ॐ सोऽध्यक्षे तदुपगमादिभ्यः ॐ

अध्यक्षाधिकरणम्

सूत्रभाष्यम्

ॐ सोऽध्यक्षे तदुपगमादिभ्यः ॐ ।। ४ ।।

स प्राणः परमात्मनि विलीयते । ‘सर्वे प्राणमुपगच्छन्ति प्राणः परमुपगच्छति प्राणं देवा अनुप्राणन्ति प्राणः परमनुप्राणिति तस्मादाहुः प्राणस्य प्राण इति’ ‘प्राणः परस्यां देवतायाम्’ ।

मुक्ताः सन्तोऽग्निमाविश्य देवाः सर्वेऽपि भुञ्जते ।

 अग्निरिन्द्रं तथेन्द्रश्च वायुमाविश्य सोऽपि तु ।

 आविश्य परमात्मानं भुङ्क्ते भोगांस्तु बाह्यकान् ।।

 न ह्यानन्दो निजस्तेषां परैर्लभ्यः कथञ्चन ।

 किमु विष्णोः परानन्दो न ते विष्णाविति श्रुतेः ।।

 प्राणस्य तेजसि लयो मार्गमात्रमुदाहृतम् ।

 सर्वेशितुश्च सर्वादेस्तस्यान्यत्र लयः कथम्’ इत्यादिश्रुतिस्मृतिभ्यः ।। ४ ।।

।। इति अध्यक्षाधिकरणम् ।। ३ ।।

तत्त्वप्रदीपिका

‘‘इन्द्रश्च वायुमाविश्य’’ इति पूर्वोक्तसुपर्णीसुपर्णवाणीद्वारेणेति द्रष्टव्यम् । सावकाशानवकाशयोरनवकाशस्य बलवत्त्वात् ।

इन्द्रादीनां तत्र लयः क्रमं तु प्रोक्तं विशेषादनुसृत्य नान्यत्’ इति च ।

आविश्य परमात्मानं भुङ्क्ते भोगांस्तु बाह्यकान्’ ।।

परमात्मस्वरूपानन्दादन्यमुक्तमानन्दाच्च बाह्यं स्वानन्दं भुङ्क्ते । निर्गतस्तु बाह्यविषयभोगानपि कांश्चित्स्वयोग्यान् भुङ्क्त इत्यर्थः । ‘प्राणस्तेजसि’ इत्यस्य गतिमाह–

