ॐ अरूपवदेव हि तत्प्रधानत्वात् ॐ

९. अरूपाधिकरणम्

सूत्रभाष्यम्

रूपवत्त्वादनित्यत्वमित्यतो वक्ति—

।। ॐ अरूपवदेव हि तत्प्रधानत्वात् ॐ ।। १४ ।।

प्रकृत्यादिप्रवर्तकत्वेन तदुत्तमत्वान्नैव रूपवद्ब्रह्म । हिशब्दाद् ‘अस्थूलमनणु’ (बृ.उ. ५-८-८) इत्यादिश्रुतेश्च ।

भौतिकानि हि रूपाणि भूतेभ्योऽसौ परो यतः ।

 अरूपवानतः प्रोक्तः क्व तदव्यक्ततः पर’ इति मात्स्ये ।।

तत्त्वप्रदीपिका

एवं बद्धत्वश्रुतेस्तत्स्वातन्त्र्येणैव प्रकाममर्थवत्त्वोपन्यासेन महिमासम्भवाशङ्का परिहृता । अथ च हेत्वन्तरेण तदसम्भव आशङ्क्यते । रूपादिमत्त्वाच्च विपर्ययो दर्शनादित्यत्र रूपादिमतोऽ-नित्यत्वव्याप्तिर्दर्शिता । ब्रह्मणश्च रूपवत्त्वमुक्तं ‘रूपोपन्यासाच्च’ ‘पुरुषविधमपि’ इत्यादिना । तस्माद् ब्रह्मणोऽपि रूपवत्त्वादनित्यत्वं प्रसक्तम् । अनित्यस्य च को हि महिमा वर्ण्येतेत्यत आह ।। अरूपवदेव हि तत्प्रधानत्वात् ।। भौतिकानि हि रूपाण्यनित्यत्वव्याप्तानि । भूतकारणत्वेन भूतेभ्यः परस्याः प्रकृतेरपि नियामकत्वेन तदुत्तमस्य ब्रह्मणः क्व तादृशरूपवत्त्वम् । अतो नानित्यताशङ्का ।

तत्त्वप्रकाशिका

अत्रेश्वरप्राप्तिसाधनभक्त्यर्थं तस्याप्राकृतरूपसमर्थनादस्ति शास्त्रादिसङ्गतिः । अन्यथाऽ-नित्यत्वादिप्राप्त्या न तत्र भक्तिरुत्पद्यत इति तत्समर्थनीयमेव । यदर्थं महिमा निरूपितः सा भक्तिरेवात्र विषयः । विष्णौ युक्ता न वेति सन्देहः । साधनतयोक्तेषु युक्तायुक्तदर्शनं सन्देहबीजम् । पूर्वपक्षयति ।। रूपवत्त्वादिति ।। न युक्तैव भगवद्भक्तिः । तथा हि । किमसौ रूपवान्न वा । नाद्यः । रूपवत्त्वादनित्यत्वप्रसङ्गात् । यज्ञदत्तादिवत् । अनित्यशरीरे च न भक्तिरुत्पद्यते । ‘अरूप-मव्ययं’ ‘तदरूपमनामयम्’ इत्यादि श्रुत्यप्रामाण्यं च स्यात् । न द्वितीयः । ‘रुक्मवर्णं कर्तारं आदित्यवर्णम्’ इत्यादिश्रुतेर्वैयर्थ्यापातात् । सौन्दर्यसौलक्षण्याद्यभावापाताच्च । सौन्दर्यादिशून्ये च भक्त्ययोगात् । तदेवमुभयथापि भक्तेरनुपपन्नत्वाद् व्यर्थोऽयं पाद इति भावः ।

सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ।। अत इति ।। कर्तव्यैव परमात्मनि भक्तिः । ब्रह्मणो रूपवत्त्वाभावेनानित्यत्वाभावादरूपत्वश्रुत्यवैयर्थ्याच्च । अरूपत्वं कुतः । रूपं हि भवत्प्राकृतं भौतिकं वा भवेत् । न च तद् ब्रह्मणि सम्भवति । तस्य प्रकृत्यादिप्रवर्तकत्वात् । न हि स्वाधीनं स्वात्मानं बध्नातीति भावः । प्रधानत्वादित्यस्योत्तमत्वादिति व्याख्यानम् । उत्तमत्वप्रकारप्रदर्शनं प्रवर्तकत्वेनेति । ननु ब्रह्मणः प्रकृत्यादिसामर्थ्येन बन्धाभावेऽपि स्वेच्छादिनिमित्तेन रूपं किं न स्यादित्यत आह ।। हिशब्दादिति ।। सूचिताया इति शेषः । सूत्रार्थे स्मृतिं चाह ।। भौतिकानीति ।। परः प्रवर्तकत्वेनोत्तमः । अव्यक्ततः परे तत् आव्यक्तिकं च रूपं क्वेत्यर्थः । कैमुत्यं वा ।

गुर्वर्थदीपिका

साधनतयोक्तेष्वित्यत्र नानावादिभिः साधनतयोक्तेष्वित्यर्थः । कैमुत्यं वेति वदता भूतेभ्यः परे महदहङ्कारादावपि भौतिकरूपं नास्ति भूतमूलाव्यक्ततः परे तद्भौतिकं क्व नास्तीति किमु वक्तव्यमित्यर्थस्सूचितः ।

