ॐ तदभिध्यानादेव तु तल्लिङ्गात्सः ॐ

७. अथ तदभिध्यानाधिकरणम्

सूत्रभाष्यम्

प्राणानां ग्रन्थिरसि रुद्रो मा विशान्तकस्तेनान्नेनाप्यायस्व’ (म.ना.उ. १६-२) इत्यादिनाऽन्यः संहर्ता प्रतीयत इत्यतो ब्रूते–

।। ॐ तदभिध्यानादेव तु तल्लिङ्गात्सः ॐ ।। १३ ।।

तस्याभिध्यानाद्योजनात्तत्त्वभावाद्भूयश्चान्ते विश्वमायानिवृत्तिः’ (श्वे.उ. ११०) इति बन्धलयस्य तदभिध्याननिमित्तत्वलिङ्गात्तत्कर्तृत्वं प्रतीयते, किमु सादेर्जगतः । इत्येतस्मादेव सर्वसंहारकर्ता विष्णुरिति प्रतीयते, किमु ‘यमप्येति भुवनं साम्पराये स नो हरिर्घृतमिहायुषेऽत्तु देवः’ । ‘य इदं सर्वं विलापयति स हरिः परः परमात्मा’ इत्यादि श्रुतिभ्य इति एवशब्दः ।

स्रष्टा पाता च संहर्ता स एको हरिरीश्वरः ।

 स्रष्टृत्वादिकमन्येषां दारुयोषावदुच्यते ।।

 एकदेशक्रिया चात्र न तु सर्वात्मनेरितम् ।

 सृष्ट्यादिकं समस्तं तु विष्णोरेव पराद्भवेत्’ ।। इति च स्कान्दे ।

निमित्तमात्रमीशस्य विश्वसर्गनिरोधयोः ।

 हिरण्यगर्भश्शर्वश्च कालाख्यारूपिणस्तव’ ।। इति च भागवते ।

स ब्रह्मणा विसृजति स रुद्रेण विलापयति सोऽनुत्पत्तिरलय एक एव हरिः परः परानन्द’ इति च महोपनिषदि ।। इति तदभिध्यानाधिकरणम् ।।

तत्त्वप्रदीपिका

न च स्वयमुत्पाद्य पालयितुर्विष्णोः जगत्संहरणं न्याय्यमिति युक्तेश्श्रुतेश्च विष्णोरन्यो जगत्संहर्तेत्यत आह– तदभिध्यानादेव तु तल्लिङ्गात्सः ।। तस्य विष्णोरभिध्यानाद्विश्व-मायानिवृत्तिः । कुतो जातात् ? योजनात् तस्मिन्नेव मनोयोजनात्, भूयो भूयस्तत्त्वभावनया च । अन्तेऽपरोक्षज्ञाने जाते विश्वबन्धकमायानिवृत्तिद्वारको मोक्षो भवतीत्यर्थः ।

स्वगुणाच्छादिका त्वेका परमाच्छादिकाऽपरा ।

स्वगुणाच्छादिकां हत्वा परमाच्छादिकां परः ।

 व्याघुट्य मोक्षपदवीं ददाति पुरुषोत्तम’ ।। इति महातत्वविवेके ।

अस्मिन् श्रुतिवाक्ये हरेरभिध्यानान्मुख्यप्रसादादिच्छया बन्धकमायानिवृत्तिवचनात्तस्मा-द्बन्धलयस्सिद्धः । ज्ञानसम्पत्त्या प्रसादस्तूत्तमो मतः । उत्तमस्त्वेव मुक्तिद इत्याधस्तात्प्रास्तौत् । पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययाविति ह्युपरि च सूत्रम् । यद्यपि तत्र स्वप्नतिरोधान-मिच्छामात्रकृतं न च मुख्यप्रसादायत्तम् । तथाऽपि तस्यास्तं तं प्रति तदा तदेति विशेषभावा-त्सविशेषेच्छासूचकस्याभिध्यानपदस्यार्थवत्त्वमेव । यद्यपि नेदमभिध्यानपदस्य कृत्यं तत्र भगवान्निगदिष्यति । स्वयमेव खल्वब्रवीत्सविशेषेच्छां वैशेषिकवादनिरासे स्वत एव काले विभेदाङ्गीकृतेश्चेति । एवं सूत्रपदहृदयं तत्र तत्र भगवानुपक्षिपति । तुशब्दश्च विशेषवाची । तत्र पराभिध्यानस्य तत्तद्विषयभेदे तारतम्यं ब्रुवाणः तनो ह्यस्य बन्धविपर्याविति मोक्षप्रदायकत्वेन परामृश्यमानस्य सतोऽत्यर्थप्रसादात्मकत्वं च सामर्थ्याल्लक्षयति । अत्यर्थप्रसादो हि भगवतो मोक्षदोऽभिप्रेतो न च ज्ञानं विनात्यर्थप्रसाद इत्युक्तवत इत्यलमनेन सूत्रपदकृत्योक्तिसन्देह-निराकरणातिप्रसङ्गेन । प्रकृतमनुसरामः । अनादिबन्धलयकर्तुः सादिजगल्लायकत्वमस्तीति किमु वक्तव्यमित्येतस्माद्बन्धसंहर्तृत्वाल्लिङ्गादेव जगत्संहर्ता विष्णुरिति गम्यते । किमु श्रुत्या बलवत्यैकयाऽपि बहुभ्यस्तु किम्वेवेत्येवं कैमुत्यन्यायावतरणार्थमेवशब्दः प्रयुक्तः । निखिल-निगमतात्पर्यप्रसाधितजगत्कर्तृत्वादिना प्रस्तुतः स इति परामृश्यते । पुनरुक्तिरुभयकारणत्वनिवृत्त्यर्थं चेत्यत्राप्यनुप्रेक्षणीयम् । तदेव चोपसन्दर्शयामास– ‘स्रष्टृत्वादिकमन्येषां दारुयोषावदिष्यत’ इति निमित्तमात्रमित्यादि च । ईशस्य तव विश्वसृष्टिसंहारयोः हिरण्यगर्भः शर्वश्च निमित्तमात्रमित्युक्ते द्वारमात्रमिति भवति । कालाख्यारूपिणस्तवेति हेतुगर्भम् । कालाख्यैव रूपं ‘कालाख्यारूपम्’ । रूपं रूपकं ज्ञापकं, वाचकत्वेन तद्वान् ‘रूपी’ ।

कालः कलितसम्पूर्णसद्गुणत्वाज्जनार्दनः ।

 संहारात्सर्ववित्त्वाद्वा सर्वविद्रावणेन वा’ ।। इति महावराहे ।

एवं बहुलश्रुतिस्मृतियुक्तिबलान्नान्यसंहारश्रुत्या लौकिकन्यायेन वा विरोधः । सा च ब्रह्मवादिनीति ह्यवादि ।

तत्त्वप्रकाशिका

एवमधिभूताधिदैवोत्पत्तिविषयश्रुतिविरोधं पराकृत्यात्र ब्रह्मणि श्रुतिसमन्वयसिद्ध्यर्थं तत्संहारविषय श्रुतिविरोधपरिहारादस्ति शास्त्रादिसङ्गतिः । जगत्सृष्ट्यादिकर्ता हरिरित्यभिहितम् । तत्र संहारकर्तृत्वेऽन्यगते तदभावापातात्तन्निषेध्यमेव । प्रकृताधिभूताधिदैवानि विषयः । उत्पत्ति-मत्त्वाल्लीयन्त इति सिद्धम् । किं भगवता लीयन्ते रुद्रेण वेति सन्देहः । ‘यत्प्रयन्त्यभिसंविशन्ति’ ‘रुद्रो मा विशान्तकः’ इति श्रुतिविरोधः सन्देहबीजम् । पूर्वपक्षयति ।। प्राणानामिति ।। रुद्र एव संहारकः । श्रुतौ तस्यान्तकत्वश्रवणात् । न च वाच्यं रुद्रादिनाम्नां विष्णुपरत्वादियं श्रुतिस्तत्परा किं न स्यात् । रुद्रविषयत्वे वा रुद्रस्य संहारद्वारत्वाभिधात्री किं न स्यादिति । यथाकथञ्चिद्विष्णोः संहर्तृत्वाभ्युपगमे लोकदृष्टिविरोधात् । तस्य जगदुत्पादकत्वात् । लोके च पितुरन्यस्यैव मारकत्वदर्शनात् । न च रुद्रस्य संहर्तृत्वेऽत्यन्तसुप्रसिद्धेऽङ्गीकृते विरोधोऽस्ति । येन श्रुतेरन्यार्थता कल्प्यते । न च श्रुतिविरोधः । तस्या युक्तिसहितैतत् श्रुतिविरोधात् । न च भाक्तार्थत्वेनाविरोधः । युक्तिविरोधानिस्तारात् । अतो रुद्रस्यैव संहर्तृत्वादन्या श्रुतिरप्रमाणमेवेति न विष्णौ श्रुतिसमन्वयो युक्त इति भावः ।

