ॐ नैकस्मिन्नसम्भवात् ॐ

१०. अथ नैकस्मिन्नधिकरणम्

सूत्रभाष्यम्

स्याद्वादिमतं दूषयति–

।। ॐ नैकस्मिन्नसम्भवात् ॐ ।। ३३ ।।

सत्स्यादसत्स्यात्सदसत्स्यात्ततोऽन्यच्च स्यादित्येतन्नैकस्मिन्युज्यते । अदृष्टत्वेनासम्भवात् ।

सत्तर्कदीपावली

वेदप्रामाण्याभ्युपगमरहितत्वाविशेषाद्बौद्धपक्षनिराकरणानन्तरं जैनपक्षमुपक्षिप्य दूषयति ।। स्यादित्यादिना ।। जगत्सत्स्यादसत्स्यात्सदसत्स्यात् सदसद्विलक्षणं च स्यादिति स्याद्वादिमतं न युज्यते । परस्परपराहतत्वात् । न हि यदेव वस्तु सत्स्यादित्युक्तं तदेव तत्रैव तस्मिन्काल एव स्वेनैव रूपेणासत्स्यादितिवक्तुं शक्यते विरोधात् ।

तत्त्वप्रदीपिका

अथ वेदबाह्यान्तर्भावादनन्तरमेव जैनमतं निराकरोति । ॐ नैकस्मिन्नसम्भवात् ॐ । सत्स्यादसत्स्यात्सदसत्स्यादुभयविलक्षणं च स्यात् चकारादुभयमुभयविलक्षणं च स्यात् न च तत्स्यात्, उक्तं सर्वं च स्यादिति जैना जल्पन्ति तत्तद्गतदोषपरिजिहीर्षवः सार्वत्रिकदोषसमाजभाजनीभूताः । ततोऽन्यच्च स्यादित्यस्यान्योऽर्थः उक्तं त्रयं न स्यात्, सत्स्यान्न च स्यादसत्स्यान्न च स्यात्सदसत्स्यान्न च स्यादिति, तत्रैवावान्तरभेदोऽयम् । नैतत्सप्तप्रकारत्वमेकस्मिन्वस्तुनि वक्तुं युज्यते । न ह्येता भङ्गयः क्वचिदेकत्र दृष्टाः । न च सदसद्भङ्गिव्यतिरेकिण्यो भङ्गय एव दृष्टाः । अदृष्टकल्पने सप्तभङ्गिनियमोऽपि भङ्गी स्यात् ।

तत्त्वप्रकाशिका

अधिकरणार्थं दर्शयति ।। स्यादिति ।। अत्रेश्वरस्य जगत्कारणत्वे जैनमतविरोधनिरासादस्ति शास्त्रादिसङ्गतिः । ईश्वरो जगत्कारणमित्युक्तम् । तच्च स्याद्वादिमतविरोधे मन्दस्यानुपपत्तिशङ्का स्यादिति तन्निरासः कर्तव्य एव । तत्परमात्मनो जगत्कारणत्वं विषयः । युक्तमयुक्तं वेति सन्देहः । समयविगानं सन्देहबीजम् । न युक्तमिति पूर्वः पक्षः । सदसदुभयमुभयविलक्षणं सदसदुभयविलक्षणं नैतत्सर्वं चेति सप्तभङ्गिजगदात्मादृष्टात्परिदृष्टसाधनैश्च भविष्यति । स च कायपरिमाणः । अतः किमीश्वरेणेति लक्षणसूत्रमयुक्तमिति प्राप्ते सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ।। नेति ।। यदुच्यते जैनैर्जगत्सप्तभङ्गीति न तद्युक्तम् । व्यवस्थितसदसत्प््राकारद्वयातिरिक्तप्रकारस्याप्रामाणिकत्वेनासम्भवात् । एकैकप्रकाराभ्युपगमे दोषदर्शनादेतदुपेयत इति न वाच्यम् । तथा सति दोषभीरुणा सर्वमपि परित्याज्यं स्यात् । सदसत्प््राकारद्वये च न कोऽपि दोष इति भावः ।