प्राणस्य तेजसि लयो मार्गमात्रमुदाहृतम्’ इति ।

मुक्तावुमा तु वागाख्या रुद्रं याति मनोऽभिधम् ।

वायुं याति शिवश्चापि वायुस्तेजोऽभिधां श्रियम् ।।

वायुमादाय सा देवी याति विष्णुं परात्परम् ।

द्वारमात्रा तु सा देवी वायुप्राप्यो जनार्दनः ।

मुक्तिकाले च मुक्तौ च पुरुषा वायुमाप्नुयुः’ इति सत्तत्वे ।।

।। इत्यध्यक्षाधिकरणम् ।।

तत्त्वप्रकाशिका

अत्र प्राणस्य मोक्षसिध्यर्थं परमात्मनि लयसमर्थनादस्ति शास्त्रादिसङ्गतिः । अन्यथा कस्यापि मोक्षाभावप्रसङ्गात्समर्थनीयमेतत् । प्रकृतः प्राणोऽत्र विषयः । किं परमात्मनि लीयते न वेति सन्देहः । पूर्वोक्तं सन्देहबीजम् । प्राणो न परमात्मनि लीयत इति पूर्वः पक्षः । तस्य तदधीनत्वा-निश्चयात् । न च वाच्यं ‘चक्षुरादिवत्’ (२-४-११) इत्यादौ तदुक्तमिति । तस्यानन्याधीनत्वेऽपि श्रुतिसद्भावात् । न च तस्या गत्यन्तरं चोक्तमिति वाच्यम् । अनन्याधीनत्वे प्राणस्य श्रुतिबाहुल्य-सद्भावात् । बाहुल्यस्य प्राबल्यहेतुत्वात् । न हि प्रबलस्य दुर्बलेन बाधः । वैपरीत्यस्यैवोचितत्वात् । महान्तमस्य महिमानमाहुरनद्यमानो यदनन्नमत्ति’ इति प्राणस्य लयाभावोक्तेश्च । अतः प्राणस्य परमात्मनि लयाभावेन कस्यापि मोक्षाभाव इति । सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ।। स इति ।। प्राणो हिरण्यगर्भः परमात्मनि लीयत एव तस्य तदधीनत्वात् । न च तदनिर्णयः । तदधीनत्वेऽपि श्रुत्यादिबाहुल्यसद्भावात् । न च साम्यम् । तदधीनत्वश्रुतीनां निरवकाशत्वात् । स्वातन्त्र्यश्रुतीनां तु ‘सर्वे प्राणमुपगच्छन्ति’ इति न्यायेन सावकाशत्वात् । सावकाशनिरवकाशयोश्च निरवकाशस्य प्राबल्यात् । अनद्यमान इति चान्यैरनद्यमान इत्यर्थोपपत्तेरिति भावः । बाह्यकानित्येतदेवोपपादयति ।। न हीति ।। ननु ‘प्राणस्तेजसि’ इति श्रुतेः प्राणस्य रमायां लयो न परमात्मनीत्यत आह ।। प्राणस्येति ।। चतुर्मुखस्य तेजसि लयो नाम तत्प्राप्तिमात्रं न तु तत्र देहलयः । तस्य साक्षात्परमात्मनि लययोग्यत्वादिति भावः । प्राणत्वेऽस्त्येव तेजसि लयः । अतो विरिञ्चस्य हरौ लयसद्भावाद्युक्तः सर्वज्ञानिनां मोक्ष इति सिद्धम् ।।

गुर्वर्थदीपिका

यदनन्नमत्तीत्यत्रानन्नमन्येषामनन्नमित्यर्थः ।

भावबोधः

अत्रानन्तरसङ्गतिः प्रागेवोक्ता ।। कस्यापीति ।। चतुर्मुखप्रवेशेनैव सर्वेषां मुक्तिरिति भावः ।। किं परमात्मनीति ।। अत्र प्राणः किं परमात्मनि न लीयत उत लीयत इति चिन्ता । तदर्थं प्राणः परमात्माधीनो न भवत्युत भवतीति । तदर्थम् ‘चक्षुरादिवत्’ इति प्रागुक्तं प्राणस्य परमात्माधीनत्वं प्राणस्य स्वातन्त्र्यादिप्रतिपादकबहुश्रुतिबाधितं भवत्युत न भवतीति । तदर्थं प्राणस्वातन्त्र्य-प्रतिपादकश्रुतिः किं निरवकाशोत सावकाशेति । तदर्थं प्राणस्य परमात्माधीनत्वे विशेषप्रमाणं नास्त्युतास्तीति ।। पूर्वोक्तमेवेति ।। प्राणस्य भगवदुत्पन्नत्वं विशेषादर्शनं चेत्यर्थः । एतदुपपादनं पूर्ववज्ज्ञातव्यम् । ‘सोऽध्यक्षः’ इत्यस्याप्येवमेव शङ्का । श्रुतिबाहुल्यमेव शङ्कायां विशेषहेतुरिति न्यायविवरणाभिप्रायमाह– तस्य तदधीनत्वेत्यादिना ।। गत्यन्तरं चोक्तमिति ।।

अनन्येश्वरता प्राणे तदन्येश्वरवर्जनात्’ इत्यादिना चक्षुरादिवत् इत्यत्रोक्तमित्यर्थः । लयाभावोक्तेश्चेति ।। अनेन श्रुतिबाहुल्यमिति न्यायविवरणं लयाभावेऽपि श्रुतिबाहुल्यमिति व्याख्यातं भवति । तदधीनत्वेऽपि श्रुत्यादिबाहुल्यादिति । अनेन श्रुतिबाहुल्य एव परिहारे च विशेषहेतुरिति न्यायविवरणं व्याख्यातं भवति ।। इति न्यायेनेति ।। इत्युक्तन्यायेनेत्यर्थः । रुद्रादिसकलजीवप्राप्यत्वे तच्चेष्टकत्वादिना श्रुत्युक्तस्वातन्त्र्योपपत्तेरिति भावः ।। अन्यैरनद्यमान इतीति ।। अनेन श्रुतिबाहुल्यम् इति प्राणस्य विष्णुनाऽद्यमानत्वे श्रुतिबाहुल्यमित्यपि सिद्धान्ते व्याख्यातं भवति ।। प्राणत्व इति ।। प्राणस्य चतुर्मुखत्वेन पुनर्जननात् । विलीनो हि प्रकृतौ संसारमेति इति श्रुतेरिति भावः ।।

