ॐ पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात् ॐ

१६. अथ पुंस्त्वाधिकरणम्

सूत्रभाष्यम्

विज्ञानात्मा सह देवैश्च सर्वैः’ (प्र.उ. ४-११) । ‘स आनन्दः स बलः स ओजः स परेणामुं लोकं नीयते स विमुच्यत इति जीवस्य ज्ञानानन्दादिरूपत्वमुच्यते । ‘स दुःखाद्विमुक्त आनन्दी भवति । सोऽज्ञानाद्विमुक्तो ज्ञानी भवति । सोऽबलाद्विमुक्तो बली भवति । स नित्यो निरातङ्कोऽवतिष्ठत’ इति पैङ्गिश्रुतावनानन्दादिरूपत्वं प्रतीयते । अत आह–

।। ॐ पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात् ॐ ।। ३१ ।।

यथा बालस्य सदेव पुंस्त्वं यौवनेऽभिव्यज्यत एव सतामेवानन्दादीनां व्यक्त्यपेक्षया तदुक्तिः ।

बलमानन्द ओजश्च सहो ज्ञानमनाकुलम् ।

स्वरूपाण्येव जीवस्य व्यज्यन्ते परमाद्विभोः’ इति च गौपवनश्रुतिः ।।

तत्त्वप्रदीपिका

विज्ञानात्मा सह देवैश्च सर्वैः प्राणा भूतानि सम्प्रतिष्ठन्ति यत्र’ इति षट्प्रश्ने । ‘स आनन्दः स बलः स ओजः’ इत्यादि श्रुत्यन्तरे ।। ॐ पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात् ॐ ।। यथा बालस्याव्यक्तमपि सदेव पुंस्त्वं स्त्रीत्वं वा यौवनेऽभिव्यज्यते, एवं पूर्वमनभिव्यक्तानां सतां ज्ञानानन्दादीनां साधनपरिपाकेऽभिव्यक्त्यपेक्षया श्रुतिषु तथोक्तिः । एवं जीवस्य प्रसाधितं ज्ञानस्वरूपत्वम् । न च ज्ञानमात्रात्मकत्वं ‘ज्ञ’ इति सूत्रात्, यदाह बौद्धः । न ह्यहमिदं जानामीति प्रतीयमानं ज्ञातृत्वमकस्मादेवापवादनीयम् । अतिप्रसङ्गात् । अतः स्वसंवेद्यत्वं सिद्धम् ।

ननु प्रत्यक्षस्य सुखादिगुणस्याश्रयसापेक्षत्वेन तदाश्रय आत्माऽनुमीयत इति न स्वतः सिद्ध्यति । न । सुखादिप्रत्यक्षस्यैव तदुपलम्भात्मकत्वादनवसरादनुमितेः । अहं सुखी जानाम्यह-मिति विशेषणस्योपलम्भो विशेष्योपलम्भनान्तरीयकः । धर्मिग्राहकेण च गृहीते तत्स्वरूपे नानुमान-मुपयुज्यते । तद्विशेषे तु क्वचिदनुमानमागमो वा न निवार्यते । सुखादिप्रत्यय आत्मनो न प्रतीतिरिति चेत्तर्हि किं निराश्रयमेव सुखादि प्रतीयते, उताहो साश्रयमिति वाच्यम् । आद्ये कल्पेऽनुभवविरोधः । गुणत्वासिद्धेस्तदाश्रयात्मासिद्धिश्च । द्वितीये सहोपलभ्यमान आश्रयो वाच्यः । देहश्चेत्तदाश्रयत्वे-नोपलब्धत्वात्कुत आश्रयान्तरानुमानम् ? अचेतनस्य सुखज्ञानाद्ययोगादिति चेन्न । अनुभवस्य युक्तिमात्रबाधादृष्टेः । न चात्र बाधो दृश्यते । एवं हि वादो भवन् भवेत्– ‘अहं सुखीत्येव प्रतिभामि, न त्वहं सुखी, ममाचेतनत्वेन सुखाद्याश्रयत्वायोगात्, आत्मैव सुखि’ इति । न चैवं कश्चित्प्रत्येति । अत आत्मैव सुखाश्रयत्वेनोपलभ्यत इत्याश्रयणीयम् । न च देहात्मनोरभेदः प्रतीयत इति वाच्यम् । दत्तोत्तरत्वाद्भगवतैवानुव्याख्याने ‘मम देह इति ह्येव न देहोऽहमिति प्रमा’ इत्यादिना ।

अथोच्येत स्वयम्प्रकाशा सती विषयसंविदेव स्वाश्रयमात्मानं ग्राहकत्वेन संवेद-यतीत्याश्रयणीयम् । घटमहं जानामीत्यनुभवानुसारात् । ग्राहकस्य स्वयम्प्रकाशत्वे कर्तृकर्म-भावविरोधप्राप्तेः । तदसत् । अहं मां जानामीत्यात्मनस्संविद्विषयत्वानुभवादनुभूयते कर्तृकर्मभावः । एवं न च विरोधोऽनुभूयते । कल्प्यते केवलमप्रामाणिकः । न चैकत्रादृष्ट इत्यन्यत्र दृष्टोऽप्यपलाप्यः । अतिप्रसङ्गात् । अहं ग्राहकत्वेनैव जानामि न ग्राह्यत्वेनेति वदन् कमिति पृष्टे किमुत्तरं ब्रुवीथाः ? आत्मानमित्युक्ते स्वोक्तिविरोधः । कर्तृकर्मभावश्च स्यात् । वेदनान्तरवेद्यत्वपक्षे चाऽत्मनः कर्तृकर्मभावो न परिहृतः स्यात् । तथा चात्र कः पर्यनुयोज्यः ? करणान्तरेऽप्यनपेक्ष इति चेदविप्रतिपन्नस्तर्हि कर्तृकर्मभावाविरोधः । पराभिमतं करणानपेक्षणं च स्वसंवेदनसंवेदनाश्रयणात् । तदभिमतिर्गुरुमत इति चेदन्यमतेऽपि दृश्यताम् । बुद्धिसंवित्तौ बुद्ध्यन्तरस्य करणत्वेऽनवस्थानात् । बुद्धिरबुद्वार्थबोधिको चेद्घटं बुद्ध्यामहं इत्यनुभवविरोधः । न च बुद्धिरनुमेया, लिङ्गाभावात् । प्रतीतार्थो बुद्धिलिङ्गं चेल्लिङ्गविशेषणत्वेन सिद्धिर्बुद्धेरिष्टा प्रागनुमानात् । न चार्थे प्रकटता नाम, तत्संवेद्यत्वतोऽन्या । येन तल्लिङ्गं स्यात् । शब्दमात्रं हि भिद्यते । बुद्ध्यन्तरविरहिणश्चेश्वरस्य बुद्धेर्बोधे कथमेव करणाकाङ्क्षा । स स्वबुद्धिं नैव बुद्ध्यत इति चेदसर्वज्ञः स्यात् । अस्तु तावन्मात्राज्ञतयेति चेन्मैवम् । स स्वरूपं जानाति वा न वा ? न चेत्स्वरूपाज्ञो जगतस्स्वकृतत्वाद्यज्ञः कथं सर्वज्ञः स्यात् ? य एकमपि वस्तु कार्त्स्न्यान्न जानाति । जानाति चेत्सर्वज्ञानेन वाऽन्येन वा ? तेनैव चेत्प्राप्तं तद्भयस्थानं स्वप्रकाशत्वं ज्ञानस्य, यद्गुरुमत एवेति परिजिहीर्षितम् । न हि स्वात्मानम-विषयीकुर्वत्सर्वज्ञानं स्वाश्रयं सर्वज्ञमीश्वरं विषयीकरोति । करणान्तरनिरपेक्षं स्वबुद्धिबोद्धृत्वं च प्राप्तं, यद्भयात्सर्वज्ञोऽपि स्वज्ञानाज्ञ आशास्यते । जानात्येव हि जनः किञ्चिज्ज्ञोऽप्येतावन्मे ज्ञानमस्तीति । कथं च गोष्पदानतिलङ्घी निस्तीर्णमहार्णव इति युज्यते । ज्ञानयोरुभयोरभ्युपगमे तयोः परस्परविषयत्वे विषयविषयिभावं द्विष्ठं विषयीकुर्वज्ज्ञानं स्वविषयं चेति स्वात्मनि वृत्तिप्रसक्तिः । अतः स्वप्रकाशेनैव व्यवहारनिर्वाहस्सर्ववादिनाम् ।