गुर्वर्थदीपिका

नैतत्सर्वमित्यस्य एतत्सर्वस्याभाव इत्यर्थः । अन्यथा एतत्सर्वं न स्यादित्युक्ते स्याद्वादभङ्गः स्यात् । ततोऽन्यच्च स्यादिति भाष्ये ततः पूर्वोक्तपक्षत्रयादन्यत् पक्षचतुष्टयं च स्यादित्यर्थः । व्यवस्थितसदित्यत्र कालभेदेन देशभेदेन स्वरूपतश्च सतः त्रिविधा व्यवस्था द्रष्टव्या । एकत्र एकदा एकस्यैव स्वरूपेण सत्त्वमसत्त्वं च नोपपद्यते । नापि कैश्चिदङ्गीक्रियते, सदसत्त्वादयस्तु सर्वथाऽसम्भाविताः पूर्वोत्तरव्याहताश्चेत्यर्थः । दोषभीरुणेत्यस्य एकैकपक्षे दोषाश्चेत्सर्वे पक्षाः दोषवन्त इत्यागतम् । तथा च दोषवतां सर्वेषां परित्याग एव कार्यः । न तु एकैकदोषभीरुणा सकलदोषवत्यो सप्तभङ्ग्योऽप्यङ्गीकार्याः । न ह्येकैकसर्पाद्भीतः युगपद्दशसर्पसमुदायमङ्गीकुर्वाणः कोऽपि प्रेक्षावान् दृष्ट इति भावः सूत्रकारस्य ।

भावबोधः

जैनमतविरोधेति ।। शून्यवाद्युक्तमसत्त्वं विज्ञानसत्त्ववाद्युक्तसत्त्वं च स्यादिति वदतां जैनानां तत्पक्षोक्तपूर्वपक्षोत्थानादनन्तरसङ्गतिरपीति भावः ।। युक्तमिति ।। अत्र हरेर्जगत्कारणत्वं किमयुक्तमुत युक्तमिति चिन्ता । तदर्थं जैनसमयः श्रुत्युक्ततदपबाधनक्षमो भवत्युत नेति । तदर्थं तत्परिकल्पितं प्रपञ्चस्य सत्यत्वं जीवस्य देहपरिमाणत्वं च किं युक्तमयुक्तमिति । तदर्थं जीवकायपरिमाणत्वस्थूलाण्वादिदेहप्राप्तौ सर्वशरीरव्यापिचेष्टाभावातिरेकौ न प्राप्नुत उत प्राप्नुत इति । तदर्थं देहपरिमाणत्वाभावे शरीरावच्छेदमन्तरेण स्वतः परिमाणाभावः प्राप्नोत्युत नेति । तदर्थं देहमन्तरेण परिमाणाङ्गीकारेण जीवनिःस्वरूपत्वं देहनित्यत्वं वा न प्राप्नोत्युत प्राप्नोतीति ।

आह क्षपणको विश्वं सदसद्द्वयमद्वयम् ।

 द्वयाद्वयमतत्सर्वं सप्तभङ्गि सदातनम्’ ।।

इत्यनुव्याख्यानं मनसि निधायाह– सदसदुभयमिति ।। तत्र सदित्येकः प्रकारः । असदिति द्वितीयः । उभयं सदसदात्मकमिति तृतीयः । उभयविलक्षणं सदसद्विलक्षणमिति चतुर्थः । एतावता सत्स्यादित्यादिभाष्यं यथाश्रुतं व्याख्यातं भवति । सदसदुभयविलक्षणमिति पञ्चमषष्ठौ । अत्र सत्तद्विलक्षणं चेति पञ्चमः । असत्तद्विलक्षणं चेति षष्ठः । सर्वं सदसदात्मकं नैतत् सर्वं सदसद्वि-लक्षणमिति सप्तम उक्त इति द्रष्टव्यम् । अनेन सत्स्यादित्यादिभाष्यं सत्स्यात्ततोऽन्यच्च स्यात्, असत्स्यात्ततोऽन्यच्च स्यात्, सदसत् स्यात्ततोऽन्यच्च स्यादिति प्रकारान्तरेण व्याख्यातं भवति । व्याहतिपरिहाराय व्यवस्थितमिति ।।

