ॐ ओषु यथाऽऽश्रयभावः ॐ

४१.अङ्गाधिकरणम्

सूत्रभाष्यम्

।। ॐ ओषु यथाऽऽश्रयभावः ॐ ।। ६३ ।।

अङ्गदेवतानां यथा यथा परमेश्वराङ्गाश्रयत्वं ‘चक्षोः सूर्यो अजायत’ (क्र.सं.१०-९०-१३) इत्यादि तथा भावना कर्तव्या ।।

तत्त्वप्रदीपिका

अङ्गदेवतानामुभयविधमुपासनं, परिवारत्वेनाङ्गस्थत्वेन चेति । तत्र प्रथमं तावदुत्तरोत्तरं सन्निकर्षाधिक्येनेति न्याय्यं दर्शितं च गुरुभिरेवान्यत्र । अङ्गस्थत्वेनोपासने कुत्र कस्य भावनेत्या-काङ्क्षायामाह– ओषु यथाऽऽश्रयभावः । यस्य यस्य यथा यथा परमेश्वराङ्गाश्रयत्वमुच्यते ‘चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत’ इत्यादि तस्य तस्य देवस्य तथा तथा भावना कर्तव्या ।

तत्त्वप्रकाशिका

अत्र भगवत्साक्षात्कारसाधनाङ्गदेवतोपासनस्य कर्तव्यतासमर्थनादस्ति शास्त्रादिसङ्गतिः । अन्यथा तद्विद्यावैयर्थ्यात्तत्समर्थनीयम् । प्रकृतं ब्रह्मादिदेवतोपासनं विषयः । भगवदङ्गाश्रितत्वेन मुमुक्षुणा कर्तव्यं न वेति सन्देहः । आश्रितत्वेन श्रुत्युक्तेरुभयथा सम्भवः सन्देहबीजम् । न तथोपासनं मुमुक्षुणा कर्तव्यमिति पूर्वः पक्षः । तथा हि किं तत्सर्वैः कर्तव्यं देवैर्वा । नाद्यः । उक्तव्याघातात् । न द्वितीयः । ‘ब्रह्मा शिरसि ललाटे रुद्रः’ इत्यादि तत्तत्प्रकरणेषु देवानामेव तदित्यनुक्तेः । न चानुक्तावप्यधिकारिविशेषः कल्पयितुं शक्यते । कल्पकाभावात् । अन्यथा चोदनाद्यविशेषादित्युक्तव्याघातात् । अतो निरधिकारित्वादङ्गाश्रितत्वेन देवतोपासनं न कार्यमिति तद्विद्यावैयर्थ्यमिति । सिद्धान्तयत्सूत्रं पठित्वा व्याचष्टे ।। ओष्विति ।। सूर्यादिदेवानां ‘चक्षोः सूर्यो अजायत’ इत्यादिना यथा भगवदङ्गाश्रयत्वमुक्तं तथोपासनं कार्यमेव । अन्यथा तदुक्तिवैयर्थ्यप्रसङ्गादिति भावः । यत्र जन्म तत्रैव स्थितिरित्यदोषः । ‘तदाश्रिताश्च ते सर्वे’ । इति वचनात् ।