रुद्र त्वं प्राणानामाश्रयोऽन्तकश्चासि । स त्वं मा मां विश । आहुतिरूपेणान्नेन दत्तेन निमित्तेन मामाप्यायस्वेत्यर्थः । सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ।। अत इति ।। विष्णुरेव संहारकर्ता । तस्याभिध्यानादिति श्रुतौ संसारमोक्षो भगवदभिध्यानाद्भवतीति हि श्रूयते । किं चातः तदिच्छाधीनत्वलिङ्गेन तत्कृतोऽनुमीयते । एवं चानादेर्बन्ध(न)स्य लयकर्ता सुतरां सादेर्जगतः संहारकर्तेति सिध्यतीत्यर्थः । भगवति मनोयोजनाद् भूयो भूयो यथार्थध्यानाच्च जाताद्भगवदभिध्यानात् परिपाककाले विश्वबन्धकमायानिवृत्तिर्भवतीत्यर्थः । नन्वस्तु विष्णोरनादि-भवभेत्तुर्विश्वसंहारे सामर्थ्यं संहर्तृत्वं कुत इत्यत आह ।। इत्येतस्मादिति ।। उक्तादेतस्मादेव हेतोः संहारकर्ता विष्णुरिति प्रतीयते । शक्तस्यैव तत्सम्भवात् । अथैतावताप्यपरितोषे सुतरां स्पष्टश्रुतिभ्यो ज्ञायत इत्यर्थः । इत्यर्थमेवशब्दः सूचयतीति शेषः । विष्णोरेव संहर्तृत्वे प्रागुक्तश्रुतिविरोध इत्यत आह ।। स्रष्टेति ।। अत्र परतन्त्रेऽपि । सृष्ट्यादिकमिति पूर्वत्र सम्बध्यते । परतन्त्रसंहर्तृत्वपरा श्रुतिरिति भावः । पारतन्त्र्यं च संहारद्वारत्वमिति भावेनाह ।। निमित्तेति ।। काल इत्याख्यारूपे यस्यासौ तथोक्तः । रूपस्य कालत्वं संहर्तृत्वादिगुणसंपन्नत्वम् । स्मृतेर्मूलभूतां श्रुतिं चाह ।। स इति ।। न चोक्तयुक्तिविरोधः । ममत्वादिदोषराहित्येन लोकपितृवैलक्षण्याद्विष्णोर्लोकविरोधस्यादोषत्वात् । अतः श्रुत्यविरोधेन संहारस्य भगवत्कर्तृत्वसिद्धेर्युक्तस्तस्मिन् श्रुतिसमन्वय इति सिद्धम् ।

गुर्वर्थदीपिका

तत्संहारेत्यत्र तस्मात्परमात्मनो जायमानस्संहारस्तत्संहार इत्यर्थः । न च भाक्तार्थत्वेनेत्यत्र भाक्तत्वं द्वारतया संहर्तृत्वं वैकदेशसंहर्तृत्वं वेत्यर्थः । स एवेति तस्य संहर्तृत्वावधारणादेवकार इत्यादिश्रुतिभ्यः सिद्ध्यतीति किमु वक्तव्यमिति सूचयति । तुशब्देन रागादिदोषभरितलोकपितृतः परमात्मानं विशिनष्टि । ‘तस्याभिध्यानात्’ इति श्रुतावभिध्यानमिच्छा । परिपाककाल इत्यत्र ज्ञानोत्तरकालप्रारब्धकर्मणां भोगपरिपाककाल इत्यर्थः । संहर्तृत्वं कुत इत्यत्र सामर्थ्ये सत्यपि तत्कृतसंहारे प्रमाणाभावेन न तत्कर्तृत्वमङ्गीकर्तुं शक्यम् । ताडनसमर्थेऽपि पुरुषे सर्वदा ताडनकार्यादर्शनादिति भावः ।

भावबोधः

अनन्तरसङ्गतिमाह एवमिति ।। तत्संहारविषयश्रुतिविरोधपरिहारादिति । अधिभूतादि-संहारेत्यर्थः । सृष्ट्यनन्तरत्वेऽपि विष्णोः सर्वस्थितिकर्तृत्वस्य सर्वसंमतत्वेन विवादाभावात् संहर्तृत्वस्यान्यनिष्ठत्वे पितुरन्यस्य मारकत्वरूपयुक्तिवदत्र तादृशपूर्वपक्षयुक्त्यभावाच्च तदविचार्य संहारकर्तृत्वमेव विचार्यत इति भावः । यद्यपि ‘प्रकृतैतावत्त्वम्’ इत्यत्र विष्णोः स्थितिकर्तृत्वं विचार्यम् (ते)पाठान्तरं तथाप्यत्र सर्वसंहर्तृत्वस्य विष्णुनिष्ठत्वे विचारित एव संहारकर्तुः संहारादन्यरक्षाया अयोग इति पूर्वपक्षयुक्तेरुत्थाने संहारकत्वव्यतिरिक्तपालकत्वमेव तत्र समर्थ्यते; न तु पालकत्वस्य अन्यनिष्ठत्वं निवार्यत इति ज्ञातव्यम्– किं भगवतेति ।। अत्र भूतादिकं किं रुद्रेण लीयते, उत विष्णुनेति चिन्ता । तदर्थं ‘यत्प्रयन्ति’ इति श्रुती ‘रुद्रो मा विशान्तक’ इति श्रुतिबाधितत्वेनाप्रमाणमुत प्रमाणमिति । तदर्थं ‘रुद्रो मा विशान्तकः’ इति श्रुतिः किं युक्तत्वेन रुद्रस्य स्वातन्त्र्येण संहर्तृत्वप्रतिपादकतया निरवकाशोत विष्णुकर्तृकसंहारे रुद्रस्य द्वारमात्रपरतया सावकाशेति ।। तदर्थं विष्णुर्न संहर्ता तदुत्पादकत्वाल्लोकपितृवदिति युक्तिः किं व्याप्त्यादिमत्त्वेना-नाभासोत ममतादि दोषयुक्तत्वरूपोपाधिग्रस्तत्वेनाभासेति । समन्वयाध्यायोक्तरीत्या विशिष्य द्युभ्वाद्यधिकरणोक्तरीत्या च रुद्रादिशब्दानां मुख्यार्थत्वाभिप्राये तेनैव गतार्थता । ‘तदधीनत्वा-दर्थवत्’ इत्युक्तन्यायेनामुख्यार्थत्वाभिप्राये ‘तेजोऽतस्तथा ह्याह’ इत्यधिकरणेन गतार्थतेत्याशङ्क्य प्रतिषेधति– न च वाच्यमिति ।। रुद्रादीनां लयकारित्वाङ्गीकारे पितुरन्यस्य मारकत्वदृष्टेर्लोक-दृष्ट्यनुसारित्वमिति गुण इति न्यायविवरणोक्तामभ्यधिकाशङ्काहेतुभूतां युक्तिमाह– यथा कथञ्चिदित्यादिना ।। भाक्तार्थत्वेनेति ।। ‘रुद्रो मा विशान्तक’ इति श्रुतेः विष्ण्वसंहृतपदार्थ-संहर्तृत्वरूपभागविषयत्वेनेत्यर्थः ।। युक्तीति ।। क्वचिदपि विष्णोः संहर्तृत्वाङ्गीकारे पितृत्वरूप-युक्तिविरोधानिस्तारादित्यर्थः । ‘असि’ ‘आविश’ इति मध्यमपुरुषानुरोधादाह– रुद्र त्वम्’ इति ‘मे’त्येतदस्मच्छब्दादेशरूपनिषेधार्थकं च तन्त्रेणोपात्तमिति भावेनाह– मा मां विशेति ।। अन्यथा निषेधार्थकत्वे कर्मानुक्तिरस्मच्छब्दादेशरूपत्वेऽन्तकप्रवेशप्रार्थनानुपपत्तिरिति भावः । यद्वा, श्रुतौ सवर्णदीर्घाङ्गीकारे माम् आविशेति पदाभिप्रायेण मामाविशेत्युक्तम् । अस्मिन् पक्षे प्राणानां ग्रन्थिरसि इति हेतूक्तिस्तेनान्नेति प्रवेशफलोक्तिश्चेति ज्ञेयम् । आप्यायस्वेत्यत्र कर्मानुक्तेरस्म-च्छब्दादेश रूपस्यानुवृत्तिरित्यभिप्रेत्याह– मामाप्यायस्वेति ।। सूत्रेऽवधारणार्थक ‘तु’ शब्दान्वितेन ‘स’ इति तच्छब्देन ‘तेजोऽत इति’ सूत्रस्थातःशब्दोक्तः परमात्मा परामृश्यत इति भावेनाह– विष्णुरेव संहारकर्तेति ।। सूत्रे तदभिध्यानादित्येतद्युक्तिप्रदर्शकं श्रुतिसूचकमपि भवतीति भाष्ये ‘तस्याभिध्यानात्’ इति श्रुत्युदाहरणमित्यभिप्रेत्याह– तस्याभिध्यानादिति ।। श्रुताविति ।। विष्णोर्जगत्संहर्तृत्वे एतच्छ्रुतिप्रतिपादितसंसारमोक्षस्य भगवदिच्छाधीनत्वं कथं हेतुरित्याशङ्का-परिहाराय नायं साक्षाद्धेतुः किं तु हेतुसाधकहेतुरित्याशयेन सूत्रे तल्लिङ्गादित्युक्तम् । तस्य च सूत्रांशस्य तस्माद्बन्धलयस्य भगवदिच्छाधीनत्वल्लिङ्गात् स परमात्मा बन्धलयकर्तृत्वेनानुमीयत इत्यर्थ इत्यभिप्रेत्य प्रवृत्तस्य बन्धलयस्य तदभिध्याननिमित्तत्वलिङ्गात् तत्कर्तृत्वं प्रतीयत इति भाष्याभिप्रायमाह– किं चात इत्यादिना ।। भाष्ये यथाश्रुतहेतुसाध्ययोर्वैयधिकरण्यशङ्का-परिहारायाह– तत्कृत इति ।। संसारान्मोक्ष इत्यनुवर्तते । अनेन भाष्ये कर्तृत्वं नाम कृतिमत्त्वं विवक्षितम् । बन्धलयस्येश्वरेच्छाधीनत्वलिङ्गेन तत्प्रयत्नाधीनत्वानुमानोपपत्तेरित्युक्तं भवति ।

