितीर्षतां पार’’मिति श्रुत्युक्तपानकर्तृविशेषणरूपब्रह्मत्वाभयत्वेनेवात्रापि एतदमृतमभयमेतद्ब्रह्मेति श्रुतिग्राहकोपपत्तेरित्यनेन सिद्धान्तकरणाद्वेति द्रष्टव्यम् । अर्थात् अक्षिस्थत्वमिति । अक्ष्यादित्ययोरेकविधत्वादिति वक्ष्यमाणन्यायेनेति भाव । विष्णोरिति । अत्राक्षिस्थत्वं किमग्नेरुत विष्णोरिति चिन्ता । तदर्थम् "अथ हाग्नय समूदिरे’ इत्यादिबह्वग्निश्रुतय, ""सोऽहमस्मि स एवाहमस्मी’’ति सावधारणाभ्यास स य एतदेवमित्यर्थवाद उपकोसलैषा सोम्य तेऽस्मद्विद्यात्मविद्या चेति विद्याभेदोक्तिरित्येतदग्निप्रापकं ब्रह्मात्मशब्दामृतत्वाभयत्वस्वसम्बन्धनिमित्तकचक्षुरसङ्गत्वापादकत्विलङ्गप्रकरणरूपविष्णुप्रापकबाधकमुत तद्बाध्यमिति । तदर्धमग्निश्रुत्यादेर्निरवकाशत्वेन ब्रह्मशब्दादे सावकाशत्वम् उत ब्रह्मशब्दादे-र्निरवकाशत्वेनाग्निश्रुत्यादे सावकाशत्वमिति । तदर्थमग्निश्रुत्यादे सावकाशत्वकल्पकमक्षिस्थस्याग्नित्वे बाधकं ब्रह्मशब्दादेर्निरवकाशत्वे प्रमाणञ्च नास्त्युतास्तीति । अग्नेरादित्यस्थत्वम् उच्यते । अत एवेति । अग्नेरादित्यस्थत्वस्योच्यमानत्वादेवेत्यर्थ । अनेन "अतो अक्ष्यादित्ययोरैक्यात्’ इति भाष्यस्थ "अत’शब्द सन्निहितेनैक्यादित्यनेनान्वेति । प्रकृतस्यात इत्यनेन परामृष्टस्यादित्यस्थत्वस्यैक्ये हेतुत्वायोगात् । किन्तु व्यवहितेनात्राप्यग्निरेवोच्यत इत्यनेनान्वेतीत्युक्तं भवति । नन्वक्ष्यादित्ययोरैक्यादिति कथम् ? आदित्यमण्डलाक्ष्णो परस्परभिन्नत्वेन प्रमितत्वात् । न च वाच्यमादित्याक्षिपदाभ्यां चेतनग्रहणेन ऐक्योपपत्तिरिति । "स्थानादिव्यपदेशाच्च’ इति सूत्रानानुगुण्यात् । तत्र हि स्थानत्वेनोक्ताक्ष्णोर्जडत्वेनाभिप्रेतत्वात् । "य एष आदित्ये पुरुष’ "स एषोऽन्तरक्षिणि पुरुष’ इति वाक्यद्वये आदित्याक्षिगतस्य पुरुषपदेन चेतनत्वोक्त्या तयोर्जडत्वेनाभिप्रेतत्वाच्चेत्यत आह अक्ष्यादित्ययोरेकविधत्वादिति । "स आदित्यस्त्रिवृत् त्रिवृदिति लोहितशुक्लकृष्णं कनीनिका’ इति श्रुत्यनुसारेण जडभूतादित्यमण्डलाक्ष्णोरेव त्रिवृत्त्वधर्मयुक्तत्वेन एकविधत्वात् "आदित्यश्र्चक्षु’ इति श्रुतौ आदित्यचक्षुपदयोश्र्चेतनपरत्वेनाऽऽदित्यमण्डलस्थचेतनस्य जडाक्षिप्रवेशोक्त्या जडाक्ष्यादित्यमण्डलयोरेक-चेतनाधिष्ठितत्वरूपधर्मेणैकविधत्वाद्वेत्यर्थ ॥ अनेनैतदपि परास्तम् । यदादित्याक्ष्णोरेकविधत्वे तयोर्भेदादादित्यस्थत्वेऽक्षिस्थत्वासिद्धिरित्यत आह आदित्यस्थत्वेनाक्षिस्थत्वसिद्धिरिति । ऐक्याभिप्राये आदित्यस्थितत्वमेवाक्षिस्थत्वं यत इत्यवक्ष्यत् । गार्हपत्योऽनुशशासेत्यादीति । आदित्यपदेनाथ हैनमन्वाहार्यपचन अथ हैनमाहवनीय इत्यादिग्रहणम् । एतत्प्रकरणेत्यादिना अपूर्वताया प्रबलत्वादित्यन्तेन ग्रन्थेन "सोऽहमस्मि’ "स एवाहमस्मि’ इत्याद्यभ्यासार्थवादसहितबहुश्रुतिभ्योऽपीति न्यायविवरणं व्याख्यातं भवति । न्यायविवरणे सहितशब्दस्वारस्येन श्रुतीनामेव पूर्वपक्षसाधकत्वम्, अभ्यासार्थवादयोस्तु श्रुतिबाधकसमाख्यादिबाधकत्वेन श्रुत्युपोद्बलकत्वं प्रतीयते । अन्यथा तद्वैयर्थ्यं स्यादित्यभिप्रेत्य श्रुतिसद्भावाच्चेत्युक्त्वा तदुपमर्दकत्वेन समाख्यामाशङ्क्य तद्बाधकत्वेनाभ्यासमभिधाय तद्विघटकत्वेना-पूर्वतामुत्थाप्य तन्निरासकत्वेनार्थवाद उक्त इत्यवधेयम् । न्यायविवरणगतादिपदेन "उपवयं तं भुञ्जाम’ इति "कुशलं न पर्यचचारीद्धन्तास्मै प्रब्रवाम’ "उपवयं तं भुञ्जाम’ इत्याद्यभ्यासान्तरग्रहणम् । यतो अग्निरक्षिस्थोऽतस्तज्ज्ञानान्मोक्षोऽपि भवेदित्यादि । अनेन भाष्येऽतोऽग्निज्ञानादेव मोक्ष इत्यपि सम्बन्ध । "अत’ इति बलात् "यत’ इत्यादेरर्थतो लाभ । तयोर्हेतुहेतुमद्भावसमर्थनार्थं तद्यथेत्यादि समग्रं भाष्यमित्युक्तं भवति । मोक्षस्यापि तदन्यथानुपपत्त्यैवेति । मोक्षं विना सर्वपापाश्र्लेषासम्भवादिति भाव । वक्रसङ्गत्येति । "य एष आदित्ये पुरुष’ "य एषोऽन्तरक्षिणि पुरुष’ इत्यनयोर्वाक्य-योरादित्यश्र्चक्षुर्भूत्वेति श्रुत्या एकार्थत्वमुपपाद्य "य एष आदित्य’ इति वाक्यस्य "यश्र्चासावादित्य’ इति वाक्येन सङ्गत्या तदर्थार्थिक य एषोऽन्तरक्षिणि इति वाक्यस्यापि तेन सङ्गतिरित्येवं वक्रसङ्गत्यर्थ । आदित्यस्थत्विलङ्गसमन्वयसिद्ध्यप्रयोजकत्वे "नेतरोऽनुपपत्ते’ इत्यादौ विष्णुज्ञानान्मोक्ष इत्युक्त । स मोक्षस्तद्यथा पुष्करपलाश इति वाक्येन य एषोऽन्तरक्षिणि इत्युक्ताक्षिस्थज्ञानात् प्रतीयत इति ऋजुसङ्गत्यैवाधिकरणमारभ्यत इति भाव ॥
ननूक्तरीत्या ऋजुसङ्गत्याऽधिकरणारम्भेऽपि पूर्वपक्षेऽग्नेरेव अक्षिस्थत्वे आदित्यस्थत्वस्य हेतुत्वेनोपादाने सिद्धान्ते तस्य विष्णुनिष्ठत्वस्य समर्थनीयत्वात् तस्यापि समन्वयसिद्धिरिति चेत्, न; पूर्वपक्षहेतो सिद्धान्तिना सावकाशत्वाद्युक्त्या विरोधस्य वक्तुं शक्यत्वेन समन्वय एव वक्तव्य सति नियमाभावात् । न हि सावकाशत्वमेव समन्वय; तस्य लक्षणादिवृत्त्यन्तरेणापि सम्भवेन समन्वय-रूपत्वाभावादिति भाव । अत एव समन्वयसिद्ध्यर्थमित्युक्तम् ॥
ननु भाष्ये "य एष आदित्ये पुरुष’ इत्यग्नेरेव आदित्यस्थत्वमुच्यत इति वक्तव्यम् । अक्ष्यादित्ययोरैक्यादिति आदित्यस्थत्वस्यैवाक्षिस्थत्वसाधकत्वेनाभिमततया तदुक्तेरेव प्रकृतसङ्गतत्वात् । आदिपदद्वयं बहुवचनञ्च व्यर्थम् । न च "अथ हैनमन्वाहार्यपचन" "अथ हैनमाहवनीय’ इति वाक्यद्वयसङ्ग्रहाय प्रथमादिपदमन्वाहार्यपचनाहवनीययो सङ्ग्रहायाग्नीनामेवेति बहुवचनम् । चन्द्रविद्युतो सङ्ग्रहार्थं द्वितीयादिपदमिति वाच्यम् । चन्द्रविद्युतोरक्ष्णैकविधत्वाभावेनाऽन्वाहार्यपचनाऽहवनीय-योरन्तस्थत्वाक्षिस्थत्वसाधकाभावेन प्रकृतानुपयुक्तत्वादित्यत आह अग्नीनामिति बहुवचनमादिपदद्वयं चेति । अग्नेरक्षिस्थत्वसाधकत्वेन "अथ हाग्नय’ इत्येतत्प्रकरणगतगार्हपत्यान्वाहार्यपचनाहवनीयादि-रूपबह्वग्निश्रुतीनां सूचनार्थमेव बहुवचनादिपदद्वयप्रयोग, न तूक्ताभिप्रायेणेति भाव । एतदमृतमभय-मितीति भाष्ये उपपत्तेर्निरवकाशत्वोक्त्यैव पक्षनिष्ठत्वं लभ्यत इति तन्नोक्तमिति ज्ञातव्यम् । दिवीत्यादि-पदोक्तश्रुत्युदाहरणमभयं तितीर्षतां पारमिति । तस्यैवेत्येवकारार्थविवरणं न चाग्नेरमृत्वाद्युपपद्यत इत्यादि । निरवकाशोपपत्तेरेव प्राबल्यमिति न्यायविवरणे उपपत्तेरेव किमु निरवकाशब्रह्मात्मशब्दसहिताया इति कैमुत्यप्रदर्शनार्थमेवकार इत्यभिप्रेत्य तदनुसारेण ब्रह्मात्मशब्दाद्युपपत्तेरिति भाष्यमवतारयति यदैवमित्यादिना । किमु तदोभयथापीति । श्रुतेर्जात्या प्राबल्यमपिशब्दार्थ । एष आत्मेत्यात्मशब्दमादाय श्रुतेरुभयथापीत्यनेन सूचितमनेकत्वं द्रष्टव्यम् । अत एव भाष्ये ब्रह्मशब्दादीत्यादिपदं प्रयुक्तम् । ब्रह्मात्मशब्दयोर्निरवकाशत्वं तु प्रागेव तत्र तत्रोपपादितमिति भाव । अन्तर्यामिणमिति स्मृतौ ईशेश-मित्यन्तर्यामित्वोपपादनम् । सति भेदेऽपि वस्तुष्वित्यनेन अहमादिपदप्रयोगेणाभेदो निमित्तमित्यु-पपादितमिति ज्ञातव्यम् ।
