ॐ न तृतीये तथोपलब्धेः ॐ
१५. न तृतीयाधिकरणम्
सूत्रभाष्यम्
‘यत्र दुःखं सुखं तत्र सर्वत्रापि प्रतीयते ।
अपि नीचगतौ किञ्चित्किमु मानुषदेहिनः’ इति ।
वचनान्महातमस्यपि सुखप्राप्तिरित्यत आह—
ॐ न तृतीये तथोपलब्धेः ॐ ।। १९ ।।
‘अथाविद्वानकर्माऽवाग्गच्छति त्रिधा ह वाऽवाग्ग (च्छ) तिस्तिर्यग्यातना तम इति । द्वे वाव सुखानुवृत्ते, न तमः सुखानुवृत्तं केवलं ह्येवात्र दुःखं भवति’ इति श्रुतेर्न तृतीया वाग्गतौ सुखम् ।
तत्त्वप्रदीपिका
एवं तावदूर्ध्वगती द्वे इत्युक्तम् । ते अपेक्ष्याधोगतिस्त्वान्तरभेदभिन्नाऽपि तृतीयस्थानमित्युच्यते । तच्च तृतीयस्थानं त्रिविधमुक्तं तिर्यङ्नरकं तम इति । तत्र प्रथमं स्पष्टोक्तं ‘जायस्व म्रियस्व’ति । इतरे चोक्ते ‘संयमन’ इत्यादिना । तृतीयं पुनर्विशेषतो वेदयति । न तृतीये तथोपलब्धेः ।। ‘त्रिधा ह वाऽवाग्गच्छति’ । वाव एव । अवाग्गच्छतीति यत्तत्त्रिधैवेत्यर्थः । ‘समाने लोप’ इति सूत्रादेक-वकारलोपः ।।
तत्त्वप्रकाशिका
अत्र भगवत्प्राप्तिसाधनवैराग्यायान्धन्तमसो दुःखमात्रतासाधनादस्ति शास्त्रादिसङ्गतिः । अन्धे तमस्यपि सुखसद्भावे न तत्रातिशयेन वैराग्यमुत्पद्यतेऽतस्तन्निषेध्यम् । प्रकृतमन्धन्तमो विषयः । सुखयुक्तं न वेति सन्देहः । लोकदृष्टिरलौकिकत्वं च सन्देहबीजम् । पूर्वपक्षयति ।। यत्रेति ।। अन्धन्तमोऽपि सुखयुक्तमेव । दुःखयुक्तत्वात् । सुखेन च दुःखस्य व्याप्तत्वात् । न च वक्तव्यं सर्वसुखदुःखयोरप्रत्यक्षत्वाद् व्याप्तिग्रहणानुपपत्तिरिति । ‘यत्र दुःखम्’ इत्यागमेन तद्ग्रहणोपपत्तेः । अतोऽन्धतमस्यपि सुखसद्भावान्न तत्रातिवैराग्यमपेक्षितमिति भावः ।
सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ।। अत इति ।। अधोगतिषु तृतीये तमसि न सुखमस्तीति मन्तव्यम् । ‘अथाविद्वान्’ इति तथाभिधायकश्रुतेरित्यर्थः ।
भावबोधः
प्रकृतमन्धन्तम इति ।। ‘अपि सप्त’ इत्यत्रेत्यर्थः । न च तर्हि तदानन्तर्यमेव स्यादिति वाच्यं ‘तत्रापि च’ इत्यनेन सदुःखत्वे सिद्धे सुखाभावविचारस्य प्रवृत्तेः । तर्हि ‘विद्याकर्मणोः’ इत्यनेन व्यवधाने किं कारणमिति चेत् । सत्यम् । सदुःखत्वविचारस्य सर्वनरकविषयत्वम् । अस्य तमोमात्रविषयत्वमिति ज्ञापनमिति भावः । अत्रान्धंतमः सुखयुक्तं न वेति चिन्ता । तदर्थं दुःखं सुखेन व्याप्तं न वेति । तदर्थं व्याप्तिग्राहकं प्रमाणमस्ति न वेति । तदर्थं तत्र बाधकं प्रमाणं नास्त्युतास्तीति । महातमस्यपि सुखप्राप्तिरिति भाष्यव्याख्यानपरेणान्धंतमोऽपीत्यादिना व्याप्तत्वा-दित्यन्तेन दुःखसहावस्थायित्वादन्धंतमस्यपि सुखमिति न्यायविवरणमुक्ततात्पर्यं भवति ।