गुर्वर्थदीपिका

अङ्गदेवतोपासनस्येत्यत्र चक्षुरादिभगवदङ्गस्थितदेवतोपासनस्येत्यर्थः । ‘समाहारात्’ इति सूत्रे सूर्याश्रयचक्षुष्ट्वादीनां समाहारस्यैव कर्तव्यत्वमुक्तम् । श्रुतौ च ‘तांश्चापि तत्रैव विचिन्त्य देवान् स्थानं मुमुक्षुः परमं व्रजेत’ इति सामान्यत एव फलमुक्तम् । अतः सर्वैरपि कर्तव्यत्वशङ्का । तत्परिहारायोत्तराधिकरणम् । श्रुत्यनुसारी सूत्रकारोऽपि नाश्रुतमसूत्रयत् । एवं च पूर्वाधिकरणोक्त-सूर्यादिदेवाश्रयचक्षुष्ट्वादिभगवद्गुणोपसंहरणं ‘परमं स्थानं व्रजेत’ इत्युक्तेर्ब्रह्मण एव । सूर्यादीनां तु सूर्याश्रयचक्षुष्मान् दिग्देवताश्रयश्रोत्रवानित्येवोपासनम् । अन्यथा मोक्षे फलसाङ्कर्यप्रसङ्गात् । ब्रह्मणस्तु तत्तदङ्गाश्रितदेवान्तस्थत्वेन तत्र स्थानप्राप्तिरप्यस्तीति सूचनाय परमं स्थानमिति सामान्येनोक्तम् । कासुचिद्भाष्यसम्पुटिकासु समाहारादित्येव पाठोऽस्ति । अतः सूत्रभाष्ययोः समाहारपदं श्रुतिसूचकमित्युक्तम् ।

भावबोधः

अङ्गदेवतोपासनस्येति ।। यद्यपीदं ‘अङ्गावबद्धा’ इत्यनन्तरमेव कर्तव्यं तथापि तत्र सर्वाधिकारिसाधारणस्य भगवदुपसर्जनतयान्यदेवतोपासनसहितस्य भगवदुपासनस्य कर्तव्यत्व-समर्थनम् । अत्र पुनर्ब्रह्माद्यङ्गदेवतानां तत्तदुत्पादकभगवदङ्गाश्रितत्वेन प्रकारेणोपासनस्य देवैरेव कर्तव्यत्वसमर्थनमिति वैलक्षण्यज्ञापनार्थं भूमाद्यधिकरणचतुष्टयस्योक्तरीत्या पूर्वपूर्वसङ्गतत्वप्राप्ते-स्तदधिकरणचतुष्टयेन व्यवधानं कृतमिति ज्ञेयम् । भगवदङ्गाश्रितत्वेनेति ।। अत्र ब्रह्माद्यङ्ग-देवतोपासनं भगवदङ्गाश्रितत्वेन न कर्तव्यमुत कर्तव्यमिति चिन्ता । तदर्थं तदुपासनस्य कर्तव्यत्वा-वेदकं विध्यादिप्रमाणं व्यर्थमुत सार्थकमिति । तदर्थं तदुपासनं निरधिकारिकमुत साधिकारिक-मिति । तदर्थमधिकारिविशेषकल्पकं नास्त्युत अस्तीति ।। देवानामिति ।। तत्रैव विशेषवचना-भावात् । ‘ब्रह्मा शिरसि ललाटे रुद्रः’ इत्यादीनां नावश्योपास्यता देवतादीनामेवेति न्यायविवरणानुसारेण पूर्वपक्षमुपपादयति– तथा हीति ।। उक्तव्याघातादिति ।। ‘आनन्दादयः प्रधानस्य’ इत्युक्तव्याघातादित्यर्थः । इदं च देवादीनामेवेत्यनेन सूचितमिति ज्ञातव्यम् । ‘समाहारात्’ इति सूत्रविवर्तनीयमाह– न चानुक्तावपीति ।।

ननु ‘चक्षोः सूर्योऽजायत’ इत्यादिश्रुतौ सूर्यादीनां भगवच्चक्षुरादिजन्यत्वमेवोच्यते न तु चक्षुराद्याश्रयत्वम् । तत्कथं ‘चक्षोः सूर्योऽजायत’ इत्यादिपरमेश्वराङ्गाश्रयत्वमुक्तमित्यत आह– यत्रेति ।।