कथञ्चाऽत्मनोऽस्वप्रकाशत्वं एतावन्तं कालं न किञ्चिदवेदिषमिति सुप्तोत्थितपरामर्शिनो विप्रतिपद्येरन् । न हि सौप्तिकमज्ञानमननुभूतं चेदुत्थितस्यानुसन्धातुं शक्यते । न चैतदनुमानं, लिङ्गपरामर्शाभावात् । न चात्र लिङ्गं दृश्यते । नन्वस्ति लिङ्गमस्मर्यमाणत्वं सौप्तिकज्ञानाभावानु-माने । मैवम् । न ह्यनुभूते स्मृतिनियमः । अतोऽस्मर्यमाणत्वस्य व्यभिचारादलिङ्गत्वम् । न च कालेऽनुमानमाशङ्कितुमपि शक्यते । लिङ्गाभावादेव । अतः सुप्तौ स्वानुभवसिद्धः कालः । एतावन्तं कालमिति परामर्शात् । कालानुभविनो जीवस्याज्ञानानुभवे किमनुपपन्नम् ? ज्ञानाभावः प्राक्तनो गृह्यते न परामृश्यते प्रातर्गजाभाववत् । न च तदाऽसौ गृहीतः, प्रतियोगिस्मरणाभावादिति चेदेवमपि सौप्तिको धर्मिग्रहः एष्टव्यः । यत्र ज्ञानाभावः पश्चाद्गृह्यते । न हि प्रातरगृहीते प्रदेशे तत्र प्रातर्गजो नासीदित्युत्तरकालं गजाभावग्रहो दृष्टः । न च सुषुप्तौ ज्ञानाभावधर्मिण आत्मनो ग्रहणकारणं निरूपणीयमस्वसंवेद्यवादिनाम् । कथञ्चाभावापलापकाद्धर्मिग्रहणात्पृथग्ज्ञानाभावग्रहमिच्छेयुः । ते केवलधर्मिग्रहमेवेच्छन्ति चेत्कोऽयं केवलधर्मी नाम । यादृशोऽभाववादिनामभावग्रहणधर्मी तादृशोऽस्माकमभावव्यवहारविषयस्स इति चेत्तदनालोचितोद्भावितमवभाति । अपसिद्धान्तप्रसङ्गात् । अभावविशिष्टो ह्यस्माकमभावग्रहधर्मी । न च तदाऽसौ गृहीतः । न हि प्रतियोगिस्मृतेः प्रागसौ गृह्यते । अतः पश्चादभावज्ञानं तदपलापिनां केवलशब्दार्थोऽन्यो वक्तव्यः । न चासौ समस्ति । घटाद्यभावव्यवहारः केवलभूतलादाविति ब्रुवाणानामेतेषां घटादिभावव्यवहारस्तस्मिन्नेवेत्युक्ते किमुत्तरम् ? सर्वलौकिकपरीक्षकप्रसिद्धयोः सर्वव्यवहारास्पदभूतयोर्भावाभावयोरन्यतरस्याप्य-पलापेऽनुभवविरोधादितुल्यमेव दूषणमित्यास्तामयं प्रासङ्गिकः प्रवादः । तस्मादात्मनः स्वयम्प्रकाशत्वमेवेष्टव्यम् । स्वयम्प्रकाशत्वेऽपि सामस्त्येनासंवित्तिः स्वात्मनि सविशेषे सम्भवति । तमःप्रतिबन्धात् । न च तदाऽप्रतीतिरित्यस्वयम्प्रकाशत्वमस्वरूपत्वं वा । तस्य विशेषस्य स्वरूपेऽपि ज्ञानाज्ञानदृष्टेः । मानसप्रत्यक्षं ग्राहकतया वा प्रत्यक्षमात्मानमाचक्षणा अप्यात्मनः सर्वव्याप्तस्य स्वरूपं न कार्त्स्नेन प्रत्यक्षीकुर्वन्ति । न च ते सांशं सविशेषं वाऽभ्युपगच्छन्ति, येन प्रत्यक्षताप्रत्यक्षते स्याताम् । ऐक्यवादिनोऽपि स्वयम्प्रकाशस्याऽत्मनो निर्विशेषस्य ब्रह्मैक्यं न शास्त्रादृते जानन्ति । अस्माकं तु सविशेषत्ववादिनामेष सुगमः पन्थाः । कञ्चिद्विशेषमीश्वरस्तमसा प्रतिबध्नाति, भक्त्या प्रसन्नः संस्तमो निवर्तयति । तथा च भगवद्वचनम्–