भावदीपः

प्राणस्येति ।। एतेन श्रौतक्रमाद्वा पूर्वनयद्वयफलाक्षेपेण शङ्कनाद्वा पूर्वसङ्गतिरपि सूचिता । अत एवाह कस्यापि मोक्षासम्भवेति ।। पूर्वोक्तमिति ।। श्रेष्ठश्चेत्यत्रोक्तेश्वरजत्वं विशेषादृष्टि-श्चेत्यर्थः । सोऽध्यक्ष इत्येतद्व्यावर्त्यकोटिमाह ।। प्राण इति ।। सोऽध्यक्ष इत्यस्याप्येवमेवा-शङ्क्येत्यन्यत्रोक्तेः पूर्वोक्तमेव हेतुमाह ।। तस्येति ।। श्रुतिबाहुल्यमेव शङ्कायां विशेषहेतुरित्य-न्यत्रोक्तं व्यावर्त्यशङ्कापूर्वं व्यनक्ति ।। न चेति ।। इत्यादाविति ।। श्रेष्ठश्च एतेन मातरिश्वा व्यतिहारो विशिंषन्ति इत्यादिपदार्थः ।। श्रुतीति ।। न प्राणः किञ्चिदाश्रित इति यस्मिन्निदं सर्वमध्यर्ध्नोत्प्राणस्यैतद्वशे सर्वं त्रिदिवे यत्प्रतिष्ठितमित्यादिश्रुतीत्यर्थः ।। गत्यन्तरं चोक्तमिति ।। विष्ण्वन्येश्वरवर्जनपरत्वरूपं गत्यन्तरं चक्षुरादिवदित्यत्रैवोक्तमित्यर्थः । दुर्बलेन अनन्येश्वरपरता-वचनेनेत्यर्थः । छान्दोग्यचतुर्थाध्यायस्थविस्पष्टश्रुतिं चाह ।। महान्तमिति ।। अत इति ।। अनन्याधीनत्वे श्रुतिबाहुल्याल्लयाभावे श्रुतेर्भावाच्चेत्यर्थः । स इत्यादिभाष्यं व्याचष्टे ।। प्राण इति ।। कुत इत्यतः सोऽध्यक्ष इत्यस्याप्येवमेव परिहार इत्यन्यत्रोक्तं हृदि कृत्वा पूर्वनयसिद्धान्तहेतु-मेवात्राप्याह ।। तस्येति ।। श्रुतिबाहुल्यमेव परिहारे च विशेषहेतुरित्यन्यत्रोक्तं शङ्कानिरासकत्वेन योजयति ।। न चेत्यादिना ।। सर्वे प्राणमित्यादिभाष्यं श्रुतिबाहुल्यस्य निरवकाशत्वोपपादकत्वेन योजयति ।। न च साम्यमित्यादिना ।। इति न्यायेनेति ।। रुद्रादिसर्वोपजीव्यत्व-रूपश्रुत्युक्तन्यायेनेत्यर्थः । प्रागुक्तलयाभावश्रुतेर्गतिमाह ।। अनद्यमान इति चेति ।। प्राणत्व इति ।। हिरण्यगर्भत्वात्पूर्वं प्राणत्वावस्थायां श्रीतत्वे देहलयोऽस्त्येव । पुनश्चतुर्मुखतया जननादिति भावः ।। अत इति ।। हरौ लीनत्वश्रुतिबाहुल्यादित्यर्थः ।