भावदीपः
अन्धतमस इति ।। अन्धतमसस्येत्यर्थः । ‘द्वित्रिभ्यां पाद्दन्मूर्धसुबहुव्रीहौ’ इत्यादिनिर्देशेन समासान्तविधेरनित्यत्वादवसमन्धेभ्यस्तमस इति समासान्तो नाश्रितः । एतेन विद्याकर्मरहितानां तिर्यङ्नरकतमोभेदेन यत्त्रेधावस्थानं तत्राद्यं पूर्वत्र स्पष्टमुक्तम् । जायस्व म्रियस्वेति द्वितीयस्वरूपं तु तत्रापि चेत्यत्रोक्तम् । अत्र तु तृतीयस्य तमसः स्वरूपं निरूप्यत इति वा प्राङ्नरकवत्पौनः पुन्येन जननमरणवद्रूपे भतानां तृतीयावस्थाने मिश्राणीति सुखदुःखमिश्रत्वोक्तौ तमोरूपेऽपि तृतीयेऽ-वस्थाने तथास्त्विति शङ्कोदयाद्वाऽवान्तरसङ्गतिः सूचिता । ननु नरकवद्दुःखरूपत्वेऽपि वैराग्यो-पपत्तौ किं दुःखमात्रोक्त्येत्यतः फलफलिभावं व्यनक्ति ।। अन्धेति ।। प्रकृतमिति ।। प्रागवरोहपदादिना प्रस्तुतं तिर्यग्वा नरकं तम इति पूर्वत्र चोपस्थापितं चेत्यर्थः । दुःखसहावस्थायि-त्वादन्धे तमस्यपि सुखमित्यन्यत्रेह भाष्ये च सुखदुःखयोर्व्याप्तिमात्रस्यैवोक्त्या हेत्वनुक्तेरसाङ्गत्य-निरासाय स्वयं हेतुं वदन् महातमसीत्यादि प्रतिज्ञाभाष्यं व्याचष्टे ।। अन्धन्तमोऽपीति ।। दुःखसहावस्थायित्वादित्यन्यत्रोक्तहेतुं स्मृत्यनुरोधेन व्यनक्ति ।। सुखेन चेति ।। तावतैव पूर्तौ भाष्ये यत्र दुःखं तत्र सुखमिति व्याप्तिवचनोक्तेरुपयोगं व्यनक्ति ।। न च वक्तव्यमिति ।। अत इति ।। सुखव्याप्तदुःखयुक्तत्वादित्यर्थः । न तृतीयावाग्गतौ सुखमिति भाष्यदिशा सूत्रेऽवाग्गताविति शेषोक्तौ तृतीयायामिति निर्देशापत्तेर्न तृतीयेत्यादिभाष्यं फलितोक्तिपरं मत्वा सूत्राक्षरार्थमाह ।। अधोगतिष्विति ।। तासां तिसॄणां तिर्यग्वा नरकं तम इति पूर्वं प्रकृतत्वादिति भावः । तथोपलब्धेरित्येतद्विवरणपरतया भाष्यं व्याचष्टे ।। अथेति ।। श्रुताववाग्गच्छतीति ।। यत् तत् त्रिधा ह वाव त्रिधैवेत्यर्थ इति तत्वप्रदीपे एवकारार्थस्य वावेत्यस्य ‘समाने लोपः’ इति सूत्रादेक-वकारलोप इत्युक्तम् ।
अभिनवचन्द्रिका
लोकदृष्टिरलौकिकत्वं चेति ।। इहापि अलौकिकत्वमेव सन्देहबीजं लौकिकदृष्टिस्तु प्रागुक्तदिशा तस्य साचिव्यमाचरतीति तथोक्तमिति बोध्यम् । एतेन लोकदृष्टेर्लौकिके सुखवत्त्वरूपकोटिप्रापकत्वेऽपि अलौकिके तदप्रापकत्वात् सन्देहबीजत्ववर्णनमयुक्तमिति परास्तम् । एवमेवंजातीयके सर्वत्र द्रष्टव्यम् ।। अतिवैराग्यमिति ।। नरकाऽपेक्षयेत्यर्थः ।। अप्रियत्वादिति ।। अभिव्यक्ताप्रीतिविषयत्वादित्यर्थः । एतेन एतेषामेव संसारदशायां सुखित्वेनेश्वरेष्टत्वदर्शनाद्व्यभिचार इति परास्तम् । तत्राप्रियत्वसद्भावेऽपि हेतुकृताभिव्यक्ताप्रीतिविषयत्वस्य