भावदीप
ॐ अन्तर उपपत्ते ॐ ॥ अग्निश्रुतीति ॥ सा चानेकरूपाऽग्रे व्यक्ता । उच्यत इत्यन्तं भाष्यं सङ्गतिपरतत्वेन व्याचष्टे ॥ यश्र्चेति ॥ अक्ष्यादित्ययोरैक्यादित्युक्तिलब्धमर्थमाह ॥ ततश्र्चेति ॥ अर्थादिति ॥ द्वयोरेकदेवताधिष्ठानत्वेनाऽऽदित्यस्थस्यैवाक्षिस्थत्वादेकत्रोक्तावन्यत्राप्युक्तिरार्थिकीत्यर्थ । इत्यत्राप्यग्निरेवोच्यत इत्यस्य तात्पर्योक्तिश्छन्दोगेति । चतुर्थेऽध्याय इति योज्यम् । कस्यचित् अग्ने । कुत्रेत्यतो य एष आदित्य इत्यादिपूर्वभाष्यमिति मत्वा तदुदाहरति ॥ य एष इति ॥ दृश्यते दिव्य-दृष्ट्या ज्ञानिभिरित्यर्थ । उवाच उपकोसलाय सत्यकाम । भाष्ये दृश्यत इत्यन्तोक्तावपि शेषोक्ति सिद्धान्तोपयोगित्वायेति भाव । कथं प्रतीयत इत्याकाङ्क्षायां य एष आदित्य इत्यादिवाक्येन तत्प्रकारोक्ति-र्वक्ष्यमाणादिशा सुज्ञानेति । य एष इत्यादेरैक्यादित्यन्तस्य तात्पर्यमाह ॥ तच्चेति ॥ य एषोंऽतरक्षिणीति वाक्योक्तमक्षिस्थत्वं च य एष इत्यादिभाष्यवाक्यलब्धादग्नेरक्षिस्थत्वेनोच्यमानत्वाद्धेतोर्यद्यग्ने स्यादित्यर्थ । उक्तमित्यन्तवाक्यतात्पर्यमाह ॥ तदेति ॥ इति सङ्गतिसम्भवादवश्यं निर्णेयमित्यर्थ । ननु पूर्वत्र यश्चासावादित्य इत्यादित्यस्थत्वं नाम विष्णोरादित्यदेवतास्थत्वम् । यदाहुस्तद्भाष्ये ""स विष्णुस्सर्वजीवेषु नृषु देवेषु च स्थित । एक एवे’’त्यादि । उक्तं च प्राग्भेदव्यपदेशाच्चेत्यत्र स यश्चायमित्यानन्दमयस्या-पकृष्टोत्कृष्टजीवेषु पुरुषादित्यपदोपलक्षितेषु स्थितिकथनादिति । तथा चार्थादापद्यमानमक्षिस्थत्व-मप्यक्षिदेवतास्थत्वमेव स्यात् । अत्र चाक्षिस्थत्वं नामाक्षिगोलकस्थत्वं य एष आदित्य इत्यादित्यस्थत्वमप्यादित्यमण्डलस्थत्वमेवेति अक्ष्यादित्ययोरेकविधत्वादित्यादिवक्ष्यमाणटीकावाक्या-देवावसीयते । तथा च कथमन्यस्याक्षिस्थत्वे प्राचीनमप्यन्यत्स्यादिति पूर्वपक्षे तदाक्षेप सिद्धान्ते चात्राक्षिस्थत्वं विष्णोश्चेत् प्राचीनमपि विष्णोरेवेति समाधानं चेति चेदत्राहु । वक्ष्यमाणदिशा वामनिभामनिशब्दोक्तसर्वस्त्रीपुंसप्रेरकत्वेनाग्नेस्तत्तदक्षिस्थत्वे स एव पूर्वत्राप्युक्तादित्यमण्डलस्थ आपन्न इति तेनैवोपपत्तौ तत्रस्थतया किमीश्वरेण इत्याक्षेपे वक्ष्यमाणयुक्तिभिरन्यस्य केवलस्य प्रेरकत्वानुपपत्त्या चाक्षिस्थस्य विष्णुत्वे प्रागादित्यमण्डलस्थोऽप्यक्ष्यादित्यदेवतास्थोऽपि स एवेति सिद्ध्यतीति । अन्ये तूपनिषद्भाष्यादावादित्यादेरभिमानिदेवतात्वोपगमेन तत्स्थत्वार्थोक्तावप्यत्र भाष्ये सर्वश्रुतावादित्यादिपदेन मण्डलादिजडमेव पूर्वोत्तरपक्षयोरुपेत्याऽऽक्षेपसमाधी । यथोत्तरनये य आत्मनि तिष्ठन्नित्यादावात्मादि-शब्दस्य तदभिमानिचतुर्मुखरूपार्थस्य बृहद्भाष्योक्तत्वेऽपीह भाष्ये जीवार्थत्वमेवोपेत्य जीवान्तर्यामिणो भेदोक्ति भेदेनैनमिति सूत्रे तथाऽत्रापि । पूर्वटीका तु पुरुषपदोक्तजीवाभिप्राया । अत एव तत्र स यश्चायं पुरुष इत्येव भाष्योक्तिरित्याहु । चन्द्रिकायां तु तत्वप्रदीपादिप्राचीनटीकारीत्या आदित्यादि-पदानाम् आदित्यादिदेवतार्थत्वमेवोपेत्य अग्नेरक्षिदेवतास्थत्वे प्राचीनादित्यदेवतास्थोऽपि स एवेत्याक्षेपे अक्षिदेवतास्थस्य विष्णुत्वादादित्यदेवतास्थोऽपि स एवेति समाधिरिति सङ्गतिरुपपादिता । सङ्गतिपरतया व्याख्यातमेव भाष्यं पूर्वपक्षतद्युक्तितत्फलोक्तिपरतयाऽपि व्याकुर्वन् तत्राप्यग्निरेवोच्यत इति प्रतिज्ञार्थं तावदाह ॥ य एषोऽन्तरक्षणीति ॥ कुत इत्यत आदित्यस्थत्वादिति भावेन प्रवृत्तस्य य एष आदित्य इत्यादेरत इत्यन्तस्य भाष्यस्यात इत्युक्ता यत इत्यध्याहृतार्थमाह ॥ यत इति ॥ भाष्ये युक्तिसूचनायाग्न्ीनामित्युक्तावप्याकाङ्क्षाक्रमेण तद्य्वाख्यातुं श्रौताहमादिपदस्थैकवचनानुरोधेनाग्नेरित्युक्तम् । श्रुतौ स एवेत्युक्तेरग्नेरेवेत्युक्तम् ॥ अत एवेति ॥ अग्नेरादित्यस्थत्वादेवेत्यर्थ । अक्ष्यादित्ययोरैक्यादिति वाक्यमक्षिस्थोऽग्निरित्यत्रादित्यस्थत्वस्यैव हेतुत्वोपपादकत्वेन व्यावर्त्यशङ्कापूर्वं व्याचष्टे ॥ न च वाच्यमिति ॥ आदित्य आदित्यमण्डलाभिमानी चक्षु रूपान्तरेण चक्षुर्देवता भूत्वा अक्षिणी गोलके प्राविशदित्यैतरेयश्रुतावादित्यमण्डलस्य यद्देवताकत्वं चक्षुर्गोलकस्यापि तद्देवताकत्वरूपैकविधत्वोक्तेरित्यर्थ । भाष्यस्थैक्यपदमेकविधत्वपरम् । अक्ष्यादित्यपदे तु जडपरे इति भाव । तत्वप्रदीपे तु तयोस्तदभिमानि-चेतनत्वमुपेत्यैक्यपदं तद्देवतैक्यपरत्वेन यथाश्रुतमेव व्याख्यातम् । अस्त्वग्नेरेवादित्यस्थत्वं तथाप्याग्निशब्द एव विष्णुपरोऽस्त्वित्यतस्तस्याग्निपरत्वे सोऽहमस्ति स एवाहमस्मीत्याद्यभ्यासार्थवादसहितबहुश्रुतिभ्य इति न्यायविवरणमनुसृत्याग्नीनामिति भाष्यस्थबहुवचनसूचितयुक्तिमाह ॥ एतस्मिन्निति ॥ बहुश्रुतिभ्य इत्यत्र बहुवचनान्तश्रुतिभ्यो बह्वग्न्श्रिुतिभ्य इत्यर्थद्वयमुपेत्य भाष्यमपि तथा द्य्वर्थमिति मत्वा अग्नय इति गार्हपत्य इति चोदाहृतम् । बह्वग्नीत्यपि बहुवचनान्ताग्निश्रुतिसद्भावाद्गार्हपत्यादिबह्वग्निश्रुति-सद्भावादित्यपि द्वेधा व्याख्येयम् । आदिपदेनाग्नीन्परिचचार । कुशलं न पर्यचचारीत् । उप वयं तं भुञ्जाम इत्यादि पूर्वत्र । अथ हैनमन्वाहार्यपचनोऽनुशशास य एष चन्द्रमसि पुरुषो दृश्यते सोऽहमस्मि स एवाहमस्मीत्युत्तरत्र वाक्यं गृह्यते । अत एव भाष्ये य एष चन्द्रमसि य एष विद्युतीत्यादि वाक्य-द्वयोपादानाय चन्द्रादित्यस्थत्वोपादानाय चादिपदद्वयं तदुक्तिस्तु यथान्वाहार्यपचनाहवनीययोश्चन्द्र-विद्युत्स्थत्वं तथाऽस्यापि गार्हपत्यस्याऽऽदित्यस्थत्वमिति दृष्यान्तत्वेनेति बोध्यम् । भाष्ये द्विरुक्तिसूचितां न्यायविवरणे कण्ठोक्तामभ्यासरूपयुक्तिं व्यावर्त्यशङ्कापूर्वमाह ॥ न चेति ॥ अग्नेरादित्यस्थत्वकथन-मिति ॥ आदित्यस्थत्ववति विष्णावग्निप्रयुक्ताहंशब्द औपचारिक इत्यर्थ । शास्त्रदृष्ट्येत्युक्तमुख्यत्वाच्छा-दनेनेयमुक्ति अन्तर्यामिणमित्यग्रे स्मृत्युक्ते तद्य्वावर्त्योक्त्यर्था । अत एव स्मारयतीति वक्ष्यति ॥ यश्र्चेति ॥ स यश्चायं पुरुषे यश्चसावादित्ये स एक इति तैत्तिरीये विष्णोरेवाऽऽदित्यस्थत्वोक्तेरिति भाव ॥ बलवत्त्वादिति ॥ स्थानान्तरस्थसमाख्यापेक्षया एकस्थानस्य शीघ्रोपस्थितिकत्वादिति भाव ॥ न्यायविवरणोक्तमर्थवादसाहित्यं व्यावर्त्यशङ्कापूर्वमाह ॥ न चेति ॥ अपूर्वतयेति ॥ अत्यलौकिक-विष्णुग्रहणे अग्निग्रहणादप्यपूर्वं लभ्यत इत्यपूर्वतयेत्युक्तम् । अपहते अपहति वस्तुत फलवत्वमेव फलं न फलस्योक्ति । सा तु अर्थवाद इति मत्वाऽर्थवाद इत्युक्तम् । एवंरूपाल्पफलेन स्तुतिर्ब्रह्मणि न युक्तेति भाव ॥ प्राबल्यादिति ॥ तद्बीजस्य समन्वयसूत्रेऽभिधानादिति भाव । इत्यत्राप्यग्निरेवोच्यत इति प्रतिज्ञातार्थमुपसंहरति ॥ अत इति ॥ अभ्यासार्थवादसहितबह्वग्निश्रुतिसत्त्वादित्यर्थ । इत्यत्रापीति भाष्यस्थापिपदार्थोक्तिरादित्येति । एतत्प्रकरणानन्दमयप्रकरणयोर्विद्यमानत्वादित्यर्थ । तेनोक्तमित्यन्तभाष्यवाक्यस्यापि फलपरत्वेन तात्पर्यमुक्तं ध्येयम् । तद्यथेति वाक्ये विष्णुलिङ्गश्रवणात् विष्णुरेवाक्षिस्थ किं न स्यादित्यतो वा अग्नौ समन्वये फलाभावादित्यतो वा प्रवृत्तमतस्तद्यथेत्यादिभाष्यम् । इदमेवैतत्पूर्वपक्षफलमिति भ्रान्तिं निरस्यन्नवतारयति ॥ न केवलमिति ॥ इति मतमिति ॥ ""जन्माद्यस्य यत’’ ""तन्निष्ठस्य मोक्षोपदेशात्’’ ""नेतरोऽनुपपत्ते’’ इत्यादिसूत्रेष्वभिमतमित्यर्थ ॥ मोक्षोऽपीति ॥ न केवलमानन्दमयत्वमित्यपेरर्थ । अनुक्तस्योपपादनायोगादुपपत्तिरित्युक्त्या ज्ञानान्मोक्षो भवेदिति लभ्यते । आदित्ये विष्णुरित्युक्तमित्यनेनाग्नेरानन्दमयत्वप्राप्तिरूपफलस्य सूचनादपीति लब्धमिति भाव । इदानीं यथान्यासं भाष्यं योजयति ॥ तद्यथेतीति ॥ ननु विष्णुज्ञानान्मोक्ष इति प्रागुक्तमयुक्तम् । तद्यथेत्यत्राक्षिस्थाग्निज्ञानान्मोक्षश्रवणादिति ऋजुसङ्गत्या एतदारम्भसम्भवात् आनन्दमयस्य आदित्यस्थत्व-मुक्तं ततश्चार्थादक्षिस्थत्वमप्युक्तं तदक्षिस्थत्वं च्छान्दोग्ये अग्ने श्रूयत इति प्रागुक्तमादित्यस्थत्वम् आनन्दमयत्वं च तस्यैवेति वक्रसङ्गत्या एतदारम्भ किमर्थ इत्यत आह ॥ अत्रेति ॥ वक्राश्रयणे हि अत्राक्षिस्थत्वसमन्वये प्राचीनमादित्यस्थत्वमपि विष्णोरेव सिद्ध्यति नान्यथेत्यर्थ । अधिकं चन्द्रिकायाम् । आदित्यस्थत्विलङ्गस्यापि विष्णौ समन्वयसिद्ध्यर्थमित्युपलक्षणं पूर्वपक्षोत्थानार्थं चेत्यपि ध्येयम् । आदित्यवाक्य इवाक्षिवाक्ये पूर्वपक्षप्रापकस्यापि अभानात् भाष्ये अग्नीनामिति बहुवचनम् आदिपदद्वयं त्रायाणामग्नीनामक्षिस्थत्वप्रदर्शनार्थमुक्तमिति भ्रान्तिं निराह ॥ अग्नीनामितीति ॥ अथ हैनं गार्हपत्योऽनुशशास । य एष आदित्ये पुरुष इत्यादे, अथ हैनमन्वाहार्यपचनोऽनुशशास । य एष चन्द्रमसि पुरुष इत्यादे, अथ हैनमाहवनीयोऽनुशशास य एष विद्युति पुरुष इत्यादे श्रवणात् गार्हपत्यादीनां त्रयाणां क्रमेणादित्यादित्रयस्थत्वमुच्यते तथा च प्रसिद्धगार्हपत्त्यस्यैवादित्य-स्थत्वादक्षिस्थत्वमिति प्रदर्शनार्थं न तु त्रयाणामप्यादित्यस्थत्वद्वाराऽक्षिस्थत्वोक्त्यर्थमित्यर्थ ॥ छ ः॥
भाष्ये विप्रतिपन्नचक्षुरन्तस्थत्वमात्रस्यान्तरक्षिणीति श्रुत्यनुरोधेन चक्षुरन्तस्थ इत्युक्तावपि सूत्रे ""अन्तस्थित्वा रमणकृदन्तर समुदाहृत । रमणं चात्मशब्देनादेयं मातीति चोच्यत’’ इत्यनुभाष्योक्तदिशाऽऽत्मशब्दार्थसङ्ग्रहाय अन्तर इत्युक्तम् । अत एव भाष्ये अमृतत्वादीत्येव हेतूक्तिरिति मत्वा सूत्रभाष्ययोरर्थमाह ॥ विष्णुरेव चक्षुरन्तर इति ॥ भाष्येऽप्यन्तस्थो रमणकृदित्यपि योज्यमिति भाव । यद्वाऽनुभाष्येंऽतर इत्यस्यान्तस्थित्वा रमणकृदित्यर्थोक्तावपीह भाष्येऽग्रे ब्रह्मशब्दादीत्यादि-पदेनात्मशब्दस्यापि हेतूकरणायान्तरत्वमन्तस्थत्वमात्रं विवक्षितम् । चक्षुरन्तस्थ इति भाष्यसूत्रावि-संवादाय टीकायां विष्णुरेव चक्षुरन्तर इति व्याख्येयं दर्शितं ज्ञेयम् । अत एव सङ्क्षेपभाष्ये पूर्णानन्दोंऽतर इत्यन्तरनयार्थेऽन्तर इत्युक्ति । तत्वप्रदीपे तु अन्तरशब्देन अन्तस्थो विवक्षित इत्याद्युक्तम् । सूत्रे भाष्ये च लिङ्गादित्यनुक्त्वा उपपत्तेरित्युक्तिर्लिङ्गनिरवकाशत्वाय । न चानुक्तस्य लिङ्गस्य तदुक्तिर्युक्तेति तल्लब्धं हेतुमाह ॥ एतदमृतमिति ॥ तन्निरवकाशत्वोक्तिपरतया सूत्रशेषभाष्यं व्याचष्टे ॥ अमृतत्वादेश्चेति ॥ इत्यादिनेत्यादिपदोक्तं दर्शयन् हेतावियं तृतीयेत्याह ॥ त्रिपादिति ॥ पूरुषसूक्ते । अभयमिति काठके । भाष्ये तस्यैवेत्युक्तिलब्धमन्यत्रानवकाशत्वं व्यनक्ति ॥ न चेति ॥ तत्र हेत्वाकाङ्क्षायाम् इत्यादिनेति भाष्यस्थादिपदेनोपात्तं वाक्यं म्रियन्ते पञ्चदेवता इति ऋग्भाष्यं हृदि कृत्वा प्रकारान्तरेणाऽऽह ॥ परिम्रियन्त इति ॥ ऐतरेयब्राह्मणे तमेता परीति । लक्षणे कर्मप्रवचनीय तेन कार्यब्रह्मणा निमित्तेनेत्यर्थ । ऋग्भाष्यटीकायाम् एष वै ब्रह्म योऽयं पवते तमेता इति पूर्ववाक्यो-दाहरणेन वायुपरतया व्याख्यानात् । भीषेति तैत्तिरीये भीषा भयेन अस्मादस्य । भायादस्याग्निरिति श्रुत्यन्तरात् । एतेनाभ्यासार्थवादसहितश्रुतिभ्यो निरवकाशोपपत्तेरेव प्राबल्यमिति न्यायविवरणोक्तं लिङ्गनिरवकाशत्वं विवृतं ध्येयम् । नन्वेवं तद्विरोधोऽग्रेतनभाष्यस्येत्यतो निरवकाशोपपत्तेरेव प्राबल्यमित्येवकारार्थं व्यञ्जयन्नवतारयति ॥ यदेति ॥ उभयथापीति ॥ निरवकाशत्वानेकत्वाभ्यामित्यर्थ । निरवकाशत्वं च प्रागेवोक्तमित्याशय । आदिपदेनात्मशब्दो ग्राह्य । किमित्येवकारार्थोक्त्या तद्विरोधोऽपास्त इति भाव । श्रुतितोऽपीत्युक्त्या जात्यापि प्राबल्यं सूचयति ॥ बलवच्छ्रुतीति ॥ कुशलं न इत्यादाविव वक्तरि स्वरसस्याहंशब्दस्यान्यपरत्वमन्याय्यमिति शङ्कानुत्तये हेत्वंशानुवाद । आदित्यस्थत्विलङ्गस्यापि समन्वयार्थमित्युत्तरवाक्यसङ्गत्यर्थमनुवादेन व्यनक्ति ॥ तदादित्यस्थोऽपीति ॥ श्रुतेरग्निप्रयुक्ताहंशब्दस्य शास्त्रदृष्टिसूत्र एवोक्तत्वादाह ॥ स्मारयतीति ॥ स्मारणं च पूर्वोक्ताज्ञानेनौप-चारिकमिति शङ्कितत्वात्कृतम् । स्मारयति स्मृत्या दर्शयतीति वाऽर्थ । स्मृतावीशेशमिति स्वातन्त्र्यरूप-निमित्तोक्ति । सर्वशब्दा भूतानि विष्णुर्भुवनानि विष्णु प्राण सर्वाणि भूतानि मनुरभवमित्यादि-स्थभूतमन्वादिशब्दा नाभेदनिमित्तेनेत्याह ॥ सतीति ॥ एतेन निरवकाशोपपत्तेरेवेत्युक्तिलब्धमभ्या-सार्थवादयो सावकाशत्वं भाष्ये व्यक्तीकृतमनुवादेन दर्शयति ॥ एवं श्रुतेरिति ॥ अग्निप्रयुक्ताहं-शब्दस्येत्यर्थ । सोऽहमस्मीत्यादिभाष्यस्थादिपदार्थोऽभ्यास इत्यादि । एतत्प्रकरणश्रुताग्निगार्हपत्यादि-शब्दानां प्रसिद्धाग्निपरत्वेऽप्यग्निप्रयुक्ताहंशब्दस्याग्न्यन्तर्यामिपरत्वेनाग्निश्रुतित्वाभावात् तद्घटितोऽभ्यासोऽर्थ-वादश्च तदन्तर्यामिनिष्ठ इत्यर्थ । अहमादिपदानामन्तर्यामिणि प्रवृत्तिपक्रारं प्रागेवावोचाम ॥ १३ ॥