भावदीपः

कर्तव्यत्वेति ।। निरधिकारिकत्वनिमित्तकर्तव्यत्वशङ्कानिरासेनेति भावः । द्विविधं ह्यङ्गदेवतोपासनम् । विष्णोः परिवारत्वेनाङ्गाश्रितत्वेन चेति । तत्राद्यं सर्वाधिकारिकमङ्गावबद्धा इत्यत्रोक्तम् । द्वितीयं तु पूर्वत्र काम्योपासनं मुमुक्षुणा न कार्यमित्युक्तौ तर्हि तत्प्रसङ्गादङ्गाश्रित-त्वेनाङ्गदेवतोपासनमपि मुमुक्षुणा न कार्यमिति शङ्कनाद्वा यथाकामं समुच्चीयेरन्नित्युक्तन्यायेन प्राप्यफलानुरोधेनाधिकारिकल्पनोपपत्त्योपासनकर्तव्यत्वसम्भवाद्वाऽत्र समर्थ्यत इति भावः ।। अन्यथेति ।। अङ्गाश्रितत्वेनाङ्गदेवानामुपासनाऽसमर्थने चक्षोः सूर्यो अजायतेत्यादिविद्यावैयर्थ्या-दित्यर्थः । आध्यानायेति न्यायादिति भावः ।। प्रकृतमिति ।। अङ्गावबद्धा इत्यत्र प्रकृतमित्यर्थः ।। श्रुत्युक्तेरिति ।। ‘चक्षोः सूर्यो अजायत’ इत्याद्युक्तेरित्यर्थः । यतो जन्म तत्रैव स्थितिरिति जन्मश्रुतेरेवाश्रितत्वश्रुतित्वात् ।

यद्वा ब्रह्मा शिरसि, ललाटे रुद्र, इत्यादि श्रुत्युक्तेत्यर्थः । काम्याकाम्यगुणोक्तेरिति भावः । ‘ब्रह्मा शिरसि ललाटे रुद्रः’ इत्यादीनां नावश्योपास्यता । देवादीनामेवेत्यन्यत्रोक्तप्रतिज्ञार्थमाह ।। न तथेति ।। देवादीनामेवेत्येतत्सर्वेषां वा देवानामेव वेत्यर्थकमुपेत्य विकल्पयति ।। किमिति ।। स्वयं हेतुमाह ।। उक्तेति ।। ‘आनन्दादयः प्रधानस्य’ इत्युक्तव्याघातादित्यर्थः ।। देवानामिति ।। तत्रैव विशेषाभावादित्यन्यत्रोक्तमेव हेतुं तत्रैवेत्यस्यार्थं वदन्नेवाह ।। ब्रह्मेति ।। हेतोरप्रयोजकत्वं निराह ।। न चेति ।। समाहारसूत्रव्यावर्त्यहेतुमाह ।। कल्पकेति ।। अस्याप्यप्रयोजकत्वं निराह ।। अन्यथेति ।। सर्ववेदान्तनये उपासनाविधिसमीपे काण्वाद्यधिकारिविशेषाश्रवणेन विशेषाधि-कारिकत्वनिराकरणं यत्कृतं तद्व्याहन्येतेत्यर्थः ।। अत इति ।। सर्वाधिकारिकत्वे प्रागुक्त-व्याघाताद्देवाधिकारिकत्वे कल्पकाभावादित्यर्थः । ओत्यादिभाष्यं व्याचष्टे ।। सूर्येति ।। अङ्गावबद्धा इत्यतोऽङ्गानामिति मण्डूकप्लुत्त्याऽनुवर्तत इति भावः । भाष्ये इत्यादीत्यविभक्तिक-मित्युपेत्योक्तम् ।। इत्यादिनेति ।। काम्यपदेन प्रकृतो भगवानिह सूत्रेऽङ्गेष्वित्यत्रान्वेतीति भावेनोक्तम् ।। भगवदङ्गेति ।। ननु चक्षोः सूर्य इति श्रुतौ देवानामङ्गाज्जन्मैवोच्यते न तु तदाश्रितत्वमित्यतोऽर्थात्तत्प्राप्तमित्याह ।। यत्र जन्मेति ।। यत्र जन्म तत्रैव स्थितिरित्युक्तार्थे आदित्यादिमतय इत्यत्र चतुर्थाद्यपादे भाष्योक्तस्मृतिमाह ।। तदाश्रिताश्चेति ।। ‘स्वोत्पत्त्यङ्गं च देवानां विष्णोश्चिन्त्य सदैव तु । तेषां तत्र प्रवेशो हि मुक्तिरित्युच्यते बुधैः’ इति पूर्वशेषः ।

