ॐ शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि ॐ
९. अपशूद्राधिकरणम्
सूत्रभाष्यम्
मनुष्याधिकारत्वादित्युक्तेऽविशेषाच्छूद्रस्यापि "अह हारेत्वा शूद्र’ (छां.उ. ४-२-३) इति पौत्रायणोक्तेरधिकार इत्यत आह
॥ ॐ शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि ॐ ॥ ३४ ॥
नासौ पौत्रायणश्शूद्र, शुचाऽऽद्रवणमेव शूद्रत्वम् (शूद्रशब्देनोक्तम्) । "कम्वर एनमेतत्सन्तम्’ (छां.उ.४-१-३) इत्यनादरश्रवणात् । "स ह सञ्जिहान एव क्षत्तारमुवाच’ (छां.उ.४-१-५) इति सूच्यते हि ॥
सत्तकदीपावली
ननु यदि वेदविद्याधिकारिणो मनुष्यत्वविशेषणेऽपि देवानां विशिष्टबुद्ध्यादिभावेनाधिकार-सम्भवान्निषेधाभावाच्च न तत्र नाधिकार तद्धीनतिर्यगादिवत् । तर्ह्यनेन न्यायेन शूद्राणां सुतरामधिकार मनुष्यत्वाविशेषात् । यदि निषिद्धस्तेषां तर्हि किमर्थं वैदिकाग्रणी रैक्व शूद्रं पौत्रायणं वेदविद्यां श्रावयेत् । न चासावशूद्र शूद्र इति तेन सम्बोधनादिति भावेनाशङ्क्यैतां परिहरत्सूत्रमुपन्यस्य व्याचष्टे ॥ मनुष्येत्यादिना ॥ अहेति सम्बोधनम् । हारो उरो भूषणम्, इत्वा रथ तदुभयं हि गोभि सह तेनोपनीतम् । न पौत्रायण चतुर्थवर्ण किन्तु "सन्तमुत्तमं सयुग्मानं रैक्वं प्रतीवकम्वेनम् एतद्वचनं आत्थ’ इति हंसोक्तानादरश्रवणादतिशोकोपहतत्वा-च्छूद्रेत्युक्त । शोकाभावे शयनात्संजिहान एव स कथं रैक्वान्वेषणे क्षत्तारं नियुञ्ज्यादित्यर्थ ।
तत्त्वप्रदीपिका
मनुष्याधिकारत्वादित्युक्ते शूद्रस्यापि वेदविद्यायामधिकारस्स्यात् । शूद्रस्यापि मनुष्यत्वा-विशेषात् । "अह हारेत्वा शूद्र तवैव सह गोभिरस्तु’ इति पौत्रायणं प्रति रैक्वस्योक्तेश्च । पौत्रायणं वेदविद्यां श्रावयिष्यन्नेव हि रैक्व शूद्रशब्देन सम्बोधयामास । अह शूद्र हार इत्वा च गोभिस्सह तवैवास्त्विति । इत्वा शकट । अत्रोच्यते "शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि’ । शुचाऽऽद्रवणमेव शूद्रशब्दप्रवृत्तिहेतु । शुचां प्रत्याद्रवणं, शुचा वा क्षत्तारं प्रत्याद्रवणं, रैक्वं प्रत्याद्रवणं वा । तदाद्रवणाच्छूद्र इत्युच्यते । तृतीयात्तृतीयस्याप्यतिशयार्थत्वात् । कस्मात् शुचाऽऽद्रवणमित्यत आह कम्वर इति ॥ "कम्वर एनमेतत्सन्तं सयुग्वानमिव रैक्वमात्थ’ इति हंसात्स्वानादरश्रवणात् । एतत्सन्तं निन्द्यं सन्तं, एतच्छब्देन दुखादिरपरोक्षतयोच्यते । "क्वचिद्विश्वं क्वचिद्ब्रह्म क्वचिन्निन्द्यमुदीर्यते’ इति तन्त्रनिरुक्ते । "स ह सञ्चिहान एव क्षत्तारमुवाच’ इति वचनेनैव शुगस्य सूच्यते हि । अन्यथा नैवानादरश्रवणेऽपि शयनात्सञ्चिहान एव क्षत्तारं रैक्वोऽन्वेषणे नियुञ्जीत ॥
तत्त्वप्रकाशिका
अत्र त्रिवर्णेतरस्य वेदोक्तब्रह्मविद्याधिकारनिरासादस्ति शास्त्रसङ्गति । प्रासङ्गिकत्वान्ना-ध्यायादिसङ्गतिरन्वेष्टव्या । श्रुत्यादिसङ्गतिं विषयादिकं च सूचयति ॥ मनुष्येति ॥ वेदविद्यासु मनुष्याणामधिकृतत्वात्तेषां चाङ्गुष्ठसद्भावाद्युक्तं तान्प्रति विष्णोरङ्गुष्ठमात्रत्वाभिधानमित्युक्तम् । स च वेदविद्याधिकारो यदि शूद्रादीनां स्यात्तदा श्रुत्यादिविरोधादसौ निषेध्य एव । न चोक्ते विरोधाभावादसङ्गति । स्वन्यायेन श्रुत्यादिविरोधप्राप्ते । स एव ह्युक्ते विरोधो नाम यदुक्तं प्रमाणबाधितं स्यात् । स वेदविद्याधिकारो विषय । शूद्रस्यास्ति न वेति सन्देह । मनुष्यत्व-मदर्शनं च सन्देहबीजम् । अस्ति शूद्रस्यापि वेदविद्याधिकार इति पूर्वपक्ष । मनुष्याधि-कारत्वादिति मनुष्याणामधिकारस्योक्तत्वात् । मनुष्यत्वे च शूद्रस्य (अपि) द्विजातिभ्यो विशेषाभावात् । न मनुष्यत्वं वेदविद्याधिकारोपयोगि किं तु विशिष्टबुद्ध्यादिमत्त्वमेवेति चेत्तथापि शूद्राधिकारसिद्धि । विशिष्टबुद्ध्यादिमत्त्वेऽपि शूद्रस्यान्येभ्योऽविशेषात् । न च वाच्यं शूद्रस्य वेदविचारादर्शनादनधिकार इति । छन्दोगोपनिषदि पौत्रायणस्य वैदिकसंवर्ग-विद्याध्ययनदर्शनात् । तस्य शूद्रत्वमेव कुत इति चेन्न । "तमुह पर प्रत्युवाचाह हारेत्वा शूद्र तवैव सह गोभिरस्तु’ इति पौत्रायणं प्रति रैक्वोक्तेरेव । न चाधिकाराभावेऽपि पौत्रायणो विद्यां विचारयामासेति किं न स्यादिति वाच्यम् । अनधिकारिणं प्रति मुनेरुपदेशासम्भवात् । न हि तस्यापरोक्षज्ञानिनो गवाद्याशयाऽप्यन्याय्या प्रवृत्ति सम्भाविता । अतो युक्त्या लिङ्गदशनेन च शूद्रस्य वेदाधिकारसिद्धिरिति भाव । उक्ते इति सप्तमी पञ्चम्यर्थे । अधिकारोपयोगितयोक्ते मनुष्यत्वेऽविशेषादिति वा । अहेति सम्बोधनम् । हारो रथश्च गोभि सह तवैवास्त्वित्यर्थ । हारेत्वेति सेदुराजेत्यादिवद्विसर्गलोपेन भवति । हारेत्वानाविति वा । तथात्वे पृथगन्वय ।