भावबोधः

अप्राकृतरूपसमर्थनादिति ।। अत्र– ‘रूपमस्य शिरः पाणिपादाद्यात्मकमिष्यते ।।’ इत्यनु-व्याख्यानानुसारेण रूपशब्देन शरीरमुच्यते । अत एवोक्तं सुधायां रूपशब्देन शुक्लादिगुणप्रतीतिः स्यादतः शिरःपाणीति विवरणं कृतमिति । अत्र यद्यपि ‘अत एव चोपमा’ इत्यस्य पूर्वाधि-करणानन्तर्यं युक्तम् । ‘यस्मादेवमिति’ ‘ईशरूपेष्विवोदित’ इति भाष्यानुव्याख्यानानुसारेण ‘न स्थान तोऽपि’ इत्येतदधिकरणप्रतिपाद्यमीश्वररूपाभेदं दृष्टान्तत्वेनोपजीव्य चेतनत्वांशत्वाभ्यां जीवानामीश्वरेणाभेद इति पूर्वपक्षोत्थानात् । तथाप्यत्र ‘अत एव’ इत्युत्तराधिकरणप्रतिपाद्ये जीवेश्वराभेदाभावे उपोद्घातलक्षणया सङ्गत्येश्वरस्याप्राकृतशरीरत्वरूपो हेतुः प्रतिपाद्यत इत्यस्य मध्ये निवेशेऽप्यव्यवधायकत्वमिति ज्ञातव्यम् । तदुक्तं सुधायाम्– ‘अत एव च’ इति सूत्रं ‘न स्थानतोऽपि’ इत्येतदधिकरणेन सङ्गतमिति ज्ञापनाय क्रमभेदः । तत्सिद्धमर्थमुपजीव्य पूर्वपक्षो-त्थानात् । तथा च भाष्यं यस्मादेवमित्यादि । अत्रापीशरूपेष्विवेत्यादि । अथ तदनन्तरमेव किं न कृतम् । अरूपत्वाधिकरणार्थस्य ‘अत एवे च’ इति सूत्रार्थं प्रति हेतुत्वेनोपोद्धातलक्षणया सङ्गत्या वर्णितस्याव्यवधायकत्वादिति ।

विष्णौ युक्ता न वेति ।। अत्र भक्तिर्विष्णौ न युक्तोत युक्तेति चिन्ता । तदर्थं रूपवत्त्वारूपवत्त्वे विष्णौ न सम्भवत उत सम्भवत इति । तदर्थं तदुभयप्रतिपादकश्रुत्यप्रामाण्यं विष्णोरनित्यत्वसौन्दर्याद्यभावश्च प्राप्नोत्युत न प्राप्नोतीति । तदर्थं विष्णोर्विलक्षणं रूपं नास्ति उत अस्तीति । तदर्थम् ‘ऐकात्म्यप्रत्ययसारम्’ इत्यादिश्रुतिस्तत्र प्रमाणं न भवत्युत भवतीति । तदर्थं सा श्रुतिः स्पष्टमीश्वरशरीरस्य ज्ञानानन्दाद्यात्मकत्वप्रतिपादकश्रुतिसंवादिनी न भवत्युत भवतीति । तथा च विशेषश्रुतिस्मृतिसंवादाभावे ‘ऐकात्म्यप्रत्ययसारम्’ इत्यादिश्रुतेर्विष्णोरेव ज्ञानाद्यात्मकत्व-प्रतिपादकत्वेन चारितार्थ्यान्न तच्छरीरस्य तदात्मकत्वप्रतिपादकत्वमिति प्रमाणाभावेन विलक्षण-रूपासिद्धौ रूपवत्त्वप्रतिपादकश्रुत्यप्रामाण्यं सौन्दर्याद्यभावश्च तत्परिहाराय प्रसिद्धरूपवत्त्वाङ्गी-कारेऽनित्यत्वमरूपवत्त्वश्रुत्यप्रामाण्यं चेति रूपवत्त्वारूपवत्त्वयोरसम्भवान्न तत्र भक्तिर्युक्तेति पूर्वपक्षे, ‘आनन्दरूपम्’ ‘शुद्धस्फटिकसंकाशम्’ इति विशेषश्रुतिस्मृतिसंवादात् ‘ऐकात्म्यप्रत्यय-सारम्’ इत्यादिश्रुतिरूपप्रमाणसद्भावेन विलक्षणरूपसिद्धौ रूपित्वारूपित्वप्रतिपादकश्रुत्यप्रामाण्यस्य सौन्दर्याद्यभावस्य चाप्राप्त्या रूपवत्त्वारूपवत्त्वयोः सम्भवेन युक्ता तत्र भक्तिरिति सिद्धान्ते च फलफलिभावो ज्ञातव्यः ।