अभिनवचन्द्रिका

तस्य तदधीनत्वेति ।। अत्र नञो बुद्ध्या विवेकेनाऽतदधीनत्वनिश्चयादिति सम्बन्धो बोध्यः । एतेन तदधीनत्वनिश्चयाभावे तत्र लयसंदेह एव स्यात्, न तु न तत्र लीयत इति पूर्वपक्षसिद्धिः स्यादिति परास्तम् । ‘चक्षुरादिवत्’ इति सूत्रे तदधीनत्वस्य निर्णीतत्वात् नाऽभावनिश्चय इत्याक्षिप्य निषेधति – न च वाच्यमिति ।। तस्येति ।। प्राणस्य परमात्मानधीनत्वेऽपि श्रुतिसद्भावात्, न प्राणस्याधीनत्वनिश्चय इति भावः ।। गत्यन्तरमिति ।। प्राणस्य अनन्याधीनताप्रतिपादकस्य ‘प्राणादिदमाविरासीत्, प्राणो धत्ते प्राणे लयमभ्युपैति, न प्राणः किंचिदाश्रितः, यदाश्रयादस्य चेष्टा सोऽन्यं कथमुपाश्रयेत् । यथा प्राणः तथा राजा सर्वस्यैकाश्रयो भवेत्’ इति वचनस्य ‘अनन्येश्वरताप्राणे तदन्येश्वरवर्जनात्’ इति गतिरुक्ता । ततश्च प्रतिप्रमाणस्य हीनबलत्वात् तदधीनतानिश्चयः सम्भवतीति न वाच्यमित्यर्थः ।। वैपरीत्यस्यैवेति ।। तदधीनताप्रतिपादकवचनस्य हीनबलत्वात् बहुत्वेन प्रबलैरनधीनतावचनैरनधीनत्वनिश्चय इति भावः ।। न च तदनिर्णय इति ।। अनधीनताप्रतिपादकबहुप्रमाणविरुद्धेन तदधीनतावचनेन न तन्निर्णय इति न वाच्यमित्यर्थः । तत्किं ‘प्राणस्तेजसि’ इति श्रुतिः सर्वथा मुख्यार्थैवेति जिज्ञासायामाह – प्राणत्व इति । हिरण्यगर्भस्यैव प्राणत्वावस्थायां तेजसि लयोऽस्त्येवेति मुख्यार्थापि श्रुतिरिति भावः ।

पूर्वपक्षस्तु प्राणो न परमात्मनिलीयते । तस्याऽतदधीनत्वात् । न च वाच्यं ‘चक्षुरादिवत्’ इत्यादौ प्राणस्य तदधीनत्वमुक्तमिति । तस्यानन्याधीनत्वे बहुश्रुतिसद्भावात् । न च बहुबाधो युक्तः । वैपरीत्यस्यैवोचितत्वात् । ‘महान्तमस्य महिमानमाहुरनद्यमानो यदनन्नमत्ति’ इति लयाभावोक्तेश्च । अतः प्राणस्य लयाभावात् न कस्यापि मोक्ष इति ।

सिद्धान्तस्तु प्राणो हिरण्यगर्भः परमात्मनि लीयत एव । तस्य तदधीनत्वात् । न च तदनिर्णयः । निरवकाशबहुश्रुतिसद्भावात् । अनधीनत्वश्रुतीनां तु ईश्वरान्याधीनत्वाभावपरत्वेन सावकाशत्वात् । ननु ‘प्राणस्तेजसि’ इति श्रुतेः कथं परमात्मनि लय इति चेत् – न, तच्छ्रुते-स्तेजसो द्वारमात्रपरत्वेन तत्र लयपरत्वाभावात् । तदुक्तम् ‘प्राणस्य तेजसि लयो मार्गमात्रमुदाहृतम्’ इति । अतो विरिञ्चस्य लयसद्भावात् युक्तः सर्वज्ञानिनां मोक्ष इति सिद्धम् ।।