तेषामेवानुकम्पार्थमहमज्ञानजं तमः ।

नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता’ ।। इति ।

एवमचिन्त्या पारमेश्वरी शक्तिः । तदेव ह्याह–

बलमानन्द ओजश्च सहो ज्ञानमनाकुलम् ।

स्वरूपाण्येव जीवस्य व्यज्यन्ते परमाद्विभोः’ ।। इति ।

अतः सिद्धं जीवस्य स्वयम्प्रकाशत्वम् । ‘ते वा एते चिदात्मानः’ ‘विज्ञानात्मा’ ‘अस्य पुरुषस्य प्रकाशो व्यातत’ इत्यादिश्रुतिबलात् ।

तत्त्वप्रकाशिका

अत्रेश्वरे श्रुतिसमन्वयसिद्ध्यर्थं जीवस्वरूपविषयश्रुतिविरोधपरिहारादस्ति शास्त्रादिसङ्गतिः । परमेश्वरे श्रुतिसमन्वय उक्तः । जीवस्य ज्ञानाद्यात्मकत्वाभिधायकश्रुतेः श्रुत्यन्तरविरोधेनाप्रामाण्ये तदनुपपत्तेरवश्यं निरसनीय एव । प्रकृतो जीव एव विषयः । ज्ञानादिरूपो न वेति सन्देहः । सन्देहबीजं श्रुतिविगानं दर्शयति ।। विज्ञानात्मेति ।। अनानन्दादिरूपत्वम् आनन्दादिरूपत्वा-भावः । न जीवो ज्ञानादिरूप इति पूर्वः पक्षः । तथा श्रुतेः । न च युक्तमस्ति विपरीताऽपि श्रुतिः । न चासावीश्वरविषया ‘प्राणा भूतानि सम्प्रतिष्ठन्ति यत्र स परेणामुं लोकम्’ इति श्रुतिविरोधादिति । अनानन्दादिरूपत्वश्रुतेः सयुक्तिकत्वात् । न ह्यानन्दादिरूपत्वमात्मनोऽनुभूयते । न च प्रतिबन्धकाद्विद्यमानाप्यानन्दादिरूपता नानुभूयत इति वाच्यम् । जीवस्याहमिति नित्याभिव्यक्तत्वेन तत्स्वरूपभूतानां व्यवधानस्यैवानुपपत्तेः । आनन्दादिरूपत्वे च जीवस्य न केनचिन्मोक्षाय प्रयतितव्यम् । अत्रावरणादननुभवो मोक्षे त्वभिव्यक्तेरनुभव इति वदन् प्रष्टव्यः । किमावरणमानन्दादीनामज्ञानं शरीरादि वा । नाद्यः । तस्यैवानुपपत्तेरुक्तत्वात् । न द्वितीयः । वैपरीत्यात् । अत एव मोक्षेऽभिव्यक्तिरित्ययुक्तम् । तदेवं सयुक्तिकश्रुतिविरोधादप्रमाणमेवान्या श्रुतिरतो नेश्वरे श्रुतिसमन्वयो युक्त इति प्राप्ते सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ।। अत इति ।। अस्येति तद्गुणसारत्वं प्रकृतं परामृश्यते । भवत्येवानन्दादिरूपो जीवः । न चोक्तश्रुतियुक्तिविरोधः । यथा पुरुषयोषिदादीनामपत्योत्पत्तिशक्तित्वरूपत्वेऽपि कालतस्तदभिव्यक्तेर्नायं पूर्वं पुमानिदानीं तु पुमानित्यादि युज्यते । एवं जीवस्वरूपत्वेन मुक्तेः पूर्वमपि सतो ज्ञानानन्दादेरीश्वरप्रसादेनाभिव्यक्ति-निमित्तेनानन्दीभवतीत्यादिव्यपदेशोपपत्तेः । प्रागनभिव्यक्तत्वेनानुभवाभावसम्भवात् । तदभिव्यक्त्यर्थं च मुमुक्षूणां प्रयत्नोपपत्तेरिति भावः । न चावरणानुपपत्तिः । ज्ञानाभावातिरिक्ततन्निमित्ता-विद्याभ्युपगमात् । ननु प्रागसतामुत्पत्तिवादिनी श्रुतिः किं न स्यात् किमभिव्यक्तिकल्पनयेत्यत आह ।। बलमिति ।। एतच्च सज्जीवविषयम् । केषाञ्चिद् दुःखादिरूपत्वं मिश्रत्वं च ज्ञातव्यम् ।

गुर्वर्थदीपिका

स दुःखाद्विमुक्त आनन्दीभवतीत्युक्त्या प्राग्दुःखसहितानन्दवान् पश्चात्केवलानन्दवानिति सर्वत्रानन्दवत्त्वस्यैवोक्तत्वेनानानन्दरूपताया एतत् श्रुतिविरुद्धत्वादित्यर्थः । अनानन्दादिरूपत्वा-दित्यत्र दुःखाद्विमुक्ते मुक्तावानन्दवान्भवतीत्युक्त्या प्रागनानन्दरूपित्वं प्रतीयत इत्यर्थः । तस्यैवानु-पपत्तेरित्यत्र स्वरूपभूतयोर्जीवानन्दयोरहमिति जीवज्ञाने आनन्दस्यापि ज्ञानमेव स्यान्नाज्ञानमित्य-ज्ञानस्यैवानुपपत्तेरुक्तत्वादित्यर्थः । ननु प्रतिबन्धकमात्रसाधारणमिदं दूषणं कथमाद्यविकल्पस्यैव दूषणमिति चेत्सत्यम् । अनेनैव दूषितमप्युत्तरपक्षमसाधारणदूषणान्तरेण दूषयितुं ज्ञानरूपेऽज्ञान-स्यैवायोगादिति स्पष्टं दोषं सूचयितुं च विकल्प इत्यदोषः । वैपरीत्यादित्यस्य शरीरस्य भोगायतनत्वेन भोगप्रतिबन्धकत्वस्य विरुद्धत्वादित्यर्थः । तन्निमित्ताविद्याभ्युपगमादित्यत्रा-विद्याख्यावरणमप्यहमिति जीवज्ञानमप्रतिबध्य तद्रूपमानन्दं कथं प्रतिबध्नीयादिति चोद्यं ‘वामं मा दहेत्’ इति मन्त्रशक्त्या वामभागस्यादाहवदीश्वरशक्त्युपोद्बलितप्रतिबन्धकशक्त्याऽभिन्नेऽपि भेदकार्यकारिविशेषशक्त्या च परिहरणीयम् ।