अत्र भाष्ये अरूपवत्त्वादनित्यत्वमिति प्रथमसूत्रनिवर्तनीय एव पूर्वपक्ष उक्तः । रूपवत्त्वा-रूपवत्त्ववचनयोर्विरोधादप्रामाण्यमिति न्यायविवरणे प्रथमद्वितीयसूत्रनिरसनीयपूर्वपक्ष उक्तः । अतस्तदुभयानुसारेण पूर्वपक्षमुपपादयति– तथा हीत्यादिना ।। भाष्याभिप्रायमाह– रूपवत्त्वा-दिति ।। अनेन भाष्ये स्यादित्यध्याहार इत्युक्तं भवति । अत्रानित्यत्वं नाम देहहान्यादिरूपमेव । अत एव यज्ञदत्तवदित्युक्तम् । रूपवत्त्ववचनविरोधादरूपवत्त्ववचनस्याप्रामाण्यमिति बुद्ध्या विविक्तस्य न्यायविवरणांशस्यार्थमाह– अरूपमव्ययमित्यादिना ।। अरूपवत्त्ववचनविरोधात् रूपवत्त्ववचनस्याप्रामाण्यमिति पूर्ववद्विभक्तस्य न्यायविवरणस्याभिप्रायमाह– रुक्मवर्णमिति ।। अत्र वैयर्थ्यं नामाप्रामाण्यम् । न्यायविवरणेऽप्रामाण्यमित्युक्तेऽपि ‘प्रकाशवच्चावैयर्थ्यम्’ इति सूत्रानुसारेणैवमुक्तम् । चतुर्थसूत्रनिरसनीयं हेतुमाह– सौन्दर्येति ।। भूतेभ्यो भिन्नस्य जीवस्य भौतिकशरीरसत्त्वात् । सूत्रसमानार्थत्वापत्त्या प्रकृतानुपयोगाच्च परशब्दस्य भिन्नार्थकत्वासम्भवेना-पेक्षितांशपूरणेन यथावद्व्याचष्टे– पर इति ।। तदाव्यक्तिकं रूपमिति । अव्यक्ततः परे तत्त्वे इत्यन्वयक्रमेणाव्यक्तस्य प्रकृतत्वेन तदात्मकस्य रूपस्यापि प्रकृतत्वात्तच्छब्देन तत्परामर्श इति भावः ।। कैमुत्यं वेति ।। अस्मिन् पक्षे तच्छब्देन पूर्वप्राप्तभौतिकरूपपरामर्शः । तथा च यदा भूतेभ्यः परत्वेनैव भौतिकरूपराहित्यं किमु वक्तव्यं तदा भूतकारणाव्यक्ततः परे तद्भौतिकं रूपं नास्तीति कैमुत्यमित्यर्थः ।

भावदीपः

अप्राकृतरूपेति ।। अप्राकृतविग्रहेत्यर्थः । समर्थनात् रूपित्वारूपित्वश्रुत्योर्व्यवस्थाकल्पनेति भावः । एतेन पूर्वत्रोभयलिङ्गपदेन समग्ररूपेणैवेश्वरस्याऽनेकत्रावस्थानमुक्तं तदयुक्तम् । रूपित्वेऽ-नित्यत्वप्राप्तेरिति शङ्कनात्सङ्गतिः सूचिता । एतेनैव प्रथमाध्याय एव ‘रूपोपन्यासाच्च’ पुरुषविधमपि चैनमधीयते, ‘अन्यभावव्यावृत्तेश्च’ इत्यादिना भगवतो विग्रहस्य सिद्धत्वात्पौनरुक्त्यमिति निरस्तम् । विशेषशङ्कानिरासेनाऽत्र समर्थनात् । यदपि विकरणत्वान्नेति चेत्तदुक्तमिति सूत्रे युक्तिपाद एवाऽ-प्राकृतविग्रहत्वं हरेः सिद्धम् । यथोक्तम् । तत्र भाष्ये न तस्य कार्यं करणं च विद्यते इति । तथा सर्वोपेता च’ इति सामान्यपरिहारेऽपि विशेषयुक्त्यर्थं पुनराशङ्केति च । तथा तत्र टीकायामप्युक्तं न तस्य कार्यमिति पाणिपादादिरहितत्वस्य प्राकृतविषयत्वेनोपपादितत्वादिति । विशेषयुक्तिस्तु प्राकृतशरीराभावेऽपि चिदानन्दाद्यात्मकविग्रहत्वादिरिति चेति तदप्येतेनैव समाहितं बोध्यम् । अरूपित्वश्रुतेः सदृष्टान्तं गत्युपपादनपूर्वकं प्रमाणविशेषकथनेन च तस्यैवात्र समर्थनादिति ।। अन्यथेति ।। प्राकृतशरीरवत्त्वाद्यभ्युपगम इत्यर्थः ।। भक्तिरेवेति ।। सूत्रे अरूपित्वाद्युक्ते-र्भक्त्यर्थत्वद्योतनाय सैवात्र विषयतयोक्तेति ज्ञेयम् ।। साधनतयोक्तेष्विति ।। ज्योतिष्टोम-चैत्यवन्दनादिषु परलोकसाधनतया वेदे मतान्तरे चोक्तेष्वित्यर्थः । रूपवत्त्वारूपवत्त्व वचनयो-र्विरोधादप्रामाण्यमित्यन्यत्रोक्तं पक्षभेदेन योजयितुं विकल्पमुखेन भाष्यं व्याचष्टे ।। किमसाविति ।। अनित्यत्वेति ।। देहनाशाख्येत्यर्थः ।