भावदीपः

जैनमतेति ।। प्रागुक्तदिशा अवैदिकेषु बौद्धनिरासानन्तरम् अस्यावसरप्राप्तत्वादिति भावः । भाष्ये सत्स्यादिति स्याच्छब्दस्तिङन्तप्रतिरूपकोऽनेकार्थद्योतको निपात इति भावेन ‘आह क्षपणको विश्वं सदसद्वयमद्वयम् । द्वयाद्वयमतत्सर्वं सप्तभङ्गिसदातनम्’ इत्यनुभाष्यदिशा सप्त-पक्षपरत्वेन भाष्यं व्याचष्टे ।। सदसदुभयेत्यादिना ।। सदित्याद्यः प्रकारः । असदिति द्वितीयः । उभयं सदसदात्मकमिति तृतीयः । उभयविलक्षणमिति चतुर्थः । सदसदुभयविलक्षणमिति पञ्चम-षष्ठौ । तत्र सत्तद्विलक्षणं चेति पञ्चमः । असत्तद्विलक्षणं चेति षष्ठः । सर्वं सदसदात्मकं नैतत्सर्वं सदसद्विलक्षणमिति सप्तम उक्तो ध्येयः । एतेन भाष्ये पक्षचतुष्टयस्य स्पष्टत्वेऽपि शिष्टपक्षत्रयं तु तदन्यदित्येतच्छतुर्थप्रकारार्पकमेव पदं प्रागुक्तत्रितयशेषं कृत्वा सत्त्वे सति सद्विलक्षणम् असत्त्वे सत्यसद्विलक्षणं सदसत्त्वे सति सदसद्विलक्षणमित्येवं रूपेण बोध्यमिति दर्शितम् । पूर्वाक्षेपार्थ-माह ।। आत्मादृष्टादित्यादि ।। एवं चेति सूत्रनिरस्यमाह ।। स चेति ।। आत्मेत्यर्थः । अनुक्तोपालम्भभ्रान्तिं निरस्यन् भाष्यं प्राग्विवृतत्वादिदानीं सामान्यतो व्याचष्टे ।। यदुच्यत इति ।। व्यवस्थितेति ।। देशकालाभ्यामिति योज्यम् । एतच्च वस्तुनो निस्स्वरूपत्वनिवृत्त्यर्थं वा अंशेऽसिद्धिनिवृत्त्यर्थं वोक्तम् । व्याहतिनिरासाय व्यवस्थितेति ।। अदृष्टत्वेनेत्येतत्प््रामाण-सामान्याभावपरत्वेन व्याचष्टे ।। अप्रामाणिकत्वेनेति ।। ‘तत्तद्दोषनिवृत्त्यर्थं स्वीकृता तत्त-दात्मता । यदि तैरखिलैर्दोषैलिप्यते चलदर्शन’ इत्याद्यनुभाष्योक्तमाह ।। एकैकप्रकारेति ।। परित्याज्यमिति ।। अन्यथा सर्वपक्षोक्तदोषलेपः स्यादिति भावः ।। सदसदिति ।। देशकालाभ्यां व्यवस्थितेति योज्यम् ।

अभिनवचन्द्रिका

आह क्षपणको विश्वं सदसद्द्वयमद्वयम् ।

 द्वयाद्वयमतत्सर्वं सप्तभङ्गि सदातनम् ।।’

इत्यनुव्याख्यानानुसारेणाह– सदसदुभयमिति ।। सदित्येकः प्रकारः, असदिति द्वितीयः, उभयं सदसदात्मकमिति तृतीयः, उभयविलक्षणं सदसद्विलक्षणमिति चतुर्थः, सदसदुभयविलक्षणमिति पञ्चमषष्ठौ, नैतत्सर्वं सर्वं चेति सप्तमः । तत्र सत्त्वे सति सद्विलक्षणमिति पञ्चमः, असत्त्वे सति असद्विलक्षणमिति षष्ठः । सदसदात्मकं सदसद्विलक्षणमिति सप्तम इति विवेकः । ‘स्यादस्ति, स्यान्नास्ति, स्यादस्ति च नास्ति च, स्यादवक्तव्यं, स्यादस्ति चावक्तव्यं च, स्यान्नास्ति चावक्तव्यं च, स्यादस्ति च स्यान्नास्ति चावक्तव्यं च’ इति क्षपणकोक्तेः ।

वाक्यार्थमुक्तावली

शून्यवाद्युक्तमसत्त्वं विज्ञानवाद्युक्तं सत्त्वं च स्यादिति वदतां स्याद्वादिनामस्माकं नैकैक-पक्षोक्तदोष इति पूर्वाक्षेपेणास्य प्रवृत्तेरनन्तरसङ्गतिरिति ज्ञेयम् ।। युक्तमिति ।। परमात्मनो जगत्कारणत्वं क्षपणकपक्षविरोधादयुक्तमुत युक्तमिति चिन्ता । तदर्थं तत्प््राक्रिया प्रमाणवत्युत नेति चिन्ता ।