अभिनवचन्द्रिका

उक्तव्याघातादिति ।। ‘आनन्दादयः प्रधानस्य’र इत्युक्तव्याघातादित्यर्थः ।। निरधिकारि-कत्वादिति ।। सामान्येन सर्वाधिकारित्वे उक्तव्याघातलक्षणबाधकसद्भावात् देवगन्धर्व-मनुष्यादिविशेषाणां च प्रमाणाभावेन अनधिकारित्वात्सामान्याभावस्य यावद्विशेषाभावनियतत्वा-त्कर्तृसामान्याभाव इति भावः । ननु भगवदङ्गाश्रयत्वे ‘चक्षोः सूर्यो अजायत’ इति प्रमाणो-दाहरणमयुक्तम् । तस्य तदप्रत्यायकत्वादित्यत आह यत्र जन्मेति ।। साक्षात्तदप्रत्यायकत्वेऽपि तल्लिङ्गोपस्थापनद्वारा तत्प्रत्यायकत्वमस्त्येवेति तदुदाहरणं युक्तमिति भावः ।

वाक्यार्थमुक्तावली

प्रकृतमिति ।। ब्रह्मादिदेवानामङ्गावबद्धा इत्यत्र परिवारत्वेनोपासनस्येष्टत्वाद्ब्रह्माद्युपासनं प्रकृतमिति भावः । यद्यपीदमङ्गावबद्धा इत्यनन्तरमेव कर्तव्यं तथापि विकल्पो विशिष्टफलत्वा-दित्यत्र फलापेक्षायाः सत्वान्नृसिंहाद्युपासनं मुमुक्षुभिः कार्यम् । काम्यास्त्वित्यत्र तु तदाभावात् काम्योपासनं न कार्यमित्युक्तं तन्न्यायेनात्रापि । समाहारसूत्रे स्थानं ‘मुमुक्षुः परमं व्रजेत’ ‘ध्यायेदङ्गेष्वङ्गदेवताः,’ ‘परस्य विशिष्टा हि गुणा मुक्तौ देवानां भवन्तीति फलविशेषेणैव मुमुक्षुष्वपि देवानामधिकारः । न वेति सूत्रे तदभावान्न वान्येषामिति व्यवस्थितविकल्पाभिधान-दनन्तरसङ्गतिः ।। भगवदङ्गेति ।। अत्र देवादीनां भगवदङ्गाश्रितत्वेनोपासनं मुमुक्षुणा न कर्तव्यमुत कर्तव्यमिति चिन्ता । तदर्थमुपासकानां मुमुक्षूणां देवतदन्यतरत्वात् तयोरन्यतरस्याधिकारकल्पकं नास्त्युतास्तीति ।। उक्तव्याघातादिति ।। ‘आनन्दादयः प्रधानस्य’ इत्युक्तचतुर्गुणनियति-व्याघातादित्यर्थः । यद्वा अङ्गावबद्धाधिकरणे पुरुषाणां विशेषाद्वेत्यनेनोक्तस्योत्तमाधिकारिभिरेव विशेषोपसंहारः कार्य इत्यस्य व्याघातादित्यर्थः । समाहारसूत्रनिरस्यमविशेषदृष्टिरित्युक्तन्यायं दर्शयन् द्वितीयं प्रतिक्षिपति ।। न द्वितीय इत्यादिना ।। अन्यथेति ।। कल्पकाभावेऽ-प्यधिकारिविशेष कल्पनेऽध्ययनविध्यादावप्यधिकारिविशेषकल्पनसम्भवाच्चोदनाद्यविशेषादित्युक्त-व्याघातादित्यर्थः ।