यत्तु नात्मा श्रुतेर्नित्यत्वाच्च ताभ्य इति सूत्रे द्वितीये नित्यदेहत्वमीश्वरस्य सिद्धम् । यथोक्तं तत्र पूर्वपक्षटीकायाम् । स्वतन्त्रस्यापि लीलया विग्रहग्रहणपरित्यागोपपत्तेरिति । सिद्धान्त-टीकायामपि ‘नित्यो नित्यानाम्’ इति देहनित्यत्वस्याप्युक्तत्वादिति । तथा च तत्रैवाऽ-नित्यत्वशङ्काया अपि निरासात्पौनरुक्त्यमिति । तन्न । देहवत्त्वे यज्ञदत्तादिवदनित्यत्वनियमेन नित्यदेहत्वस्याऽयोगादिति तदाक्षेपेणेह शङ्कोत्थानात् । शरीरत्वस्याऽनित्यत्वव्याप्तत्वात् । देहस्याऽप्रकृतत्वसाधनपर्यन्तमनित्यत्वचोद्यस्याऽनिवृत्तेरिति प्रागनिरस्तामन्यत्रोक्तां विशेषाऽऽशङ्कां चाह ।। अरूपमव्ययमिति ।। भाष्ये अनित्यत्वपदेनारूपश्रुत्यप्रामाण्यं चेत्युपलक्ष्यत इति भावः । अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यदिति काठके शब्दरसादिसाहचर्येणाऽ-रूपशब्दस्य शुक्लादिवर्णराहित्यार्थपरतयेक्षतिनये व्याख्यानेऽपि रूपपदस्य विग्रहार्थत्वमुपेत्याऽत्राऽ-व्ययत्वोपपादकतया तद्राहित्यार्थपरतयोदाहरणमविरुद्धम् । अत एवाऽव्ययमित्युक्तिः । यद्वा लोके शरीरवर्णेनैव श्यामो लोहितः पीत इत्यादिव्यपदेशादिहाऽप्यरूपमिति वर्णसामान्याभावोक्त्या शरीराभाव उपलब्ध इति भावेनाऽरूपमिति श्रुत्युक्तिः । अत एव रूपाभावादेव रूपादिमत्त्वाच्च विपर्ययोऽदर्शनादित्युक्तदोषो नेति वक्तुमव्ययमित्यंशोक्तिः । अन्यथा अनित्यत्वं स्यादेवेति भावः । एवं तदरूपमनामयमित्यपि पूर्ववदुपपादकोपपाद्याशयं व्याख्येयम् । तेन रूपवत्त्वयुक्तेः श्रुत्युपो-द्बलितत्वं च सूचितं ध्येयम् ।। रुक्मवर्णमिति ।। न चैतद्वर्णमात्राभिप्रायम् । तथैव रूपोपन्यासा-दित्यत्रोक्तेः न तु शरीराभिप्रायमिति युक्तम् । कर्तृत्वोपपादकत्वादत एव कर्तारमित्यन्तोक्तिः । अन्यथा सम्बन्धानुपपत्तेश्चेत्यत्राऽशरीरत्वात्तस्य जगता सम्बन्धो न युज्यते कर्तृत्वेनेति भाष्योक्त-दिशा कर्तारमित्युक्तकर्तृत्वाभावापत्तेरिति भावः । वर्णपरत्वेऽप्युक्तदिशा देहपरत्वावश्यंभावाच्च ।। तदिति ।। तस्मात्पक्षद्वयेऽपि बाधकाभावादित्यर्थः ।

फलं वदन् तत्राऽरूपवदिति सूत्रभाष्यांशौ परंपराहेतुत्वेन योजयति ।। कर्तव्यैवेति ।। प्रकृत्यादीत्यादि व्याचष्टे ।। अरूपत्वमिति ।। रूपं किमिति ।। प्राकृतं भौतिकं वेत्यर्थः ।। अत आहेति ।। अस्थूलमनण्वित्यादिश्रुतिश्च अन्यभावव्यावृत्तेश्चेत्यत्र प्राकृतस्थौल्यादिराहित्यपरत्वेन व्याख्यातत्वात् । प्राकृतस्थूलसूक्ष्मादिवैलक्षण्याज्जनार्दनः । अस्थूलादिरिति प्रोक्त इति बृहद्भाष्योक्तेश्च । तया तादृशरूपाभावोऽवगम्यत इति भावः । यद्यपि तत्र विरुद्धैर्लक्षणैर्युतम् । ब्रह्मैवेत्यनुभाष्यदिशा अप्राकृतस्थौल्यादिपरत्वमप्युक्तम् । तथाऽप्यत्र तस्य प्रपञ्चनमित्यदोषः । स्मृतौ भौतिकानि हि रूपाणीत्यत्राऽऽव्यक्तिकानि चेत्युपलक्ष्यत इति मत्वाऽर्थमाह ।। तदाऽऽ-व्यक्तिकमिति ।। उपलक्षणं विनैवार्थमाह ।। कैमुत्यं वेति ।। अव्यक्तमप्यतीत्य वर्तमाने हरावव्यक्तकार्यभूतकार्यं नेति किमु वाच्यमित्यर्थः ।

