ॐ पत्युरसामञ्जस्यात् ॐ
११. अथ पत्युरधिकरणम्
सूत्रभाष्यम्
पाशुपतपक्षमपाकरोति–
।। ॐ पत्युरसामञ्जस्यात् ॐ ।। ३७ ।।
‘यं कामये तं तमुग्रं कृणोमि ।
तं ब्रह्माणं तमृषिं तं सुमेधाम्’ (ऋ.सं.१०-१२५-५)
‘अहं रुद्राय धनुरातनोमि ब्रह्मद्विषे शरवे हन्तवा उ’ (ऋ.सं. १०-१२५-५) ।
‘अस्य देवस्य मी•हुषो वया विष्णोरेषस्य प्रभृथे हविर्भिः ।
विदे हि रुद्रो रुद्रियं महित्वं यासिष्टं वर्तिरश्विनाविरावत्’ (ऋ.सं.७-४०-५) ।
‘एको नारायण आसीन्न ब्रह्मा नेशानो नाग्नीषोमौ’ (म.ना.उ.१)
इत्यादिश्रुतेः पारतन्त्र्येणासमञ्जसत्वान्न पशुपतिरीश्वरो जगत्कर्ता ।
सत्तर्कदीपावली
अधुना पशुपतेर्जगत्कर्तृत्वं श्रुतिभिः तावन्निराकरोति । यं कामय इत्यादिना ।
तत्त्वप्रदीपिका
सकलगुणाश्रयः स्वतन्त्रः सर्वकर्ता पशूनां पाशबन्धमोक्षप्रदः पशुपतिरिति पाशुपताः । तत्पक्षं निराकरोति ।। ॐ पत्युरसामञ्जस्यात् ॐ ।। न च पशुपतेरीश्वर इति लोकसिद्धस्य रुद्रस्य सर्वेश्वरत्वं जगत्कर्तृत्वं च । एवं हि श्रुत्यर्थः । ‘यं यमुग्रं कामये तं तमुग्रं कृणोमि, यं यं ब्रह्माणं कामये तं तं ब्रह्माणं करोमि’ इति । इह च तात्पर्यमधिकमवगम्यते । ‘अहमेव स्वयमिदं वदामि, जुष्टं देवेभिरुत मानुषेभिः’ इत्यादरणीयत्ववर्णनात् । रुद्राय हन्तवे धनुरातनोमि, रुद्रं हन्तुमित्यर्थः । ‘अहये हन्तवा’ इतिवत् । ‘शरुः’ संहारशीलः । शृृ हिंसायामिति धातोः । उ एव । अस्य विष्णोरेषस्य मी•हुषो देवस्य हविर्भिर्मनसि प्रभरणे हि वयाः सन् रुद्रो रुद्रियं महित्वं विदे । हे अश्विनौ युवामप्यन्नवतीं वृत्तिं हविर्भिः प्रभरणे च विष्णोः सकाशादेव यासिष्टम् । ‘मीढ्वान्’ समर्थः । वया बन्धकः । ‘वय बन्धन’ इति धातोः । विदे लेभे ‘विद लाभ’ इति धातोः । हविर्भिः प्रभरणे । कर्मणा ध्यानेन । ‘प्रभृतं’ प्रभरणम् । इत्थं पारतन्त्र्यादयोगो रुद्रस्य सृष्टौ ।
तत्त्वप्रकाशिका
अधिकरणार्थं दर्शयति ।। पाशुपतेति ।। अवैदिकपाषण्डिसमयनिरासानन्तरं वैदिकाभासा निरसनीयाः । ते च पाशुपतशाक्तेयसौरस्कान्दगाणपताः । तेषु पाशुपतस्यैव प्राबल्यात्तन्मतमादौ दूष्यत इति भावः । अत्र हरेर्जगत्कर्तृत्वे पाशुपतमतविरोधपरिहारादस्ति शास्त्रादिसङ्गतिः । विष्णु-रेवाशेषजगत्कर्तेत्युक्तम् । तस्य पाशुपतमतविरोधेऽदार्ढ्यं स्यादिति तन्निराकर्तव्यमेव । तद्विष्णोर्जग-त्कारणत्वं विषयः । युक्तमयुक्तं वेति सन्देहः । समयविप्रतिपत्तिः सन्देहबीजम् । न युक्तमिति पूर्वः