ननु बन्धलयस्य भगवत्कर्तृत्वमपि कथं जगत्संहर्तृत्वहेतुरित्यतः सूत्रार्थलब्धाभिप्रायप्रदर्शनपरं किमु सादेर्जगत इति भाष्यं व्याचष्टे– एवं चानादेरिति ।। तस्याभिध्यानादित्यस्य जीवकर्तृध्यान-परत्वे तत्त्वभावादित्यनेन पुनरुक्तेर्विश्वमायानिवृत्तेः सकृदेव जायमानत्वेन भूयश्चेत्यस्य तत्रान्वयासम्भवाच्च श्रुतिं यथावद् व्याचष्टे– भगवति मनोयोजनादित्यादिना ।। भूयश्चेति चशब्दाद् वीप्सालाभाद् भूयोभूय इत्युक्तम् । तत्त्वभावादित्यस्य यथार्थध्यानाच्चेत्यर्थः । भगवदभिध्यानादिति ।। भगवदिच्छायाः सकाशादित्यर्थः ।। स्पष्टश्रुतिभ्य इति ।। अत्र यमप्येतीति भाष्योदाहृतश्रुतिवत् ‘न विष्णोर्विलयकृन्न विष्णोरन्यो विमुक्तिदः’ इति न्यायविवरणोदाहृतापि श्रुतिर्ग्राह्या । अत एव सामान्येन स्पष्टश्रुतिभ्य इत्युक्तम् । स्मृतौ हरेरपि प्रकृतत्वादत्रेत्यस्य तत्परत्वभ्रमं वारयितुं परतन्त्रेऽपीति व्याख्यानं कृतम् । ईरितमित्यस्य नपुंसकलिङ्गत्वेनैकदेशक्रिया चेत्यस्यानुवृत्त्य-योगादाह– सृष्ट्यादिकमिति ।। पूर्वत्रेति ।। पूर्वत्रापीत्यर्थः । तेन समस्तमित्यस्य न विशेष्या-नुक्तिदोषः ।

नन्वनया स्मृत्या कथं श्रुतिविरोधपरिहार इत्यतस्तद्वाक्यानां सावकाशत्वादिति न्यायविवरणानुसारेण स्मृत्यभिप्रायमाह– परतन्त्रसंहर्तृत्वपरेति ।। रुद्रस्य क्वचित् संहारद्वार-त्वेनैवेति न्यायविवरणानुसारेणोत्तरस्मृतिमवतारयति पारतन्त्र्यं चेति ।। आख्यारूपे यस्यासाविति रूपिण इतीनेरेवार्थ उक्तो न बहुव्रीहिरिति ज्ञातव्यम् । लोकपितृवैलक्षण्याद्विष्णो-र्यथावाक्यमङ्गीकारोपपत्तेरिति न्यायविवरणाभिप्रायमाह– ममत्वादिदोषराहित्येनेति ।। अनेन ममत्वादिदोषयुक्तत्वं साधनधर्मावच्छिन्नसाध्यव्यापकमुपाधिरित्युक्तं भवति ।