अभिनवचन्द्रिका
किमुदाहरणम् । किं चक्षुरन्तस्थत्वम्, आहोस्वित् रमणकर्तृत्वमपि । किं चान्तः, यद्याऽऽद्यः तर्हि श्रुत्यनुसारित्वाय अन्तरुपपत्तेरित्येवं सूत्रं स्यात् । लघु चैवं सति सूत्रं भवति "अन्तः स्थित्वा रमणकृदन्तरः समुदाहृत’ इत्यनुव्याख्यानविरोधश्च । अत्र अन्तस्थत्वमिव रमणकर्तृत्वस्याप्युदाहरण-त्वोक्तेः । अथ द्वितीयः तर्हि अन्तर इत्यस्य ढ्रलोपे पूर्वस्य दीर्घेऽणः (पा.सू.६-३-१११) इति दीर्घः प्राप्नोति । रमणकर्तृत्वस्य श्रुतावनुपलम्भश्च दोषो भवति । "य एषोऽन्तरक्षिणी’ (छ.१-४-१५)ति विषयवाक्ये अन्तस्थत्वरूपभावस्यैवाऽभिधानेन रमणकर्तृत्वानभिधानादिति चेत् अत्र द्वे दर्शने अत्राधिकरणे अन्तस्थत्वरूपभावसमन्वयोऽभिधीयत इत्येकम् । अन्त स्थित्वा रमणकर्तृत्वं समन्वीयत इत्यपरम् । आद्यं भाष्याभिमतम् "चक्षुरन्तस्थो विष्णुरेवे’त्यभिधानात् । यद्यपि "य एषोऽन्तरक्षिणि पुरुषो दृश्यत’ इति श्रुतौ अन्तःशब्द एवास्ति न त्वन्तरशब्दः, तथापि अन्तःशब्द-मात्रस्याऽसमन्वेतव्यत्वात् "य एषोऽन्तरक्षिणि पुरुषो दृश्यत’ इति समुदायलभ्यस्याऽन्तस्थत्विलङ्गस्य वाचकः अन्तरशब्दः सूत्रे निर्दिष्टः । अन्तःशब्दोपपदादस्तेः क्विपि निर्वचनत्वाद्धातुसमाकारलोपे अन्तर इति रूपम् । द्वितीयं तु अनुव्याख्यानाभिमतम् ।
"अन्तःस्थित्वा रमणकृदन्तरः समुदाहृतः’ इत्यभिधानात् । अत्र च यद्यपि श्रुतौ रमणकर्तृत्वं स्पष्टं न प्रतिभाति, तथापि आत्मशब्देन तदुक्तमिति न श्रुतावनुपलम्भदोष । तदुक्तम् "रमणं चाऽऽत्मशब्देनाऽऽदेयं मातेति चोच्यत’ इति । आपूर्वाद्ददातेर्मन्यतेश्च क्विप् । द्वयोः क्विपोः सर्वापहारिलोपः । तत्र ददातेराकारलोपः दकारस्य तकारो निर्वचनत्वात् । एवं च आत् आदेयं सुखं, सुखसाधनं च मन्यते अनुभवतीत्यात्मेति रमणकर्तृत्वमात्मशब्दार्थ इति द्रष्टव्यम् । सौत्रत्वान्निर्देशस्य "अन्तर उपपत्ते’रित्यत्र ढ्रलोप इति दीर्घाभावः । अर्थादिति ॥ आदित्यस्याक्षिस्थत्वात् आदित्यस्थत्वोक्तौ अक्षिस्थत्वमप्युक्तं भवति । यथा "मञ्जूषायां मणिमाले’त्युक्त्या गृहस्थत्वमुक्तं भवतीति भावः । अनेन आनन्दमयाधिकरणप्रतिपाद्यैतदधिकरणप्रतिपाद्ययोः अक्षिस्थत्वेन प्रतीयमानत्वं अस्याधिकरणस्य पूर्वाधिकाणतच्छ्रुतिभ्यां सङ्गतिरित्युक्तं भवति । तच्च यद्यन्यस्य स्यादिति ॥ यदि छान्दोग्योक्तं अक्षिस्थत्वमन्यस्य स्यात्तदा तैत्तिरीयश्रुत्युक्तमादित्यस्थत्वम्, आनन्दमयत्वं चाऽन्यस्यैव प्रसज्यत इति बुद्धिः स्यादित्यर्थः । ननु भाष्ये "य एष आदित्ये पुरुष’ (छा.४-११) इति श्रुत्युक्ताऽऽदित्य-स्थस्याग्न्त्विेन पूर्वपक्षाभिधानमयुक्तम् । अक्षिस्थस्य विषयत्वेन, आदित्यस्थस्य विषयत्वाभावादित्यत आह य एषोऽन्तरक्षिणीति ॥ कुतस्तर्हि भाष्ये "य एष आदित्ये पुरुषः’ इति अग्न्ीनामादित्य-स्थत्वाभिधानमित्यत आह यत इति ॥
अक्षिस्थस्य अग्न्त्विसिद्धौ आदित्यस्थत्वं हेतुरिति भावेन "य एष’ इति वाक्ये अग्न्ेरादित्यस्थत्वेन प्रतिपाद्यत्वकथनमिति भावः । नन्वेवं तर्हि भाष्ये अग्न्ेरादित्यस्थत्वादित्युक्त्या भवितव्यम् । लिङ्गस्य पञ्चम्यन्तशब्देनैव प्रतिपादनीयत्वादित्यत उक्तम् यतोऽत एवेति । इदमुक्तं भवति भाष्ये अतः शब्दः श्रूयते । तेन यत इति लभ्यते, अग्न्ीनामादित्यस्थत्वमित्यस्य हेतुत्वं लभ्यत इति हेतुत्वद्योतक-पञ्चमीप्रयोगाभावो न दोषाय । "यतो धूमस्ततो वह्नि’रित्युक्ते पञ्चम्यन्तयत्तच्छब्दसमभिव्याहारबलेन धूमादिति पञ्चमीप्रयोगफलदर्शनादिति भाव इति । अप्रयोज कत्वमाशङ्क्य निषेधति न च वाच्य-मिति । आदित्यश्चक्षुर्भूत्वेति ॥ अत्र टीकायां "अक्ष्यादित्ययोरेकविधत्वा’दिति न पाठः, अपि तु एकत्वादिति पाठः । अवश्यं चैतदेवं विज्ञेयम् "आदित्यश्चक्षुर्भूत्वे’(ऐ.आ.२-४)ति गोलकान्तर्गताक्षि-शब्दवाच्यदेवतातादात्म्ये प्रमाणस्योदाहृतत्वात् । अन्यथा अक्ष्यादित्ययोरेकविधत्वे किञ्चित्प्रमाण-मुदाहरेत् । ततश्चैवं योजना "आदित्यश्चक्षुर्भूत्वा अक्षिणी प्राविश’दिति प्रमाणबलेन आदित्यस्य अक्ष्यन्तर्गतचक्षुषा तादात्म्यादादित्यस्थितत्वेन लिङ्गेन अग्न्ीनामक्षिस्थितत्वं सिध्यति । अत्रायं प्रयोगो द्रष्टव्यः अग्न्यः अक्ष्यन्तर्गताः, अक्ष्यन्तर्गतचक्षुःशब्दाभिधेयाऽऽदित्यान्तर्गतत्वात् । यो यदन्तर्गतान्तर्गतः स तदन्तर्गतः । यथा गृहान्तर्गतमञ्जूषाऽन्तर्गतो मणिः गृहान्तर्गत इति । एतेन अक्ष्यादित्ययोरैक्यादिति भाष्योक्तेः, "अक्षीन्द्रियप्रेरकादित्ययोः ऐक्या’दिति तत्वप्रदीपोक्तेश्च, "अक्ष्यादित्ययोरैक्यस्यानेक-श्रुतिसिद्धत्वा’ दिति सत्तकदीपावल्युक्तेश्च, विरुद्धत्वात् अक्ष्यादित्ययोरेकविधत्वाभिधानमयुक्तमिति परास्तम् । "एकविधत्वा’दिति पाठस्य लेखकप्रमादप्रयुक्तत्वेन टीकाकृता एकविधत्वानभिमानात् । अत एवाक्ष्यादित्ययोरेकविधत्वेऽपि अक्षिस्थस्याग्न्यन्यत्वसम्भवात्, अग्न्ेरादित्यस्थत्वमप्रयोजकमिति परास्तम् । ननु भवेदग्न्ेरादित्यस्थत्वेन अक्षिस्थत्वसिद्धिः । यदि "य एष आदित्ये पुरुष’ इत्यत्राग्न्रिादित्यस्थत्वेनोच्यत इति । स्यात्, तदेव कुत इत्यत आह तस्मिन्प्रकरण इति ॥ अत्र सद्भावाच्चे’ति चशब्दः प्रक्षिप्तः । सद्भावादित्यनन्तरम् "अग्न्रिादित्यस्थत्वेनोच्यत’ इति शेषः । ततश्च "य एष आदित्ये पुरुष’ इत्येतस्मिन्प्रकरणे "अथाग्न्यः समूदिरे गार्हपत्योऽनुशशास पृथिव्यन्नमादित्य (छा.४-१९) इति बह्वग्न्श्रिुतिसद्भावादग्न्रिादित्यस्थ इत्यर्थः । यद्यपि अग्न्ीनामादित्यान्तर्गत-त्वेनाऽऽत्मोपदेशादुपदेशकपराणामप्यग्न्श्रिुतीनामादित्यान्तर्गतस्याग्न्त्विनिर्णायकत्वमिति तदुपन्यासः कृतः । अवश्यं चैतदेवं विज्ञेयम् । अक्षिस्थप्रकरणे "अथाग्न्यः समूदिर’ इति वाक्याभावेन अग्न्ेरक्षिस्थत्वसिद्धये बह्वग्न्श्रिुतिसद्भावस्य हेत्वन्तरत्वाभिधानायेगात् । न च वक्तव्यमिति ॥ अत्र "औपचारिकं किं न स्या’दिति प्रक्षिप्तम् । कथनमित्यनन्तरं अयुक्तमिति ग्राह्यम् । ततश्चैवं टीकावाक्यपाठः "न च वक्तव्यम् । अग्न्ेरादित्यस्थत्वकथनमयुक्तं "यश्चासावादित्य’ इति श्रुतिविरोधादिति’ति । अस्यार्थः "य एष आदित्ये पुरुष’ इति वाक्ये अग्न्रिेवोच्यत इत्ययुक्तं "यश्चासावादित्य’ इति समाख्याबलेन विष्णोरेवादित्यस्थतया ग्राह्यत्वात् । अन्यथा समाख्याविरोधः स्यादिति । अवश्यं चैतदेवं विज्ञेयम् समाख्याश्रुतेः एतद्वाक्यस्य विष्णुपरत्वनिर्णायकत्वेनाऽग्न्पिरत्वाङ्गीकारविरोधित्वात् । न ह्यग्न्ेरौपचारिक-धर्मप्रतिपादकत्वपक्षे अस्य वाक्यस्याऽग्न्पिरत्वं विहन्यते । येन विष्णुपरत्वनिर्णायकसमाख्याविरोधो न स्यादिति । सोऽहमस्मीति ॥ अग्न्पिराहंशब्दस्यादित्यान्तर्गतेऽभ्यासादित्पर्थः । न च विष्णुग्रहण इति ॥ दूरेण दिवा धूमस्तावत् दृश्यते नाग्न्ःि । एवं रात्रौ अग्न्रिेव दृश्यते न धूम इत्यविवादम् । तदन्यथानुपपत्त्या "आदित्यः सायमग्न्िं प्रविशति । अग्न्स्तिु उद्यन्तमादित्यं दिवा प्रविशती’ति सिद्धमिति अग्न्पिक्षे अपूर्वत्वाभावः । विष्णुपक्षे विष्णोरादित्यस्थत्वस्य प्रमाणान्तरेणासिद्धत्वादपूर्वत्वमिति भावः । अत इति ॥ उक्तहेतुभ्य आदित्यस्थोऽग्न्ःि तस्मादक्षिस्थोऽग्न्ःि । ततश्च स एवानन्दमय इत्यर्थः । अत्र टीकायां "तदन्यथानुपपत्त्यैवोपपत्तेरित्यर्थ’ इत्यनन्तरम् "अत्रादित्यस्थत्विलङ्गस्यापि विष्णौ समन्वयसिद्ध्यर्थं वक्रसङ्गत्याऽधिकरणारभ्भ’ इति ज्ञातव्यम् । "अग्न्ीनामिति बहुवचनम्, आदिपदद्वयं च, बह्वग्न्श्रिुतिसूचनाय प्रयुक्तमिति ज्ञातव्य’मिति वाक्यद्वयं प्रक्षिप्तम् । अवश्यं चैतदेवं विज्ञेयम् आद्यं वाक्यं तावत्प्रक्षिप्तम्, आदित्ये विष्णुरित्युक्तमिति भाष्योक्तसङ्गतौ वक्रत्वाभावेन वक्रसङ्गत्याऽधि-करणारम्भाभावात्, "यश्चसावादित्य’ इति श्रुतौ विष्णोरादित्यस्थत्वमुक्तम् । ततश्चार्थादक्षिस्थत्वमुक्त-मित्यस्य ऋजुत्वेन वक्रत्वाभावात् । आदित्यस्थत्विलङ्गस्य विष्णौ समन्वयसिध्द्यर्थं सूत्रकृतैव प्रयतितव्यत्वेन भाष्यकृताऽप्रयतितव्यत्वात् न हि भाष्यकारः समन्वयार्थं प्रवृत्तः किंतु समन्वयाद्यर्थसूत्रव्याख्यानायैव प्रवृत्तः । न्यायसाम्यस्यैव समन्वयसाधकत्वेन लिङ्गसमन्वयस्य वक्रसङ्गत्याऽधिकरणारम्भफलत्वाभावाच्च । यस्य तु छान्दोग्योक्तादित्यस्थत्विलङ्गस्य विष्णौ समन्वयोऽभिलाषितः तस्य सङ्गतावप्रवेशात् । यस्य तु आनन्दमयप्रकरणस्थस्यादित्यस्थिलङ्गस्य सङ्गतौ प्रवेशः तत्समन्वयस्यानभिलषितत्वाच्च । द्वितीयमपि वाक्यं प्रक्षिप्तम् "सोऽहमस्मि स एवाहमस्मि’ इत्यादाविति प्रथम "आदि’शब्दस्य "य एष चन्द्रमसि पुरुषो दृश्यते य एष विद्युति पुरुषो दृश्यते’ इति वाक्यग्राहकत्वेन बह्वग्न्श्रिुतिसूचकत्वाभावात् । एवं "आदित्यादिस्थत्वमुच्यत’ इति द्वितीय "आदि’पदस्यापि चन्द्रविद्युत्प्रकरणत्वेन बह्वग्न्श्रिुतिसूचकत्वा-भावात् । एवमग्न्ीनामिति बहुवचनस्यापि गार्हपत्यान्वाहार्यपचनाहवनीयसंज्ञकानां त्रयाणामग्न्ीनाम्, आदित्यचन्द्रविद्युदन्तर्गतत्वप्रतिपादनार्थत्वेन बह्वगिश्रुतिसूचकत्वाभावात् । एकैनैव सूचनसम्भवे त्रयाणामुपादानवैयर्थ्याच्च । तदादित्यस्थोऽपि स एव स्यादिति ॥ तदा तर्हि "स एतदेवं विद्वानुपास्ते अपहते पापकृत्यां लोकीभवती’ति विष्णुलिङ्गश्रवणादिति भावः । तर्हीति ॥ तथा सतीत्यर्थः ।
वाक्यार्थमुक्तावली
ॐ अन्तर उपपत्ते ॐ ॥ अग्निश्रुतिसाहित्येनेति ॥ ब्रह्मेन्द्रमग्निमिति वाक्यगतस्याग्निशब्दस्य विष्णुपरत्वेऽपि नैतत्प्रकरणगतस्याग्निशब्दस्य विष्णुपरत्वम् । उपकोसलं प्रति विद्योपदेष्टृत्वादिना तस्य प्रसिद्धाग्निपरत्वावगमादिति भाव । श्रुत्यादिसङ्गतिमिति ॥ अव्यवहितपूर्वाधिकरणसङ्गतिस्तु ""एतद्भावाभिधं लिङ्गं क्रियालिङ्गे तत परम् । अन्तर्याम्यन्तरश्र्चेति क्रियाभावाख्यमुच्यते’’ इत्यनुव्याख्या-नोक्तरीत्या क्रियाप्रधानकभावरूपविशिष्टनिरूपणस्यैकैकविचारानन्तरं विशिष्टविचार इति । यद्वा एतदमृतमभयमेदद्ब्रह्मेत्युक्तमन्तस्थं यदि विष्णोरन्यत् स्यात् तदा ""य सेतुरीजानानामक्षरं ब्रह्म तत्परम् । अभयं तितीर्षतां पारम्’’ इत्युक्तं गुहास्थमपि विष्णोरन्यत् स्यात् इत्याक्षेपिकी सङ्गतिरिति ॥ अर्थादिति ॥ अक्ष्यादित्ययोरेकविधत्वादिति वक्ष्यमाणत्वादिति भाव ॥ विष्णोरिति ॥ अत्राक्षिस्थत्वम् अथ हाग्नय समूदिर इत्यादिबह्वग्निश्रुते सोऽहमस्मि स एवाहमस्मि इति सावधारणाभ्यासात् । स य एतदेवमित्यर्थवादात् । अस्मद्विद्याऽऽत्मविद्येति विद्याभेदोक्तेश्र्च किमग्ने ब्रह्मात्मशब्दामृतत्वा-भयत्वादिबलात् किं विष्णोरिति चिन्ता । तदर्थमग्निप्रापकं विष्णुप्रापकबाधकमुत तद्बाध्यम् इति । तदर्थमग्निप्रापकस्य निरवकाशत्वेन विष्णुप्रापकस्य सावकाशत्वमुत विपरीतत्वमिति । भाष्ये अग्नी-नामेवादित्यस्थत्वमुच्यत इत्यस्य यतोऽग्नीनामादित्यस्थत्वमुच्यते अत एव य एषोंऽतरक्षिणि पुरुषो दृश्यत इत्यत्राग्निरेवोच्यत इत्यन्वयमभिप्रेत्य व्याचष्टे ॥ य एषोंऽतरक्षिणीत्यादिना अत एवेत्यन्तेन ॥ अक्ष्यादित्ययोरैक्यादित्यन्तरितं वाक्यमवतार्य व्याचष्टे । न च वाच्यमिति ॥ अक्ष्यादित्यमण्डलयोरैक्या-योगादाह ॥ एकविधत्वादिति ॥ एकाभिमानिकत्वादित्यर्थ । आदित्यमण्डलाभिमानी चक्षुर्भूत्वा तन्नामकरूपान्तरेणाक्षिणी गोलके प्राविशदिति श्रुत्यर्थ । सोऽहमस्मीत्यादित्यस्थतयोच्यमानोऽग्निरिति कुत इत्यत आह ॥ एतस्मिन् प्रकरण इति ॥ चशब्दस्तु एतदाशङ्कापरिहारसमुच्चितस्यैवाक्ष्या-दित्ययोरेकविधत्विलङ्गस्य विवक्षितसाधकत्वादिति बोध्यम् । यद्वा अग्नेरक्षिस्थत्वे लिङ्गमुक्त्वा श्रुतिमप्याह ॥ एतस्मिन् प्रकरण इति । बह्वग्निश्रुतीत्यस्य बहुवचनान्ताग्निश्रुतेरित्यस्य बह्वी या अग्निश्रुति तस्या सद्भावादित्यर्थ । अत एव अथ हाग्नय इति, गार्हपत्योऽनुशशास इत्यादि चोक्तम् । आदिपदेन अथ हैनमन्वाहार्यपचन अथ हैनमाहवनीय इत्यादेर्ग्रहणम् । न चाक्षिस्थप्रकरणे नाग्निश्रुतिरिति वाच्यम् । आदित्याक्षिप्रकरणयोरैक्यादित्युक्तत्वादिति भाव । नन्वादित्ये पुरुषो विष्णुरेव यश्र्चासावादित्य इत्यानन्दमयशब्दितस्य विष्णोरादित्यस्थत्वोक्त्या तत्समाख्यानात् । आदित्ये पुरुष सोऽहमस्मीत्यग्ने-रादित्यस्थपुरुषत्वोक्तिस्तु आदित्यस्थपुरुषेणातिप्रीतिवशेनौपचारिकी । ममात्मा भद्रसेन इतिवदित्याशङ्क्य निषेधति ॥ न च वक्तव्यमित्यादिना ॥ अग्नेरादित्यस्थत्वं नाम अग्न्यन्तर्यामिण आदित्यस्थत्व-मित्यौपचारिकमित्यप्याहु ॥ विष्णुग्रहणस्यापूर्वतयेति ॥ ननु अग्निग्रहणेऽप्यपूर्वतासाम्यमिति चेन्न । अग्निशब्दस्य प्रसिद्धाग्निपरत्वमभ्युपेत्य तस्यादित्यस्थत्वकथनादपि अग्निशब्दस्य तदन्तर्गतभगवत्परत्वं शास्त्रदृष्टचेति न्यायेनाङ्गीकृत्य तस्यादित्यस्थत्वे ततोऽप्यपूर्वतालाभात् । किञ्च दिवाऽग्निप्रभाया अदर्शनेनादित्यप्रवेशस्य अनुमानसिद्धत्वात् । अत्यलौकिकब्रह्मग्रहणेऽग्निग्रहणादपि अपूर्वतालाभ इत्यर्थ ॥ अर्थवादादिति ॥ ज्ञानिन फलप्रतिपादनेऽपि ज्ञेयस्य फलहेतुत्वरूपस्तुत्यर्थवादोऽप्ययं भवतीति भाव । नन्वग्निशब्दस्य तन्नामकविष्णुविषयत्वेऽर्थवादोऽपि तद्विषयो भविष्यतीति चेन्न । अग्निशब्देन तदन्तर्गत-विष्णुग्रहणे अग्नेरादित्यस्थत्वे सिद्ध्यविरोधेनार्थवादस्य विष्णुविषयत्वकल्पनावैयर्थ्यात् । एतेन भाष्ये अग्नीनामित्यनेन बह्वग्निश्रुति सोऽहमस्मि स एवाहमस्मीत्यभ्यास अग्नीनामेवेत्यनेनैवकारेण न समाख्यानुसारेण विष्णोरिति समाख्याप्रतिषेध । इत्यादावित्यादिपदेन अथ हैनमन्वाहार्यपचनोऽथ हैनमाहवनीय इति वाक्यवत् तच्छेषभूतं स य एतदेवं विद्वानुपास्त इत्यर्थवादपरं वाक्यत्रयं च सङ्गृह्यत इति व्याख्यातं भवति ॥ मोक्ष इति मतमिति ॥ नेतरोऽनुपपत्तेरित्यत्रेति शेष । ननु नेतरोऽनुपपत्तेरित्यत्र विष्णुज्ञानान्मोक्ष इत्युक्तं तदयुक्तम् । तद्यथेत्यक्षिस्थज्ञानात् मोक्षश्रवणादिति ऋजुसङ्गत्यैवाधिकरणारम्भे कर्तव्ये, आनन्दमयो विष्णुरित्युक्तम् । तस्य चादित्यस्थत्वमर्थादक्षिस्थत्वं चाक्ष्यादित्ययोरेकविधत्वात् । तच्च य एषोंऽतरक्षिणीत्यग्ने प्रतीयते इति वक्रसङ्गत्याऽधिकरणारम्भ किमर्थमित्यत आह ॥ अत्रेति ॥ ननु ऋजुसङ्गत्याऽधिकरणारम्भेऽपि पूर्वपक्षे अग्नेरेवाक्षिस्थत्वे आदित्यस्थत्वस्य हेतुत्वेनोपादाने तस्य विष्णुनिष्ठत्वस्य सिद्धान्ते समर्थनीयत्वात् तस्यापि समन्वयसिद्धिरिति चेन्न । तस्य सिद्धान्तिना सावकाश-त्वाद्युक्त्या अविरोधकत्वस्य वक्तुं शक्यत्वेन समन्वय एव वक्तव्य इति नियमाभावात् । न हि सावकाशत्वमेव समन्वय । तस्य लक्षणादिवृत्यन्तरेणापि सम्भवेन समन्वयरूपताभावादिति भाव । अत एव समन्वयसिद्ध्यर्थमित्युक्तम् । भाष्ये स एवाहमस्मीत्यादावित्यादिपदेन चन्द्रमसि विद्युतीति वाक्यग्रहणम् । आदित्यादिस्थत्वमित्यादिपदेन चन्द्रविद्युतोर्ग्रहणम् । अग्नीनामिति बहुवचन-मन्वाहार्याहवनीययो सङ्ग्रहायेति प्रतीयते । तथात्वे चन्द्रविद्युतोरक्ष्णा एकविधत्वाभावेनान्वाहार्यादे तत्स्थत्वस्याक्षिस्थत्वसाधकत्वाभावेन प्रकृतानुपयुक्तत्वादित्यत आह ॥ अग्नीनामिति ॥ सूत्रे तत्तु इत्यनुवृत्ति सिद्धा । उपपत्तेरित्यावर्तते । आद्यस्य लिङ्गादित्यर्थ । द्वितीयस्य उक्तिलङ्गस्य तत्रैवोपपत्ते अन्यत्रानुपपत्तेरिति । ततश्र्च विष्णुरेवान्तरश्र्चक्षुरन्तस्थित्वा रममाणो नाग्नि उपपत्ते एतदमृत-मभयमित्युक्तामृतत्वाभयत्विलङ्गात् । ब्रह्मात्मपुरुषश्रुतिलक्षणतात्पर्यिलङ्गाच्च । तेषां तत्रैवोपपत्तेरिति सूत्रार्थमाह ॥ विष्णुरेवेत्यादिना । य एषोऽन्तरक्षिणीत्यत्राक्षिस्थत्वमात्रोक्तावपि ""अन्तस्थित्वा रमणकृदन्तर समुदाहृत । रमणं चात्मशब्देनादेयं मातीति चोच्यते’’ इत्यनुव्याख्यानोक्तेरात्मशब्देन रमणं लभ्यत इति ज्ञेयम् । नन्वेवमात्मशब्दस्य हेतुतयोपादानमिति चेन्न । यौगिकतया समन्वेत-व्यिलङ्गसमर्पकत्वेऽपि रूढत्वेन सूचितया हेतुत्वोपपत्ते । यद्वा भाष्ये आदिपदेन पुरुषशब्दमात्रस्य ग्रहणोपपत्तेरिति ॥ उभयथापीति ॥ निरवकाशत्वानेकवाक्यमित्यर्थ ॥ स्मारयतीति ॥ शास्त्र-दृष्टिसूत्रोक्तमित्यर्थ ॥ एवं श्रुतेरिति ॥ नन्वग्निशब्देन तदन्तर्गतविष्णुग्रहणेऽपि अग्नेरादित्यस्थत्वं प्राप्तमिति चेन्न । अग्निभि स्वान्वयं विनैव स्वान्तर्यामिण आदित्यस्थत्वोक्ते । अहं मनुरभवमित्यादौ वामदेवस्य मन्वाद्यन्तर्यामित्वाभावात् । तदुक्तमृग्भाष्ये ""एषा विष्णो केवलाप्येवमन्वा अयोग्यायामन्यदेवेषु सम्यक्’’ इति ।
तत्त्वसुबोधिनी
ॐ अन्तर उपपत्ते ॐ ॥ अत्र य एषोऽन्तरक्षिणीत्युक्तस्य चक्षुरन्तस्थस्याभयस्याग्नित्वादभयं तितीर्षतां पारमिति पूर्वोक्ताभयोऽप्यग्निर्न तु विष्णुरिति पूर्वपक्षोत्थानादनन्तरसङ्गति । अग्निश्रुतिसाहित्ये-नेति । ब्रह्मेन्द्रमग्निमिति वाक्यगताग्निशब्दस्य विष्णुपरत्वेऽपि नैतत्प्रकरणगताग्निशब्दस्य विष्णुपरत्वम् । उपकोसलं प्रति विद्योपदेष्टृत्वादिना तस्य प्रसिद्धाग्निपरत्वावगमादिति भाव । अर्थादक्षिस्थत्वमिति । अक्ष्यादित्ययोरेकविधत्वादिति वक्ष्यमाणन्यायेनेति भाव । अग्नेरादित्यस्थत्वमुच्यते अत एवेति । अग्नेरादित्यस्थत्वस्य उच्यमानत्वादेवेत्यर्थ । अनेन अतोऽक्ष्यादित्ययोरैक्यादिति भाष्यस्थोऽतशब्द सन्निहितेन ऐक्यादित्यनेनान्वेति । प्रकृतस्य अत इत्यनेन परामृष्टस्य आदित्यस्थत्वस्यैक्ये हेतुत्वायोगात् । किन्तु व्यवहितेनात्राप्यग्निरेवोच्यते इत्यनेनान्वेतीत्युक्तं भवति । ननु अक्ष्यादित्ययोरैक्यादिति कथम् । आदित्यमण्डलाक्ष्णो परस्परभिन्नत्वेन प्रमितत्वात् । न च वाच्यम् आदित्याक्षिपदाभ्यां चेतनग्रहणे-नैक्योपपत्तिरिति । स्थानादिव्यपदेशाच्च इति सूत्रानानुगुण्यात् । तत्र हि स्थानत्वेनोक्ताक्ष्णोर्जडत्वेनाभि-प्रेतत्वात् । य एष आदित्ये पुरुष य एषोऽन्तरक्षिणि पुरुष इति वाक्यद्वये आदित्याक्षिगतस्य पुरुषपदेन चेतनत्वेनोक्त्या तयो जडत्वेनाभिप्रेतत्वाच्चेत्यत आह । अक्ष्यादित्ययो एकविधत्वादिति । असावादित्यस्त्रिवृत् त्रिवृदिव वै चक्षु शुक्लं कृष्णं कनीनिकेति श्रुत्यनुसारेण जडभूतादित्यमण्डलाक्ष्णोरेव त्रिवृत्त्वधर्मयुक्तत्वेनैकविधत्वात् । आदित्य चक्षुरिति श्रुतौ आदित्यचक्षुपदयो चेतनपरत्वेन आदित्यमण्डलस्थचेतनस्य जडाक्षिप्रेवशोक्त्या जडाक्ष्यादित्यमण्डलयोरेकचेतनाधिष्ठितत्वधर्मेण एकविधत्वा-द्वेत्यर्थ । गार्हपत्योऽनुशशासेत्यादि इति । आदिपदेन "अथ हैनमाहवनीय’ इत्यादिग्रहणम् । नन्वस्तु अभ्यासस्तथापि समाख्ययैव तद्बोधो भविष्यतीत्यत आह । अभ्यासस्य चेति । तस्या षष्ठप्रमाणत्वेन दुर्बलत्वादिति भाव । तथापि अग्ने आदित्यस्थत्वस्य प्राप्तत्वात् विष्णुपक्षे अपूर्वता लभ्यत इत्यत आह । न चेति । स य एतदेवं विद्वान् इत्यस्यायमर्थ । स य कश्र्चिदेवं यथोक्तं गार्हपत्याग्निमुपास्ते अपहते विनाशयति पापकृत्यां पापकर्म लोकीभवति अस्मदीयेन लोकेन आग्नेयेन तद्वान्भवति सर्वं वय शतायु मोक्षं प्राप्नोति ज्योक् उज्वलं जीवति नाप्राख्यात आस्ते इत्यर्थ । नास्य अवराश्र्च ते षुरुषाश्र्चास्य विदुष सन्ततिर्जात इत्यर्थ । क्षीयन्ते सन्तत्युच्छेदो न भवतीत्यर्थ । किञ्च तमुपासकं वयमुपभुञ्जाम पालयाम अस्मिन्लोके जीवन्तम् अमुष्मिन्परे लोकेऽपीति । नन्वस्तु अर्थवाद तत किमित्यत आह । अर्थवादस्य चेति । उपसंहरति । अत इति । यतोऽग्निरक्षिस्थ इति । अनेन भाष्ये अतोऽग्निज्ञानादेव मोक्ष इत्यपि सम्बन्ध । अत इति बलाद्यत इत्यादेरर्थतो लाभ । तयो हेतुहेतुमद्भावसमर्थनार्थं तद्यथेति भाष्यमित्युक्तं