अभिनवचन्द्रिका

भक्त्यर्थमिति ।। ‘तस्य’ इत्यतः परं प्राकृतरूपनिरासपूर्वकमिति शेषः ।। अन्यथेति ।। प्राकृतरूपनिरासपूर्वकमप्राकृतरूपसमर्थनाभाव इत्यर्थः ।। भक्तिरेवात्र विषय इति ।। ननु परमात्मा विषयः । प्राकृतरूपवान् न वेति सन्देहः । प्राकृतरूपवानेवेति पूर्वपक्ष इति वक्तव्यम् । सिद्धान्ते परमात्मनः प्राकृतरूपाभावस्यैव समर्थनात् न तु भक्तिरेवात्रेत्यादि । भक्तेरधिकरणफलत्वेनाधि-करणार्थत्वाभावात् इति चेत्, सत्यम् । भक्तिर्नाधिकरणप्रतिपाद्या, तथापि नास्याऽधिकरण-स्यात्राऽन्तर्भावो युक्तः । किन्नाम युक्तिपाद एव । तथा हि उक्तं तावत् ‘रूपोपन्यासात्’ इति भगवतो रूपं, ‘पुरुषविधमपि चैनमधीयते’ इति च तदयुक्तम् । अनित्यत्वप्रसङ्गादिति युक्तिविरोधे प्राप्ते प्राकृतरूपनिरासेन युक्तिविरोधस्य निराक्रियमाणत्वादित्याशङ्कानिरासाय, यथा अस्याधि-करणस्य युक्तिविरोधनिरासफलत्वम्, तथा भक्तिकर्तव्यताफलकत्वमप्यस्तीति अत्रान्तर्भावो नायुक्त इति द्योतनाय ‘भक्तिर्विषय’ इत्याद्युक्तम् । एवमुत्तरत्रापि द्रष्टव्यम् । भाष्ये ‘रूपवत्त्वादनित्यत्वम्’ इति पूर्वपक्षप्रदर्शनमुपलक्षणत्वाभिप्रायेणेति भावेन पूर्वपक्षफलं प्रतिज्ञापूर्वकमाह– न युक्तैवेत्यादिना ।। नाद्य इति ।। न सिद्धान्तिना रूपवत्त्वपक्षोऽभ्युपगन्तुं शक्य इत्यर्थः ।। रूपवत्त्वादिति ।। रूपवत्त्वस्यानित्यत्वापादकत्वादिति भावः । एतेन ‘रूपवत्त्वादिति व्यर्थमिति परास्तम् । अनित्यत्वमित्युपलक्षणमिति भावेनाह– अरूपमिति ।। अत्रापि अरूपित्वश्रुत्यप्रामाण्येऽ-विशेषाच्छ्रुत्यन्तरेऽप्यनाश्वासप्रसङ्गेन गुणासिद्ध्या भक्तिर्नोपपद्यत इति भक्त्ययोगो बोध्यः । एतेन प्रकाशवच्च’ इत्यादिसूत्रेणाऽप्राकृतरूपाङ्गी कारेणाऽनित्यत्वदोषस्य परिहृतत्वात् अरूपत्वप्रतिपादकं सूत्रं व्यर्थमिति परास्तम् । अरूपत्वश्रुत्यप्रामाण्यपरिहाराय अरूपत्वस्यापि वक्तव्यत्वात् ।। न द्वितीय इति ।। द्वितीयोऽपि नाभ्युपगन्तुं शक्य इत्यर्थः । एतेन ‘नाद्य’ इत्याद्यपक्षं दूषयता द्वितीयपक्षस्याङ्गीकृतत्वात् पुनस्तस्यापि दूषणे व्याघात इति परास्तम् ।। श्रुतिवैयर्थ्यापातादिति ।। अनेन ‘प्रकाशवच्चेत्यादिसूत्राणां सौन्दर्याद्युपपादनवत् श्रुत्यप्रामाण्यनिरासोऽपि प्रयोजनमिति सूचितम् । सिद्धान्तफलं प्रतिजानीते कर्तव्यैवेति ।। अरूपत्वेति ।। अरूपत्वश्रुतिवैयर्थ्य-प्रयुक्तश्रुतिमात्राना श्वसाभावाच्च भक्तिरुपपन्नेति भावः । कैमुत्यं चेति ।। अस्मिन्व्याख्याने तत् भौतिकं रूपम् अव्यक्ततः परे क्केति योजना द्रष्टव्या ।। न चैवं रूपशब्दस्येति ।। रूपशब्दस्य प्राकृतादावेव व्युत्पन्नत्वात् व्युत्पत्त्यनुसारेण शब्दस्य बोधकत्वात् रुग्मवर्णादि श्रुतेः प्राकृतादि-रूपबोधकत्वात् अनित्यत्वप्रसङ्गभिया अरूपत्वश्रुत्यवष्टम्भेन प्राकृतरूपनिषेधे तच्छ्रुत्यप्रामाण्यमेव स्यादिति न वाच्यमित्यर्थः । कुतो न वाच्यमित्यत आह– अप्रसिद्धप्रकाशेऽपीति ।। न रूपादि-शब्दानां प्राकृतादिरूपेषु शक्तिग्रह कल्प्यः । किन्तु प्राकृतत्वादिपरित्यागेन रूप एव । अन्यथा प्रकाशादिशब्दानामपि तथात्वापत्त्या अप्रसिद्धप्रकाशे भगवति ‘आत्मैवाऽस्य ज्योतिर्भवति’ इत्यादि व्यवहारविलोपप्रसङ्ग इति भावः । एतेन रूपशब्दस्य प्राकृतादावेव व्युत्पन्नत्वशङ्काया निरासाय अप्राकृतरूपेऽपि रूपशब्दस्य व्युत्पत्तेः व्युत्पादनीयत्वेन तद्विहाय अप्रसिद्धप्रकाशे परमात्मनि प्रकाशशब्दप्रवृत्तिप्रदर्शनमयुक्तमसङ्गतत्वादिति निरस्तम् । रूपादिशब्दानां रूपमात्रे व्युपत्त्यनङ्गीकारेऽनिष्टप्रदर्शनार्थत्वात् ।। कथं ब्रह्मण इति ।। येनाऽङ्गीकृतेन ब्रह्मणोऽनित्य त्वाभावः ‘रुग्म(क्म)वर्णम्’ इति श्रुतेश्चाऽप्रामाण्याभावः । तद्विलक्षणं रूपं ब्रह्मणः कथं, न कथमपि । विलक्षणरूपस्य काप्यनुक्तत्वेन सर्वरूपाणां प्रकृत्याद्यात्मकत्वनियमादिति भावः । ननु ‘विज्ञानाऽऽनन्द मात्रत्वम्’ इति भाष्ये कथं पूर्वाऽप्रकृतविज्ञानानान्दपरतया सौत्रतच्छब्दो व्याख्यात इत्यत आह– तद्गुणसारत्वादिति ।। न त्वानन्दादेर्ब्रह्म रूपत्वमिति ।। विस्पष्टमिति शेषः । एतेन एतत्सूत्रविषयवाक््यस्य पूर्वसूत्र एवोदाहर्तुं शक््यत्वात् एतत्सूत्रं व्यर्थमिति परास्तम् । सामान्येनोक्त्वा, विशेषाकारेणोक्तेः विशिष्यानुग्रहार्थत्वात् ।