भावबोधः

अनन्तरसङ्गतिं सूचयन् विषयमाह– प्रकृत इति ।। ‘तद्गुणसारत्वात्’ इत्यत्र ज्ञानानन्दादि-स्वरूपत्वेन प्रकृत इत्यर्थः । तथा च पूर्वत्र पृथगधिकरणीयाद्यसूत्रोक्तो बन्धान्मोक्षं तत एवाभि-वाञ्छेत्’ इत्युपदेश उपपादितः । इह तु तदीयद्वितीयसूत्रोक्तं तद्गुणसारत्वमुपपाद्यते । तत्सूत्रोक्ततद्गुणसारत्वस्यात्रास्येति परामर्शादिति सङ्गतिरिति भावः ।। ज्ञानादिरूप इति ।। अत्र जीवः किं ज्ञानानन्दादिस्वरूपो न भवत्युत भवतीति चिन्ता । तदर्थं विज्ञानात्मेत्यादिरूपत्वश्रुतिः दुःखाद्विमुक्त आनन्दी भवतीति श्रुत्या बाध्यत उत न बाध्यत इति चिन्ता । तदर्थं तच्छ्रुत्युपोद्बलिका स्वगुणाननुभूतिरूपा युक्तिः किं निरवकाशोत ज्ञानानन्दादीनामावृत-त्वेनान्यथासिद्धेति । तदर्थं सतोऽप्यानन्दादेरावृतत्वं किं न सम्भवत्युत सम्भवतीति । तदर्थं तदावरकत्वं किं ज्ञानाभावस्यैवोत तन्निमित्तभावरूपाज्ञानस्य । तदर्थमज्ञानरूपावरणानङ्गीकारे देवादीनां सर्वदा स्वस्वरूपानुभवो न प्रसज्यत उत प्रसज्यत इति । तदर्थमानन्दादीनां मुक्ति-योग्यादिस्वरूपत्वे प्रमाणं नास्त्युतास्तीति । भाष्ये नानन्दादिरूपत्वमिति आनन्दादिविरुद्ध-दुःखादिरूपत्वं प्रतीयते । तच्च दुःखाद्विमुक्त इत्यनेन विरुद्धमित्यतो व्याचष्टे– आनन्दादिरूपत्वा-भाव इति ।। आनन्दी ज्ञानी बलीति तद्वत्त्वोक्त्या तत्स्वरूपत्वाभावस्यैव उक्तेरिति भावः । भाष्योदाहृतायां विज्ञानात्मेति षट्प्रश्नोपनिषदि आनन्द इति श्रुत्यन्तरे च जीवलिङ्गाभावात् पूर्वपक्षानुदय इति न शङ्क्यम् । आद्यश्रुतौ ‘प्राणा भूतानि सम्प्रतिष्ठन्ति यत्र’ इति वाक्यशेषे द्वितीयश्रुतौ च ‘स परेणामुं लोकं नीयते स विमुच्यत’ इति वाक्यशेषे परमात्माश्रितत्वादि-जीवलिङ्गश्रवणादित्याह– प्राणा भूतानीत्यादिना ।। स्वगुणाननुभूतीति न्यायविवरणांशाभि-प्रायमाह– न ह्यानन्दादिरूपत्वमिति ।। अनेन स्वत्वेन स्वरूपत्वेन गुणानामानन्दादीना-मननुभूतिरिति व्याख्यातं भवति ।

ननु स्वरूपभूतानामप्यावृतत्वेनाननुभूत्युपपत्तेः कथमनुव्याख्याने ‘स्वगुणाननुभूतिः’ इत्यननु-भवमात्रं तत्साधकत्वेनोक्तमित्यतो न्यायविवरणे स्वगुणाननुभूत्यनुपपत्तेरित्युक्तमित्याशयेन तदभि-प्रायमाह– जीवस्याहमिति ।। अनेन स्वरूपभूतानां गुणनामनुभूतेरभावो येन प्रतिबन्धेन तत्स्वरूपगुणाननुभूतिः तस्यानुपपत्तेरिति न्यायविवरणांशो व्याख्यातो भवति । पूर्वं सामस्त्येनाभाव इति न्यायविवरणगतपूर्वपदसूचितयुक्तिमाह– आनन्दादिरूपत्वे चेति ।। प्रयत्नस्याभिव्यक्त्यर्थत्व-माशङ्क्य परिहरति– अत्रावरणेति ।। अनेन पूर्वं संसारदशायां सामस्त्येनाभिव्यक्तत्वेन स्वरूपेण चाभाव इति न्यायविवरणाभिप्राय उक्तो भवति । तस्यैवानुपपत्तेरिति ।। जीवस्याहमित्यनेन व्यवधानानुपपत्त्या ज्ञानाभावरूपाज्ञानस्यैवानुपपत्तेरुक्तत्वादित्यर्थः । वैपरीत्यादिति ।। शरीरस्यानन्दाद्यनुभवरूपभोगायतनत्वेन भोगप्रतिबन्धकत्वानुपपत्तेरिति भावः । तद्गुणसारत्व-मिति ।। स्वरूपभूतज्ञानादिगुणसमुदाय इत्यर्थः । अत एव भाष्ये सतामेवानन्दादीनामिति गुणप्राधान्योक्तिर्बहुवचनं च । व्याख्यातं च सतो ज्ञानानन्दादेरिति । सूत्रे ‘आदि’पदप्रयोगात् बालस्येति भाष्यमुपलक्षणपरमित्यभिप्रेत्य व्याचष्टे– पुरुषयोषिदादीनामिति ।। दार्ष्टान्तिके तदुक्तिरिति भाष्यानुरोधादाह– नायं पूर्वमिति ।। सौत्र‘स्तु’ शब्दो सतामेवेति भाष्येऽवधारणार्थो व्याख्यातः । तस्य तात्पर्यं मुक्तेः पूर्वमपि सत इति । सुप्तौ आनन्दादीनमभिव्यक्त्यपेक्षया मोक्षे विशेषेणाभिव्यक्तिरित्यर्थकश्च सौत्र‘स्तु’शब्द इत्यभिप्रेत्य न्यायविवरणे सुव्यक्तिः इत्युक्तमित्यभि-प्रेत्याह– ईश्वरप्रसादेनेति ।। अभिव्यक्तानन्दी भवतीति, श्रौतव्यपदेशस्य योगादुपपत्तेरिति सौत्रांशस्यार्थमभिप्रेत्य प्रवृत्तमभिव्यक्त्यपेक्षया तदुक्तिरिति भाष्यं व्याचष्टे– अभिव्यक्तिनिमित्ते-नेति ।। अनेन पूर्वमव्यक्तानां पश्चात् सुव्यक्त्युपपत्तेरिति न्यायविवरणमपि सुव्यक्तानन्दी भवतीति व्यपदेशस्योपपत्तेरिति व्याख्यातं भवति । पूर्वमव्यक्तानामिति न्यायविवरणांशाभिप्रायमाह– प्रागनभिव्यक्तत्वेनेति ।। पश्चात् सुव्यक्त्युपपत्तेरिति न्यायविवरणांशं प्रकारान्तरेण व्याचष्टे– तदभिव्यक्त्यर्थमिति ।। अनेन सुव्यक्त्यै प्रयत्नस्योपपत्तेरिति व्याख्यातं भवति ।