भावदीपः

अधिकरणसङ्गतिमाह ।। एवमिति ।। अधिभूताधिदैवेति ।। वियदादिशब्दानां भूततद्देवता-रूपोभयपरत्वादिति भावः । पराकृत्येत्यनन्तरं स्थितौ विवादाभावादित्यपि योज्यम् । चिन्ता-फलमाह ।। जगदिति ।। लयासिद्धौ केनेति विशेषविचारानवकाश इत्यत आह ।। उत्पत्तीति ।। अभिसंविशन्ति मुक्तौ स्वेच्छया प्रविशन्ति । अनादिबन्धलयरूपमुक्तिकर्तृत्वात्संहारकर्तृत्वं विष्णोर्युक्तमिति युक्तिसूचनार्थं सिद्धान्तानुगुणतयाभिसंविशन्तीति शेषोक्तिः । व्युत्क्रमेण भाष्यं व्याचष्टे ।। रुद्र एवेति ।। रुद्रादीनां मारकत्वाङ्गीकारे पितुरन्यस्य मारकत्वदृष्टेर्लोक-दृष्ट्यनुसारित्वमिति गुण इत्यन्यत्रोक्तां भाष्यस्थादिपदोपात्तां युक्तिम् अत्र पूर्वपक्षश्रुतिप्राबल्याय योजयितुं गतार्थत्वशङ्कामाह ।। न च वाच्यमिति ।। विष्णुपरत्वादिति ।। अन्तर्नयेऽधि-दैवगताशेषनाम्नां समन्वयस्योक्तेर्द्युभ्वादिनयभाष्ये रुजं द्रावयत इत्यादिना योगपौराणिक-रूढ्योरुक्त्या प्रपञ्चनाच्चेति भावः ।। कल्पनोपदेशादिति न्यायेनामुख्यवृत्त्या अन्यवाचकत्व-स्याप्यङ्गीकारादाह ।। रुद्रविषयत्वे वेति ।। आप इत्यत्रोक्तवचनैरन्यस्य स्वतःशक्त्यभावादिति भावः । विष्णुर्न संहर्ता उत्पादकत्वात्पितृवदिति प्रयोगं हृदि कृत्वा हेतोरप्रयोजकत्वनिरासाय न्यायविवरणोक्तिसूचितविपक्षबाधकयुक्तिं विवृणोति ।। यथेत्यादिना ।। अन्तकत्वश्रुतेर्विष्णुपरत्वेन वाऽन्यपरत्वेन वा साक्षादन्यद्वारा वेत्यर्थः । अत्र पितुरन्यस्येति पितृपदेन न केवलं जनको विष्णुः किं तु रक्षकश्च न च रक्षकस्य संहर्तृत्वं युक्तमिति सूचितमिति चन्द्रिका । रुद्रः संहर्ता तथा लोकप्रसिद्धत्वात् य एवं स एवं यथा संमत इति प्रयोगमुपेत्य तस्य लोकदृष्ट्यनुसारित्वरूपानु-कूलतर्कं साक्षान्न्यायविवरणोक्तं व्यतिरेकमुखेन व्यनक्ति ।। न चेत्यादिना ।। श्रुते रुद्रो मेति श्रुतेः ।। न च श्रुतीति ।। यत्प्रयन्तीति श्रुतीत्यर्थः ।। भाक्तेति ।। द्वारार्थत्वरूपेत्यर्थः । यद्वा कतिपयसंहर्तृत्वरूपेत्यर्थः ।। युक्तीति ।। पितृत्वान्न संहर्तेश्वर इति युक्तीत्यर्थः । पूर्वभाष्याद-प्रामाण्यपदमनुवर्त्य फलोक्त्या पूर्वपक्षभाष्यमुपसंहरति ।। अत इति ।। सयुक्तिकबलवच्छ्रुतिबला-दित्यर्थः । रुद्रोमाविशेत्यत्र रुद्र उमा आविशेति पदविभागमुपेत्यार्थमाह ।। रुद्रेति ।। उ इति सम्बुद्धिद्योतकः । त्वमिति शेषः । आत्मप्रवेशप्रार्थनाया बीजोक्त्यर्थं प्राणानामित्यादि पूर्वांशोक्ति-रिति भावेन तदर्थमाह ।। प्राणानामिति ।। ग्रन्थिराश्रयः अन्तकस्संहर्ता । त्वामौ द्वितीयाया इत्यस्मदादेशोऽयं माशब्द इति भावेन मामित्युक्तम् । आविश प्रविश मयि सन्निधिं कुर्वित्यर्थः । माशब्दानुकर्ष इति मत्त्वाऽऽह ।। मामाप्यायस्वेति ।। प्रवेशप्रार्थने बीजान्तरोक्त्यर्थमियं शेषोक्तिरिति भावः । भाष्यं व्याकुर्वन् संहारकर्ता विष्णुरिति प्रतिज्ञां पूर्वपक्षकोटिनिरासाय सावधारणं व्याचष्टे ।। विष्णुरेवेति ।। निमित्तत्वेत्यन्तभाष्यं व्याचष्टे ।। तस्येति ।। तस्याभिध्याना-दित्यस्येच्छावत्त्वरूपेऽभिध्यातृत्वे श्रुतित्वेऽपि जन्मादिसूत्रोक्ते प्रयत्नवत्त्वरूपकर्तृत्वे लिङ्गत्वात्सूत्रे लिङ्गशब्दो युक्त इत्युपेत्य तदिच्छाधीनत्वस्य तत्कर्तृत्वे लिङ्गादित्यादिभाष्योक्तं लिङ्गत्वं प्रश्नपूर्वमाह ।। किञ्चात इति ।। भाष्ये जगत इत्यनन्तरं तत्कर्तृत्वमित्यस्यानुषङ्गं मत्त्वाऽऽह ।। संहारकर्तेति ।। संहारकरणसमर्थ इत्यर्थः । पूर्वत्र फलोपधानपरस्यापि कर्तृशब्दस्येह शक्तिपरतयानुषङ्गो विवक्षाभेदान्न विरुद्धः । तत्वभावादित्यस्यार्थो यथार्थध्यानादिति ।। भगवदभिध्यानादिति ।। प्रसादरूपादिच्छाविशेषादित्यर्थः । अथान्ये प्रकृती दुष्टे नृषु प्रातिस्विकं स्थिते । स्वगुणाच्छादिका ह्येका परमाच्छादिकापरा । स्वगुणाच्छादिकां हत्वा परमाच्छादिकां परः । व्याघुट्य मोक्षपदवीं ददाति पुरुषोत्तम इति श्रुतिगीतातात्पर्योक्तदिशा मायानिवृत्तिर्बोध्या ।

ननु सादेर्जगत इति पूर्वभाष्येऽनुषक्तेन तत्कर्तृत्वं प्रतीयत इत्यनेनैव जगत्संहर्तृतोक्तौ सैव इत्येतस्मादेव संहारकर्तेत्युत्तरभाष्ये संहारकर्तृत्वे हेतुत्वेनोच्यते चेत्साध्यावैशिष्ट्यमित्याशङ्क्य पूर्ववाक्ये शक्तिरेव विवक्षिता न तु प्रयत्नः । तया शक्त्योत्तरवाक्योक्तः फलरूपः प्रयत्नः साध्यते । अतो न दोष इत्याह ।। कर्ता विष्णुरित्यादि ।। किम्वित्यादेरर्थोऽथेत्यादि । अत्रेति भाष्यप्रतीकं तस्यार्थः परतन्त्रेऽपीति ।। पूर्वत्रेति ।। पूर्वत्रापीत्यर्थः । अन्यथा न तु सर्वात्मनेरितमिति पूर्वस्य विशेषणस्यैकदेशक्रिया चेति विशेष्ये(णा)मानन्दयादसङ्गतिः स्यात् उत्तरं च समस्तमिति विशेषणं विशेष्यसाकाङ्क्षत्वादनन्वितं स्यादिति भावः । रुद्रस्य क्वचित्संहारद्वारत्वेनैव तद्वाक्यानां सावकाशत्वादित्यन्यत्रोक्तेः कथं परतन्त्रसंहर्तृत्वपरेत्युक्तिरित्यत आह ।। पारतन्त्र्यं चेति ।। स्मृतौ निमित्तमित्युक्त्या द्वारमात्रमिति लाभाद्द्वारत्वमित्युक्तम् । कालाख्यारूपिण इति हेतुगर्भमिति भावेन कालत्वे रूपस्योक्ते नाम्नः स्वत एव सिध्यतीति भावेन रूपस्याह ।। रूपस्येति ।। कालशब्दो जगद्बन्धनच्छेदनज्ञानादिसर्वभगवद्धर्मवाची । कलबन्धने कलच्छेदने कलज्ञाने कलकामधेनाविति (हि) (च) पठन्तीत्येकादशे गीताभाष्योक्तेः । कालः कलितसम्पूर्णसद्गुणत्वा-ज्जनार्दनः । संहारात्सर्ववित्त्वाद्वा सर्वविद्रावणेन च’ इति गीतातात्पर्योक्तस्मृतेः । संहर्ता भगवान्विष्णुः काल इत्यभिधीयते इत्यादिप्रथमस्कन्धतात्पर्योक्तस्मृतेश्चेति भावः । तत्वप्रदीपे तु कालाख्यैव रूपं रूपकं ज्ञापकं वाचकत्वेन तद्वानित्युक्तम् । लोकपितृवैरूप्याद्विष्णोरित्यन्यत्रोक्तां युक्तिमाह ।। ममत्वादीति ।। अत इति ।। श्रुतिस्मृतिलिङ्गबलाद्रुद्रोमेत्यादिश्रुतेर्द्वारार्थत्वेन सावकाशत्वाल्लोकपितृवैलक्षण्येन युक्तिविरोधाभावाच्चेत्यर्थः ।