भवति । भाष्ये पुष्करपलाश इत्यत्र कमलपत्र इत्यर्थ । मोक्षस्यापीति । मोक्षं विना सर्वपापाश्र्लेषासम्भवादिति भाव । वक्रसङ्गत्या अधिकरणारम्भ इति । यद्यपि विष्णुज्ञानात् मोक्ष इत्युक्तम् । तदयुक्तम् । तद्यथेत्यक्षिस्थस्याग्ने ज्ञानान्मोक्षश्रवणादिति ऋजुसङ्गत्यैवाधिकरणमारभ्याग्नेरेवाक्षिस्थत्वमिति पूर्वपक्षे आदित्यस्थत्वं हेतूकर्तुं शक्यं पूर्वपक्षे तस्य हेतूकरणं च वक्रसङ्गत्याऽधिकरणारम्भेऽपि समम् । तथापि यथा सिद्धान्ते आदित्यदेवताया आदित्यमण्डलस्थत्वेऽपि इदम् अक्षिस्थत्वममृतत्वादिहेतुभि ब्रह्मण तथा पूर्वपक्षे अग्ने आदित्यस्थत्वेऽपि अक्षिस्थत्वं ब्रह्मण एवेति आदित्यस्थत्वस्य विष्णौ समन्वयो न सिद्ध्येत् । आदित्यस्थो विष्णुस्ततश्र्च अर्थादक्षिस्थोऽपि स एवेत्यानन्दमयाधिकरणोक्तमादित्यदेवतास्थत्वादिकमयुक्तम् अग्नेरेव अक्ष्यादित्यदेवतास्थत्वादिति वक्रसङ्गत्या अधिकरणारम्भे तु पूर्वोक्तस्य विष्णो आदित्यदेवतास्थत्वस्येह पूर्वपक्षे आक्षेपात् तन्निरासस्य विष्णोरेवादित्यस्थत्वमिति सिद्धान्ताभिप्रायं विनाऽसिद्धेस्तत्समन्वय सिद्ध्यतीति भाव । यद्वा आदित्यस्थत्वस्य पूर्वपक्षे हेतुमात्रत्वेनोक्तौ पूर्वपक्षहेतुरपि सिद्धान्तिना समन्वेतव्य इति नियमाभावात् न तत्समन्वयसिद्धि उत्तरादित्यस्थत्वाक्षेपमुखेन तु पूर्वपक्षे सिद्धान्ते तत्समन्वयोऽपि कर्तव्य इति । य एष आदित्ये पुरुषो दृश्यते इति वाक्यमपि ब्रह्मणि समन्वितं भवति इति भाव । ननु भाष्ये य एष आदित्ये पुरुष इत्यग्नेरेव आदित्यस्थत्वमुच्यत इति वक्तव्यम् । अक्ष्यादित्ययोरैक्यादिति आदित्यस्थत्वस्यैवाक्षिस्थत्वसाधकत्वेनाभिमततया तदुक्तेरेव प्रकृतसङ्गतत्वात् । आदिपदद्वयं बहुवचनं च व्यर्थम् । न चाथ हैनमन्वाहार्यपचनोऽथ हैनमावहनीय इति वाक्यद्वयसङ्ग्रहाय प्रथमादिपदम् अन्वाहार्यपचनाहवनीययो सङ्ग्रहाय अग्नीनामेवेति बहुवचनम् । चन्द्रमाविद्युतो सङ्ग्रहाय द्वितीयादिपदम् इति वाच्यम् । चन्द्रविद्युतो अक्ष्णैकविधत्वाभावेन अन्वाहार्यपचनाहवनीययो अन्तस्थत्वस्याक्षिस्थत्वसाधकत्वाभावेन प्रकृतानुपयुक्तत्वात् इत्यत आह । अग्नीनामिति । अथ हाग्नय इत्येत्प्रकरणगतान्वाहार्यादिरूपबह्वग्निश्रुतिसूचनार्थमेव बहुवचनादिप्रयोगो न तूक्ताभिप्रायेणेति भाव । एतदमृतम् अभयमिति भाष्ये उपपत्ते निरवकाशत्वोक्त्यैव पक्षनिष्ठत्वं लभ्यत इति तन्नोक्तमिति ज्ञातव्यम् । अमृतत्वादीति भाष्यगतादिपदार्थमाह । अभयमिति । उभयथापीति । श्रुते जात्या आत्मशब्दमादायानेकत्वेन चेत्यर्थ । नन्वभ्यासार्थवादयो का गतिरत आह । एवं श्रुते सावकाशत्वेनेति ।
वाक्यार्थमञ्जरी
अर्थादिति ॥ अक्ष्यादित्ययोरेकविधत्वादिति वक्ष्यमाणरीत्येति भाव ॥ य एष इति ॥ य एषोऽन्तरक्षिण्यन्तपुरुषो दिव्यदृष्ट्या दृश्यते एष आत्मा वामनाख्य परमात्मेति होवाच एतद्भगवद्रूपममृतं स्वत एव मरणरहितम् । अभयं स्वत एव भयरहितम् । एतद् ब्रह्म गुणपूर्णमित्यर्थ ॥ अग्निश्रुतिरिति ॥ अथ हाग्नय समूदिर इत्यादाविति शेष ॥ य एष आदित्ये पुरुष इति ॥ आदित्ये सूर्ये य एष पुरुष पूर्णषगुणो भगवान्दिव्यदृष्ट्या दृश्यते सोऽहमहेयत्वादहंनामा गार्हपत्याग्निस्थोऽस्मि । आदित्य-स्थस्य मदन्तर्यामिणश्र्च न विदुरधर्मादिवदभेद किं तु न कोऽपि विशेष इत्यत आह ॥ स एवेति ॥ गार्हपत्याग्निनोपकोसलं प्रत्युपदिश्यते ॥ आदित्य इति ॥ आदित्य आदित्यमण्डलाभिमानी । चक्षुर्भूत्वा रूपान्तरेण चक्षुर्देवता भूत्वाऽक्षिणी गोलके प्राविशदित्यैतरेयभाष्यश्रुतावादित्यमण्डलस्य यद्देवताकत्वं चक्षुर्गोलकस्यापि तद्देवताकत्वरूपैकविधत्वोक्तेरित्यर्थ । तथा च भाष्ये एकपदमेकचेतनाधिष्ठितत्व-रूपैकविधत्वपरम् । अक्ष्यादित्यपदे तु जडपर इति भाव ॥ समूदिरे ऊचु । औपचारिकम् आदित्यस्थ-विष्ण्वाश्रयत्वेन ॥ श्रुतीति ॥ आनन्दमयस्यादित्यस्थत्वप्रतिपादकसमाख्याश्रुतीत्यर्थ ॥ बलवत्वादिति ॥ स्थानान्तरस्थसमाख्यापेक्षया एकस्थानस्थाभ्यासस्य शीघ्रोपस्थितिकरत्वादिति भाव ॥ अपूर्वतयेति ॥ लोकप्रसिद्धाग्नित्यागेनात्यलौकिकब्रह्मग्रहणेऽपूर्वतेत्यर्थ ॥ बाध इति ॥ एकत्रानेकवारोक्तिरूपतया ज्ञातज्ञापकाभ्यासादपि प्रमाणान्तराप्रापकत्वरूपापूर्वताया प्राबल्यादिति भाव ॥ स य एतमिति ॥ योऽधिकारी एतदग्न्यन्तर्यामिरूपमेवं विद्वान् जानन्नुपास्ते । स पापकृत्याम् अपहते विनाशयति लोकी भगवल्लोकी भवति सर्वमायुर्मोक्षमाप्नोतीत्यर्थ ॥ प्राबल्यादिति ॥ अपूर्वतापेक्षयोद्देश्यत्वेनाधिकफलापेक्षया करणाकरणयोरिष्टानिष्टकथनरूपार्थवादस्यापूर्वताया प्राबल्यस्य सुतरां सिद्धेरिति भाव । यद्यपि अपहते पापहते पापकृत्यमिति फलं तथापि स्तुतिरूपार्थवादित्वमप्यस्तीति वा । वस्तुत फलवत्त्वं फलं फलोक्तिस्त्वर्थवाद इति वाऽभिप्रेत्यैवमुक्तिरिति ध्येयम् । भाष्ये पलाशे पत्रे ॥ तदन्यथानुपपत्त्यैवेति ॥ मोक्षं विना सर्वपापाश्र्लेषासम्भवादिति भाव । ननु नेतरोऽनुपपत्तेरित्यादौ विष्णुज्ञानान्मोक्ष इत्युक्तम् । स मोक्षस्तद्यथा पुष्करपलाश इति वाक्येन य एषोऽन्तरक्षिणीत्युक्ताक्षिस्थज्ञानात्प्रतीयत इति ऋजुसङ्गत्यैवै-तदधिकरणारम्भसम्भवे य एष आदित्ये पुरुष य एषोऽन्तरक्षिणि पुरुष इत्यनयोर्वाक्ययोरादित्यश्र्चक्षुर्भूत्वेति श्रुत्यैकार्थत्वमुपपाद्य य एष आदित्य इति वाक्यस्य यश्र्चासावादित्य इति वाक्येन सङ्गत्या तदर्थार्थक य एषोऽन्तरक्षिणीति वाक्यस्यापि तेन सङ्गतिरिति वक्रसङ्गत्याऽधिकरणारम्भे किं निमित्तमित्यत आह ॥ अत्रादित्येति ॥ यद्यप्युक्तरीत्या ऋजुसङ्गत्याऽधिकरणारम्भेऽपि पूर्वपक्षेऽग्नेरेवाक्षिस्थत्वे आदित्यस्थत्वस्य हेतुत्वेनोपपादने सिद्धान्ते तस्य विष्णुनिष्ठत्वस्य समर्थनीयत्वात्तस्यापि समन्वयसिद्धिस्तथापि पूर्वपक्षहेतो सिद्धान्तिना सावकाशत्वोक्त्याप्यविरोधकत्वस्य वक्तुं शक्यत्वेन समन्वय एव वक्तव्य इति नियामकाभावात्तदर्थमेतदिति भाव । ननु भाष्ये प्रथमादिपदम् अथ हैनमन्वाहार्यपचनोऽनुशशास य एष चन्द्रमसि पुरुषो दृश्यते सोऽहमस्मि अथ हैनमाहवनीयोऽनुशशास य एष विद्युति पुरुषो दृश्यते सोऽहमस्मीत्यनयोर्वाक्ययो सङ्ग्राहकम् । द्वितीयादिपदं च चन्द्रविद्युतो सङ्ग्राहकम् । बहुवचनं चान्वाहार्यपचनाहवनीययोर्वाक्यसङ्ग्राहकमिति प्रतीयते । इदं चानुपपन्नं चन्द्रविद्युतोरक्ष्णैकविधत्वाभावे-नान्वाहार्यपचनाहवनीययोस्तदुभयस्थत्वस्याक्षिस्थत्वसाधकत्वाभावेन प्रकृतानुपयोगात् । अतो य एष आदित्ये पुरुष इत्यग्नेरादित्यस्थत्वमुच्यत इत्येव वक्तव्यं शिष्टं तु व्यर्थमित्यत आह ॥ अग्नीनामिति बहुवचनमादिपदद्वयं चेति ॥ अग्नेरक्षिस्थत्वसाधकत्वेनाथ हाग्नय समूदिर इत्येतत्प्रकरणगताग्निगार्हपत्या-न्वाहार्यपचनाहवनीयादिरूपब्रह्वग्निश्रुतीनां सूचनार्थमेव बहुवचनप्रयोगो न तूक्ताभिप्रायेणेति भाव ॥ ॐ अन्तर उपपत्ते ॐ ॥ अन्तर चक्षुरन्तस्थित्वा रममाणो विष्णुरेव । एतदमृतमभयमेतद्ब्रह्मेत्युक्ता-मृतत्वाभयत्वब्रह्मशब्दानां तत्रैवोपपत्तेरित्यर्थ । अभयं भयरहितम् । तितीर्षतां संसारतरणेच्छावताम् । पारं सेतुरिवाधारम् ॥ पर्येनमिति ॥ एनं परमात्मानं परि प्रति एतेनेति यावात् । विद्युदादयो म्रीयन्त इत्यर्थ ॥ भीषेति ॥ अस्मादस्य हरे भीषा भयेनाग्न्यादय स्वस्वव्यापारं कुर्वन्तीत्यर्थ ॥ तदनुयायिनोरिति ॥ श्रुतिबलेन लब्धार्थ एव तयोर्वाक्यतात्पर्यज्ञापकत्वादिति भाव ॥