सिद्धान्तयत्सूत्रमवतार्य तत्फिलतार्थं तावदाह ॥ अत इति ॥ यदुक्तं शूद्रस्यापि पौत्रा-यणस्य वेदविचारदर्शनादस्ति शूद्रस्य वेदविद्याधिकार इति तद्भवेद्यदि पौत्रायण शूद्रो भवेन्न तु तदस्तीत्यर्थ । शूद्रेति सम्बोधितत्वात् कथमसौ न शूद्र इत्यत तदाऽऽद्रवणादिति सूत्रांशं व्याचष्टे ॥ शुचेति ॥ शोकेनाऽऽद्रवणं शूद्रशब्दप्रवृत्तिनिमित्तम् । अत शुचाऽऽद्रवणादेव शूद्रेति सम्बोधितो न तु वर्णावरत्वाभिप्रायेणेति नानेन पौत्रायणस्य शूद्रत्वसिद्धिरित्यर्थ । पौत्रायणस्य शुगेव किं निमित्तेत्यत शुगस्य तदनादरश्रवणादिति सूत्रांशं व्याचष्टे ॥ कम्विति॥ अरे हंसैतद्वचनं कमेनमुद्दिश्यात्थ सन्तं सयुग्वानं रैक्वमिवेति हंसकृतानादर-श्रवणादस्य पौत्रायणस्य शुगित्यर्थ । तदिति श्रुत्युक्तपरामर्श । श्रुतानादरस्यापि तस्य कुत शोकोत्पत्तिर्ज्ञायते । परबुद्धेरप्रत्यक्षत्वात् । कारणस्य च कार्याविनाभावाभावादित्यत सूत्रशेषं व्याचष्टे ॥ सहेति ॥ स श्रुतानादर पौत्रायण शयनादुत्तिष्ठन्नेव क्षत्तारं रैक्वगवेषणायो-वाचेत्युक्ततद्य्वग्रतया शोको ज्ञायतेऽतोऽनादरश्रवणात् पौत्रायणस्य शुगासीत्तयाशुचाऽऽद्रवणात् शूद्रेति सम्बोधितो न तु वर्णावरत्वाभिप्रायेणेति नेदं शूद्राधिकारे लिङ्गमिति भाव । शोकेनाऽऽद्रवणपरिज्ञानं च मुने सार्वज्ञादुपपद्यते । तदुक्तम् । "राजा पौत्रायण शोकाच्छूद्रेति मुनिनोदित । प्राणविद्यामवाप्यास्मात्परं धर्ममवाप्तवान्’ इति । दीर्घस्वरार्थत्वेनाऽऽ-द्रवणादित्युक्तम् । शुग्द्र एव शूद्रो रुग्द्र एव रुद्र इतिवत् ॥
गुर्वर्थदीपिका
न चोक्ते विरोधाभावादित्यस्य शूद्राणामधिकारेऽपि प्रागुक्ते मनुष्याधिकारत्वे आक्षेपा-भावादित्यर्थ । स्वन्यायेन श्रुत्यादिविरोधप्राप्तेरित्यत्र स्वस्य सूत्रकारस्य न्यायेन "हृद्यपेक्षया तु मनुष्याधिकारत्वात्’ इति सूत्रे उक्तन्यायेन मनुष्यत्वाविशेषाच्छूद्राणामप्यधिकारप्राप्तौ "अध्ययने जिह्वाच्छेद’ इति श्रुत्या आदिपदोक्तयुक्त्या च विरोध इत्यर्थ । युक्त्या विशिष्टबुद्ध्यादि-मत्त्वयुक्त्या पौत्रायणं प्रति शूद्रेति श्रौतसम्बोधनाख्यिलङ्गेन चेत्यर्थ । सेदुराजेत्यादिवदित्यस्य स ईत् उ इति पदकरणे विद्यमानो विसर्ग यथा संहितायां लुप्यते तथाऽत्रापीत्यर्थ । हारश्च इत्वा च हारेत्वानाविति द्वन्द्वसमासे कृते "द्वा सुपर्णा’ इत्यादाविव हारेत्वेति पदं भवतीत्या-शयवानाह हारेत्वानाविति ॥ तथात्वे पृथगन्वय इत्यस्य यौ हारेत्वानौ त्वयोक्तौ स हार स इत्वा चेत्यर्थानुसारेण पृथक् पदं कृत्वा अस्त्वित्यनेनान्वय इत्यर्थ । शुचाऽऽद्रवणादिति वदन् टीकाकार "तदाद्रवणात्’ इति सूत्रखण्डस्य तया शुचा आद्रवणादित्यर्थमभिप्रैति ।
तथाचायं सूत्रार्थ । तया शुचा आद्रवणादेव शूद्रत्वं, न तु जात्या । शुक्च तेषां हंसा-नामनादरश्रवणादस्य पौत्रायणस्य जाता । सा च तदाद्रवणात्तस्य पौत्रायणस्य आद्रवणात्क्षत्तारं प्रत्याद्रवणात्सूच्यते । दूरस्थस्यापि ऋषे क्षत्तारं प्रत्याद्रवणपरिज्ञानं सर्वज्ञत्वप्रसिद्धेरिति हिशब्देन सूचितमिति ।
भावबोध
वेदोक्तब्रह्मविद्येति ॥ शूद्राणामपि तन्त्रोक्तब्रह्मविद्यायामधिकाराद्वेदोक्तेत्युक्तम् ॥ श्रुत्यादिसङ्गतिमिति ॥ यदि विशिष्टबुद्ध्यादिमत्त्वेन देवानां वेदविद्याधिकार तर्हि शूद्राणामपि विशिष्टबुद्ध्यादिमत्त्वाविशेषात् वेदविद्याधिकार स्यादिति पूर्वपक्षोत्थानादव्यवहितपूर्वाधिकरण-सङ्गतिरिति ज्ञातव्यम् । अत एवाविशेषादिति भाष्यमेवमपि व्याख्यातम् ॥ न चोक्ते विरोधाभावादसङ्गतिरिति ॥ शूद्राणां वेदविद्याधिकारे श्रुत्यादिविरोधेऽपि मनुष्याधिकारत्वा-दित्यनेनोक्तमनुष्याधिकारे श्रुत्यादिविरोधो नास्ति । त्रिवर्णमनुष्याणां वेदविद्याधिकारस्य श्रुतत्वात् । तथा च यत्र श्रुत्यादिविरोधस्तत्र न शूद्रादिवेदविद्याधिकार । न स पूर्वाधिकरणे उक्त । यस्तूक्तो मनुष्याणामधिकारो न तत्र श्रुत्यादिविरोध इति न पूर्वाधिकरणेनास्य सङ्गति-रिति न वाच्यमित्यर्थ ॥ स्वन्यायेन श्रुत्यादिविरोधप्राप्तेरिति ॥ वेदविद्यासु मनुष्याणा-मधिकृतत्वात्तेषां चाङ्गुष्ठसद्भावाद्युक्तं तान् प्रति विष्णोरङ्गुष्ठमात्रत्वाभिधानमित्युक्तन्यायेन शूद्राणां मनुष्यत्वादङ्गुष्ठवत्त्वाच्च प्राप्ते वेदविद्याधिकारे श्रुत्यादिविरोधप्राप्तेरित्यर्थ ॥
ननु न्यायप्राप्ते श्रुत्यादिविरोधेऽपि उक्तविरोधाभावशङ्का न परिहृतेत्यत आह स एव हीति ॥ उक्तमनुष्यत्वाङ्गुष्ठत्त्वादेरधिकारोपयोगित्वं श्रुत्यादिबाधादिति । श्रुत्यादिविरुद्धाधिकारे शूद्रादौ विद्यमानत्वादिति भाव ॥ शूद्रस्यापीति ॥ अत्र वेदविद्याधिकार किं शूद्रस्यास्ति उत नास्तीति चिन्ता । तदर्थं विशिष्टबुद्ध्यादिमत्त्वं किं शूद्रस्य वेदविद्याधिकारसाधकं भवत्युत नेति । तदर्थं पौत्रायणकर्तृकविद्याविचाररूपं लिङ्गं किं तदुपोद्बलकं भवत्युत न भवतीति । तदर्थं रैक्वोपदिष्ट पौत्रायण किं शूद्र उत क्षत्त्रिय इति । तदर्थमहहारे त्वा शूद्रेति रैक्वोक्त-वाक्ये पौत्रायणे प्रयुक्त शूद्रशब्द किं रूढ उत यौगिक इति । तदर्थमयमश्वतरीरथ इति पौत्रायणस्योक्तं चित्ररथित्वं शूद्रस्य न सम्भवत्युत सम्भवतीति । तदर्थं रथित्वव्यापक-वेदाध्ययनप्रयोजकोपनयनादिसंस्कार किं शूद्रस्य युक्त उत न युक्त इति । तदर्थं "नाग्न्र्नि यज्ञो न संस्कार’ इति श्रौत संस्काराभावाभिलाप शूद्रस्य संस्कारयोग्यत्वेऽपि अभावोक्तिमात्ररूप उत तन्निषेधनिबन्ध इति । तदर्थं तस्य संस्कारनिषेधरूपत्वकल्पकोपनयनादिसंस्कारकरणे शूद्रत्वाभावनिश्चयापेक्षा नास्त्युतास्तीति । तदर्थमुपनयनादिसंस्कारसाध्ये वेदश्रवणादेर्निषेधकं प्रमाणं नास्त्युतास्तीति । तथा किं विशिष्टबुद्ध्यादिमत्त्वमेवाधिकारप्रयोजकमुत निषिद्धत्वा-भावविशिष्टमिति । तदर्थं शूद्रस्य वेदश्रवणादेर्निषेधकं प्रमाणं नास्त्युतास्तीति । पूर्वमविशेषा-दित्येतन्मनुष्यत्वे विशेषाभावादिति व्याख्याय शङ्कान्तरपरिहारकत्वेन प्रकारान्तरेण व्याचष्टे विशिष्टबुद्ध्यादिमत्त्वेऽपीति ॥ पौत्रायणं प्रति रैक्वोक्तेरिति ॥ अहहारे त्वेति वचनस्य पौत्रायणवक्तृकत्वाभावेन पौत्रायणस्योक्तेरिति षष्ठीतत्पुरुषाभावादिति भाव ॥ अनधिकारिणं प्रति मुनेरुपदेशासम्भवादिति ॥ अनेन पौत्रायणोक्तेरित्यस्य पौत्रायणं प्रति रेक्वस्योपदेशा-दित्यपि व्याख्यानं सूचितं भवति ॥ युक्त्या लिङ्गदशनेन चेति ॥ युक्तिर्मनुष्यत्वादिरूपा । लिङ्गं तु पौत्रायणस्य शूद्रेति सम्बोधितस्य वैदिकसंवर्गविद्याविचाररूपम् । मनुष्याधिकारत्वा-दित्युक्त इति भाष्यस्य मनुष्याधिकारस्योक्तत्वादिति स्वकृतं व्याख्यानमुपपादयति पञ्चमी सप्तम्यर्थ इति ॥ सेदुराजेत्यादिवदिति ॥ यथा स इत्यत्र च्छान्दसेन विसर्गलोपेन सेदिति युगन्तथा हार इत्वेत्यत्रापि हारेत्वेति गुण इत्यर्थ । यद्वा हारेत्वेत्येकं पदम् । व्यत्ययेन द्विवचनस्यैकवचनम् । आदेशो वेत्याहहारेत्वानाविति चेति ॥ शुचाद्रवणादेवेति ॥ अनेन तदा द्रवणादित्यत्र तच्छब्देन शुभस्येति प्रागुक्तशुच परामर्श इत्युक्तं भवति ॥ हंसकृतेति ॥ अनेन सूत्रे तदनादरेत्यत्र मध्यमपदलोपी समास इत्युक्तं भवति ॥ श्रुत्युक्तेति ॥ श्रुत्युक्तहंसेत्यर्थ । स्मृतौ शोकादित्यस्य शोकेनाद्रवणादित्यर्थ । दीर्घस्वरार्थत्वेनाद्रवणादित्युक्तमिति
"संहितायां यत्र दैर्ध्यं पदे यत्र न विद्यते ।
उक्तार्थस्य महाधिक्यं श्रुतेस्तत्र विवक्षितम् ॥’
इत्यादिवचनै श्रुतौ दीर्घस्वर शोकाधिक्यज्ञापनार्थ इति सूचयितुं सूत्रे आद्रवणा-दित्युक्तम्। शीघ्रगमनस्य शोकाधिक्यनिमित्तकत्वादित्यर्थ ॥ रुद्र इति वदिति ॥ "रुजं द्रावयते यस्मात्’ इत्यादिस्मृत्या रुग्द्रावणकर्तृत्वेन रुग्द्र इति भवितव्ये रुद्र इति यथा तथैवेत्यर्थ ।
भावदीप
सङ्गतिपरत्वेन भाष्यं व्याचष्टे ॥ वेदविद्यास्विति ॥ अविशेषादित्यादेर्भावस्य चेति ॥ वक्ष्यमाणदिशेत्यर्थ ॥ श्रुत्यादीति ॥ श्रवणाध्ययनेति सूत्रोक्तश्रुत्यादीत्यर्थ ॥ न चोक्त इति॥ शूद्रस्याधिकारे उक्ते मनुष्याधिकारे विरोधो नास्ति । शूद्रस्यापि मनुष्यत्वात् । तथा चोक्ता-नाक्षेपादफलोऽयं विचार इति न वाच्यमित्यर्थ । स्वन्यायेन मनुष्यत्वविशिष्टबुध्यादिमत्व-रूपपूर्वोक्तसूत्राकारीयन्यायेन शूद्रस्याप्यधिकारप्राप्तौ वक्ष्यमाणश्रुतिस्मृतियुक्तिविरोधप्राप्ते-रित्यर्थ। शूद्रस्यानधिकारोक्तौ प्राक्तनसामान्योक्ति शूद्रेतरमनुष्यपरा स्यादिति भाव । पूर्वपक्ष-तद्युक्तिपरत्वेनापि भाष्यं व्याचष्टे ॥ अस्ति शूद्रस्यापीति ॥ सप्तमीयं पञ्चम्यर्थे इत्युपेत्याऽऽह ॥ उक्तत्वादिति ॥ अविशेषाच्छूद्रस्यापीत्येतन्मनुष्यत्वाविशेषादित्येवं व्याख्याय देवतानयोक्त-न्यायाविशेषादित्यर्थान्तरपरतयाऽपि व्याख्यातुमाह ॥ न मनुष्यत्वमिति ॥ पौत्रायणोक्तेरिति वाक्यं पौत्रायणस्य श्रुतावधिकारोक्तेरित्यर्थकं व्याख्यातुमाह ॥ न च वाच्यं शूद्रस्येति ॥ पौत्रायणं प्रति रैक्वेण शूद्रेत्युक्तेरित्यर्थान्तरं च व्याख्यातुमाह हारेत्वा शूद्रेत्यादिवाक्यमवतार्य व्यनक्ति ॥ तस्येति ॥ छान्दोग्ये चतुर्थे श्रुतसंवर्गविद्यायां प्रासादाग्रे शयानं पौत्रायणमुपर्यु-परिपतन्तो हंसपक्षिणो रैक्वमुनिप्रशंसाकराणि पौत्रायणानादरकराणि च वाक्यानि परस्परं वदन्तोऽगमन् । तच्छ्रुत्वा परितप्तमना पौत्रायण प्रातस्तल्पादुत्थित एव क्षत्तृमुखेन रैक्वस्थानं निश्चित्य तत्वबुभुत्सुर्गुरुदक्षिणां गृहीत्वा तत्समीपमुपेत्य तं सम्बोध्य दक्षिणां निवेद्य मह्यं विद्यां ब्रूहीत्युवाच । तदा तं पौत्रायणं परो रैक्व प्रत्युवाच किमिति अह हारेत्वेत्यादि । हार कण्ठमाला, इत्वा रथ । तवैवास्त्विति स्वाभिमतानवाप्ते पौत्रायणानीतां दक्षिणां मुनि प्रत्याचख्यौ इति श्रुत्यर्थ । पौत्रायणं प्रति रैक्वेण विद्योक्तेरित्यार्थान्तरं भाष्यस्य वक्तुमाह ॥ न चाधिकारेति ॥ अत इति ॥ मनुष्यत्वात् विशिष्टबुद्ध्यादिमत्त्वात् मुनेरन्यायप्रवृत्तेर-सम्भवाच्चेत्यर्थ । युक्त्या अविशेषादित्युक्तयुक्त्या । पौत्रायणं प्रति रैक्वस्य शूद्रेति शूद्रपदेन सम्बोध्य विद्योपदेशनरूपिलङ्गदशनेन च ॥ सप्तमीति ॥ भाष्यगतेत्यर्थ । श्रुत्यर्थमाह ॥ अहेति॥ इत्वशब्दार्थमाह ॥ रथश्चेति ॥ अस्त्वित्येकवचनान्वयाय हारेत्वेत्यत्र हारो रथश्चेति पृथगन्वय कृत । तर्हि हार इत्वेति स्यात् । न तु हारेत्वेत्याशङ्क्योपपत्तिमाह ॥ हारेत्वेतीति ॥ यथा स इदित्यत्र छान्दसेन विसर्गलोपेन सेदिति गुणस्तथा हारेत्वेत्यत्रापि गुण इत्यर्थ । यद्वा हारेत्वेत्येकं पदं व्यत्ययेन द्विवचनस्यैकवचनमित्याह ॥ हारेत्वा नाविति वेति ॥ तथात्वे पृथक् हारो रथश्चास्त्विति अन्वय इत्यर्थ । नेत्यादिभाष्यं व्याचष्टे ॥ यदुक्तमिति ॥ इति सूत्रांश-मिति॥ सूत्रे तदित्यस्य प्रकृतशुक्परत्वमिति दर्शितम् । आङर्थोऽग्रे स्पष्टयिष्यते ।