अभिनवचन्द्रिका

लोके च पितुरन्यस्यैवेति ।। ननु लोके उद्धंधशस्त्रगरभृगुपातादिनाऽऽत्महन्तार आततायिनो दृश्यन्ते । तत्र काऽनुपपत्तिः पितुः पुत्रेषु स्नेहो गरीयान्, येन मातुः तद्धंतृत्वेऽपि पितुर्न स्यात्, दृश्यते चाऽजीगर्तः स्वपुत्रशुनःशेपवधाय प्रवृत्तः । तत्कथमुच्यते पितुरन्यस्यैव मारकत्वदर्शनादिति चेत् न ब्रूमो वयं लोके पितुर्मारकत्वं नैव दृष्टमिति येनोक्तदोषः स्यात्, किं नाम लोके अन्यस्य पितुः प्राज्ञविलक्षणस्य मूढस्येति यावत् पुत्रमारकत्वं दृष्टमिति तदुक्तम्– ‘अहो विधातस्त्वमतीव बालिशो यस्त्वात्मसृष्टेः प्रतिरूपमीहते’ इति । एवं च उत्पादकस्यैव संहर्तृत्वे मौढ्यं स्यात् न च तद्युक्त्तमिति संहर्तृत्वमेवानभ्युपेयमिति ।। विरोध इति ।। बाध इत्यर्थः । भाक्तार्थत्वेनेति ।। अन्तकवद्भयङ्करत्वार्थकत्वेनेत्यर्थः । ‘रुद्रो माविशान्तक’ इत्यत्र रुद्र, उमेति पदच्छेदमुपेत्याह रुद्रत्वमिति ।।रुद्रस्त्वम्’ इत्यपि क्वचित्पाठः । ननु सूत्रकृतोक्तस्य ‘तदभिध्यानात्’ इति लिङ्गस्य विश्वसंहारशक्तिमत्वसिद्ध्या सावकाशत्वात् । अनादिभवभेत्तुः संहारे सामर्थ्यमस्तु विश्वसंहर्तृत्वं तु कुतः प्रमाणात् प्रतिपत्तव्यं, सूत्रे तत्साधकप्रमाणानुप-न्यासादित्याशयेन शङ्कते – नन्विति ।। ईश्वरान्यस्य शक्त्यभावादस्यैव तदङ्गीकार्यमिति भावः ।। शक्तस्यैव तत्सम्भवादिति ।। अतः परं श्रूयमाणम् ‘अथैतावता परितोष’ इति वाक्यं न टीकावाक्यम्, अपि तु प्रक्षिप्तम् । अस्य भाष्योक्तकैमुत्यविरोधित्वात् । न हि पूर्वोक्तप्रमाणा-दर्थलाभप्रयुक्ता परितोषे प्रमाणान्तरप्रवृत्तिः कैमुत्यन्यायेन भवति । येनेदं वाक्यं प्रक्षिप्तं न स्यात् । ‘एकदेशिक्रिया चात्र’ इति भाष्यगतमत्रेति पदमनूद्य व्याकुर्वन् अप्यर्थकचशब्दसम्बन्धं सूचयति – अत्र परतन्त्रेऽपीति सृष्ट्यादिकमितीति ।। पूर्वत्र ईरितमित्यत्र । अनेन परतन्त्रेऽपीरितसृष्ट्यादिकं सर्वात्मना नेति स्मृत्यर्थः सूचितः ।। ममत्वादिदोषराहित्येनेति ।। लौकिकपितुः ममतासद्भावेन मौढ्यं विना पुत्रहन्त्रृत्वमयुक्तम् । ईश्वरस्य तु ममताभावात् मौढ्यं विनापि हंतृत्वसंभवान्न मौढ्यप्रसङ्ग इति भावः ।

पूर्वपक्षस्तु – न विष्णुः संहर्ता अपि तु रुद्र एव । ‘प्राणानां ग्रन्थिरसि’ इति श्रुतेः । न च विष्णोः सर्वशब्दवाच्यत्वात् सा श्रुतिः विष्णुपरा, रुद्रपरत्वेऽपि तस्य द्वारकारणत्वाभिधात्री वा किं न स्यादिति वाच्यम् । लोकविरोधात् । लोके ंिह पिता न पुत्रमारकः । मारकोऽपि मूढ एव न प्राज्ञः । एवं च पितुरीश्वरस्य जगन्मारकत्वाङ्गीकारे मोैढ्यमेव स्यात् । न च तद्युक्तमिति लोकविरोधो दुर्वारः । न च विष्णोः संहर्तृत्वेऽपि ‘यत्प्रयन्ति’ इति श्रुतिरस्तीति वाच्यम् । तस्याः बलवदेतच्छ्रुतिविरोधेनाप्रमाणत्वात् । अतो विष्णोर्न संहर्तृत्वमिति ।

सिद्धान्तस्तु – युक्तमेव विष्णोः संहर्तृत्वं ‘तस्याभिध्यानाद्योजनात्’ इति श्रुतौ तद्ध्यानजन्य-प्रसादरूपेच्छाधीनत्वस्य बन्धनिवृत्तेरभिधानात् । किञ्चातः, तदिच्छाधीनत्वेन तत्कृतत्वमनुमीयते । एवं च अनादेर्बन्धस्य लयकर्ता, सुतरां सादेर्जगतः संहारकर्तेति सिध्यति । ‘स इदं सर्वं विलापयति’ इत्यादिश्रुतेश्च । न च रुद्रस्य संहारकत्वाभिधायकश्रुतिविरोधः । तस्या द्वारकारणत्वाभिधायकत्वात् । न च पितृत्वादीश्वरस्य विनाशकत्वे मौढ्यप्रसङ्गः । लौकिकपितृणां ममतायुक्तत्वेन हन्तृत्वायोगात् । मौढ्यं विना संहर्तृत्वोपपत्तेः । अतः श्रुतिविरोधाभावेन विष्णोः संहारकर्तृत्वं सिद्धमिति ।

वाक्यार्थमुक्तावली

अनन्तरसङ्गतिमाह ।। एवमिति ।। स्थितेः सृष्ट्यनन्तरत्वेऽपि तृतीये, प्रकृतैतावत्वमित्यत्र तद्विचारादत्र संहार एव विचार्यते । संहारापेक्षया स्थितेः प्राथमिकत्वेन स्थितेः प्रथमं विचार्य-त्वेऽपि, परमात्मनः स्रष्ट्रत्वे, मारकत्वं न स्यात् । लोके पितुरन्यस्यैव मारकत्वदर्शनादिति स्रष्ट्रत्वस्य, संहारकत्वाक्षेपवत् स्थापकत्वाक्षेपकत्वाभावात् संगतिविशेषवशादत्र संहर्तृत्वविचारः । किं चात्र संहर्तृत्वे विचारित एव संहारकर्तुरसंहारादन्यरक्षाया अभावात् न रक्षकत्वं पृथग्वाच्य-मिति । तत्र पूर्वपक्षे असंहारकत्वव्यतिरेकेण पालकत्वस्य तत्र समर्थनेनैतदधिकरणमुपजीव्य तत्र पूर्वपक्षोदयादानंतर्योपपत्तेः ।। किं भगवतेति ।। किं भूतादि रुद्रो माविशान्तक, इति श्रुत्या रुद्रे विलीयते उत यत्प्रयन्ति’ इत्यादेर्भगवतीति चिन्ता । तदर्थं रुद्रो मा विशतिश्रुतिः पितुरन्यस्य मारकत्वदर्शनयुक्त्युपोद्बलिता रुद्रस्यैव स्वातन्त्र्येण संहारकारणत्वपरा उत विष्णोर्ममताऽभावेन लोकपितृवैरुप्याद्युक्तिविरोधाभावाद्विष्णुपरा रुद्रपरत्वेऽपि द्वारकारणत्वपरा वेति ।

अन्यः संहारकर्ता प्रतीयते इति भाष्यस्य विष्णोरन्यो रुद्र इत्यर्थमाह ।। रुद्रेणैवेति ।। रुजं द्रावयते यस्माद्रुद्रस्तस्माज्जनार्दन, इति पौराणिकयोगेन सोऽन्तकः स रुद्रो यो हरिरित्यादि-श्रौतरूढ्या च भगवति मुख्यत्वोक्तेः । तदधीनत्वन्यायेनान्यत्रामुख्यवृत्यङ्गीकारेऽपि तेषां द्वारकारणत्वस्य तेजोऽत, इत्यधिकरणन्यायसिद्धत्वाद्यतीतेत्याशङ्क्य निराह । न चेत्यादिना । पितुरन्य एव लोके संहर्ता प्रतीयते इति भाष्यखण्डस्यार्थान्तरं मत्वा लोकदृष्ट्यनुसारित्व-मित्युक्तपूर्वपक्षन्यायं सङ्गमयितुमाह ।। यथाकथञ्चिदित्यादिना ।। भाक्तार्थत्वेनेति ।। रुद्रो मा विशान्तक इति श्रुतेः विष्णुसंहृतपदार्थभिन्नपदार्थसंहर्तृत्वरूप भागविषयत्वेनेत्यर्थः । अन्तक-वद्भयङ्करत्वमात्रेण गौणार्थत्वेनेतिवा ।। युक्तीति ।। विष्णोः संहर्तृत्वाङ्गीकारे पितृत्वरूपयुक्ति-विरोधानिस्तारादित्यर्थः ।। आविवेशेति ।। मध्यमपुरुषानुसारेण रुद्र, उ इति पदविभागं मत्वा व्याचष्टे ।। रुद्रत्वमिति ।। उ इत्यस्य तु हे इति सम्बुद्धिद्योतकत्वं वा उच्चेत्यर्थकत्वं वा त्वमेवेत्यवधारणार्थकत्वं वेति भावः । मेत्यस्मच्छब्दादेशरूपं द्वितीयैकवचनान्तम् । ‘अमानोना प्रतिषेध’ इति चादिगणपठितं निषेधार्थकमव्ययं च तन्त्रेणोपात्तमिति भावेनाह ।। मामाविशेति ।। अन्यथा निषेधमात्रार्थकत्वे कर्मानुक्तिः । अस्मच्छब्दादेशमात्ररूपत्वे त्वन्तकप्रवेशप्रार्थनानु-पपत्तिरिति ज्ञेयम् । यद्वा मेति द्वितीयान्तमेव न निषेधार्थकमव्ययम् । मामाविशेति टीकायां माम् आविशेति पदच्छेदः । आप्यायस्वेत्यत्र कर्मानुक्तेर्मेत्यस्यावृत्तिरिति भावेन माम् आप्यायस्वेत्युक्तम् प्राणग्रन्थित्वात्प्राणधारणार्थमाविश । त्वमन्तक उ अन्तकोऽपि तेन मद्दत्तेन आहुतिरूपेणान्नेन माम् आप्यायस्व सुखयेति भावः ।