वाक्यार्थमुक्तावली

कस्यापीति ।। चतुर्मुखप्रवेशेनैव सर्वेषामुक्तेरिति भावः ।। किमिति ।। प्राणः परमात्मनि लीयते उत न लीयत इति चिन्ता । तदर्थं प्राणः परमात्मानधीन उताधीन इति ।। पूर्वोक्तमिति ।। एतस्माज्जायते प्राण इति भगवदुत्पन्नत्वं विशेषप्रमाणादर्शनं चेत्यर्थः । ननु पूर्वसूत्रे उत्तरा-दित्युत्तरवचनमुदाहरता प्राणस्य तेजोद्वारा परमात्मनि लयस्योपपादितप्रायत्वाद्व्यर्थमिदमधिकरण-मिति चेन्न । तद्वचनानुसारेण तेजस्येव लयाङ्गीकर्तव्यत्वात्तस्य च सिद्धान्तिनोऽनिष्टत्वात् । तेजसो द्वारमात्रत्वेन विष्णौ लय इत्यत्र विशेषप्रमाणाभावादित्याक्षेपेणास्य प्रवृत्तेरिति बोध्यम् । अत्र न्यायविवरणे सोऽध्यक्ष इत्यस्याप्येवमेवाशङ्कापरिहारश्चेति कार्यकरत्वमाढ्यतेत्युक्तावेव पूर्वोत्तरपक्ष-न्यायावेवानुसन्धेयावित्यतिदिश्य तर्हि तन्न्यायेन गतार्थत्वमित्याशङ्क्य श्रुतिबाहुल्यमेवाशङ्कायां परिहारे च विशेषहेतुरित्युक्तम् । अत एव सूत्रे तदुपगमादिभ्य इति श्रुतिबाहुल्यं सिद्धान्ते वक्ष्यत इत्याशयेन पूर्वन्यायेन तावत्पूर्वपक्षमाह ।। तस्येति ।। मन आदिसर्वकार्यपरत्वेनेश्वरतुल्यस्येत्यर्थः । चक्षुरादिवदित्यादिपदेन श्रेष्ठश्चेत्यादिर्गृह्यते ।। अनन्याधीनत्वेऽपीति ।। न प्राणः किंचिदाश्रित इति श्रुतिसद्भावादित्यर्थः ।। गत्यन्तरं चेति ।। चक्षुरादिवदित्यत्रैवानन्येश्वरता प्राणे तदन्येश्वर-वर्जनादित्यादिना गत्यन्तरमित्यर्थः । कुतो न वाच्यमित्यतो न्यायविवरणानुसारेण श्रुतिबाहुल्ये-नाभ्यधिकाशङ्कामाह ।। अनन्येति ।। प्राणादिदमाविरासीत् प्राणो धत्ते । ‘प्राणस्यैतद्वशे सर्वम् । यदाश्रयादस्य चेष्टा सोऽन्यं कथमुपाश्रयेदित्यादि श्रुतिबाहुल्यसद्भावात्’ इत्यर्थः ।