सूत्रेऽङ्गेष्वित्यावर्तते । आद्यं षष्ठ्यन्तं विपरिणम्यते । यथेति वीप्सायां द्विरावर्तनीयम् । अनतिक्रमे च यथाशब्द उक्त इति शेषः । आश्रयस्य भावः आश्रयभावः । आश्रितत्वमिति यावत् । आश्रियन्त इत्याश्रिताः । तथा चाश्रितत्वेन भावना चाश्रयभावः । तथा च सूर्याद्यङ्ग-देवानामङ्गेषु भगवदङ्गेषु यथा यथाश्रयभाव आश्रितत्वमुक्तं तथा तेनैव प्रकारेणोक्तिमनति-क्रम्याङ्गेष्वाश्रयभावः अङ्गाश्रितत्वेन भावो भावना कार्येति भावेन भाष्यं व्याचष्टे ।। सूर्यादीति ।। यद्वा भगवदङ्गेषु यथा यथा आश्रयत्वमङ्गदेवताश्रयत्वमुक्तं तथा तथोपासनं कार्यमिति सूत्रार्थं मनसि निधाय व्याचष्टे ।। सूर्यादीति ।। ननु चक्षुराद्यङ्गाश्रितत्वे कथं जन्माभिधायकश्रुतिः प्रमाणमित्यत आह ।। यत्र जन्मेति ।।

तत्त्वसुबोधिनी

अङ्गदेवतोपासनस्येति ।। यद्यपि इदं अङ्गावबद्धा इत्यनन्तरमेव कर्तव्यं तथापि तत्र सर्वाधिकारिसाधारणस्य भगवदुपसर्जनतयाऽन्यदेवतोपासनासहितस्य भगवदुपासनस्य कर्तव्यता-समर्थनम् । इह तु ब्रह्माद्यङ्गदेवतानां तत्तदुपपादकभगवदङ्गाश्रितत्वेन प्रकारान्तरेणोपासनस्य देवैः कर्तव्यत्वसमर्थनमिति वैलक्षण्यज्ञापनार्थम् । भूमाद्यधिकरणचतुष्टयस्योक्तरीत्या पूर्वपूर्वसंमतत्वेन प्राप्तेः तद्विचार्य अवसरप्राप्तमिदानीं विचार्यत इति अनन्तरसङ्गतिरिति भावः ।। उक्तव्याघाता-दिति ।। आनन्दादयः प्रधानस्येत्युक्तव्याघातादित्यर्थः ।। अन्यथेति ।। कल्पकाभावेऽपि कल्पन इत्यर्थः ।। चोदनादिति ।। तत्र चोदनारूपकल्पकविशेषाभावे कल्पना कर्तव्येत्युक्तत्वेन व्याघातः स्यादित्यर्थः । ननु ‘चक्षोः सूर्यो अजायत’ इत्यादिश्रुतौ सूर्यादीनां भगवच्चक्षुरादिजन्यत्वमेवोच्यते । न तु तदाश्रितत्वम् । तत्कथं चक्षोः सूर्योऽजायत इत्यादिपरमेश्वराङ्गाश्रयत्वमुक्तमित्युच्यत इत्यत आह ।। यत्रेति ।। ननु नियमग्राहकप्रमाणाभावान्न नियमसिद्धिरित्यत आह ।। तदाश्रिताश्चेति ।।