विवृति
अत्र य एषोऽन्तरक्षिणि, इत्युक्तस्य चक्षुरन्तस्थस्याभयस्याग्न्त्विादभयं तितीर्षतां पारमिति पूर्वोक्ता-भयोऽप्यग्न्ि नतु विष्णुरिति पूर्वपक्षोत्थानादनन्तरसङ्गति ।
अग्न्श्रिुतिसाहित्येनेति ॥ ब्रह्मेन्द्रमग्न्ििमति वाक्यगतस्याग्न्शिब्दस्य विष्णुपरत्वेऽपि नैतत्प्रकरण-गताग्न्शिब्दस्य विष्णुपरत्वम्, उपकोसलं प्रति विद्योपदेष्टृत्वादिना तस्यप्रसिद्धाग्न्पिरत्वावगममादिति भाव । अर्थादक्षिस्थत्वमिति ॥ अक्ष्यादित्ययोरेकविधत्वादिति वक्ष्यमाणन्यायेनेति भाव । अग्न्ेरादित्यस्थत्वमुच्यत एवेति ॥ अग्न्ेरादित्यस्थत्वस्योच्यमानत्वादेवेत्यर्थ । अनेन "अतोऽक्ष्यादित्ययोरैक्यात्’’ इति भाष्यस्थोऽतशब्द सन्निहितेनैक्यादित्यनेनान्वेति । प्रकृतस्यातद्वति परामृष्टस्यादित्यस्थत्वस्यैक्ये हेतुत्वायोगात् किन्तु व्यवहितेनात्राप्यग्न्रिेको वोच्यत इत्यनेनान्वितं भवतीत्युक्तम् । नन्वक्ष्यादित्ययोरैक्यादिति कथं आदित्यमण्डलाक्ष्णो परस्परं भिन्नत्वेन प्रमितत्वात् । नच वाच्यं आदित्याक्षिपदाभ्यां चेतनग्रहणेनैक्योपपत्तिरिति । स्थानादिव्यपदेशाच्चेति सूत्रानानुगुण्यात् । तत्रहि स्थानत्वेनोक्ताक्ष्णोर्जडत्वेनाभिप्रेतत्वात् । "य एष आदित्ये पुरुष’ "य एषोऽन्तरक्षिणि पुरुष’ इति वाक्यद्वये आदित्याक्षिगतस्य पुरुषपदेन चेतनत्वोक्त्या तयोर्जडत्वेनाभिप्रेतत्वाच्चेत्यत आह ॥ अक्ष्यादित्ययोरेकविधत्वादिति ॥ "असावादित्यस्त्रिवृदिव वै, चक्षु शुक्लं कृष्णं कनीनि का’ इतिश्रुत्यनुसारेण जडभूतादित्यमण्डलाक्ष्णोरेव त्रिवृत्वधर्मयुक्तत्वेनैकविधत्वात् । आदित्यश्र्चक्षुरिति श्रुतावादित्यचक्षुपदयोश्र्चेतनपरत्वेनादित्यमण्डलस्थचेतनस्य जडाक्षिप्रवेशोक्त्या जडाक्ष्यादित्यमण्डलयोरेक-चेतनाधिष्ठितत्वधर्मेणैकविधत्वाद्वेत्यर्थ ॥
गार्हपत्योऽनुशशासेत्यादीति ॥ आदिपदेन "अथहैनमन्वाहार्यपचन अथ हैनमाहवनीय इत्यादि ग्रहणम् । नन्वस्त्यभ्यास समाख्ययैव तद्बोधो भविष्यतीत्यत आह ॥ अभ्यासस्य चेति ॥ तस्य षष्ठप्रमाणत्वेन दुर्बलत्वादिति भाव । तथाप्यग्न्ेरादित्यस्थत्वस्य प्राप्तत्वाद्विष्णुपक्षेऽपूर्वता लम्यत इत्यत आह ॥ न चेति ॥ स य एतदेवं विद्वानित्यस्यायमर्थ सय कश्र्चिदेवं यथोक्तं गार्हपत्यमग्न्मिुपास्ते सोऽपहते विनाशयति पापकृत्यां पापकर्म लोकीभवति अस्मदीयेन लोकेनाग्न्ेयेन तद्वान् भवति सर्वं वर्षशतमायुरेति प्राप्नोति ज्योक् उज्वलं जीवति नाप्रख्यात आस्त इत्यर्थ । नास्य अवराश्र्च ते पुरुषाश्र्चास्य विदुष सन्ततिर्जात इत्यर्थ । क्षीयन्ते सन्तत्युच्छेदो न भवतीत्यर्थ । किं च तमुपासकं वयं उपभुञ्जाम पालयाम अस्मिन् लोके जीवन्तममुष्मिन् परे लोकेऽपीति । नन्वस्त्वर्थवाद तत किमित्यत आह ॥ अर्थवादस्यचेति ॥ उपसंहरति ॥ अत इति ॥ यतोऽग्न्रिक्षिस्थ इत्यनेन भाष्ये अतोऽग्न्ज्ञिानादेव मोक्ष इत्यपि सम्बन्ध ॥ अत इति ॥ यतोऽग्न्रिक्षिस्थ इति ॥ अत इति बलाद्यत इत्यादेरर्थतो लाभ ॥ तयोर्हेतुहेतुमद्भावसमर्थनार्थं तद्यर्थेति भाष्यमित्युक्तं भवति ॥ भाष्ये पुष्करेत्यादे कमलपत्र इत्यर्थ । मोक्षस्यापीति ॥ मोक्षं विना सर्वथा पापाश्र्लेषासम्भवादिति भाव । वक्रसङ्गत्याऽधिकरणारम्भ इति ॥ यद्यपि विष्णुज्ञानान्मोक्ष इत्युक्तम् । तदयुक्तम् । तद्यथेत्यत्राक्षि-स्थस्याग्न्ेर्ज्ञानान्मोक्षश्रवणादिति ऋजुसङ्गत्यैवाधिकरणमारभ्याग्न्ेरेवाक्षिस्थत्वमिति पूर्वपक्षे आदित्यस्थत्वं हेतूकर्तुं शक्यम् । पूर्वपक्षे तस्य हेतूकरणं च वक्रसङ्गत्याऽधिकरणारम्भेऽपि समम् । तथापि यथा सिद्धान्ते आदित्यदेवताया आदित्यमण्डलस्थत्वेऽपि इदमक्षिस्थत्वममृतत्वादिहेतुभि ब्रह्मण एव तथा पूर्वपक्षे अग्न्ेरादित्यस्थत्वेऽपि अक्षिस्थत्वं ब्रह्मणएवेत्यादित्यस्थत्वस्य विष्णौ समन्वयो न सिध्येत् । एवञ्चादित्यस्थो विष्णुस्ततश्र्चार्थादक्षिस्थोऽपि स एवेति आनन्दमयाद्यधिकरणोक्तमादित्यदेवतास्थत्वमयुक्तं, आदित्यस्थोऽग्न्ि तथाचाक्षिस्थोऽप्यग्न्रिेव, आदित्यश्र्चक्षुर्भूत्वाऽक्षिणी प्राविशदिति श्रुत्याऽक्ष्या-दित्ययोरेकविधत्वादिति वक्रसङ्गत्याधिकरणारम्भेतु पूर्वोक्तस्य विष्णोरादित्यदेवतास्थत्वस्येह पूर्वपक्षे आक्षेपात्तन्निरासस्य विष्णोरेवादित्यस्थत्वमिति सिद्धान्ताभिप्रायं विनाऽसिद्धे तत्समन्वय सिद्ध्यतीतिभाव । यद्वा आदित्यस्थत्वस्य पूर्वपक्षे हेतुमात्रत्वेनोक्तौ पूर्वपक्षहेतुरपि सिद्धान्तिना समन्वेतव्य इति नियमाभावान्न तत्समन्वयसिद्धि । उक्तादित्यस्थत्वाक्षेपमुखेनतु पूर्वपक्षे सिद्धान्ते तत्समन्वयोऽपि कर्तव्य इति य एष आदित्ये पुरुषो दृश्यत इति वाक्यमपि ब्रह्मणि समन्वितं भवतीति भाव ।
ननु भाष्ये य एष आदित्ये पुरुष इत्यग्न्ेरेवादित्यस्थत्वमुच्यत इति वक्तव्यम् । अक्ष्यादित्ययोरैक्या-दित्यादित्यस्थत्वस्यैवाक्षिस्थत्वसाधकत्वेनाभिमततया तदुक्तेरेवप्रकृतसङ्गतत्वादादिपदद्वयं बहुवचनं च व्यर्थम् । नचाथ हैनमन्वार्यपचनाहवनीययो सङ्ग्रहायाग्न्ीनांवेति बहुवचनं चन्द्रमाविद्युतो सङ्ग्रहाय द्वितीयमादिपदमिति वाच्यम् । चन्द्रविद्युतोरक्ष्णैकविधत्वाभावेन प्रकृतानुपयुक्तत्वादित्यत आह अग्न्ीनामिति ॥ अथाग्न्य इत्येत्प्रकरणगतान्वाहार्यादिरूपबह्वग्न्श्रिुतिसूचनार्थमेव बहुवचनादिप्रयोगो नतूक्ताभिप्रायेणेति भाव । एतदमृतमभयमिति भाष्ये उपपत्तेर्निरवकाशत्वोक्त्यैव पक्षनिष्ठत्वं लभ्यत इति तन्नोक्तमिति ज्ञातव्यम् । अमृतत्वादिति भाष्यगतादिपदार्थमाह अभयमिति ॥ उभयथापीति ॥ श्रुतेर्जात्याऽत्मशब्दमादायानेकत्वेन चेत्यर्थ । श्रुतेर्निरवकाशत्वं प्रागुपपादितम् । नन्वभ्यासार्थवादयो का गतिरत आह ॥ एवं श्रुते सावकाशत्वेनेति ॥