पक्षः । पशुपतिः खलु सार्वज्ञादिगुणशाली मायामुपादानीकृत्य हरिहिरण्यगर्भादिजगदुत्पत्त्यादि करोति । तथा श्रुतिस्मृतयोऽस्मिन्नर्थे भवन्ति । तथा च का वार्ता हरेर्जगत्कारणत्वस्यातो न लक्षणसूत्रं युक्तमिति प्राप्ते सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ।। पत्युरिति ।। न पत्युरज्ञजनप्रसिद्धेश्वरस्य पशुपतेर्जगत्कारणत्वं युक्तम् । पारतन्त्र्यजननमरणादिदोषित्वेन श्रुतत्वात् । न हि सकलकारणस्य दोषित्वं युक्तमिति भावः । ब्रह्मद्विषे चतुर्मुखस्य पञ्चममुखच्छेत्रे । शरवे हिंसनशीलाय । हन्त वै हन्तुमेव न तु भीषणाद्यर्थमिति भावः । अस्य आ समन्तादीशस्याभीष्टसेचकस्य विष्णोर्देवस्य हविर्भिः प्रभरणे कृते सत्यहङ्काररूपेण बन्धको रुद्रो रौद्रं महिमानं यथा लेभे तथा युवामपि विष्णुपूजयैवान्नवद्वर्तनं प्राप्तवन्तौ स्थ इत्यर्थः ।
गुर्वर्थदीपिका
‘हन्त वै हन्तुमेवेत्यत्र तुमर्थे सेसेन’ इत्यादिना सूत्रेण तुमर्थे तवै प्रत्ययस्य विधानात् हन्तवै हन्तुमित्यर्थः । एवेति तुशब्दार्थकथनमिति ज्ञेयम् । आ समन्तादीष्ट इति समासे गुणे च कृते एष इत्यकारान्तः शब्द इति भावेनाह– ईशस्येति ।। एतच्छब्दरूपत्वे तु एतस्येत्येव स्यात् न तु एषस्येति अत उक्त एवार्थः । ‘मिह सेचन’ इति धातोः अभीष्टसेचकस्येत्युक्तं, तृतीयोऽतिशय इति वचनात्तकारस्य थकारः । प्रकर्षेण भृथं प्रभृथमिति भावेनोक्तं प्रभरण इति ।। अग्ना-वन्नाहुतिदानेन पूजायां बहुनैवेद्यसमर्पणेन वोदरपूर्तौ कृतायां सत्यामित्यर्थः । ‘वय बन्धन’ इति धातोः वयाः बन्धक इत्युक्तम् । अहङ्कारेणेति तु योग्यतया लभ्यते । रुद्रस्याहङ्कारतत्वाभि-मानित्वात् । अभिनवैश्वर्यप्राप्तिसूचनार्थं रुद्रियमित्यस्यार्थकथनं रौद्रमिति । समुद्रियं लवण-मितिवद्रुद्रियमिति पदं ज्ञेयम् । रुद्रपदवन्तो रुद्रिणस्तैः प्राप्यमिति वा रुद्रियम् । ‘विद लाभे’ इति धातोः विद इत्यस्यार्थकथनं लेभ इति । तद्वदेव पूर्ववर्णाभ्यासाभावोऽपि वैदिकत्वादिति ज्ञेयम् । ‘इरेत्यन्ननाम’ इति श्रुतेः इरावदित्यस्य अन्नवदित्यर्थकथनम् । ‘वृतु वर्तन’ इति धातोः सर्पिःपदवत्, सकारान्तनपुंसकं च वर्तिःपदमिति भावेनोक्तं वर्तनमिति । ‘या प्रापण’ इति धातोः अयासिष्टमिति लुङि मध्यमपुरुषद्विवचनम् । तस्य ‘बहुलं छन्दस्यमाङ्योगेऽपि’ इति सूत्रा-दडागमलोपे सति यासिष्टमित्येव रूपमिति भावेनोक्तं प्राप्तवन्तौ स्थ इति ।। विष्णुपूजयेत्यस्य तु दृष्टान्तबलात्प््र•प्तिः ।