भाष्ये शुगस्य तदिति पदत्रयस्यार्थाद्य्वाख्यानं मत्वाऽऽह ॥ इति सूत्रांशं व्याचष्ट इति ॥ अयि भल्लक्ष जानश्रुते पौत्रायणस्य समं दिवा ज्योतिराततं तन्मा प्रसाङ्क्षी तत्त्वा मा प्रधाक्षीरित्येकेन हंसेनोक्तोऽन्यो हंस प्रतिवक्ति कम्वर इति । तदर्थम् अरे हंसेति सूत्रे अस्या-नादरेति षष्ठ्या क्रियाकर्तृभावसम्बन्धलब्धार्थमाह ॥ हंसकृतेति ॥ शेषमाह ॥ अस्येत्यादि ॥ पूर्वत्र सूत्रे क्वाप्यप्रकृतत्वात् तदित्यस्य कथं हंसकृतेति व्याख्येत्यत आह ॥ तदितीति ॥ तदनादरेति सूत्रे तदिति तच्छब्देन व्याख्येयश्रुतिगतहंसपरामर्श इत्यर्थ । कारणस्य समग्रस्येत्यर्थ । इह च शोके सति न कार्यमुपलभ्यत इति भाव । हिशब्दो हेताविति मत्वाऽऽह ॥ अत इति ॥ व्यग्रताख्यकार्यिलङ्गदशनेन शोकस्य ज्ञापितत्वात् अनादरश्रवणा-त्कारणादित्यर्थ ॥ तदुक्तमिति ॥ छान्दोग्यभाष्योक्तपाद्मस्मृतावुक्तमित्यर्थ । शोकाच्छोकेन आद्रवणादित्यर्थ । तथा च शुगुपपदात् द्रुगताविति धातो डप्रत्यये गकारस्य, दकारे रूपमित्यर्थ । तर्हि श्रुतौ शुद्रेति वक्तव्ये उकारस्य दीर्घेण शूद्रेति किमर्थमुक्तम् । सूत्रे च तद्द्रवणादित्येवपूर्तौ तदाद्रवणादित्याप्रयोगश्च किमर्थम् इत्यत आह ॥ दीर्घेति ॥ दीर्घो य स्वर शूद्र इत्यत्र ऊकाररूपो वर्ण । अच स्वरा इति शिक्षाग्रन्थेऽजक्षराणां स्वरत्वोक्ते । तस्य योऽर्थ शोकाधिक्यरूपोऽर्थ तदर्थत्वेन तद्व्यक्त्यर्थत्वेन सूत्रे तदाद्रवणादित्युक्त-मित्यर्थ। ""संहितायां (यत्र) तत्र दैर्ध्यं पदे यत्र न विद्यते । उक्तार्थस्य महाधिक्यं श्रुतेस्तत्र विवक्षितम् इत्याद्यैतरेयभाष्योक्ते ॥ रुद्र इतिवदिति ॥ यथा रुजं द्रावयते यस्माद्रुद्रस्त-स्माज्जनार्दन इति निरुक्तत्वात् गकारस्य दत्वेन रुद्र इति रूपं तथेत्यर्थ ॥
अभिनवचन्द्रिका
वेदोक्तेति ॥ वेदोत्पादितब्रह्मज्ञानाधिकारनिरासादित्यर्थः । एतेन वेदोक्तस्यैव ब्रह्मणः तत्रोक्तत्वात् तस्य ज्ञाने शूद्राणामप्यधिकारसद्भावेन वेदाधिकारनिरासादित्येव वक्तव्यम्, न तु वेदोक्तब्रह्मज्ञानाधिकारनिरासादिति वक्तव्यमिति परास्तम् । भाष्यसूचिते श्रुत्यधिकरणसङ्गती विवृणोति वेदविद्यास्विति ॥ पूर्वाधिकरणश्रुतिभ्यामस्याधिकरणस्य प्रासङ्गिकी सङ्गतिरिति भावः । स्मृतस्य उपेक्षानर्हत्वं प्रसङ्गः । शूद्राधिकारस्य स्मृत्युपपादनाय वेदविद्यासु मनुष्याधि-कारत्वादित्याद्युक्तम् । तस्योपेक्षानर्हत्वद्योतनायाह स च वेद विद्याधिकारो यदीत्यादिना ॥ इदमुक्तं भवति ॥ "मनुष्याधिकारत्वात्’ इति सूत्रे मनुष्याणामधिकार उक्तः । श्रुतौ चाङ्गुष्ठाभिधानेन मनुष्याधिकारोऽभिमतः । तद्दर्शने शूद्रा अपि स्मृता भवन्ति । तत्र सन्देह उपजायते । किमेते अधिकारिणः, उतानधिकारिण इति । न चासौ शूद्राधिकार उपेक्षार्ह इति अवश्यं निर्णेतव्य । ततश्च शूद्राधिकारः विचारस्य प्रासङ्गिकी सङ्गतिरिति । अवश्यं चैतदेवं विज्ञेयम् । टीकाकृता पूर्वपक्षावसाने पूर्वपक्षफलत्वेन प्रत्यधिकरणवत् पूर्वाधिकरणाक्षेपा-नभिधानात्, पूर्वपक्षायोगाच्च । न हि "मनुष्याधिकारत्वात्’ इत्यनेन शूद्राधिकारोऽपि उक्त इति कल्पयित्वा तदाक्षेपाय पूर्वपक्षयिता शूद्राणामधिकारोऽस्तीति शक्यते वक्तुम् । तस्य कल्पित-प्रमेयाविरोधित्वात् नास्त्यधिकार इत्येव पूर्वपक्षः कर्तव्यः । न च तत् सम्भवति । तस्य सिद्धान्तत्वात् । प्रसङ्गसङ्गत्याऽधिकरणारम्भे तु न पूर्वपक्षाऽयोगः । नापि "मनुष्याधिकारत्वात्’ इत्यनेन शूद्राधिकार उक्त इत्यनुक्तोपालम्भः कर्तव्यो भवति । एतेन स च विद्याधिकारो यदि शूद्रादीनां स्यात् तदा श्रुत्यादिविरोधादसौ निषेध्य एवेत्ययुक्तम् । श्रुत्यादिविरोधादेव शूद्राधि-कारस्य परित्यागसम्भवेन निषेधवैयर्थ्यादिति परास्तम् । आक्षेपपरिहार सङ्गतिरिति मन्वानः शङ्कते न चेति ॥ नाऽस्माभिराक्षेपपरिहारः सङ्गतित्वेनोक्तः । येनोक्ते विरोधाभावोऽ-सङ्गतिसाधकः स्यात् । किंनाम प्रासङ्गिकी सङ्गतिरिति भावेनाह स्वन्यायेनेति ॥ "स्वन्यायेन’ इत्यतः परं "स्मारिते शूद्राधिकार’ इति शेषः । ततश्चैवं योजना । स्वन्यायेन "मनुष्याधिकारत्वात्’ इति पूर्वसूत्रेण स्मारिते शूद्राधिकारे श्रुत्यादि विरोधसद्भावात् प्रसङ्ग-सङ्गतिरिति । नन्वाक्षेपपरिहारसङ्गतिरेव भाष्यकृता विवक्षिता किं न स्यादित्यत आह स एव हि इति ॥ भवेदेवाक्षेपपरिहारसङ्गतिः, यदि प्राक् शूद्राधिकार उक्तः स्यात् । उक्तस्यापि तत्र प्राप्तविरोधपरिहारेण समर्थनं स्यात् । न च प्राक् स उक्तः । नापीदानीं तत्समर्थ्यत इति नाक्षेपपरिहारसङ्गतिर्विवक्षितेति ज्ञायत इति भावः । अदर्शनमिति ॥ लोके अदर्शनमित्यर्थः । मनुष्याणामधिकारस्योक्तत्वादिति ॥ नन्विदमयुक्तम् । सूत्रकारोक्तप्रमेयदूषणाय प्रवृत्तेन पूर्वपक्षिणा स्वाभिमतप्रमेयसिद्धये सूत्रकारवचनस्यैव प्रमाणत्वेनोदाहरणायोगादिति चेत्।