सूत्रे तुशब्दोऽवधारणे । तेजोऽत इत्यत्र प्रकृतसत्परामर्शकेन स इत्यनेनान्वयः (सम्बध्यते) । संहर्तेति योग्यतया लभ्यते । तदभिध्यानादिति श्रुतिसूचकम् । अभिध्या इच्छा तस्याः संजिहीर्षा । स्वरूपविशेषद्योतकश्च तुशब्दः । ततश्च तस्याभिध्यानादिति श्रुत्युक्तात् बन्धलयस्य सञ्जिहीर्षालक्षण तदिच्छाधीनत्वरूपात्तल्लिङ्गात् बन्धक्षयकर्तृत्वसाधकलिङ्गादेव संहारकर्ता विष्णुरेव नान्य इति प्रतीयते न तु प्रमाणान्तरमत्र वक्तव्यम् । यदा अनादिबन्धलयकरणे समर्थस्तदा सुतरां सादेर्जगत इति प्राप्तत्वात् । किं तस्य स्पष्टश्रुतेरिति सूत्रार्थः । तत्र तदभिध्यानादित्येतत् लिङ्गस्यासिद्धि-परिहाराय श्रौतत्वप्रतिपादकमिति भावेन प्रवृत्तस्य, विश्वमायानिवृत्तिरितीति भाष्यस्यार्थमाह ।। तस्याभिध्यानादिति ।।

अस्त्वेतल्लिङ्गप्रमितमतः साध्यं किमिति शङ्कते ।। किञ्चात इति ।। तत्परिहाराय बन्धलयस्य तदिच्छाधीनत्वलिङ्गात्तत्कर्तृत्वमिति भाष्यं व्याचष्टे तदिच्छाधीनत्वलिङ्गेनेति ।। ननु संसारमोक्षो भगवदभिध्यानाद्भवतीति श्रूयते चेद्भगवतः कर्तृत्वस्यागमेनैव प्राप्तत्वात् कथं श्रुतेन तदिच्छाधीनत्व-लिङ्गेन तदनुमानमिति चेन्न । इच्छया ह्यत्र बन्धलयो भवतीत्युच्यते, न चासावुपपन्नः प्रयत्न-विरहिणामिच्छामात्रेण कार्योत्पादायोगात् । अतः श्रौतं बन्धलयस्य तदिच्छाधीनत्वं जन्मादि-सूत्रोक्तप्रयत्नवत्वरूपकर्तृत्वे लिङ्गं भवत्येवेति । व्यक्तमेतच्चन्द्रिकायाम् ।

ननु इच्छात्वं उक्तविधकर्तृत्वे लिङ्गं चेत् तदनुमापयत् । अनेन विष्णोर्जगत्संहर्तृत्वसिद्धिः कथमन्यथा धूमेन शब्दानित्यत्वसिद्धिप्रसङ्गादित्यतः प्रवृत्तस्यैवेत्यस्य विवरणपरं किमु सादेर्जगत-रित्येतद्व्याचष्टे ।। एवं चानादेरिति ।।

भूयश्चेति चशब्देन वीप्सालाभात् भूयो भूय इत्युक्तम् ।। भगवदभिध्यानादिति ।। प्रसादलक्षणेच्छाविशेषादित्यर्थः । संहर्तृत्वं च कुत इति प्रमाणादिति शेषः ।। उक्तादेतस्मादेवेति ।। कैमुत्यलब्धात्सर्वसंहारे शक्तिलक्षणादेव हेतोरित्यर्थः ।। शक्तस्यैवेति ।। शक्तस्यैव प्रयत्नरूप कर्तृत्वसम्भवात् नत्वशक्तस्य रुद्रादेरिति भावः । विमतः संहारः विष्णुकर्तृकः तदन्याशक्यत्वे सति कार्यत्वात् यथा रामादन्येनाशक्यं रावणहननं रामकर्तृकमिति प्रयोगो द्रष्टव्यः ।। अथैतावतेति ।। श्रुतिप्राप्तस्य रुद्रस्य संहारकारणत्वस्य न युक्तिमात्रेण निरासो युज्यत इत्यपरितोष इत्यर्थः । अत्र परतन्त्रेऽपीति पूर्वत्र सम्बध्यते पूर्वत्रापि सम्बध्यत इत्यर्थः । पूर्वत्रासम्बन्धे इतीरितमित्यस्य नपुंसकस्यैकदेशक्रियेत्यनेनानन्वयादसङ्गतिः स्यात् ।। सृष्ट्यादिकमित्यस्य उत्तरत्रानन्वये समस्तमित्यस्य विशेष्याभावः स्यात् । ततश्च अत्र परतन्त्रजगदेकदेशविषयसृष्ट्यादिक्रियैव निविष्टा न तु सृष्ट्यादिकं सर्वात्मनेरितम् । समस्तं सर्वविषयं सृष्ट्यादिकं विष्णोरेव भवेदित्यन्वय इति भावः ।। परतन्त्र संहर्तृत्वपरेति ।। अत एवासम्भवस्तु सत इत्युक्तसतः सूत्रे स इति परामर्शः । सच्छब्दस्य स्वातन्त्र्यवाचित्वादिति भावः ।। काल इत्याख्यारूपे इति ।। आख्या नाम । कालपदमुभयत्रान्वेति । इनिप्रत्ययार्थमाह ।। यस्यासाविति ।। न तु बहुव्रीहिरिति भ्रमितव्यम् । ननु रूपस्य कालत्वं कालनामकत्वं चेत्पुनरुक्तिरित्यत आह रुपस्येति ।। कलच्छेदने ।। कलबन्धने, कलकामधेनौ, इति धातुव्याख्यानादिति भावः । कुतो न लोकविरोध इत्यतः सोऽनुत्पत्तिरप्रलयः परः लोकविलक्षण इति भाष्योपात्तश्रुतिसूचितं सूत्रे च स इति सत्परामर्शकतच्छब्देन सूचितं वैरूप्यमित्युक्तसिद्धान्तन्यायं संगमयति ममत्वादीति । सच्छब्दस्य निर्दोषवाचित्वादिति ज्ञेयम् ।

तत्त्वसुबोधिनी

अनन्तरसङ्गतिमाह ।। एवमिति ।। तत्संहारश्रुतिविरोधेति ।। स्थितेः सृष्ट्यनन्तरत्वेऽपि विष्णोः सर्वस्थितिकर्तृत्वस्य सम्मतत्वेन विवादाभावात् । संहर्तृत्वस्यान्यनिष्ठत्वे पितुरन्यस्य मारकत्वदृष्टिरूपयुक्तिवत् अत्र तादृशपूर्वपक्षयुक्त्यभावेन तदविचार्य संहारकर्तृत्वमेव विचार्यत इति भावः । समन्वयाध्यायोक्तरीत्या रुद्रादिशब्दानां मुख्यार्थत्वाभिप्राये तेजोऽत इत्यनेन गतार्थतेत्या-शङ्कां निषेधति ।। न च वाच्यमिति ।। कुतो लोकविरोध इत्यतः तत्र हेतुमाह ।। तस्येति ।। उत्पादकत्वेऽप्यस्तु संहर्तृत्वमत आह ।। लोके चेति ।। अत्र पितृशब्देन केवलं जनको विष्णुरपि तु रक्षकश्च । न च रक्षकस्य संहर्तृत्वं युक्तमिति सूचितं इति चन्द्रिका । ननु लोकविरोधेन विष्णोः संहर्तृत्वासम्भवात् रुद्रस्यापि न संहर्तृत्वं लोकविरोधादित्याशङ्क्य निषेधति ।। न चेति ।। तथा च रुद्रसंहर्तृत्वं लोकसिद्धत्वात् न तद्विरुद्धमिति भावः ।। भाक्तार्थत्वेनेति ।। रुद्रो माविशान्तकः इति श्रुतेर्विष्णुसंहृतपदार्थभिन्नपदार्थसंहृतत्वरूपभागविषयत्वेनेत्यर्थः ।। युक्तीति ।। क्वचिदपि विष्णोः संहर्तृत्वाङ्गीकारे पितृत्वरूपयुक्तिविरोधानिस्तारादित्यर्थः । असि आविश इति मध्यमपुरुषानु-रोधादाह ।। रुद्र त्वमिति ।। मेत्येतत् अस्मच्छब्दादेशरूपं निषेधार्थकं च तन्त्रेणोपात्तमिति भावेनाह ।। मा मां विशेति ।। अन्यथा निषेधमात्रार्थकत्वे कर्मानुक्तिः । अस्मच्छब्दादेश-रूपस्यानुवृत्तिमभिप्रेत्याह ।। मामाप्यायस्वेति ।। सूत्रे सावधारणतुशब्दान्वितेन स इति तच्छब्देन तेजोऽत इति सूत्रस्थातःशब्दोक्तः परमात्मा संहर्तृत्वेन परामृश्यते इति भावेनाह ।। विष्णुरेव संहारकर्तेति ।। सूत्रे तदभिध्यानादित्येतत् युक्तिप्रदर्शकं श्रुतिसूचकमपि भवतीति भाष्ये तस्याभिध्यानादिति श्रुत्युदाहरणमित्यभिप्रेत्याह ।। तस्याभिध्यानादिति श्रुताविति ।।