ननु सर्वं ह्येवैतत्परमेऽवतिष्ठते प्राणश्च प्राणाश्च प्राणिनश्च । ‘सर्वकर्तापि सन्प्राणः परमाधारतः स्थितः । नान्यदतोऽस्ति द्रष्ट्रित्यादिवचनयुक्तयः’ । आदिशब्दोक्ता इति तत्रैव सिद्धान्त-श्रुतिबाहुल्यनिरवकाशत्वयोः पूर्वपक्षश्रुतेस्सावकाशत्वेन दौर्बल्यस्य चोक्तत्वान्न पुनः शङ्कावकाश इत्यत आह ।। महान्तमिति ।। स्वयं कैरप्यनद्यमानः अनन्नं लोकविलक्षणमन्नमत्तीति प्राणस्य लयाभावोक्तेः ।। नैष प्राण उदेति ।। यत्प्राप्तिर्यत्परित्याग इत्यादिश्रुतिबाहुल्यस्य विप्रतिपन्ने लयाभावेऽपि साक्षाद्विद्यमानत्वादुत्पत्तिश्रुतीनां कृष्णस्य वासुदेवादिवदवतारमात्रपरत्वासम्भवादिति भावः । अनन्याधीनत्वेन लयशून्यत्वेन श्रुतिशतसमधिगतोऽपि हिरण्यगर्भः अध्यक्षे अधिपतौ स्वबिम्बभूते परमात्मनि लीयते । कुतः तदुपगमादिभ्यः तदुपगमस्तस्मिन् प्राणे देवानामुपगमः तस्य प्राणस्य अध्यक्षे उपगमः । आदिपदेन सर्वेषां प्राणानामनुप्राणनम् । तत्र लयश्च प्राणस्याध्यक्ष अनुप्राणनं तत्र लयो भोग उच्यते । तेन च तत्प्रतिपादकश्रुतिस्मृतयो गृह्यन्ते । तथा च तेभ्यः प्रमाणेभ्य इति भावेन व्याचष्टे ।। प्राण इति ।। सर्वे प्राणमुपगच्छन्तीति न्यायेनेति । प्राणः परमुपगच्छतीत्युत्तरवाक्याद्यथा सर्वे प्राणमित्यत्र परमात्मातिरिक्तसर्वप्राप्यत्वं तथा परमात्मातिरिक्त-देवापेक्षया स्वातन्त्र्यं वाक्यान्तरबलादिति भावः । भावबोधे तु प्राणमुपगच्छन्तीति न्यायेनेति इत्युक्तन्यायेनेत्यर्थः । रुद्रादिसकलजीवप्राप्यत्वतच्चेष्टकत्वादिना श्रुत्युक्तस्वातन्त्र्योपपत्तेरिति भाव इत्युक्तम् । न केवलं सर्वे प्राणमुपमगच्छन्ति प्राणमितरा देवता अप्युपगच्छन्तीत्यर्थः । अनुप्राणन्ति अनुसृत्य चेष्टां कुर्वन्ति । प्राणः परस्यामिति वाक्यान्तरम् ।। मुक्ताः सन्तः इति ।। मुक्तौ भोगार्थं प्रवेशक्रमस्य लये प्रवेशक्रमस्य च समनियतत्वान्न प्रकृतासाङ्गत्यम् । मुक्तौ लये यद्वदित्यनु-व्याख्यानोक्तेरिति भावः । नन्वेवमनन्याधीनत्वश्रुतीनां सावकाशत्वेऽप्यनद्यमानः नैषः प्राण उदेति नास्तमेतीत्यादिश्रुतीनामसावकाशत्वात् प्रकृतासिद्धिरित्यत आह ।। अनद्यमान इति ।। नन्वन्यैर-नद्यमानत्वमित्युक्तं प्राणस्तेजसीति तेजोऽभिधायाः श्रियस्तददनोक्तेरिति भावेनाशङ्क्य निषेधति ।। नन्विति ।। तस्य साक्षादिति ।। विलीनो हि प्रकृतौ संसारमेति’ इति श्रुतेर्मुक्तस्य ब्रह्मणः परमात्मन्येव लययोग्यत्वादित्यर्थः ।। प्राणत्वे त्विति ।। प्राणत्वावस्थायां तु तस्यैव चतुर्मुखत्वेन पुनर्जननादस्त्येव तेजसि शरीरलय इति तद्विवक्षायां प्राणस्तेजसीति श्रुतिर्न मार्गमात्रतया व्याख्येयेति भावः । तथा च ‘तेजोभिधां तु श्रियमाप्य विष्णुमग्रे ततः पुत्र तयै(थै)व वायुः । प्राप्तः प्रसूतः पुनरेव विष्णुमित्यनुव्याख्यानविरोधेनेति भावः । तदुक्तं सुधायाम् । इदं च प्राणशब्दस्य वायुवाचित्वपक्षमादायोक्तम् । हिरण्यगर्भवाचित्वपक्षे भाष्योक्तं द्रष्टव्यमिति ।।

तत्त्वसुबोधिनी

अत्रानन्तरसङ्गतिः प्रागेवोक्ता । कस्यापीतीति । चतुर्मुखप्रवेशेनैव सर्वेषां मुक्तेरिति भावः ।। पूर्वोक्तमेवेति ।। प्राणस्य भगवदुत्पन्नत्वं विशेषादर्शनं चेत्यर्थः । गत्यन्तरं चोक्तमिति ।। ‘अनन्येश्वरता प्राणे तदन्येश्वरवर्जनम्’ इत्यादिना चक्षुरादिवदित्यत्रोक्तमित्यर्थः । तर्हि प्राणस्य स्वातन्त्र्यप्रतिपादकश्रुतेः का गतिरित्यत आह ।। स्वातन्त्र्यश्रुतीनामिति ।। इति न्यायेनेति ।। इत्युक्तन्यायेनेत्यर्थः । रुद्रादिसकलजीवप्राप्यत्ववत्तच्चेष्टकत्वादिना श्रुत्युक्तस्वातन्त्र्योपपत्तेरिति भावः । न ह्यनद्यमान इत्यस्य का गतिरित्यत आह ।। अनद्यमान इति चेति ।। प्राणत्व इति ।। प्राणस्य चतुर्मुखत्वेन पुनः जननाद्विलीनो हि प्रकृतौ संसारमेतीति श्रुतेः ।