जयतीर्थमुनिं नत्वा ध्यात्वा तच्चरणाम्बुजम् ।
टीकाभावं प्रवक्ष्यामि यथाशक्ति यथाश्रुतम् ॥
न ब्रूमो वयमिदमधिकरणं स्वातन्त्र्येणाऽधिकरणान्तरवत् प्रमेयप्रतिपादनाय प्रवृत्तमिति । किं तर्हि स्वोक्त्यर्थाऽपरिज्ञानप्राप्तस्वशिष्यान् यथाप्रतिपन्नमेव पूर्वपक्षं विधाय तन्निराकरणद्वारा मनुष्याधिकारत्वादिति स्वाभिप्रायमेव विवरीतुं शिष्यहितैषिणा इदमधिकरणं प्रणीतमिति । ननु "हृद्यपेक्षया त्रिवर्णाधिकारत्वात्’ इत्येव किं नोक्तं, तथा सति शिष्यस्य शूद्राधिकारभ्रमाभावेन तत्परिहाराय स्वाभिप्रायाविष्करणार्थमस्याधिकरणस्याकर्तव्यत्वेन लाघवादिति चेत्, न "त्रिवर्णाधिकारत्वात्’ इत्युक्तेऽपि शूद्रस्यापि पौत्रायणस्य वैदिकसंसर्गविद्याऽध्ययनदर्शनात्, "त्रिवर्णाधिकार’ इत्यनुपपन्नमित्याशङ्कानिवृत्तयेऽस्याधिकरणस्यावश्यकत्वेन लाघवाभावात् । विशिष्टबुद्धिमत्त्वस्यैवाऽधिकारप्रयोजकत्वेन तस्य च "मनोर्जातावञ्यतौ षुक् च’ इति अवबोधार्थकमनुधातुप्रकृतिकमनुशब्दनिष्पन्नमनुष्यपदेन सूचनसम्भवेन मनुष्याधिकारत्वादित्येव वक्तव्यत्वाच्च । द्विजातिभ्यो विशेषाभावादिति ॥ नन्वत्र शूद्रेभ्यो द्विजातीनां विशेषाभावादिति वा द्विजातिभ्यः शूद्राणां साम्यादिति वा वक्तव्यं, न तु शूद्रस्य द्विजातिभ्यो विशेषाभावा-दिति। यदा मनुष्यत्वमात्रं द्विजातीनामधिकारापादकम्, सुतरां तेभ्योऽतिशयितमनुष्यत्व-मधिकारापादकमिति अधिकारविरोधित्वाभावेन तन्निषेधस्य व्यर्थत्वादिति चेत्, मैवम् । भावा-नवबोधात् । न ह्यत्र शूद्रस्य मनुष्यत्वे विशेषो निषिध्यते । येनोक्तदोषः स्यात् । किं तर्हि द्विजातिभ्यः साम्यमेवोच्यते । इयमत्र योजना । शूद्रस्य मनुष्यत्वे प्राप्तव्ये द्विजातिभ्यो विशेषाभावात्, यथा द्विजातीनां स्वभावत एव मनुष्यत्वं, तथा शूद्रस्यापि इति यावत् ।
इदमुक्तं भवति । भवेत् शूद्राणामनधिकारः, यदि अधिकारप्रयोजकं मनुष्यत्वं द्विजातीनां स्वाभाविकम् । विश्वामित्रस्य ब्राह्मण्यमिव शूद्रस्यास्वाभाविकं भवेत् । न चैवं, किंनामो-भयोरपि स्वाभाविकम् । ततश्च शूद्रस्याधिकारोऽवर्जनीय इति ॥ विशिष्टबुध्द्यादिमत्त्वेऽ-पीति॥ यावता प्रयत्नेन द्विजातीनां विशिष्टबुध्द्यादिमत्त्वं तावतैव शूद्रस्यापीति साम्यमिति भावः । "मनुष्याधिकारादित्युक्तेऽविशेषात्’ इति भाष्यं व्याचष्टे इत्युक्त इतीति ॥ हार इत्वेति पदद्वयमभिप्रेत्य हार इत्येतद्य्वाचष्टे हारो रथश्चेति ॥ हार इत्वेति पदद्वयाभिधान-मयुक्तं, हारेत्वेति सन्ध्यभावप्रसङ्गात् इत्यत आह हारेत्वेति । सेदुराजेत्यादिवदिति ॥ विसर्गलोपेन विसर्गस्य मूलप्रकृतिसुलोपेन, सेदुराजेत्यादिवत् हारेत्विति संहिता सिद्धि-र्भवतीत्यर्थः । "सोचि लोपे चेत्पादपूरण’ इति सूत्रे अपादपूरणेऽपि छान्दसहारशब्दस्य सुलोपो भवतीति वक्तव्यमिति भावः । एतेन सेदुराजेत्यत्र विसर्गलोपाभावात् विसर्गलोपेनेत्ययुक्तमिति परास्तम् । यद्वा हारेत्वेत्येकं पदम् । द्विवचनस्य "सुपां सुलुक्’ इति एदादेश इति भावेनाह हारेत्वानाविति वेति ॥ तथा सति अस्त्विति एकवचनांतेनाऽन्वयाऽनुपपत्तिरित्यत आह तथात्व इति ॥ तथात्वेऽपि एकपदत्वेऽपि बुध्द्या विवेकेन पृथगन्वय इत्यर्थः । ननु पूर्वसूत्रे हंसस्याप्रकृतत्वात् तदनादरश्रवणादिति तच्छब्देन हंसपरामर्शो न युक्त इत्यत आह तदिति॥ श्रुत्युक्तपरामर्शेति ॥ परबुद्धेरप्रत्यक्षत्वादिति॥
यद्यपि सुखदुःखादीनां ज्ञातैकसत्त्वात् तदनुभव एवास्ति, तथापि तस्य परकीयत्वात् अस्मदादीन् प्रति अप्रत्यक्षत्वम् अर्थाऽसाधकत्वमित्यर्थः । एतेन दुःखस्य अप्रामाणिकत्व-व्युत्पादनाय दुःखस्य अप्रत्यक्षत्वादिति वक्तव्ये बुद्धेरप्रत्यक्षत्वादिति परास्तम् । अस्तु तर्हि अनुमानं शोकोत्पत्तिज्ञापकमित्यत आह कारणस्य चेति ॥ शब्दाधिक्येऽर्थाधिक्यमिति न्यायात्, श्रुतौ शूद्र इति दीर्घोच्चारणस्य प्रयोजनम् आङा उक्तमित्याह दीर्घस्वरार्थत्वेन आद्रवणादित्युक्तमिति ॥ नन्वत्र गकारलोपो न सम्भवति । विधायकाभावादित्यत आह शूद्र इति ॥ "रुजं द्रावयते यस्मात्’ इति स्मृतौ रुग्द्र इति वक्तव्ये रुद्र इति यथा, तथैवेत्यर्थः ।
वाक्यार्थमुक्तावली
वेदोक्तेति । अत्र विद्यापदेन ज्ञानविवक्षायां वेदोक्तेति तदुत्पादितेत्यर्थ । मध्वादि-विद्याविवक्षायां तदुदितेत्यर्थ । श्रुत्यादीति विशिष्टबुध्यादिमत्वेन देवानामधिकारश्चेत्तर्हि तेनैव न्यायेन शूद्राणामपि स्यादिति पूर्वपक्षोत्थानादनन्तरसङ्गति । शूद्रस्याप्यधिकारशब्द त्रैवर्णिकशूद्रस्यापीति समुच्चायक । अनौचित्यद्योतकश्च । अत एव श्रुत्यादिविरोधादित्युक्तम् ॥ न चोक्ते विरोधाभावादिति ॥ मनुष्याणामधिकारदित्युक्तम् । न तु सर्वेषां मनुष्याणामिति। तथा च शूद्राधिकारस्य श्रुत्यादिविरुद्धत्वेऽपि मनुष्याणामधिकारोक्त्या एवंविधप्रमाणाभावाद-सङ्गतिरिति न वाच्यमित्यर्थ ॥ स्वन्यायेनेति ॥ मनुष्यसामान्येन अधिकरणस्य श्रवणे त्रपुजतृभ्याम् शूद्राधिकारनिषेधकश्रुत्यादिना साक्षाद्विरोधाभावेऽपि न्यायसाम्येन विरोधप्राप्ते-रित्यर्थ विशिष्टबुध्यादिलक्षणाधिकारप्रयोजनवत्सु शूद्रेष्वधिकारं निषेधन्ती श्रुति मनुष्य-मात्रेऽपि तन्निषेधत्येव । अधिकारप्रयोजनत्वेनाभिमतस्य शूद्रेऽप्यधिकाराभावप्रतिपदानेनान्वय-व्यभिचारप्रतिपादनेनान्वयव्यभिचारप्रदर्शनेन विशिष्टबुध्यादिमत्वस्याधिकारप्रयोजकत्वस्य सिद्ध्या तद्वत्वेऽपि कस्यापि मनुष्यस्य नाधिकार इति प्राप्तेरिति भाव । तथाप्युक्ते साक्षा-च्छ्रुत्यादिविरोधाभावादसङ्गतिरित्यत आह ॥ स एवेति ॥ उक्ते साक्षाच्छ्रुतिविरोध एव विरोध इति न नियम । किन्तु उक्तं श्रुत्यनुग्रहीतेन प्रमाणेन बाधितमिति यत्स एवेत्यर्थ ।