भावदीपः

साक्षाद्विरोधप्रतीत्यर्थं वक्ष्यमाणप्रतिज्ञायाः श्रुत्यविसंवादार्थं च भाष्यवाक्यार्थमाह ।। अनानन्देति ।। स्वगुणाननुभूत्यनुपपत्तेः पूर्वज्ञानादीनां सामस्त्येनाभाव इति न्यायविवरणे पूर्वस्माज्जीवस्येति पदमनुवर्त्य प्रतिज्ञार्थमाह ।। न जीवो ज्ञानादिरूप इति ।। पादसङ्गत्यर्थं युक्तिं पूर्वमनुक्त्वा भाष्योक्तश्रुतिमेव पूर्वमाह ।। तथा श्रुतेरिति ।। उक्तश्रुतिप्राबल्यायान्यत्रोक्तयुक्तिं वक्तुं शङ्कामाह ।। न चेति ।। स परेणेत्यादिशेषोक्तेरुपयोगायाह ।। न चासाविति ।। विज्ञानात्मा सह देवैश्च सर्वैरिति षट्प्रश्नवाक्ये प्रसिद्धत्वात् भाष्ये अनुक्तमपि शेषं स आनन्द इति श्रुत्यन्तरे शेषस्योपात्तत्वात्पूर्ववाक्येऽप्यभिमतं मत्त्वाह ।। प्राणा भूतानीति ।। देवैः सह विज्ञानात्मप्राणभूतानां भगवदाश्रयत्वोक्तेर्विज्ञानात्मा जीव एवेति भावः । स आनन्द इति श्रुतावपि स परेणेति वाक्यशेषे जीवलिङ्गश्रवणाज्जीवविषयैव श्रुतिरिति भावः । स्वगुणाननुभूत्यनुपपत्तेरित्यन्यत्रोक्तयुक्तिमाह ।। न हीति ।। तत्र गुणाननुभवादित्येव वाच्ये स्वगुणाननुभूत्यनुपपत्तेरित्युक्तितात्पर्यं व्यनक्ति ।। न च प्रतिबन्धादिति ।। स्वगुणाननुभूत्यनुपपत्तेरित्यत्र समाहारद्वन्द्वेन वा सहितसमासेन वा स्वगुणा-ननुभवादनुपपत्तेश्चेति हेतुद्वयमुपेत्यापादकपूर्त्यानुपपत्तेरित्येतत्प्रकारान्तरेण व्याचष्टे ।। आनन्दादि-रूपत्वे चेति ।।

किं चेति चार्थः ।। न केनचिदिति ।। एतेन मोक्षाय प्रयत्नानुपपत्तेरित्यर्थो दर्शितः । अन्यथापि व्याख्यातुमाह ।। अत्रेत्यादि ।। संसार इत्यर्थः ।। तस्यैवेति ।। ज्ञानाभाव एवाज्ञानमिति पूर्वपक्षिणो मम मते अज्ञानानुपपत्तेरित्यर्थः । एतेन स्वगुणाननुभूतेः स्वगुणाज्ञानस्यानुपपत्तेर्ज्ञानाभावस्यैवा-ज्ञानत्वादित्यर्थो दर्शितः ।। वैपरीत्यादिति ।। शरीरस्यानन्दाद्यनुभवरूपभोगायतनत्वेन भोग-प्रतिबन्धकत्वायोगादित्यर्थः । एतेन शरीरे सति स्वगुणाननुभूत्यनुपपत्तेरित्यर्थो दर्शितः ।। अत एवेति ।। भोगायतनशरीरस्य तत्राभावादेवेत्यर्थः । तत्तस्मात् तदेव व्यनक्ति ।। सयुक्तिकेति ।। अप्रकृतत्वाद्भाष्ये सतामेवानन्दादीनामित्युक्तिः कथमित्यत आह ।। अस्येतीति ।। यद्वा जीवपरामर्शभ्रान्तिं निराह ।। अस्येतीति ।। सूत्रे ज्ञपदमनुवर्त्य साध्यं बहिरेवाह ।। भवत्येवेति ।। तथा श्रुतेरिति योज्यम् । सूत्रभाष्ये स दुःखाद्विमुक्त इति श्रुत्यादिविरोधनिरासकत्वेन व्याचष्टे ।। न चेत्यादिना ।। बालस्येत्युपलक्षणं मत्वा सौत्रादिपदार्थव्यक्त्यर्थमाह ।। पुरुषेति ।। पश्वादय आदिपदार्थ इत्याहुः । सतां पारमार्थिकानामिति भ्रमनिरासायाह ।। मुक्तेः पूर्वं सत इति ।। बहुधर्मलाभाय भाष्ये बहुवचनोक्तावपि सूत्रानुसारादेकवचनोक्तिः । वक्ष्यमाणदिशाऽनाद्यविद्या-वरणस्य भावरूपस्य निवर्तकाभावादभिव्यक्तिरयुक्तेत्यतः परमाद्विभोरिति प्रमाणानुरोधादाह ।। ईश्वरप्रसादेनेति ।। व्यक्तमेतत्तदभिध्यानादित्यत्र । सौत्रयोगशब्दार्थो निमित्तेनेति ।। तदुक्तिरित्यस्यार्थः आनन्दादीति ।। एतेन पूर्वमव्यक्तानां पश्चात्सुव्यक्त्युपपत्तेरित्यन्यत्रोक्तेः सुव्यक्त्या व्यपदेशोपपत्तेरित्यर्थ उक्तः । अस्त्वेवं श्रुत्यविरोधः । युक्त्यविरोधस्तु कथमित्यतः पूर्वमव्यक्तानामिति षष्ठ्यन्तांशभावमाह ।। प्रागिति ।। सुव्यक्त्यर्थं प्रयत्नोपपत्तेरित्युत्तर-भागार्थमुपेत्याह ।। तदभिव्यक्त्यर्थमिति ।। तस्यैवानुपपत्तेरित्युक्तदोषमाशङ्क्य निराह ।। न चेति ।। तन्निमित्तेति ।। ज्ञानाभावनिमित्तेत्यर्थः । न चाभ्युपगमो निर्बीजः । वक्ष्यमाणसूत्रोक्तबाधकस्यैव बीजत्वादिति भावः । श्रुतेः सर्वजीवपरत्वेऽग्रेतनसूत्रविरोध इत्यत आह ।। एतच्चेति ।। एतेन तद्गुणसारत्वादित्युक्तिरपि व्याख्याता । उत्तरानुकूल्यायाह ।। केषाञ्चिदिति ।।