पूर्वपक्षस्तु नाङ्गीकर्तव्या निरतिशया भगवति भक्तिः । तथा हि किं भगवतो रूपमङ्गीक्रियते उताऽरूपित्वम् । न तावदाद्यः कल्पोऽङ्गीकर्तुमुचितः । अनित्यत्वप्रसङ्गात् । ‘तदरूपमनामयम्’ इत्यादिश्रुत्यप्रामाण्यप्रसङ्गाच्च । ततश्च भक्तिविलोपः । न ह्यनित्यशरीरे निरतिशया भक्तिरुपपद्यते । नापि अरूपित्वश्रुत्यप्रामाण्ये भक्तिरुपपद्यते । अरूपत्वश्रुत्यप्रामाण्येऽ विशेषात् श्रुतिमात्राऽ-प्रामाण्यापत्त्या भक्तिप्रयोजकगुणासिद्धेः । नापि द्वितीयः ‘रुग्मवर्णम्’ इत्यादिश्रुत्यप्रामाण्याऽऽ-पातात् । सौन्दर्याद्यभावापाताच्च । ततश्च न भक्तिः । तदेवमुभयथापि भक्तेरनुपपन्नत्वाव्द्यर्थोऽयं पाद इति ।

सिद्धान्तस्तु उपपन्नैव भगवद्भक्तिः । तस्यारूपित्वेन अनित्यत्वाभावात् । अरूपित्व-श्रुत्यप्रामाण्यलक्षणदोषराहित्यात् । न च अरूपित्वमसिद्धम् । प्रकृत्युत्तमत्वेन प्राकृतरूपवैधुर्य-सिद्धेः । न च ‘रुग्मवर्णम्’ इत्यादिश्रुतिवैयर्थ्यम् । सौन्दर्याभावश्च अप्राकृतरूपाङ्गीकारात् । न च तत्र प्रमाणाभावः । ‘ऐकात्म्यप्रत्ययसारम् आनन्दमात्रम्’ इति श्रुतिसिद्धत्वात् । न च विस्पष्टप्रमाणाभावः ‘आनन्दरूपममृतम्’ इति श्रुतेः, ‘शुद्धस्फटिकसंकाशम्’ इति स्मृतेश्च सत्त्वात् । तदेवं भक्तेरुपपन्नत्वात्सार्थकोऽयंपाद इति सिद्धम् ।

वाक्यार्थमुक्तावली

अप्राकृतरूपसमर्थनादिति ।। अत्र रूपपदेन वर्णविशेषस्य भगवद्विग्रहस्य च ग्रहणम् । तदुक्तं तत्त्वप्रदीपे । रूपत्वाच्च विपर्ययो दर्शनादिति । रूपादिमतोऽनित्यत्वव्याप्तिरभिहिता । परब्रह्मणश्च रूपवत्वमुक्तं रूपोपन्यासाच्च पुरुषविधमपीत्यादिना । तस्माद्ब्रह्मणोऽपि रूपवत्वादनित्यत्वमनित्यस्य को महिमाविशेष इत्यत आहेति । प्रकाशवच्चावैय्यर्थ्यमिति सूत्रभाष्ये तत्प्रतीतेश्च । ननु रूपमस्य शिरःपाणिपादाद्यात्मकमित्यत्र सुधायां रूपशब्देन शुक्लादिगुणप्रतीतिः स्यादतः शिरःपाणीति विवरणं कृतमित्युक्तत्वात् कथमत्र रूपपदेन गुणग्रहणमिति चेन्न । शुक्लादिगुणप्रतीतिस्स्यादित्यस्य शुक्लादिगुणमात्रप्रतीतिः स्यादित्यर्थत्वेनाविरोधात् । ननु रूपोपन्यासाच्च पुरुषविधमपीति रूप-विग्रहयोः अन्यभावव्यावृत्तेश्च विकरणत्वाच्च नेति चेत्तदुक्तमिति तयोरप्राकृतत्वस्यैव समर्थितत्वात् गतार्थमिदमिति चेन्मोक्तं विस्मार्षीः । पादादौ टीकायामेव क्वचित्तदेव विविच्योच्यते क्वचित्समर्थ्यते इत्युक्तत्वात् । अन्यभावव्यावृत्तेरित्यत्रान्यवस्तुस्वभावस्थौल्यादिव्यावृत्तिमात्राभिधानेऽपि तस्या-प्राकृतरूपवत्वस्य स्पष्टमुक्तत्वादसमर्थितत्वाच्चेह तदुभयकरणात् । ननु स्थानतोऽपीतीशरूपाणामभेदे साधिते तद्दृष्टान्तेन चेतनत्वादिहेतुना जीवस्येशाभेदः किन्न स्यादिति पूर्वपक्षोत्थानात् । अत एव चोपमेत्यधिकरणस्यैव तदानन्तर्यं युक्तं, कथमस्याधिकरणस्य न स्थानाधिकरणानन्तर्यमिति चेन्न । उत्तराधिकरणसाध्ये ईश्वरस्य जीवभेदेऽप्राकृतरूपवत्वरूपविरुद्धधर्मस्य हेतुत्वादुपोद्घातसङ्गत्या-स्याधिकरणस्य पूर्वनिवेशोपपत्तेः । उक्तं चैतत्सुधायां । अरूपत्वाधिकरणार्थस्यात एवेति सूत्रार्थहेतुत्वेनोपोद्घातलक्षणसङ्गत्या वर्णितस्याप्यस्याव्यवधायकत्वादिति ।