भावबोधे तु स्वन्यायेनेत्यस्य मनुष्यत्वाङ्गुष्ठवत्वन्यायेन प्राप्तस्य शूद्राधिकारस्य श्रुत्यादि-विरोधप्राप्तेरित्यर्थ । न्यायप्राप्ते श्रुत्यादिविरोधेत्युक्ते विरोधाभावशङ्का न परिहृतेत्यत आह ॥ स एवेति ॥ उक्तमनुष्यत्वाङ्गुष्ठवत्वादे अधिकारोपयोगित्वं श्रुत्यादिबाधितं श्रुत्यादिविरुद्धाधि-कारे शूद्रादौ विद्यमानत्वादिति भाव । चन्द्रिकायान्तु शूद्राधिकारे पूर्वपक्षिणा चोदिते उक्ते मनुष्याधिकारविरोधो न । शूद्रस्यापि मनुष्यत्वात् । तथा तदाक्षेपासम्भवात् विपुलं विचार इति न वाच्यम् । शूद्रस्याधिकारे अह हारे त्वा शूद्रेत्यादिसत्ववदनाधिकारेऽपि तद्भावेन पूर्व-पक्ष्युक्तन्यायेन शूद्राधिकारस्य श्रुत्यादिविरोधे सामान्योक्ते शूद्रेतरपरतया न विरोध इति साफल्यमिति नासङ्गतिरिति व्याख्यातम् । शूद्रस्य वेदाधिकारोऽस्ति न वेति चिन्ता तदर्थं संसर्गविद्याधिकारिणि पौत्रायणे श्रुत शूद्रशब्दो रूढ उत यौगिक इति । तदर्थं रूढिबाधक-तयोक्तं रथित्विलङ्गं शूद्रे सावकाशं न वेति । रथित्वव्यापकतयोक्तवेदाध्ययनप्रयोजकोप-नयनादिसंस्कार शूद्रस्य युक्त यत तदभावाभिलापादयुक्त इति । तदर्थं न संस्कार शूद्रस्येति श्रौत तदभावाभिलाप संस्कारयोग्यत्वेऽप्यभावोक्तिमात्र उत नैतदब्राह्मणो विवक्तुमर्हतीति श्रुत्युक्तदिशा सत्यकामस्य ब्राह्मणशब्दित वेदाधिकारे त्रैवर्णिकेतरत्वाभावनिश्चयानन्तर-मेवोपनार्यगौतम प्रवृत्युक्त्यावगमात् । संस्कारयोग्यतानिमित्त इति तदर्थ ब्राह्मण शब्दित वेदाध्ययनयोग्यता किं विशिष्टबुध्यादिमत्वमात्ररूपोत विशिष्टबुध्यादिमतामपि शूद्रादीनां वेदाधिकारनिषेधेनानिषिध्यत्वे सति विशिष्टबुद्धादिमत्वरूपेति शूद्रस्य वेदविचारेति सामग्रीसत्वे कार्याभावस्यायोगात् । प्रतिबन्धदर्शनादधिकाराभावनिश्चय इति भाव । पौत्रायणोक्तेरित्यस्य शूद्रेणापि पौत्रायणेन च संवर्गविद्योक्तेरध्ययनादित्यर्थमभिप्रेत्यावतार्य व्याचष्टे ॥ न चेत्या-दिना॥ पौत्रायणं प्रति शूद्रेति सम्बोधनोक्तिरित्यभिप्रेत्यावतार्य व्याचष्टे ॥ तस्य शूद्रत्व-मेवेत्यादिना ॥ पौत्रायणं प्रति रैक्वेण विद्योक्तेरित्यर्थान्तरं वक्तुमाह ॥ न चाधिकारेति ॥ गवाद्याशयेति ॥ अत एव तवैव सह गोभिरस्त्वित्यधिकांश पठितो ज्ञेय ॥ अत इति ॥ मनुष्यत्वादिविशिष्टबुध्यादिमत्वाच्चेत्युक्तयुक्त्या मुनेरन्यायप्रवृत्तिविरहिणोऽपि शूद्रं पौत्रायणं प्रति वैदिकसंसर्गविद्योपदेशिलङ्गदशनेन चेत्यर्थ । उक्त इति भाष्यस्योक्तत्वादिति स्वकृतं व्याख्यानमुपपादयति ॥ सप्तमीति ॥ अस्त्वित्येकवचनान्वयसिद्धये हारो रथश्चेति पृथगन्वय कृत । तर्हि हार इति स्यान्न तु हारेत्वेति गुण इत्यत आह ॥ हारेत्वेतीति ॥ यथा स ईत् राजेत्यत्र विसर्गलोपेन सेदिति गुण तथा हारेत्वेत्यत्रापि गुण इत्यर्थ ।
यद्वा हारेत्वेत्येकं पदं व्यत्ययेन द्विवचनस्येकवचनमिति भावेनाह ॥ हारेत्वानाविति वेति॥ तर्ह्यस्त्वित्येकवचनानन्वय इत्यत आह ॥ तथात्व इति ॥ द्विवचनत्वपक्षे बुध्या विवेकेन हारो रथश्चास्त्विति पृथगन्वय इत्यर्थ ॥ यदुक्तमिति ॥ युक्ते प्रथममुपन्यस्तत्वेऽपि तदुपोद्बलकिलङ्गादर्शनस्य निरासरूपेण बहुवक्तव्यत्वाद्वक्षमाणरीत्या मुक्तेरेतच्छेषत्वाच्चेति ज्ञेयम् ॥ सूत्रांशमिति ॥ अत एव च नित्यत्वमित्यत एवेत्यनुवर्तते । अर्थात् शूद्रेति सम्बोधित इत्यन्वेति ॥ अस्येत्ययमिति ॥ विपरिणम्यते तदिति प्रकृतशुक्पर तथाचायं शुचाद्रवणात् प्रवृत्तिनिमित्तादेव शूद्रेति सम्बोधितो न तु रूढ्या वर्णावरत्वाभिप्रायेणेति भावेन तदा द्रवणा-दिति सूत्रांशं व्याचष्टे इत्यर्थ । शुगस्य तदनादरश्रवणादिति सूत्रांशमिति भाष्ये श्रुतीत्य-ध्याहारेण श्रुत्यादिसूत्रांशव्याख्यानं बोध्यम् । हो हो अयि भल्लाक्ष भल्लाक्ष जानश्रुते पौत्रायणस्य समं दिवा ज्योतिराततम् । तन्मा प्रसाक्षी तत्वा मा प्रधासीरित्येकेन हंसेनोक्ते अन्यो हंस प्रतिवक्ति कं वर इति तदर्थमाह ॥ अरे हंसेति ॥ सूत्रे तदनादरेत्यत्र मध्यम-पदलोपी समास । तस्यानादरेति षष्ठ्या क्रियाकर्तृभावसम्बन्धं वा सूचितमाह ॥ हंस-कृतेति। श्रुत्युक्तेति व्याख्येयतया बुद्धिस्थश्रुतिगतहंसपरामर्श इत्यर्थ । कारणस्य चेति कारणैकदेशस्य वा समग्रस्यापि प्रतिबन्धाद्वेति भाव ॥ इत्युक्ततद्य्वग्रतयेति ॥ इति सूचित-राजचित्तक्षोभेनेत्यर्थ । हि शब्दार्थं वदन् समग्रसूत्रार्थमाह ॥ अत इत्यादिना ॥ हि यतो यस्य शुक् सूच्यते । ज्ञाप्यते शोकस्य प्रामाणिकत्वात् हंसकृत अनादरश्रवणात् कारणादस्य पौत्रायणस्य शुगासीत्तया चाद्रवणादेव प्रवृत्तिनिमित्तादयं शूद्रेति सम्बोधितो न तु रूढ्येति सूत्रार्थ इति भाव । मुनेरिति व्यग्रवचनस्य तेनाश्रुतत्वादिति भाव । स्मृतौ शोकादित्यस्य शोकेनाद्रवणादित्यर्थ ।