तत्राभावात् । भाष्यस्थ ‘लोकसिद्धिः’ इति पदमनूद्य व्याचष्टे लोकसिद्धिरिति ।। लोकसिद्धदृष्टान्तेन तमसः सुखराहित्यसाधकमनुमानं स्मृतिसिद्धमिति भावः । अनेन व्यतिरेकान्वयाविति ।। ‘विमता न सुखवत्त्वेनेश्वरेष्टाः तदप्रियत्वात्’ इति प्रयोगे ‘अतिप्रिये यथा राजा न दुःखं सहते क्कचित्’ इत्यनेनाऽर्थात् यो यस्य सुखित्वेनेष्टः नाऽसौ तस्याऽप्रिय इति व्यतिरेकः सूचितः । ‘अत्यप्रिये सुखमपि’ इत्यनेन यो यस्याऽप्रियः, नाऽसौ तस्य सुखित्वेनेष्ट इत्यन्वयो दर्शित इत्यर्थः । अतः परं श्रूयमाणं ‘सदसज्जनानां वा प्रकृतिः’ इति वाक्यं न टीकावाक्यं किंतु प्रक्षिप्तम् । अवश्यं चैतदेवं विज्ञेयं, ‘चशब्दाल्लोकसिद्धिरपि स्मार्तेत्याह’ इति भाष्यविरुद्धत्वात् । अस्मिन् भाष्ये लोकसिद्धदृष्टान्तकानुमानस्य स्मार्तत्वाभिधानेन स्मृतेः अनुमानाङ्गव्याप्तिनिरूपणपरत्वस्यैव भाष्याऽभिमतत्वात् अस्य वाक्यस्य पूर्वेणान्वयाभावाच्च । न च सदसज्जनानां वा प्रकृतिः अनेन दर्शितेत्यन्वय इति वाच्यम् । सदसज्जनस्वभावनिरूपणस्याऽसङ्गतत्वात्, स्मृतौ तदनुपलम्भाच्च ।। मोहान्यथानुपपत्तेरिति ।। ननु मोहस्य दुःखविशेषकार्यत्वात् मोहान्यथानुपपत्त्या दुःखातिशय एव तत्र सिध्येत्, न सुखाभावः तत्कथमुच्यते मोहान्यथाऽनुपपत्तेर्न तत्र सुखलेश इति चेत् सत्यम् । मोहान्यथाऽनुपपत्त्या दुःख एवातिशयः सिध्यति अतिशयश्च निरवधिकत्वमिव सुखलेशाऽ-समानाधिकरणत्वमपीति तथोक्तम् । ननु भाष्ये ‘तृतीयतमसः श्रवणात् संशोकजमोहप्राप्तिः’ इत्येतावतैव पूर्णत्वात् भाष्ये ‘शब्दानुसारात्’ इति पदं व्यर्थमित्यत आह– शब्दानुसारा-दितीति ।। इत्यादीत्यतः परं सूचयतीति शेषः । ततश्चैवं योजना शब्दानुसारादितिपदं तृतीयतमसः सम्यग्व्याख्याने अतिमूर्च्छा, अतिसम्यग्व्याख्याने ततोऽप्यतिमूर्च्छेत्यादि सूचयतीति । यथा यथा व्याख्यानं विशिष्यते तथा तथा दुःखं विशिष्यत इति सूचनाय तत्पदं प्रयुक्तमिति भावः ।
पूर्वपक्षस्तु अन्धन्तमोऽपि सुखयुक्तमेव दुःखयुक्तत्वात्, दुःखं हि सुखाविनाभूतम् । ‘यत्र दुःखं सुखं तत्र’ इति वचनात् । अतोऽन्धे तमस्यपि सुखसद्भावात् न तत्र वैराग्यमपेक्षितमिति ।
सिद्धान्तस्तु नाऽन्धे तमसि सुखलेशो वक्तव्यः । ‘अथाऽविद्वानकर्माऽवाग्गच्छति ‘त्रिधा ह वा अवाग्गतिःतिर्यग्यातनातम’ इति, द्वे वा वसुखानुवृत्ते, न तमः सुखानुवृत्तमिति श्रुतेः, ‘तिर्यक्षु नरके चैव सुखलेशो विधीयते । नाऽन्धे तमसि मग्नानां सुखलेशोऽपि कश्चन’ति स्मृतेश्च । ‘विमताः न सुखवन्तः, ईश्वरेण तथाऽनिष्टत्वात् यो यथा नेश्वरेणेष्टः नासौ तथा, तथा शृङ्गित्वेनाऽनिष्टः शशो