आह क्षपणको विश्वं सदसद्वयमद्वयम् ।

 द्वयाद्वयमतत्सर्वं सप्तभङ्गिसनातनम्’ ।।

इत्यनुव्याख्यानं मनसि निधाय सत्स्यादित्यादि भाष्यार्थं मत्वा तन्मतमुपन्यस्यति ।। सद-सदिति ।। तत्र सदित्येकः प्रकारः । असदिति द्वितीयः । उभयं सदसदात्मकमिति तृतीयः । उभयविलक्षणं सदसद्विलक्षणमिति चतुर्थः । एतावता सत्स्यादित्यादिभाष्यं यथा श्रुतं व्याख्यातं भवति । सदसदुभयविलक्षणमिति पञ्चमषष्ठौ । तत्र सत्तद्विलक्षणञ्चेति पञ्चमः । असत्तद्विलक्षणं चेति षष्ठः । सर्वं सदसदात्मकं नैतत्सर्वं सदसद्विलक्षणमिति सप्तमः । अनेन सत्स्यादित्यादि भाष्यं सत्स्यात् ततोऽन्यच्च स्यात् असत् स्यात् ततोऽन्यच्च स्यात् सदसत् स्यात् ततोऽन्यच्च स्यादिति प्रकारान्तरेण व्याख्यातं भवति । पूर्वाक्षेपार्थमाह ।। आत्मेति ।। धर्माधर्मसंज्ञित-जीवादृष्टात्कालाकाशपुद्गलशब्दितबाह्यसाधनैश्चेत्यर्थः । एवं चेति सूत्रनिरस्यं तदीयं प्रमेयान्तर-मनुवदति ।। स चेति ।। सूत्रे विरोधस्फोरणाय एकस्मिन्नित्युक्तम् । अनुपलब्धेरित्यनुवर्तते । एकस्मिन् जगति सप्तप्रकारत्वं न युज्यते अप्रामाणिकत्वेनासम्भावितत्वादित्यर्थं मत्वा व्याचष्टे ।। यदुच्यत इति ।। कथं प्रमाणविरोध इत्यत उक्तम् ।। व्यवस्थितसदसद्वयेति ।। सर्वं हि स्वदेशकालोपाधौ सद्देशान्तरेऽसदित्येव प्रतीयते । न तु स्वोपाधावेव सत्त्वमसत्त्वं चातस्तदति-रिक्तस्य प्रत्यक्षादिविरुद्धत्वेन तदसिद्धत्वेन चेत्यर्थः । तत्तद्दोषनिवृत्यर्थं स्वीकृता तत्तदात्मता । ‘यदि तैरखिलैर्दोषैर्लिप्यते चलदर्शन’ इत्यनुभाष्यमनुरुन्ध्याह ।। एकैकेति ।।

तत्त्वसुबोधिनी

अत्रेश्वरस्येति शून्यवाद्युक्तमसत्त्वं विज्ञानवाद्युक्तं सत्त्वं चाङ्गीक्रियते इति न तत्तत्पक्षोक्तदोष इति पूर्वपक्षोत्थानादनन्तरसङ्गतिरिति भावः ।। सदसदुभयमिति ।। तत्र सदित्येकः प्रकारः असदिति द्वितीयः । उभयं सदसदात्मकमिति तृतीयः । उभयविलक्षणं सदसद्विलक्षणमिति चतुर्थः । एतावता सत्स्यादिति भाष्यं यथाश्रुतं व्याख्यातं भवति । सदसदुभयविलक्षणमिति पञ्चमषष्ठौ । तत्र सत्त्वे सति सद्विलक्षणमिति पञ्चमः । असत्त्वे सत्यसद्विलक्षणमिति षष्ठः । सर्वं सदसदात्मकं नैतत्सर्वं सदसत्वे सति सदसद्विलक्षणमिति सप्तम उक्तमिति दृष्टव्यम् । अनेन सत्स्यादिति भाष्यं, सत्स्यात्, ततोऽन्यच्च सदसत्स्यात् ततोऽन्यच्च सदसत्स्यात् ततोऽन्यच्च

स्यादिति व्याख्यातं भवति । निराकार्योत्तरमप्याह स चेति ।। व्याहतिपरिहारायाह व्यवस्थितेति ।।