ननु सूत्रे तद्रवणादित्येव पूर्तौ तदाद्रवणादित्येव आप्रयोग किमर्थ इत्यत आह ॥ दीर्घस्वरार्थत्वेनेति ॥ शुगुपपदाद्धृगताविति धातो "उ’ प्रत्यये "ग’कारस्य "द’कारे श्रुतौ शूद्रेति वक्तव्ये दीर्घो य स्वर "ऊ’काररूपो वर्ण तस्य योऽर्थ आधिक्ये अधिकमिति शोकाधिक्यरूपो अर्थ । तदर्थत्वेन तद्य्वक्त्यर्थत्वेनाद्रवणादित्युक्तमित्यर्थ । शीघ्रगमनस्य शोकाधिक्यनिमित्तकत्वादिति भाव।
ननु श्रुतौ शूद्र इति शुगुपपदादृगताविति धातो निष्पन्नत्वेन शुक्द्र इति भाव्यं इत्यत आह ॥ शूक्द्र एवेति ॥ यथा रुक्द्रावणकर्तृत्वेन रुक्द्र इति भाव्येऽपि "ग’कारस्य "द’कारेण रुद्र इति निष्पन्नमेवं प्रकृतेऽपीत्यर्थ ।
तत्त्वसुबोधिनी
वेदोक्तेति ॥ शूद्राणामपि तन्त्रोक्तब्रह्मविद्यायामधिकारात् वेदोक्तेत्युक्तम् । अत्र पूर्वाधिकरणसिद्धान्तरीत्या पूर्वपक्षोत्थानादनन्तरसङ्गति ॥ न चोक्ते विरोधाभावादसङ्गतिरिति ॥ शूद्राणां वेदविद्याधिकारेऽपि श्रुत्यादिविरोधेऽपि मनुष्यादिकारत्वादित्यनेनोक्ते मनुष्याधिकारे श्रुत्यादिविरोधो नास्ति । त्रिवर्णमनुष्याणां वेदविद्याधिकारस्य श्रुतत्वात् । तथा च यत्र श्रुत्यादिविरोध शूद्रादिवेदविद्याधिकारे न स पूर्वाधिकरणे उक्त यस्तत्रोक्तो मनुष्याणा-मधिकारो न तत्र श्रुत्यादिविरोध इति न पूर्वाधिकरणेन अस्य सङ्गतिरिति न वाच्यमित्यर्थ ॥स्वन्यायेन श्रुत्यादिविरोधप्राप्तेरिति ॥ वेदविद्यासु मनुष्याणामधिकृतत्वात् तेषां चाङ्गुष्ठ-सद्भावाच्च युक्तं तान्प्रति विष्णोरङ्गुष्ठमात्रत्वाभिधानमित्याद्युक्तन्यायेन शूद्राणां मनुष्यत्वादङ्गुष्ठ-मात्रत्वाच्च प्राप्ते वेदविद्याधिकारे श्रुत्यादिविरोधप्राप्तेरित्यर्थ । ननु न्यायप्राप्ते श्रुत्यादिविरोधेऽपि उक्ते विरोधाभावशङ्का न परिहृतेत्यत आह ॥ स एव हीति ॥ उक्तं मनुष्यत्वादेरधि-कारोपयोगित्वं श्रुत्यादिबाधितं श्रुत्यादिविरुद्धाधिकारे शूद्रादौ विद्यमानत्वादिति भाव । पूर्व-मविशेषादित्येतन्मनुष्यत्वे विशेषाभावादिति व्याख्याय शङ्कान्तरपरिहारकत्वेन प्रकारान्तरेण व्याचष्टे ॥ विशिष्टेति ॥ शुद्धस्यापि विशिष्टबुद्ध्यादिमत्वेन विशेषाभावादिति भाव । पौत्रायणं प्रतीति अहहारेत्वेति वचनस्य पौत्रायणवक्तृत्वाभावेन पौत्रायणस्योक्तेरिति षष्ठी-तत्पुरुषासम्भवादिति भाव । अनधिकारिणं प्रतीति ॥ अनेन पौत्रायणोक्तेरित्यस्य पौत्रायणं प्रति रैक्वस्य उपदेशादित्यपि व्याख्यानं सूचितं भवति ।
ननु गवाद्याशया मुनिना उपदेश कृत किं न स्यादित्यत आह ॥ न हीति ॥ युक्त्या लिङ्गदशनेन चेति ॥ युक्ति मनुष्यत्वादिरूपा लिङ्गन्तु पौत्रायणस्य शूद्रेति सम्बोधितस्य वैदिकसंसर्गविद्याविचाररूपम् । मनुष्याधिकारत्वादित्युक्ते इति भाष्यस्य मनुष्याधिकारस्य उक्तत्वादिति स्वकृतं व्याख्यानमुपपादयति ॥ उक्त इति ॥ सप्तमी पञ्चम्यर्थ इति ॥ सेदुराजेत्यादिवदिति ॥ यथा सेदित्यत्र छान्दसेन विसर्गलोपेन सेदितिगुण तथा हार इत्वेत्यत्रापि हारेत्वेति गुण इत्यर्थ । यद्वा हारेत्वेत्येकं पदम् । व्यत्ययेन द्विवचनस्यैक-वचनमित्याह ॥ हारेत्वानाविति ॥ त्वाशुचाद्रवणादेवेति ॥ अनेन सूत्रे तदनादरेत्यत्र मध्यमपदलोपी समास इत्युक्तं भवति । ननु तदनादरेत्यत्र तच्छब्देन कस्य परामर्श इत्यत आह ॥ तदिति श्रुत्युक्तेति ॥ श्रुत्युक्तहंसेत्यर्थ । नन्वयं शोकेनागत इति मुनिना कथं ज्ञायते इत्यत आह ॥ शोकेनेति ॥ स्मृतौ शोकादित्यस्य शोकेनाद्रवणादित्यर्थ । ननु सूत्रे आद्रवणादिति किमर्थमुक्तं द्रवणादित्येव किं नोक्तम् इत्यत आह ॥ दीर्घस्वरार्थत्वेनाद्रवणा-दित्युक्तमिति । "संहितायां च यत्र दैर्ध्यं पदे यत्र न विद्यते । उक्तार्थस्य महाधिक्यं श्रुतेस्तत्र विवक्षितम्’ इत्यादिवचनै श्रुतौ शूद्र इति दीर्घस्वर शोकाधिक्यज्ञापनार्थमिति सूचयितुं सूत्रे आद्रवणादित्युक्तमित्यर्थ । शीघ्रागमनस्य शोकाधिक्यनिमित्तकत्वादिति भाव । ननु शुग्द्र इति भवेत् शूद्र इति कथमित्यत आह शुग्द्र एवेति ॥ रुजं द्रावयत इत्यादि स्मृतेरुक् द्रावणकर्तृत्वेन रुग्द्र इति भवितव्ये रुद्र इति यथा तथैवेत्यर्थ ।
वाक्यार्थमञ्जरी
इत्युक्तहृद्यपेक्षयेत्यत्र ॥ श्रुत्यादिति ॥ श्रवणे त्रपुजतुभ्यामित्यादि वक्ष्यमाणश्रुत्या-दीत्यर्थ॥ न चोक्तेति शूद्रस्यानधिकारेऽपि उक्तेऽधिकारे विरोधो नास्ति शूद्रस्यापि मनुष्यत्वात्तथाचोक्तानाक्षेपादफलोऽयं विचार इति न वाच्यमित्यर्थ ॥ स्वन्यायेनेति ॥ मनुष्यत्वविशिष्टबुध्यादिमत्वरूपपूर्वोक्तसूत्रकारीयन्यायेन शूद्रस्याप्यधिकारप्राप्तौ वक्ष्यमाणश्रुति-स्मृतियुक्तिविरोध प्राप्तेरित्यर्थ । शूद्रस्यानधिकारोक्तौ प्राक्तनसामान्योक्ति शूद्रेतरमनुष्यपरा स्यादिति भाव । अदर्शनं शूद्राणां वेदविचारस्य ॥ पौत्रायणस्येति ॥ पुत्रायणस्य गोत्रापत्यं पौत्रायणस्तस्य जानश्रुतिनामकराज्ञ इत्यर्थ ॥ संवर्गविद्येति ॥ संवृक्तेसंहरत्यग्न्यादिदेवानिति संवर्गो वायुस्तद्विद्यामित्यर्थ ॥ दर्शनादिति ॥ वायुर्वाव संवर्गो यदा वाग्न्रिुद्वापयति वायुमेवाप्येतीत्यादिनेति शेष ।