न शृङ्गि’ इत्यनुमानाच्च । ईश्वरेण तथानिष्टत्वं न तदप्रियत्वहेतुसिद्धम् । तत्र सुखाभावस्य चतुर्मुखप्रत्यक्षसिद्धत्वाच्च । अधरतमःश्रवणमात्रेण तच्छ्राविणां मोहप्राप्त्य न्यथशनुपपत्त्या तत्रत्यदुःखस्य निरवधिकत्वात् सुखलेशाऽसामानाधिकरण्याऽतिशयसिद्धेश्च । न च श्रवणमात्रेण तच्छ्राविणां मोहप्राप्तिरसिद्धेति वाच्यम् । ‘महातमस्त्रिधा प्रोक्तमूर्ध्वं मध्यं तथाऽधरम् । श्रवणेनैव मूर्च्छादिरधरस्य यतो भवेत्’ इति स्मरणात् । अतोऽन्धे तमसि सुखलेशाभावात् भवितव्यं तत्र तत्साधने च विरक्तेनेति सिद्धम् ।
वाक्यार्थमुक्तावली
प्रकृतमन्धन्तम इति ।। सप्तेति सूत्रे प्रकृतमित्यर्थः । यद्वा विद्याकर्मणोरिति सूत्रोपात्तस्मृतौ तिर्यग्वा नरकं तम इति प्रकृतमित्यनन्तरसङ्गतिरिति भावः । अन्धन्तमः सुखयुक्तं न वेति चिन्ता । तदर्थं दुःखं सुखेन व्याप्तं न वेति । तदर्थं व्याप्तिग्राहकप्रमाणस्य बाधकं नास्त्युतास्तीति । अत्रापि सहस्थानमित्युक्तन्यायप्रदर्शकं भाष्यं व्याचष्टे ।। अन्धन्तमोऽपीति ।। न तत्रातिवैराग्यमिति ।। ननु वैराग्यं रागाभावः । कथं तत्र तारतम्यमिति चेन्न । प्रतियोगिनि रागे फलतारतम्येन तारतम्यात् । अभावेऽपि तदनुसारेण फलतारतम्येन तारतम्यस्य विवक्षितत्वात् । सूत्रे सुखमित्यध्याहारः । तृतीये तिर्यग्वा नरकं तम इत्युक्ताधोगतिषु मध्ये तृतीये तमसीति विवक्षित्वा व्याचष्टे ।। अधोगतिष्विति ।। तथाभिधायकश्रुतेरिति ।। स्पष्टश्रुतेरित्यर्थः । तेनापि नीचगताविति व्याप्तिवचनं स्पष्टश्रुतिबला-द्विविधनीचगतिविषयमित्युक्तं भवति । एतेनोपलब्धेरिति पूर्तेः तथेत्यधिकमिति निरस्तम् ।
तत्त्वसुबोधिनी
प्रकृतमन्धन्तम इति ।। अपि सप्तेत्यत्रेत्यर्थः । तर्हि तदानन्तर्यं स्यादिति न वाच्यम् । तत्रापि चेत्यनेन सदुःखत्वे सिद्धे दुःखाभावविचारस्य प्रवृत्तेः । तर्हि विद्येत्यनेन व्यवधाने किन्निमित्तमिति न वाच्यम् । सदुःखत्वविचारस्य सर्वनरकविषयत्वं अस्य तु तमोमात्रविषयत्वमिति ज्ञापनमिति भावः ।। अन्धन्तमोऽपीति ।। तमोगताः न सुखवन्तः दुःखवत्वादित्यनुमानमुक्तं भवति ।
वाक्यार्थविवरणम्
लोकदृष्टिरिति ।। कारागृहे सुखदुःखयोरुभयोरपि दृष्टत्वादिति भावः । श्रुतौ ‘अकर्मा’ इत्यस्य कर्माकर्ता विरुद्धकर्मकर्ता मिथ्यामानी चेत्यर्थो ‘अनिष्टादि’ इत्यधिकरणोक्तरीत्या द्रष्टव्यः।
वाक्यार्थमञ्जरी
प्रकृतमपि सप्तेत्यनेन लोकदृष्टिरंधकारेऽपि विषयभोक्तुः सुखदर्शनम् ।। ॐ न तृतीये तथोपलब्धेः ॐ ।। तृतीये तृतीयावाग्गतावन्धे तमसि न सुखमस्ति । कुतः ? तथोपलब्धेः । अथाविद्वानिति श्रुतौ तथा दर्शनादित्यर्थः ।