वाक्यार्थविवरणम्

भाष्ये स्याद्वादिमतं दूषयतीत्युक्तम् । तत्र जैनानां स्याद्वादित्वं कुतः । भूयाद्वादित्वादिकं कुतो नास्तीति चेत् । अस्त्यत्र सम्प््रादायविशेषः । स्यादित्ययं न विधिलिङन्तशब्दः किं नाम चिराय मिथ्याया इत्यादिवत्तिडन्तविभक्तिप्रतिरूपकनिपातः । एकत्रापि पक्षे निष्ठाभावरूपा-नैकान्तवादद्योतकः । एवं च स्याद्वादीनामानैकान्तवादीत्यर्थः । एकत्र पक्षे अन्तः निर्णयो निष्ठा आस्था नेत्यनैकान्तवादस्तद्योतकोऽयं निपात इत्येतच्चन्द्रिकायां स्पष्टमुक्तम् । यथोक्तं शाब्दिकैः ।। वाक्यष्वनैकान्तद्योती गम्यं प्रति विशेषणम् । स्यान्निपातोऽर्थयोगित्वाद्विभक्तिप्रतिरूपक इति । सत्त्वादिकं स्यादित्येवं वाक्येषु प्रयुज्यमानः स्यादिति निपातः, वाक्यैः गम्यं यत्

सत्त्वादिकं तद्विशेषणीभूतः सन् अनैकान्तद्योती स्यादिति निपातस्यानैकान्तशब्दार्थत्वयोगि-त्वादित्यर्थः । स्वरादिनिपातमव्ययमिति निपातत्वेऽव्ययत्वम् । सदसदुभयविलक्षणम् । सदसदिति यदुभयं द्वयं तद्विलक्षणम् । सत्त्वे सति सद्विलक्षणम् । इति पञ्चमः । असत्त्वे सति असद्विलक्षणमिति षष्ठः । नैतत् सर्वं, सर्वं सदसत् नैतत्सर्वं तद्विलक्षणम् । सदसत्त्वे सति सदसद्विलक्षणमिति सप्तम इत्यर्थः ।। परिदृष्टसाधनैः ।। मृद्दण्डचक्रादिभिः । ‘वक्ति स्वप्रभ-मात्मानं देहमानम्’ इत्येतदनुसारेणाह ।। स चेति ।। एकत्र सदसत्त्वयोर्विरोधाद्यवस्थितेत्युक्तम् । कुत्रचित् पदार्थे सत्त्वं, कुत्रचित्सदसत्त्वमिति व्यवस्थितेत्यर्थः । तत्तद्दोषनिवृत्त्यर्थं स्वीकृता तत्तदात्मता । यदीत्येतदनुसारेणाह ।। एकैकेति ।। सत्त्वाद्येकैकप्रकारमात्राभ्युपगमे असत्त्वादि-वादी असत्त्वानङ्गीकारे दोषमभिधत्ते । एवमितरोऽपि । अतो दोषभीरुणा मया तदपि स्यादित्यङ्गीक्रियते । अत एव स्याद्वादित्वमित्यर्थः । ‘तैरखिलैर्दोषैर्लिप्यते चलदर्शन’ इत्ये-तदनुसारेणाह ।। तथा सतीति ।। सर्वमपि सप्तभङ्गित्वमपि त्वया सप्तभङ्गित्वाङ्गीकारेऽपि व्यवस्थितसदसत्प््राकारद्वयवादिभिरस्माभिर्दूषणमभिधीयते । अतो दोषभीरुणा त्वया सप्तभङ्गित्व-पक्षपरित्याग एव गरीयानिति भावः । यथोक्तं ‘अतिहाय प्रमाणाप्तनियमं सदसत्तया’ इत्यादि ।

वाक्यार्थमञ्जरी

सदसदुभयमिति ।। सदित्येकः असदिति द्वितीयः सदसदात्मकमिति तृतीयः सदसद्वि-लक्षणमिति चतुर्थः सत्त्वे सति सद्विलक्षणमिति पञ्चमः असत्त्वे सत्यसद्विलक्षणमिति षष्ठः सद-सदात्मकत्वे सति सदसद्विलक्षणमिति सप्तमः सप्तभङ्गीति सप्तप्रकारोपेतमित्यर्थः । एकस्मिन् जगति सत्त्वादिसप्तप्रकारा न युक्ताः कुतः असम्भवादप्रामाणिकत्वेनासम्भावितत्वादित्यर्थः । विरोध-परिहारायोक्तम् ।। व्यवस्थितेति ।। देशादिभेदेनेत्यर्थः । सर्वमपि प्रकारसप्तकमपि । तत्राप्यस्माभि- र्दोषाभिधानादिति भावः । असिद्धं च सर्वत्र दोषदर्शनमित्याह ।। सदसत्प््राकारेति ।। व्यवस्थितेति योज्यम् ।

Load More