ननु विष्णोः सर्वजगत्कर्तृत्वे सादिसर्वजगत्कर्तृत्वे एतच्छ्रुतिप्रतिपादितानादिबन्धलयस्य भगवदिच्छाधीनत्वं कथं हेतुरित्याशङ्कापरिहाराय नायं साक्षात्सादिजगत्संहर्तृत्वे हेतुः किन्तु सादिजगत्संहर्तृत्वे हेतुभूतानादिबन्धसंहर्तृत्वे हेतुरित्याशयेन तल्लिङ्गादिति सूत्रे उक्तम् । तस्य च सूत्रांशस्य तस्माद्बन्धलयस्य भगवदिच्छाधीनत्वाल्लिङ्गात् स परमात्मा बन्धलयकर्तृत्वेन नानुमीयत इति अभिप्रेत्य प्रवृत्तस्य बन्धलयस्य तदभिध्यानमिति तत्त्वलिङ्गात् तत्कर्तृत्वं प्रतीयत इति भाष्यस्याभिप्रायमाह ।। किञ्चात इत्यादिना ।। तस्याभिध्यानादित्यस्येच्छावत्वरूपे अभिध्यातृत्वे श्रुतत्वेऽपि जन्मादिसूत्रोक्ते प्रयत्नवत्वरूपे कर्तृत्वे लिङ्गत्वात् सूत्रे लिङ्गशब्दो युक्त इत्यभिप्रेत्य इच्छायाः प्रयत्नलिङ्गत्वं प्रश्नपूर्वकं दर्शयति ।। किञ्चात इत्यादिना ।। तत्कृत इति ।। संसारान्मोक्ष इत्यनुवर्तते । अनेन भाष्ये कर्तृत्वं नाम कृतिमत्वं विवक्षितम् । बन्धलयस्येश्वरेच्छाधीनत्वलिङ्गेन तत्प्रयत्नाधीनत्वानुमानोपपत्तेरित्युक्तं भवति ।

ननु बन्धलयस्य भगवत्कृतत्वमपि कथं जगत्संहर्तृत्वे हेतुरित्यत सूत्रार्थलब्धाभिप्रायदर्शनपरं किमु सादेर्जगत इति भाष्यं व्याचष्टे ।। एवञ्चानादेरिति ।। तस्याभिध्यानादित्यस्य जीवकर्तृक-ध्यानपरत्वे तत्त्वभावादित्यनेन पुनरुक्तेर्विश्वमायानिवृत्तेः सकृदेव जायमानत्वेन भूयश्चेत्यस्य तत्रान्वयासम्भवाच्चेत्यतः श्रुतिं यथावद्व्याचष्टे ।। भगवतीत्यादिना ।। भूयश्चेति ।। चशब्दा-द्वीप्सालाभात् भूयो भूय इत्युक्तम् । तत्वभावादित्यस्य व्याख्या यथार्थद्ध्यानादिति ।। ननु किमु सादेर्जगत इति पूर्वभाष्येऽनुषक्तेन तत्कर्तृत्वेनेत्यनेनैव जगत्संहर्तृतोक्तौ सैव इत्येतस्मादेव संहारकर्तेत्युत्तरभाष्ये संहारकर्तृत्वे हेतुत्वेन उच्यते । तदयुक्तं साध्याविशिष्टादित्याशङ्क्य पूर्ववाक्योक्तया शक्त्या उत्तरवाक्योक्तः प्रयत्नः साध्यते अतो दोष इत्याह ।। कर्ता विष्णुरिति ।। प्रतीयते शक्तस्यैव तत्सम्भवादिति । अत्रेति भाष्यप्रतीकं तस्यार्थः परतन्त्रेऽपीऽति ।। पूर्वत्र सम्बध्यत इति ।। पूर्वत्रापि सम्बध्यते इत्यर्थः । अन्यथा न तु सर्वात्मना ईरीतमित्यस्य पूर्वत्र विशेषणस्य नपुंसकत्वेन एकदेशक्रिया चेत्यनेन अनन्वयादसङ्गतिः स्यात् । उत्तरं च समस्तमिति विशेषणं विशेष्ये साकांक्षत्वादनन्वितं स्यादिति भावः ।

नन्वनया श्रुत्या कर्मश्रुतिविरोधपरिहार इत्यत तद्वाक्यात् स्मृत्यभिप्रायमाह ।। परतन्त्रेति ।। आख्यारूपे यस्यासाविति इत्यनेनैवार्थः उक्तः । न तु बहुव्रीहिरिति ज्ञातव्यम् ।। ममत्वादीति ।। अनेन विष्णुर्न संहर्ता पितृत्वादिति परोक्तानुमाने ममत्वादिदोषयुक्तत्वं रक्षकत्वरूपसाधनधर्मा-वच्छिन्नसाध्यव्यापकत्वमुक्तं भवति । सूत्राक्षरार्थस्तु सादिसर्वजगत्संहर्ता हरिरेव । कुतो हेतोः । अनादिबन्धसंहर्तृत्वसाधकतल्लिङ्गादित्यर्थः । तथा च हरिः अनादि बन्धसंहर्ता अनादिबन्ध-सञ्जीहीर्षावत्वादित्यनेनानादिबन्धसंहर्तृत्वे सिद्धे अनादिबन्धसंहर्तृत्वरूपहेतोः सादिजगत्संहर्ता स एवेत्यर्थः । तथा च यदा हरिः अनादिबन्धं संहरति सादिजगदपि संहरतीति भावः । स हरिः संहर्तेत्युक्तं सः कः । अनादिसृष्टृत्वेन प्रकृतः यश्च जनकत्वेन अमारकतया शङ्कितः यश्च ‘ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः’ इति स्मृतौ तच्छद्बवाच्यत्वेनोक्तः स नो हरिरिति स्मृतौ उक्तः स इति तच्छब्देनोक्तः स एवेत्यर्थः । तुशब्दस्तु अभिध्यानगतस्य सञ्जीहीर्षावत्वरूपविशेषस्य द्योतकः । एवशब्दस्तु यदा अनादिबन्धसंहर्तृत्वमात्रेण सादिजगत्संहर्तृत्वं सिध्यति तदा किं वक्तव्यम् । यमप्येति भुवनं साम्पराय इत्यादिश्रुतिभ्यः सर्वजगत्संहर्तृत्वं सिध्यतीति कैमुत्यन्याय-सूचक इति ।