अभिनवचन्द्रिका

विपरीतापि श्रुतिरिति ।। ‘विज्ञानात्मा सहदेवैश्च सर्वैः’ इति  ज्ञानरूपत्वे, स आनन्दः स बल,’ इति आनन्दरूपत्वे च श्रुतिरस्तीत्यर्थः ।। न चासाविति ।। ज्ञानरूपत्ववादिनी आनन्दरूपत्ववादिनी च श्रुतिर्नेश्वरविषयेत्यर्थः ।। प्राणभूतानीति ।। ‘प्राणभूतानि सम्प्रतिष्ठन्ति यत्र’ इत्यन्तम्, ‘विज्ञानात्मा सहदेवैश्च सर्वैः’ इति भाष्योदाहृतषट्प्रश्नवाक्यशेष इति बोध्यम् ।। न ह्यानन्दादिरूपमिति ।। योग्यत्वे सत्युपलभ्यमानत्वात्तद्रूपत्वं नेति भावः । जीवस्येति ।। त्वन्मते जीवस्य नित्याभिव्यक्तत्वेन आनन्दादीनां तत्स्वरूपत्वे प्रतिबन्धकस्यैवाऽनुपपत्तेरित्यर्थः ।। किमावरणमिति ।। यद्यपि ज्ञानाभावापपादनाय ज्ञानाभावस्यैव आवरणत्ववचनमनुपपन्नमिति न प्रष्टव्यम्, तथापि युक्तमेव परो ब्रवीतीति नियमाभावात्प्रश्नः ।। तस्यैवेति ।। अज्ञान-स्यैवानुपपत्तेरस्माभिः शङ्कितत्वात् तदुपपादनाय अज्ञानस्यैवाऽऽवरणत्वकथनमनुपपन्नमिति भावः ।। वैपरीत्यादिति ।। शरीरस्य आनन्दाद्यनुभोगायतनत्वेन भोगप्रतिबन्धकत्वानुपपत्तेरिति भावः ।

वाक्यार्थमुक्तावली

प्रकृत इति ।। तद्गुणसारत्वादित्यत्र ज्ञानानन्दरूपत्वेन प्रकृत इत्यर्थः । तथा च पूर्वत्र पृथगधिकरणाद्यसूत्रोक्तः बन्धान्मोक्षं तत एवाभिवांछेदित्युपदेश उपपादितः । इह तु तदीयद्वितीयसूत्रोक्ततद्गुणसारत्वमुपपाद्यते । अत एवात्र अस्येति परामर्श इत्यनन्तरसङ्गतिरिति भावः । अत्र जीवः किमानन्दादिस्वरूपो न भवत्युत भवतीति चिन्ता । तदर्थमानन्दादेरसत्त्वा-देवानुपलब्धिरुत सत्यप्यावरणादिति । तदर्थमज्ञानस्यावरणत्वं सम्भवत्युत न सम्भवतीति । भाष्ये आनन्दादिरूपत्वमिति आनन्दादिविरुद्धदुःखादिरूपत्वं प्रतीयते । तच्च दुःखाद्विमुक्त इत्यनेन विरुद्धमित्यतो व्याचष्टे ।। आनन्दादिरूपत्वाभाव इति ।। आनन्दीभवतीत्यानन्दादेरागन्तु-कत्वोक्तिरिति भावः ।

भावबोधे तु आनन्दी, बली, ज्ञानी, इत्यादिना तद्वत्वोक्त्या तस्वरूपाभावस्यैवोक्तेरित्युक्तम् । प्राणभूतानि संप्रतिष्टन्तीति षट्प्रश्नवाक्यशेषोऽयम् । आग्निवेश्यश्रुतौ आनन्दादिरूपत्वमुच्यत इति वक्तव्ये प्रतीयत इत्युक्त्या, आग्निवेश्यश्रुतावुक्तमानन्दादिरूपत्वमेवानुभूयते न त्वानन्दादिरूपत्वम् इति सूचितम् । स्वगुणाननुभूतीत्युक्तपूर्वपक्षन्यायमाह ।। आनन्दादिरूपत्वश्रुतेरिति ।। स्वरूपभूतानामिति ।। एतेन भाष्ये रूपपदेन न्यायमालायां स्वगुणेति स्वरूपत्वप्रतिपादकस्वपदेन सूचितं दूषणमुक्तं भवति । दुःखाद्विमुक्त आनन्दीभवतीत्यानन्दादेः प्रयत्नसाध्यत्वोक्त्या सूचितं दूषणमाह ।। आनन्दादिरूपत्वे जीवस्येति ।। सतोऽभिव्यक्तियोगादिति सिद्धान्तमप्याक्षिपति ।। अत्रावरणादिति ।। अज्ञानमावरणं वदन् प्रष्टव्यः किमज्ञानं अभावोभावरूपं वा । आद्य आह ।। तस्यैवानुपपत्तेरिति ।। ज्ञानादिरूपस्य ज्ञानाभावस्यैवानुपपत्तेः । प्रतियोगितदभावयोर्विरोधात् । दूरे तस्यावरणत्वकल्पनम् ।। ज्ञानाभावोपपादनाय ज्ञानाभावस्यैवावरणत्वकथनायोगात् । जीवस्याहमिति नित्याभिव्यक्तत्वेन तत्स्वरूपभूतानां व्यवधानस्यैवानुपपत्तेरुक्तत्वाच्चेति भावः । एतेन द्वितीयोऽपि निरस्तः । जीवस्वरूपानावरकस्य भावरूपाज्ञानस्य तस्वरूपभूतानन्दाद्यावरकत्वा-योगादिति ।। वैपरीत्यादिति ।। भोगसाधनशरीरादेः तत्प्रतिबन्धकत्वस्य विपरीतत्वादित्यर्थः । अत एव आवरणाभावादेव । सूत्रे ज्ञस्येत्यस्ति । तुशब्दोऽवधारणे । ज्ञस्तद्गुणसार इत्यन्वेति । ज्ञस्य जीवस्य सतस्तु सत एवास्य ज्ञानानन्दादिरूपत्वस्य पुंस्त्वादिवद्बाल्ये विद्यमानस्य पुंस्त्व-स्त्रीत्वादेरिवाभिव्यक्तियोगात् अभिव्यक्तेश्चरमप्रसादेन सम्यगभिव्यक्त्या निमित्तेन योगादानन्दी-भवतीत्यादिव्यपदेशोपपत्तेः । तथा प्रागनभिव्यक्तत्वेनानुभवाभावस्यापि योगादासम्भवात्तदभिव्यक्त्यर्थं मुमुक्षुणां प्रयत्नस्यापि योगाद्भवत्येवानन्दादिरूपो जीव इति सूत्रार्थमभिप्रेत्य भाष्यभावमाह भवत्येवेत्यादिना । पुंस्त्वादिवदिति सौत्रादिपदानुसारेण यथा बालस्य सदेव पुंस्त्वमिति भाष्य-मुपलक्षणं मत्वोक्तम् ।। पुरुषयोषिदादीनामिति ।। आदिपदेन वृक्षादीनां फलपुष्पोत्पत्ति-शक्तिस्वरूपत्वेऽपीति द्रष्टव्यम् । अभिव्यक्तिर्नामापरोक्षज्ञानजन्यप्रसादेन व्यक्तिः ।