वाक्यार्थविवरणम्

उभयथेति ।। तथोपासनाकर्तव्यत्वाभिप्रायकत्वेन तदभावाभिप्रायकत्वेन चेत्यर्थः ।। उक्तव्याघातादिति ।। ‘आनन्दादयः प्रधानस्य’ इत्यनेनानन्दादीनामेवोपास्यत्वोक्ति व्याघाता-दित्यर्थः ।। तत्प्रकरणेषु ।। अङ्गदेवतोपासनाप्रतिपादकप्रकरणेष्वित्यर्थः । ननु यथा विश्वजिता यजेत इत्यत्राप्यनुक्तोऽप्यधिकारी स्वर्गकामः कल्प्यते तद्वदत्रापि किं न स्यादित्याशङ्क्य तत्र विश्वजिद्यागस्य ज्योतिष्टोमाङ्गत्वावगमात् प्रधानफलफलकत्वप्रधानाधिकार्यधिकारिमत्त्वादेरेव तदङ्गशब्दार्थत्वात् श्रुताङ्गाङ्गिभावान्यथानुपपत्त्यैव विश्वजिति अश्रुतोऽपि प्रधानाधिकार्येव अधिकारितया कल्प्यते । एवं च तत्राङ्गत्वादिरूपकल्पकवदत्र तदभावान्नाधिकारिविशेषः कल्पयितुं शक्यत इत्यत आह ।। न चानुक्तावपीति ।। अन्यथा ।। कल्पकाभावेऽपि अधिकारिविशेषकल्पने ।। चोदनादीति ।। सर्वशास्त्रोक्तं सर्वैर्ज्ञातव्यमित्यत्र हेतुतया चोदनाद्यविशेष उक्तः । ‘आत्मेत्येवेति उपासीत’ इति विधीनां ‘अत्र ह्येते’ इत्यादितदुक्तयुक्तीनां च सर्वाधिकारिसाधारणान्विनाधिकारि-विशेषकल्पनायोगादित्युक्तम् । तदेवं सति व्याहन्येत । अश्रुतस्याधिकारिविशेषस्य तत्रापि कल्पयितुं शक्यत्वेन सर्वेषां सर्वशाखापरिज्ञानं न स्यादित्यर्थः ।। अङ्गाश्रितत्वमुक्तमिति ।। तथा चाङ्गेषु भगवदङ्गेषु देवानां यथा आश्रयभावः आश्रयत्वं परमेश्वराङ्गं आश्रयो येषां ते तथा । तेषां भावस्तत्त्वम् । अङ्गाश्रितत्वमिति यावत् । यथा चक्षुरादिभगवदङ्गाश्रितत्वमस्ति तथा भावना उपासना कर्तव्येति शेष इति सूत्रार्थः । ननु ‘चक्षोः सूर्योऽजायत’ इति श्रुतौ सूर्यादीनां चक्षुरादिजन्यत्वमेवोच्यते । न तु तेषां तदाश्रितत्वमित्यत आह ।। यत्रेति ।। यस्मादङ्गादित्यर्थः ।। तदाश्रिताश्चेति ।। ‘स्वोत्पत्यङ्गं च देवानां विष्णोश्चिन्त्यं सदैव तु’ इति पूर्ववाक्यमप्यत्र ग्राह्यम् ।

वाक्यार्थमञ्जरी

तद्विद्या चक्षोः सूर्योऽजायत इत्यादिका ।। उक्तव्याघातादिति ।। आनन्दादयः प्रधानस्य इति सर्वैश्चतुर्गुणमात्रस्योपास्यत्वोक्त्या तद्विरोधादित्यर्थः ।। चोदनाद्यविशेषादिति ।। तत्र ‘स्वाध्यायोऽध्येतव्यः’ इत्यत्राधिकारिविशेषकल्पकाभावेनैव विशेषाधिकारिकत्वाभावस्योक्तत्वादिति भावः ।

ॐ ओषु यथाऽऽश्रयभावः ॐ ।। ओषु भगवदवयवेषु सूर्यादीनामाश्रयभावः आश्रयत्वं यथोक्तं तथोपासनं कार्यमित्यर्थः । ननु ‘चक्षोः सूर्यो अजायत’ इति श्रुतौ सूर्यादीनां भगव-च्चक्षुरादिजन्यत्वमेवोच्यते न तु चक्षुराद्याश्रयत्वं, अतः कथं ‘चक्षोः सूर्यो अजायत’ इत्यादिना परमेश्वराङ्गाश्रयत्वमुक्तमित्यत आह ।। यत्रेति ।।

 

 

Load More