भावबोधः
अनन्तरसङ्गतिमाह– अवैदिकपाषण्डीति ।। प्राथम्ये निमित्तमाह– तेषु पाशुपतस्यैव प्राबल्यादिति ।। शक्तिसूर्यगणपत्यादीतरदेवापेक्षया पशुपतेः वेदे त्वापाततः पुराणादौ मोहनार्थं जगत्सृष्ट्यादिकर्तृत्वसर्वोत्तमत्वादेरुक्तत्वेन तदवलम्बनेन प्रवृत्तस्यास्य मतस्यात्यन्तवेदविरोधितया प्राबल्यादित्यर्थः ।। युक्तमिति ।। अत्र विष्णोर्जगत्कारणत्वं किमयुक्तमुत युक्तमिति चिन्ता । तदर्थं पाशुपतसमयः किं श्रुत्युक्ततदपबाधनक्षमो भवत्युत नेति । तदर्थं पाशुपतैः परिकल्पितं पशुपतेर्जगत्कारणत्वमुपपन्नमुत दोषित्वाशरीरत्वनिरधिष्ठानत्वादियुक्तिविरुद्धत्वेनानुपपन्नमिति । तदर्थं मायादिनित्यकारणकलापस्य पशुपतेर्जगत्सृष्ट्याद्यर्थं शरीराधिष्ठानादिरूपत्वं सम्भवत्युत नेति । तदर्थं तस्य शरीररूपत्वे तदुपादानत्यागनिमित्तकोत्पत्तिविनाशसुखदुःखादिदोषा न प्राप्नुवन्ति उत प्राप्नुवन्तीति । तदर्थं पाशुपतकर्तृत्वपक्षोक्तदोषा विष्णुकर्तृत्वपक्षेऽपि प्राप्नुवन्त्युत न प्राप्नुवन्तीति । तदर्थं विष्णोर्निर्दोषत्वादौ पशुपतेर्दोषित्वादौ प्रमाणं नास्त्युतास्तीति ।। पञ्चम-मुखच्छेत्र इति ।। सुधायां तु विभक्तिवचनव्यत्ययेन ब्रह्मद्विषां दैत्यानां शरवे हिंसकायेति व्याख्यातम् । एष शब्दस्य आईश इति विग्रहः । शकारस्य व्यत्ययेन षकार इत्यभिप्रेत्याह– आ समन्तादीशस्येति । सुधायाम् इषु इच्छायामित्यतो घञ्प््रात्यये ‘पुगन्तलघूपधस्य च’ इति गुणे निष्पन्नस्यास्येच्छारूपस्येति व्याख्यानं कृतम् ।
भावदीपः
सङ्गतिमाह ।। अवैदिकेति ।। अत्र गाणपतेति पाठः साधुः । गणपतिशब्दस्य पत्युत्तर-पदत्वेऽपि दित्यादित्यपत्युत्तरपदाण्ण्य इति न भवति । अश्वपत्यादिभ्यश्च’ इति अण्प््रात्ययेनैव भाव्यत्वात् । चतुर्थाद्यपादे अश्वपत्यादिभ्यश्च’ इति सूत्रे मञ्जर्यां गाणपत्य इत्यपशब्द इत्युक्तत्वाच्च ।। आदाविति ।। अन्यमतोपलक्षणत्वेन मुखतो दूष्यत इत्यर्थः । यद्वा शक्तिमतापेक्षया आदा-वित्युक्तिः । सर्वज्ञत्वादिकैः सर्वैर्गुणैर्युक्तं सदाशिवमित्यनुभाष्यदिशाऽऽह ।। पशुपतिरित्यादि ।। स्रष्टृत्वादिघटनायोक्तम् ।। सार्वज्ञादीति ।। करणवच्चेदित्येतदुपयोगायाह ।। मायामिति ।। तथा श्रुतिस्मृतय इति ।। सर्वासां पाशुपतोक्तदिशा तत्परत्वादिति भावः । पूर्वसूत्रान्नञनुवृत्तिं मत्वा सूत्रभाष्ययोः प्रतिज्ञाहेत्वंशौ व्यनक्ति ।। न पत्युरिति ।। व्याहतिनिरासायाह ।। अज्ञजनेति ।। श्रौतपदानि व्याचष्टे ।। ब्रह्मद्विष इति ।। सुधायां तु व्यत्ययमाश्रित्य ब्रह्मद्विषां शरवे हिंस-कायेति व्याख्यातम् । दक्षप्रजापतिद्विष इति वेति चन्द्रिका ।। हिंसनेति ।। शृहिंसायामिति धातोः ।। हन्तुमेवेति ।। तुमर्थे ‘सेसेनसेऽसेन्क्सेकसेनध्यैअध्यैन्कध्यैकध्यैन् शध्यैशध्यैन्तवैत-वेङ्तवेन’’ इति तवै प्रत्ययः । एष शब्दस्य आईश इति विग्रहः । शकारस्य व्यत्ययेन षकार इति भावेनाह ।। आसमन्तादीशस्येति ।। इच्छारूपस्येति सुधायां व्याख्यातम् । मी•हुषो अभीष्टसेचकस्य । मिह सेचने । प्रभृथे प्रभरणे ।। बन्धक इति ।। वयबन्धन इति धातोः । विदे लेभे विदिर्लाभे । इरावत् अन्नवत् । यासिष्टम् अयासिष्टम् । छन्दस्यमाङ्योगेऽपीत्यडभावः । लुङ्मध्यमपुरुषद्विवचनम् । प्राप्तवन्तौ स्थ इति ।
अभिनवचन्द्रिका
हन्तुमेवेति ।। ननु उशब्दस्य एवेति व्याख्यानमनुपपन्नम् । हननस्याकृतत्वात्, भीषणस्यैव कृतत्वात् । ततश्च हन्तुमेवेति प्रतिज्ञाय हननाकरणे भीषणमात्रकरणे च अम्भ्रण्या इच्छा मोघा स्यादिति चेत्, उच्यते न ब्रूमो वयं ‘हन्त वा उ’ इति हननसङ्कल्प इति येनोक्तदोषः स्यात् । किं नाम यथा क्रुद्धः पिता पुत्रं म्रियस्वेत्याक्षेपपूर्वकं दुर्गुणपरित्यागाभिप्रायेण वदति, तथा अम्भ्रण्यपि रुद्रस्याऽतिभीषणतया तद्वधमनभिप्रेत्यैव हन्तुमेव धनुरातनोमि न तु भीषणार्थ-मिति वदतीत्यङ्गीकारात् । ‘एषस्य’ इति पदं व्याचष्टे – आसमन्तादीशस्येति ।। आ ईशस्येति स्थिते गुणे शकारस्य छान्दसे षत्वे च एषस्येति रूपं भवति । मील्हुषो इत्यस्य व्याख्यानम्– अभीष्टसेचकस्येति ।।
वाक्यार्थमुक्तावली
अनन्तरसङ्गतिमाह ।। अवैदिकेति ।। भाष्यटीकयोः पाशुपतशब्देन पशुपतिसर्वोत्तमत्त्व-वादित्वात् शैवपाशुपतकालामुखमहाव्रतसंज्ञकानां चतुर्णां ग्रहणम् ।। प्राबल्यादिति ।। बहुश्रुति-पुराणसंवादित्वेनास्य मतस्यातिविरोधित्वादित्यर्थः । बहुजनपरिगृहीतत्वाद्वा ।। आदाविति ।। अन्यमतोपलक्षणत्वे मुखतो दूष्यत इत्यर्थः । यद्वा शक्तिमतापेक्षयादावित्युक्तिः । न च शास्त्रयोनिसूत्रे पाशुपतस्य निरस्तत्वात् गतार्थत्वमिति वाच्यम् । तत्र पाशुपतागमानुमाना-वष्टम्भेन पूर्वपक्षः । अत्र तु समयिनैव श्रुतिस्मृत्यवष्टम्भेनेति पूर्वपक्षप्रमाणभेदात् । सिद्धान्तेऽप्य-सामञ्जस्यादिबहुप्रमाणोपन्यासाच्च । पौनरुक्त्यभावाच्च । न च समन्वयसूत्रे श्रुत्याद्यवष्टम्भेन पूर्वपक्षे तेषामुपक्रमादितात्पर्यलिङ्गैः भगवत्परत्वस्योक्तत्वादत्र शङ्कैव नोदेतीति