युक्ता न वेति ।। अत्र भक्तिर्विष्णावयुक्तोत युक्तेति चिन्ता । तदर्थं रूपवत्वारूपवत्वे न सम्भवत उत सम्भवत इति । रूपवत्वादनित्यत्वमिति भाष्ये प्रथमसूत्रनिरसनीयपूर्वपक्षोक्तावपि तदुपलक्षणं मत्वा द्वितीयादिसूत्रनिरसनीयपूर्वपक्षं विरुद्धमित्युक्तन्यायप्रदर्शनपूर्वकमाह ।। तथा हीत्यादिना ।। वैय्यर्थ्यापातादिति ।। अप्रामाण्यापातादित्यर्थः । सूत्रे तदिति तन्त्रम् । व्यस्तं समस्तं च पदम् । तत् प्रस्तुतं ब्रह्म अरूपवदेव प्राकृतादिरूपरहितमेव । कुतः तत्प्रधानत्वात् । तस्य ब्रह्मणः तेभ्यः प्रकृत्यादिभ्यः प्रधानत्वादिति सूत्रार्थमभिप्रेत्याह ।। कर्तव्यैवेति ।। ननु तत्प्रधानत्वादिति तच्छब्देन कथं प्रकृत्यादिपरामर्शः । अप्रस्तुतत्वादित्यतः अरूपवदिति रूपस्य प्रकृतत्वात्तस्य प्राकृतभौतिकान्यतरत्वनैय्यत्यात् प्रकृत्यादिकमपि प्रकृतमेवेति भावेनाह ।। रूपं हि भवदिति ।। स्वेच्छादिनिमित्तत्वेनेति । स्वेच्छया लीलया चेत्यर्थः ।। सूचिताया इति ।। तत्र सामान्येन रूपमात्रनिषेधादिति भावः । एतेन परस्योभयलिङ्गमिति सूत्रे परमात्मन इत्यादि-भाष्यानुसारेण पुंल्लिङ्गेन प्रकृतत्वादरूपवदिति क्लीबोक्तिरयुक्तेति निरस्तम् । हिशब्दसूचितश्रुत्यनु-सारेण तदुपपत्तेः । अरूपमिति वाच्येऽरूपवदिति मतुप् रूपवत्वनिषेधेन रूपभेदनिषेधार्थं सूत्रार्थे स्मृतित्वात्प्रधानत्वादित्यनेन समर्थनाय व्याचष्टे ।। परःप्रवर्तकत्वेनोत्तम इति ।। तदाव्यक्तिक-मिति ।। अव्यक्ततः परे तत्त्वे इत्यन्वयं क्रमेणाव्यक्तस्य प्रकृतत्वेन तदात्मकरूपस्यापि प्रकृतत्वा-त्तच्छब्देन तत्परामर्श इति भावः ।। कैमुत्यं वेति ।। यदा भूतेभ्यः परत्वेनैव भौतिकरूपराहित्यं किमु वक्तव्यं तदा भूतकारणाव्यक्तप्रकृतेः परे तत्प्रर्तकत्वेन तदुत्तमे । अत एव तत्कृतबन्धशून्ये तद्भौतिकं रूपं नास्तीति कैमुत्यं वेत्यर्थः ।