ननु सुप्ताविव प्राज्ञप्रवेशमात्रेणैव विवक्षित्वा, सुव्यक्तीति न्यायं संयोजयितुमुक्तं ईश्वरप्रसा-देनेति ।। सौत्रस्तुशब्दो भाष्ये सत एवेत्यादि व्याख्यातः तस्य तात्पर्यं मुक्तेः पूर्वमपि सत इति ।। भाष्ये तदुक्तिरित्युपलक्षणं मत्वा योगादित्यस्यार्थान्तरमुक्तं प्रागनभिव्यक्तेत्यादि ।। किमावरण-मानन्दादीनामित्यस्योत्तरमाह ।। न चावरणेति ।। कुतो नानुपपत्तिरित्यतः अज्ञानावरण-त्वादित्युत्तरं वाच्यं अज्ञानं च नाभावो येन तस्य ज्ञानेनासौ विरोधः ज्ञानाभावोपपादनाय । तदभावस्यावरणत्वोक्त्याऽनुपपत्तिश्च किन्तु ज्ञानाभावातिरिक्तायास्तन्निमित्ताया अविद्याया अज्ञानपदवाच्यतयाऽवरणतया चाभ्युगमात् । तस्याश्चाहमिति स्वरूपे भासमानत्वेऽपि तद्विशेषानन्दाद्यावरकतयैव अहमज्ञो, मामन्यं च न जानामि’ इति धर्मिग्राहकप्रमाणसिद्धत्वादिति भावः । ननु ज्ञानप्रागभावात्यंताभावयोरनादित्वादविद्यायास्तन्निमित्तत्वं कथमिति चेदनादिप्रयोज्य-प्रयोजकभावसम्भवात् । उत्तरसूत्रे तमोयोग्यनित्यसंसारिणामप्यावरणानङ्गीकारे बाधकस्य वक्ष्यमाणत्वात् । व्यामिश्रतापरिहाराय विभागमाह ।। एतच्चेति ।। पुंस्त्वादिति सूत्रमित्यर्थः । उत्तरसूत्रापेक्षया तथापि ज्ञानरूपत इति पूर्वभाष्यानुसारेणाह पूर्वसूत्रमुपलक्षणं मत्वाह ।। केषाञ्चिदिति ।।

तत्त्वसुबोधिनी

अनन्तरसङ्गतिं सूचयन् विषयमाह ।। प्रकृत इति ।। तद्गुणसारत्वात् इत्यत्र ज्ञानानन्दादि-स्वरूपत्वेन प्रकृत इत्यर्थः । तथा च पूर्वं पृथगधिकरणीयाद्यसूत्रोक्तो बन्धान्मोक्षं तत एवाभिवाञ्छेत् इत्युक्त उपदेश उपपादितः । इह तु तदीय(द्वितीय)सूत्रोक्तं तद्गुणसारत्वस्यात्रास्येति परामर्शात् सङ्गतिरिति भावः । भाष्ये आनन्दादिरूपत्वमिति अनानन्दादिविरुद्धदुःखादिरूपत्वं प्रतीयते । तच्च दुःखाद्विमुक्त इत्यनेन विरुद्धमित्यतो व्याचष्टे ।। आनन्दादिरूपत्वाभाव इति ।। आनन्दी, ज्ञानी, बलीति तद्वत्वे श्रुतेरित्यर्थः । न च युक्तमित्यस्य इतीत्यनेन सम्बन्धः । भाष्योदाहृतायां विज्ञाना-त्मेति षट्प्रश्नोपनिषदि, आनन्द इति श्रुत्यन्तरे च जीवलिङ्गाभावात् पूर्वपक्षानुदय इति न शङ्क्यम् । आद्यश्रुतौ प्राणा भूतानि सम्प्रतिष्ठन्ति इति वाक्यशेषे द्वितीयश्रुतौ सपरेणामुं लोकं नीयते मुच्यते इति वाक्यशेषे जीवलिङ्गश्रवणादित्याह ।। प्राणा भूतानीत्यादिना ।। सयुक्ति-कत्वादिति ।। आनन्दादिरूपत्वासम्भवरूपयुक्तिसहितत्वादित्यर्थः । सयुक्तिकत्वमेवाह ।। न हीति ।। न चानुभवोऽन्यथोपपन्न इति वाच्यम् किमनुभवप्रतिबन्धकस्य विद्यमानत्त्वात् उतावरण-सत्वात् अनभिव्यक्तेर्वा । नाद्य इत्याह ।। न च प्रतिबन्धकादिति ।। जीवस्येति ।। अन्यथा स्वरूपत्वमेव न स्यादिति भावः । दूषणान्तरं चाह ।। आनन्दादीति ।। सिद्धे प्रयत्नस्य कुत्राप्यदृष्टेरिति भावः । न द्वितीय इत्याह ।। अत्रावरणादिति ।। तस्यैवानुपपत्तेरिति ।। आवश्यकत्वान्यथानुपपत्युक्ततया ज्ञानाभावरूपाज्ञानस्यैवानुपपत्तेरुक्तत्वादित्यर्थः ।। वैपरीत्या-दिति ।। शरीरस्यानन्दाद्यनुभवरूपभोगायतनत्वेन भोगप्रतिबन्धकत्वायोगादित्यर्थः ।। अत एवेति ।। आवरणासम्भवादित्यर्थः ।। तद्गुणसारत्वमिति ।। स्वरूपभूतज्ञानादिगुणसमुदाय इत्यर्थः । गुणप्राधान्योक्तिर्बहुवचनं च व्याख्यातम् ।। सतो ज्ञानानन्दादेरिति ।। सूत्र आदिपदप्रयोगात् बालस्येति भाष्यं उपलक्षणतापरमित्यभिप्रेत्य व्याचष्टे ।। पुरुषेति ।। दार्ष्टान्तिके तदुक्तिरिति भाष्यानुरोधादाह ।। नायं पूर्वमिति ।। सौत्रस्तुशब्दः सतामेवेति भाष्येऽवधारणार्थत्वेन व्याख्यातः तस्य तात्पर्यं मुक्तेः पूर्वं सत इति ।। सुप्तौ आनन्दादीनां व्यक्त्यपेक्षया मोक्षे विशेषेणाभि-व्यक्तिरित्यर्थंकश्च सौत्रस्तुशब्द इत्यभिप्रेत्याह ।। ईश्वरप्रसादेनेति ।। अभिव्यक्त्यानन्दी भवति इति श्रौतव्यपदेशस्य योगादुपपत्तेरिति सौत्रांशस्यार्थमभिप्रेत्य प्रवृत्तमभिव्यक्त्यपेक्ष चेति भाष्यं व्याचष्टे ।। अभिव्यक्तीति ।। आनन्दादीनां स्वरूपत्वेऽनुभवः कुतो नेत्यत आह ।। प्रागिति ।। आनन्दादीनां स्वरूपत्वे मोक्षस्य सिद्धत्वात् तद्विषयक प्रयत्नोऽनर्थक इति तत्राह ।। तदभिव्यक्त्यर्थमिति ।। तन्निमित्ता आवरणनिमित्ता । ननु सर्वेषामप्यानन्दरूपत्वे मोक्षापातेन नरकादिदुःखं कस्यापि न स्यादित्यत आह ।। एतच्चेति ।। आनन्दादिरूपत्वकथनमिति ।