वायुर्याति शिवं चापि वायुस्तेजोभिधा श्रियम् ।

वायुमादाय सा देवी याति विष्णुं परात्परम् ।।

इत्यादि सत्तत्ववचनाच्चेति भावः ।

वाक्यार्थविवरणम्

पूर्वोक्तमिति ।। स प्राणमसृजत’ इति प्राणस्य भगवदुत्पन्नत्वं विशेषादर्शनं चेत्यर्थः । ननु कथमत्र विशेषादर्शनम् । प्राणस्य भगवति लयस्यैव विशेषप्रमाणत्वादिति चेन्न । यथा मनसो भगवदुत्पन्नत्वेन श्रुतत्वेऽपि तस्य प्राणद्वारमङ्गीकृत्य अन्यत्र लयमुक्त्वा भगवदुत्पन्नत्वमप्रयोजकी-कृतम् । एवमिहापीति हृदयम् ।। श्रुतिसद्भावादिति ।। ‘न प्राणः किञ्चिदाश्रित’ इति श्रुतिसद्भावादित्यर्थः ।। गत्यन्तरमिति ।।

अनन्येश्वरता प्राणे तदन्येश्वरवर्जनात् ।

अवान्तरेश्वरत्वेन तस्येश्वरवचो भवेत् ।।

इत्येवं तस्यानन्येश्वरत्ववचनस्य गत्यन्तरमुक्तमित्यर्थः ।। इति न्यायेनेति ।। इत्युक्त-न्यायेनेत्यर्थः ।। सावकाशत्वादिति ।। रुद्रादिसकलजीवप्राप्यत्वे तच्चेष्टकत्वेन श्रुत्युक्तस्वातन्त्र्यो-पपत्तेरिति भावः । अन्यैः स्वाधमैः ।।

वाक्यार्थमञ्जरी

कस्यापीति ।। सर्वेषां प्राणद्वारा मोक्षनियमादिति भावः ।। पूर्वोक्तमेवेति ।। प्राणस्य भगव-दुत्पन्नत्वं विशेषप्रमाणादर्शनं चेत्यर्थः ।। श्रुतिसद्भावादिति ।। न प्राणः किञ्चिदाश्रित इत्यादि-श्रुतिसद्भावादित्यर्थः ।। उक्तमिति ।। अनन्येश्वरता प्राणे तदन्येश्वरवर्जनमितीश्वरेतरानधीनत्वं तच्छ्रुत्यर्थ इति चक्षुरादिवदित्यत्रोक्तमित्यर्थः ।। महान्तमिति ।। अस्य प्राणस्य महिमानं महान्तमाहुः कुतः यद्यस्मात्स्वयमन्यैरनद्यमानः अभक्ष्यमाण एवान्नमत्तीत्यर्थः ।। ॐ सोऽध्यक्षे तदुपगमादिभ्य ॐ ।। स प्राणोऽध्यक्षे परमात्मनि विलीयते कुतः तदुपगमादिभ्यः तस्य परमात्मन उपगमः प्राप्तिः आदिपदेन तदनुप्राणनतत्प्रवेशादितत्प्रतिपादकश्रुतिसद्भावादित्यर्थः ।। इति न्यायेनेति ।। इत्युक्तन्यायेनेत्यर्थः । रुद्रादिसकलजीवप्राप्यत्ववत्तच्चेष्टकत्वादिना श्रुत्युक्तस्वातन्त्र्यो-पपत्तिरिति भावः । अन्यैः ईशात् ।। प्राणत्व इति ।। वायुत्वावस्थायामित्यर्थः । तस्य चतुर्मुखत्वेन पुनर्जननात् विलीनो हि प्रकृतौ संसारमेतीति श्रुतिरिति भावः ।।

।। इति अध्यक्षाधिकरणम् ।। ३ ।।