वाच्यम् । तत्र वेदार्थनिर्णायकत्वं पाशुपतादिव्याख्यानस्य वा वेदापातप्रतीतेर्वा न सम्भवति किन्तूपक्रमादि-लिङ्गानामित्येवोक्तत्वेन वैदिकवाक्यविशेषमुपादाय समयिना स्वप्रक्रियोपपादनपूर्वकं शिवसर्वोत्त-मत्त्वस्याप्रतिपादितत्वात् । सिद्धान्तिनापि प्रक्रिया विघटनपूर्वकं श्रुत्यादेरसावकाशितृत्वादिति ।। युक्तमिति ।। पाशुपतसमयविरोधादयुक्तम् उत युक्तमिति चिन्ता । तदर्थं तत्प््राक्रिया प्रमाणवत्युत नेति । स्रष्टत्वादिघटनायाह ।। सार्वज्ञादीति ।। यद्वा यत्पूर्णगुणत्वं प्रधानलक्षणं विष्णोः प्रथमभूतोक्तं तस्य शिवैकनिष्ठत्वं वक्तुमिदम् । द्वितीयसूत्रोक्तमाक्षेप्तुं हरिहरहिरण्यगर्भेत्यादि । तदनन्यत्वमित्यत्राभिप्रेतप्रकृतिमहदाद्युपादानकत्वाक्षेपाय मायामिति ।। एतेन तन्मते तत्त्वं त्रिविधम् । पशुपतिपाशा इति ।। पशवो हरिहिरण्यगर्भादयः । तेषां पतिर्महादेवः । पाशो मायेत्युक्तं भवति ।। श्रुतिस्मृतय इति ।। नन्वन्तर्नये देवतावाचकशब्दानां द्युभ्वादिनये विशिष्य रुद्रादिशब्दानां ‘रुजं द्रावयते यस्मात् रुद्रस्तस्माज्जनार्दन’ इत्यादिना समन्वयस्योक्तत्वात् कथं श्रुत्याद्यवष्टम्भेन पूर्वपक्ष इति चेन्न, ‘एको रुद्रो न द्वितीयोऽवतस्थे’ ‘ज्ञात्वा शिवम्’ इत्यादावुप- क्रमादिकं रुद्रपक्षे एवास्तीति दुराग्रहेण प्रत्यवतिष्ठमानं प्रतीह शिवस्य जगत्कर्तृत्वसामर्थ्यविघटने तत्कारणत्वादिप्रतिपादकश्रुतीनां योग्यतादिविरहेण प्रतीतार्थेऽप्रामाण्योपपादनपूर्वकमुक्तसमन्वय स्थिरीकरणादित्यलम् । व्याहतिनिरासायाह ।। अज्ञजनेति ।। पञ्चममुखेति ।। सुधायां तु ब्रह्मद्विषां दैत्यानां हिंसकायेति । दक्षद्विष इति चन्द्रिकायाम् ।। न तु भीषणार्थमिति ।। प्रलये दुर्गया हननादिति भावः । एषशब्दस्य आईश इति विग्रहः । शकारस्य षकार इत्यभिप्रेत्याह ।। आसमन्तादिति ।। इच्छारूपस्येति सुधायाम् । इरावदित्यस्यान्नवदिति । वर्तिरित्यस्य वर्तनमिति ।
तत्त्वसुबोधिनी
अत्रानन्तरसङ्गतिमाह ।। अवैदिकेति ।। प्राथम्ये हेतुमाह ।। तेषु पाशुपतस्यैवेति ।। शक्ति-सूर्यगणपत्यादीतरदेवापेक्षया पशुपतेः वेदपुराणादौ मोहनार्थञ्जगत्सृष्ट्यादिकर्तृत्वसर्वोत्तमत्वादेरुक्त-त्वेन तदवलम्बनेन प्रवृत्तस्य मतस्यात्यन्तवेदविरोधितया प्राबल्यादित्यर्थः । पञ्चममुखछेत्र इति सुधायां तु विभक्तिव्यत्ययेन ब्रह्मद्विषां दैत्यानां शरवे हिंसकायेति व्याख्यातम् । दक्षप्रजापति-द्विष इति वा द्रष्टव्यम् । एषशब्दस्य आईश इति विग्रहः । शकारस्य व्यत्ययेन षकार इत्यभि-प्रेत्याह ।। आसमन्तादीशस्येति ।। सुधायां तु इषु इच्छायामित्यतः घञ्प््रात्यये ‘पुगन्तलघूपधस्यच’ इति गुणेति निष्पन्नस्यास्येच्छारूपस्येति व्याख्यानम् ।