अत्रेदं बोध्यम् अत्युच्चप्रासादस्थे बहुदीपप्रभावति भवने निशायां पौत्रायणे शयाने सति तदानीमेव देवहंसा अन्तरिक्षमार्गेण तद्भवनोर्ध्वप्रदेशमाजग्मु । तत्रैको हंस पुरो गत तं प्रति पश्चात्तनहंस उवाच । परमधार्मिकस्य पौत्रायणस्य प्रदीपज्योतिरतिक्रम्यगमनेन सत्वां दहेदिति । ततस्तं प्रत्यग्रगामी हंस उवाच । किमुच्यते तस्य राज्ञो माहात्म्यमेतदपेक्षयोत्तमरैक्वमुने सद्भावात् । अत एवं वक्तुं अयोग्य इति ततस्तद्धंसकृतानादरश्रवणेन परितप्तमना पौत्रायण प्रातस्तल्पादुत्थित एव सारथिमुखेन रैक्वस्थानं निश्चिततत्वबुभुत्सुर्गवादिगुरुदक्षिणां गृहीत्वा शकटाधोभागनिवासिरैक्वसमीपमुपेत्य तं सम्बोध्य दक्षिणां निवेद्य मह्यं विद्यां देहीत्युवाच । ततो रैक्वो मम विरक्तस्य न गवादिना कृत्यं मम शुश्रूषणाय ब्रह्मचार्येवापेक्षित । कोपेनेदं गवादिकं तवैवास्त्वित्युवाच । ततो राजा तदपेक्षितं परिचारकं कल्पयित्वा रैक्वाद्वायुविद्यामवापेति । अनधिकाराज्ञानपरिहाराय मुनेरित्युक्तम् । गोधनाद्याशयोपदेशोऽस्त्वित्यत आह ॥ न हीति ॥ युक्त्या लिङ्गदशनेन चेति ॥ युक्तिर्मनुष्यत्वादिरूपा लिङ्गं पौत्रायणस्य शूद्रेतिसम्बोधितस्य वैदिकं संवर्गविद्याविचाररूपं मनुष्याधिकारित्वादित्युक्त इति भाष्यस्य मनुष्याणामधिकार-स्योक्तत्वादिति । स्वकृतव्याख्यानमुपपादयति ॥ उक्तेति ॥ सप्तमीपञ्चम्यर्थ इति ॥ मनुष्यत्वेऽपीत्यादिव्याख्यानं चोपपादयति ॥ अधिकारोपयोगितयेति ॥ श्रुतिं व्याचष्टे ॥ अहेतीति ॥ अयमर्थ तं पौत्रायणं प्रति परो लोकविलक्षण परमविरक्त इति यावत् । मुनि प्रत्युवाच किमिति अह शूद्र शोकेनाद्रवणवन्पौत्रायण हार मुक्ताहार इत्वा रथश्च गोभि सह तवैवास्त्विति ॥ हेत्याश्चर्य इति ॥ ननु हार इत्वेत्यत्र विसर्गलोपे आद्गुण इति गुणे च हारेत्वेति भवति न चैतद्युक्तम् । "वा शरि’ "शर्परे वा’ विसर्गलोप इति शरिपरतसत्येव विसर्गलोपाभिधानेन प्रकृतेशर्परत्वाभावादित्यत आह ॥ हारेत्विति ॥ सेदुराजेत्यादिवदिति ॥ यथा स इत्यत्र शर्परत्वाभावेऽपि छान्दसेन विसर्गलोपेन सेदिति गुणस्तथा हार इत्वेत्यत्र हारेत्वेति गुण इत्यर्थ । हारत्वेत्येकं पदमित्याशयेनाह ॥ हारेत्वानाविति ॥ व्यत्ययेन द्विवचनस्यैकवचनमिति भाव । तर्ह्यस्त्वित्येकवचनस्य कथमन्वय इत्यत आह ॥ तथात्व इति॥ द्वितीयव्याख्याने बुद्ध्या विविक्तयोर्द्वयो प्रत्येकमस्त्वित्यनेनान्वय इत्यर्थ ॥ ॐ शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि ॐ ॥ अत्रत्यतच्छब्दौ क्रमात् श्रुतिसूत्रस्थ हंसशुकपरामर्शकौ श्रुतौ पौत्रायणस्तया शुचा द्रवणान्निमित्तादेव मुनिना शूद्रेत्युक्तो न तु रूढ्या अतो न शूद्रस्याधिकार इदं लिङ्गमित्यर्थ । शोके किं निमित्तमित्यत उक्तं शुगस्य तदनादरश्रवणादिति ॥ कम्वर एनमित्यादिना हंसकृतानादरश्रवणात्कारणादस्य पौत्रायणस्य शुगित्यर्थ । कथं ज्ञायते शुगस्य ज्ञातेत्यत उक्तम् ॥ सूच्यते हीति ॥ हि यस्मात्सह संजिहान एव क्षत्तारमुवाचेति व्यग्रत्वोक्त्या सूच्यतेऽत शुगस्य ज्ञायत इत्यर्थ ॥ शूद्रशब्दप्रवृत्तीति ॥ पौत्रायण इति शेष अनेन सम्बोधनेन ॥ अरे हंसेति ॥
अयमर्थ ततस्तं पश्चात्तनं प्रति अग्रगामी हंस उवाच किमिति अरे हंस सन्तं निर्दुष्टं सयुग्वानं सशकटं शकटाधोभागे विद्यमानमिति यावत् । रैक्वं प्रतीव कमेनमुद्दिश्यैतद्वचनमात्थ वदसीति । अननुरूपमस्मिन्नुक्तम् । एवं वक्तुं रैक्व एव योग्य इति हंसस्य भाव । श्रुत्युक्तेति ॥ श्रुत्युक्तहंसेत्यर्थ । तेन नाप्रसक्तपरामर्शदोष इति भाव । ज्ञायते भवतां परबुद्धे परकाय-शोकानुभवस्यानादरश्रवणरूपकारणेन नानुमीयत इत्यत आह ॥ कारणस्य त्वेति ॥ अविना-भावो व्याप्ति । शयनीयात्तल्पात् क्षत्तारं सारथिम् ॥ व्यग्रतयेति ॥ यथोक्तं तत सारथिमाहूय भूपालो विस्मयाश्रय । सन्दिदेश महात्मा स रैक्व आनीयतामिति । तदुक्तं छान्दोग्यभाष्ये । शोकात् शोकेनाद्रवणात् अत शोकमात्रस्य शूद्रशब्दप्रवृत्तिनिमित्तत्वाभावात्कथमेतदिति न शङ्क्यम् । यद्वा शोकेनातति गच्छतीति शोकात् अतसातत्यगमन इति धातो । हेतुगर्भमेतत् अस्मान्मुने धारकत्वाद्धर्मो भगवान् ॥ दीर्घस्वरार्थत्वेनेति ॥ संहितायां यत्र दैर्ध्यं पदे यत्र न विद्यते । उक्तार्थस्य महाधिक्यं श्रुतेस्तत्र विवक्षितम् इत्यादिवचनात् श्रुतौ शूद्र इत्यत्र यो दीर्घस्वर ऊकाररूपो वर्ण स शोकाधिक्यज्ञापनार्थ इति सूचयितुं सूत्रे आद्रवणादित्युक्तम् । शीघ्रगमनस्य शोकाधिक्यनिमित्तकत्वादित्यर्थ ।
ननु शुगुपपदात् द्रु द्रावण इति धातोर्डप्रत्यये शुग्द्र इति भवेत्कथं शूद्र इति तत्राह ॥ शुग्द्र एवेति ॥ रुजं द्रावयते यस्माद्रुद्रस्तस्माज्जनार्दन इत्यादिस्मृत्या रुज्द्रावणकर्तृत्वेन रुग्द्र इति भवितव्ये गकारलोपे रुद्र इति यथा तथैवेत्यर्थ ।