तत्त्वसुबोधिनी

अप्राकृतरूपसमर्थनादिति ।। अरूपशब्देन शरीरमुच्यते । एवं च पूर्वाधिकरणे विश्वादि-रूपाणां येन मत्स्यरूपेण अभेद उक्तः अत्र तद्रूपे प्राकृताप्राकृतत्वविचारादनन्तरसङ्गतिरिति भावः ।। अन्यथेति ।। अप्राकृतरूपसमर्थनाभावे । कुतो नेत्यतः हरेः रूपवत्वं अरूपवत्वं वाङ्गीक्रियते । नोभयमपीत्याह ।। तथा हीत्यादिना ।। अस्त्वनित्यत्वं ततः किमित्यत आह ।। अनित्यशरीर इति ।। अन्यथास्मदादावपि सा स्यादिति भावः । किञ्चारूपत्वश्रुतिव्याकोपश्च स्यादित्याह ।। अरूपमिति ।। न केवलं श्रुतिवैय्यर्थ्यम् । किन्तु लोके सुन्दरे एव भक्तेर्दृष्टत्वेन भगवतोऽरूपवत्त्वे न सौन्दर्याभावात्तत्र भक्त्युदयः स्यादित्याह ।। सौन्दर्येति ।। अस्तु प्रकृत्यादिप्रवर्तकत्वं तथापि प्राकृतरूपं किं न स्यादित्यत आह ।। न हीति ।। प्राकृतरूपवत्वे हि तद्बन्धः स्यादिति भावः । भाष्ये उत्तमत्वादित्येतत् किमर्थमुक्तमित्यत आह ।। प्रधानत्वादिति ।। प्रकृत्यादिप्रवर्तकत्वेनेत्येतत् किमर्थमुक्तमित्यत आह ।। उत्तमत्वे इति ।। भूतेभ्यो भिन्नस्यापि भौतिकशरीरसत्त्वात् सूत्र-समानार्थत्वाभावापत्त्या प्रकृतानुपयोगाच्च परशब्दस्य भिन्नार्थत्वसम्भवेनापेक्षितांशपूरणेन यथाव-द्व्याचष्टे ।। पर इति ।। तदाव्यक्तिकं रूपमिति ।। अव्यक्ततः परे न क्व इत्यन्वयक्रमेणाव्यक्तस्य प्रकृतत्वेन तदात्मकस्य रूपस्यापि प्रकृतत्वात् तच्छब्देन परामर्श इति भावः ।। कैमुत्यं वेति ।। अस्मिन् पक्षे तच्छब्देन पूर्वप्राप्तभौतिकत्वरूपपरामर्शः । तथा च पराभूतेभ्यः परत्वेनैव भौतिक-रूपराहित्यं किमु वक्तव्यम् । तदा भूतकारणाव्यक्ततः परे तद्भौतिकं रूपं नास्तीति कैमुत्यमित्यर्थः ।

वाक्यार्थविवरणम्

साधनतयोक्तेष्विति ।। तमेवमित्यादौ ज्ञानस्य ‘अपाम सोमम्’ इत्यादौ कर्मणो मोक्ष-साधनत्वमुच्यते । तत्र ज्ञानस्यैव तद्युक्तं न कर्मण इति दर्शनेनात्रापि मोक्षसाधनतयोक्तभक्तौ युक्तायुक्तत्वसंशय इत्यर्थः ।। अनित्यशरीरे ।। अनित्यशरीरवति । दूषणान्तरं चाह ।। सौन्दर्येति ।। सौन्दर्यादेर्विग्रहवत्येव भावेन तदभावे तदभावादित्यर्थः ।। स्वाधीनमिति कर्ता । स्वात्मनमिति कर्म ।। स्वेच्छेति ।। तथा च तत्परित्यागेनानित्यत्वं प्राप्तमेवेति भावः ।। हिशब्दादितीति ।। अस्थूलमित्यादिना भगवतः स्थूलाण्वादिविग्रहसामान्यनिषेधात् स्वेच्छागृहीतरूपसत्त्वे तदयोगात् । न हि यत्किञ्चिद्विशेषसत्त्वे सामान्याभावो युक्त इति भावः । प्रकृत्यादिप्रवर्तकत्वेन तदुत्तमत्व-रूपार्थलाभाय व्याचष्टे ।। पर इति ।। कैमुत्यं चेति ।। तथा च भूतपराव्यक्ततः परे तत् भौतिकं रूपं क्वेत्यर्थः ।

वाक्यार्थमञ्जरी

रूपेति ।। शरीरेत्यर्थः ।। एवमग्रेऽपि ।। रूपमस्य शिरःपाणिपादाद्यात्मकमिष्यते इत्यनु-व्याख्यानोक्तेः । रूपपदेन शुक्लादिगुणप्रतीतिः स्यात् अतः शिरःपाणीति विवरणं कृतमिति सुधोक्तेश्च । अरूपमव्ययं तदरूपमनामय इति भिन्नं वाक्यम् । एवं रुक्मवर्णं कर्तारमादित्य-वर्णमित्यपि ।। वैयर्थ्यमिति ।। अप्रामाण्येत्यर्थः ।। ॐ अरूपवदेव हि तत्प्रधानत्वात् ॐ ।। तदिति तन्त्रं व्यस्तं समस्तं च । तथा तद्ब्रह्म अरूपवत् प्राकृतादिदेहवन्नैव । कुतः ? तत्प्रधानत्वात् तस्य ब्रह्मणः तेभ्यः प्रकृत्यादिभ्य उत्तमत्वादित्यर्थः ।। कैमुत्यं वेति ।। अस्मिन्पक्षे तच्छब्देन पूर्वप्राप्तभौतिकरूपपरामर्शः । तथा च यदा भूतेभ्यः परत्वेनैव भौतिकरूपराहित्यं तदा भूतकरणाव्यक्ततः परे तद्भौतिकं रूपं नास्तीति किं वक्तव्यमिति कैमुत्यमित्यर्थः ।


Load More