वाक्यार्थविवरणम्
श्रुतिस्मृतय इति ।। ‘जनितोत विष्णोः’ इत्यादिश्रुतीत्यर्थः । अत्र सोमः पवत इति पूर्ववाक्यात् सोम इत्यनुवर्तते । उमया सहितः सोमो रुद्र इत्यर्थः । ईश्वरत्वमेव हि पतित्वम् एवं च यदा तस्येश्वरत्वापरपर्यायं पतित्वं प्रसिद्धं तदा जगत्कारणत्वं प्राप्तमेवेति तन्निषेधो न युक्त इत्यत आह ।। अज्ञजनप्रसिद्धेति ।। तथा चाज्ञजनप्रसिद्ध्यैव तस्येश्वरत्वं न वास्तवमिति । युक्तः तस्य जगत्कारणत्वनिषेध इत्यर्थः । असामञ्जस्याद्दोषत्वादित्यभिप्रेत्य व्याख्याति ।। पार-तन्त्र्येति ।। आदिपदेन प्रलये अभावपराधीनपदप्राप्त्यादेर्गहणम् । आ ईश इति विग्रहः । आईशित्यनयोः एकाररूपं गुणं शकारस्य षत्वं निर्वचनत्वादित्यभिप्रेत्य व्याचष्टे ।। आ समन्तादिति ।। बन्धक इति ।। वय् बन्धन इति धातोरिति ध्येयम् । बन्धकत्वमुपपादयितु-महंकारेणेत्युक्तम् । तदभिमानित्वादिति भावः । ‘इरावत् वर्ति’ इत्यस्य व्याख्यानमन्नवदिति । इरेत्यन्नसंज्ञेत्यन्यत्रोक्तत्वादिति ध्येयम् । ‘अत्र यं कामये’, ‘अस्य दोषस्य’ इत्याभ्यां पराधीन-पदप्राप्तिः । ‘अहम्’ इत्यनेन मृतिः । एक इत्यनेन प्रलये अभावो जनिश्च प्रतीयत इति द्रष्टव्यम् । इत्यादिग्रहणेन ‘एक’ इति श्रुतिविशेषे ‘स मुनिर्भूत्वा समचिन्तयत् । तत एते व्यजायन्त विश्वो हिरण्यगर्भोऽग्निर्यमो वरुणो रुद्रेन्द्रा’ इति रुद्रस्य जनिः प्रतीयते । सर्वाभिरप्येताभिः पारतन्त्र्यं प्रतीयत इति ध्येयम् ।
वाक्यार्थमञ्जरी
प्राबल्यादिति ।। शक्तिसूर्यगणपत्यादीतरदेवापेक्षया पशुपतेर्वेदपुराणादौ मोहनार्थं जग-त्सृष्ट्यादिकर्तृत्वसर्वोत्तमत्वादेरुक्तत्वेन तदवलम्बेन प्रवृत्तपाशुपतमतस्यात्यन्तास्मन्मतविरोधितया प्राबल्यादित्यर्थः ।। मायां प्रकृतिम् ।। पत्युः पशुपतेः न जगत्कारणत्वं कुतः असामञ्जस्यात् पारतन्त्र्यादिदोषवत्वेन तस्यासमीचीनत्वादित्यर्थः । एषशब्दस्य आईश इति विग्रहः गुणः शकारस्य व्यत्ययेन षकार इत्यभिप्रेत्याह ।। आसमन्तादीशस्येति ।। मी•हुषो इत्यस्यार्थः अभीष्टसेचकस्येति ।। वया इत्यस्य बन्धक इति । वयबन्धन इति धातोः । कथं बन्धकत्वमत उक्तम् ।। अहंकाररूपेणेति ।। तस्य तदभिमानित्वादिति भावः । इराशब्दार्थोऽन्नमिति ।