वाक्यार्थविवरणम्

निरातङ्कः ।। निर्भयः ।। तत्स्वरूपभूतानामिति ।। तथा च तत्स्वरूपतया च भूतानाम-प्यानन्दादीनां नित्याभिव्यक्तत्वप्राप्त्या नाननुभवरूपं व्यवधानमुपपन्नमिति भावः ।। अभिव्यक्ति-रिति ।। आनन्दादिरूपत्वस्यानुभव इति शेषः । अज्ञानं ज्ञानाभावः ।। उक्तत्वादिति ।। जीवस्याहमित्यादिनेत्यर्थः ।। वैपरीत्यादिति ।। शरीरस्य भोगायतनत्वादिति भावः ।। अत एवेति ।। आनन्दादिरूपत्वासम्भवादेव ।। अयुक्तमिति ।। सत एवाभिव्यक्तिर्न त्वसत इति भावः ।। ज्ञानाभावातिरिक्तेति ।। ज्ञानाभावस्यावरणत्वे हि व्यवधानानुपपत्तिरित्युक्तदोषः न चैवमिति भावः ।। तन्निमित्तेति ।। स्वरूपभूतानन्दादेरननुभवनिमित्तभूतेत्यर्थः ।। अविद्या ।। गुणत्रयाख्या भावरूपा अविद्या । सत्त्वादिगुणात्मिक्या विद्यादिविरोधित्वेनाविद्ययेत्यादिसुधावचनादिति ज्ञेयम् । अत एव सिद्धान्ते आवरकत्वान्यथानुपपत्त्यैव भावरूपाज्ञानसिद्धिरङ्गीकृता । ज्ञानाभावस्यावरकत्वा- भावादेवेति मन्तव्यम् ।। असताम् ।। आनन्दादीनाम् । भाष्य अनाकुलं बाह्योपप्लवशून्यं ज्ञानम् ।। ईश्वरप्रसादेनेत्यादि ।। तथा चेश्वरप्रसादाभिव्यक्त्योरुभयोरपि कल्पनं युक्तमिति भावः ।

वाक्यार्थमञ्जरी

आनन्दादिस्वरूपत्वाभाव इति ।। आनन्दी भवतीति मुक्तौ तद्वत्त्वोक्त्या तत्स्वरूपत्वाभाव-स्यैवोक्तेरित्यर्थः ।। प्राणा भूतानीति ।। यत्र जीवे प्राणा इन्द्रियाणि भूतान्याकाशादी निबन्धकतया सम्यक् तिष्ठन्ति स परमात्मप्रसादेन परलोकं यातीति भाष्योदाहृतश्रुतिशेषार्थः । व्यवधानस्य प्रतिबन्धकस्य एवमावरणत्वेनाभिमतस्यावरकत्वं न सम्भवतीत्युक्तम् इदानीमावरणमेव नेत्याह ।। अत्रेति ।। संसार इत्यर्थः ।। तस्यैवेति ।। जीवस्याहमित्यादिनाऽवरणानुपपत्त्युक्त्या ज्ञानाभाव-रूपाज्ञानस्यैवानुपपत्तेरुक्तत्वादित्यर्थः । न ह्यावरणाभावेऽज्ञानाभावे निर्निमित्तं भवितुमर्हतीति भावः ।। वैपरीत्यादिति ।। शरीरस्यानन्दाद्यनुभवरूपभोगायतनत्वेन भोगप्रतिबन्धकत्वानुपपत्तेरिति भावः । अत एव इदानीमावरणाभावादेव ।। ॐ पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात् ॐ ।। जीवस्य सतस्तु सत एव प्राग्विद्यमानस्यैवास्य ज्ञानानन्दादिरूपत्वस्य पुंस्त्वादिवत् बाल्येऽसतः पुंस्त्वस्त्रीत्वादेरिवाभिव्यक्तियोगात् अभिव्यक्त्याऽभितः सुष्ठु व्यक्त्या निमित्तेन योगादानन्दीभवती-त्यादिव्यपदेशोपपत्तेरित्यर्थः । कालतः यौवने ।। तन्निमित्तेति ।। ज्ञानाभावनिमित्तत्रिगुणात्मक-स्वगुणाच्छादिकाऽविद्याङ्गीकारादित्यर्थः । वक्ष्यमाणानुरोधेनाह ।। केषाञ्चिदिति ।।

Load More