वाक्यार्थविवरणम्

ननु लये सिद्धे पश्चात् तत्कर्तृविचारः सङ्गतः । स एवासिद्धः । पूर्वमुत्पत्तिनिर्णयेऽपि लयस्यानिर्णीतत्वादिति चेत्तत्राह ।। उत्पत्तिमत्त्वादिति ।। उत्पत्तिमतो भावस्य लयनियमादिति भावः ।। यथाकथञ्चिदिति ।। साक्षाद्वा रुद्रद्वारा वेत्यर्थः ।। श्रुतेः ।। प्राणानामिति श्रुतेः ।। अन्यार्थता ।। नामानि सर्वाणीत्युक्तन्यायेन विष्णुपरतेत्यर्थः ।। श्रुतीति ।। यत्प्रयन्तीत्यादि-श्रुतीत्यर्थः ।। युक्तिः ।। पितृत्वरूपा ।। भाक्तार्थत्वेनेति ।। कस्मिंश्चिद्भागविशेषे विष्णुः संहर्ता । कस्मिंश्चिद्भागविशेषे रुद्र इत्येवं विभागेनोभयोः संहर्तृत्वाङ्गीकारात् ‘यत्प्रयन्ति’ ‘प्राणानाम्’ इति श्रुत्योरविरोध इत्यर्थः ।। युक्तिविरोधेति ।। यत्प्रदेशे विष्णोः संहर्तृत्वमङ्गीक्रियते तत्प्रदेशे पितृत्वयुक्तिविरोधः स्यादेवेत्यर्थः ।। स त्वं मा मांविशेति ।। स प्राणानामाश्रयस्त्वं माम् आविश मयि स्थित्वा प्राणान् धारयेत्यर्थः । सोऽन्तकस्त्वं मां मा आविश मयि आविष्टो माऽभूरित्यर्थः । अत्र मेत्यस्यावृत्तिः । सौत्रस्थ, तु इत्यस्यार्थो विष्णुरेवेति ।। तदभिध्यानादित्यस्यार्थमाह ।। तस्येति ।। तथा स एव विष्णुर्जगत्संहारे समर्थः । बन्धलयस्य भगवदिच्छाधीनत्वेऽपि जगत्संहार-सामर्थ्यं कुत इत्यप्रयोजकत्वं शङ्कते ।। किञ्चात इति ।। बन्धरूपस्य भगवदिच्छानिमित्तकत्वोक्तितो जगत्संहारे समर्थत्वं न प्राप्तमित्याशयः ।। तत्कृत इति ।। तथा च बन्धलयस्य भगवदिच्छा-धीनत्वश्रवणेन भगवत्कृतोऽनुमीयते । बन्धलयो भगवत्कृतः तदधीनत्वात् । यद्यदिच्छाधीनं तत्तत्कृतमिति नियमात् । एवं च भगवान् जगत्संहारे समर्थः । बन्धलयकर्तृत्वादित्यनुमानमुक्तं भवति ।

ननु हरेः बन्धलयकर्तृत्वेऽपि जगत्संहारसमर्थत्वं कुतो व्यधिकरणत्वादित्यतो अत्र कैमुत्यं नियामकमस्तीत्याह ।। एवं चेति ।। अनादेर्बन्धस्य ।। अनादित्वेन संहारायोग्यस्येत्यर्थः । तथा च योऽशङ्कयमेकं करोति स सुकरमन्यत् करोत्येवेति प्रायो लोके दर्शनेनानादिकालतः अनुवृत्तं संहारायोग्यमपि बन्धं यदा संहरति, तदा सः आदिभूतेदानीन्तनजगत्संहारे समर्थ इति किं वाच्यमिति भावः ।। तत्त्वभावादिति ।। अस्यार्थो यथार्थध्यानादिति ।। भगवदभिध्यानात् । इच्छाविशेषात् । अनेनानादिभवभेत्तृत्वाद्भगवान् जगत्संहारे समर्थ इति सूत्रपर्यवसितोऽर्थः । तदुपरि शङ्कते ।। नन्वस्त्विति ।। संहर्तृत्वम् । फलोपधानम् ।। उक्तादेतस्मादेवेति ।। अनादिभवभेत्तृत्वेन विश्वसंहारे समर्थत्वादेवेत्यर्थः । तथा च भगवान् जगत्संहारकर्ता । तत्समर्थत्वादिति । अप्रयोजकत्वं परिहरति ।। शक्तस्यैवेति ।। यदाऽनादिभवभेत्ता तदाऽतिशक्तो भगवान् जातः । अतस्तादृशसामर्थ्यवत एव तज्जगत्संहर्तृत्वं सम्भवति । नान्यस्येत्यर्थः ।

ननु शक्तस्यापि कथं तत्सम्भवः । पुत्रवधे समर्थस्यापि पितुः पुत्रवधकर्तृत्वादर्शनादित्यतः सौत्रैवकाराभिप्रायकथनरूपस्य किम्विति भाष्यस्याभिप्रायमाह ।। अथैतावताऽपीति ।। सूत्रार्थस्तु तदभिध्यानादिति श्रुतौ बन्धलयस्य भगवदिच्छाधीनत्वश्रवणात् तत्कृतोऽनुमीयते । तथा च तल्लिङ्गादनादिबन्धलयस्य भगवत्कृतत्वलिङ्गात् स भगवान् जगत्संहारे समर्थ इति ज्ञायते । कैमुत्यन्यायात् । तथा च तल्लिङ्गादनादिभवभेत्तृत्वे जगत्संहारेऽतिसमर्थत्वरूपाल्लिङ्गात् स एव जगत्संहर्तेति ज्ञायते । यदि पुत्रवधे समर्थस्यापि पितुस्तत्कर्तृत्वादर्शनेन परो यद्युक्तयुक्त्याऽपरितुष्टः स्यात्तदा तत्परितोषणाय एवेत्युक्तम् । तथा च यमप्येतीत्यादिस्पष्टश्रुत्या विष्णोः जगत्संहर्तृत्वं ज्ञात्वा परितोषं प्राप्नुहि इति ।। परतन्त्रेऽपीति ।। तथा चात्र परतन्त्रेऽपि ब्रह्मादिजगति ।। एकदेशक्रिया ।। एकदेशसर्जनादिक्रिया । जगदेष्टृकदेशस्रत्वादिकमेवास्तीति यावत् । आख्या नाम । रूपं स्वरूपम् ।। संहर्तृत्वादिगुणेति ।। ‘कल च्छेदने’, कल बन्धने कल ज्ञाने, कल कामधेनुरिति हि पठन्तीति गीताभाष्य उक्तत्वादित्यवधेयम् । तथा च संहर्तृत्वादिगुणसंपन्नत्वेन कालसंज्ञकं रूपं स्वरूपं यस्येत्यर्थोऽवगन्तव्यः ।। स्मृतेः ।। निमित्तमात्रमिति स्मृतेः । ननु भगवान् न संहर्ता । तदुत्पादकत्वेन तत्पितृत्वात् । लोकपितृवत् । न चाप्रयोजकता । लोके पितृत्वमेव न स्यात् । इत्यनुकूलतर्कसहितोक्तयुक्तिमाशङ्क्य तत्र ममत्वादिदोषवत्त्वमुपाधिमाह ।। न चोक्ते-त्यादिना ।। न चासंहर्तरि घटादौ ममत्वादिदोषवत्त्वाभावात् साध्याव्यापकतेति वाच्यम् । पितृत्वरूपसाधनधर्मावच्छिन्नसाध्यव्यापकत्वाभ्युपगमादिति ध्येयम् ।

वाक्यार्थमञ्जरी

तदभावेति ।। आदिपदोक्तसंहारकर्तृत्वाभावेत्यर्थः । यथाकथञ्चित् उक्तप्रकारद्वयेनापि तदेव व्यनक्ति ।। तस्येति ।। भाक्तार्थत्वेनेति ।। ‘रुद्रो’माविशान्तक इति श्रुतेर्विष्णुसंहृतभिन्न-पदार्थसंहर्तृत्वरूपविभागविषयत्वेनेत्यर्थः ।। युक्तीति ।। क्वचिदपि विष्णोः संहारकर्तृत्वेनाङ्गीकारेऽपि पितृत्वरूपयुक्तिविरोधानिस्तारादित्यर्थः । असि आविशेति मध्यमपुरुषानुरोधेनाह ।। रुद्र त्वमिति ।। मेत्येतदस्मच्छब्दादेशरूपं निषेधार्थकं च तन्त्रेणोपात्तमिति भावेनाह ।। मा मां विशेति ।। मेत्यस्यानुवृत्तिं मत्वाह ।। मामाप्यायस्वेति ।। ॐ तदभिध्यानादेव तु तल्लिङ्गात्सः ॐ ।। स तु विष्णुरेव संहर्ता कुतः संसारमोक्षस्य तदभिध्यानात्तस्य भगवतोभिध्यानमिच्छा-तदधीनत्वात् । किं तत इति चेत् तल्लिङ्गात् । तस्मान्मोक्षस्य भगवदिच्छाधीनत्वलिङ्गात् स परमात्मा संहारकर्तृत्वेनानुमीयत इत्यर्थः । किं चात इति प्रश्नोत्तरमाह ।। तदिच्छेति ।। तत्कृत इत्यनन्तरं मोक्ष इत्यनुवर्तते भूयश्चेति चशब्दाद्वीप्सालोप इत्याशयेन भूयोभूय इत्युक्तम् । तत्वभावादित्यस्यार्थो यथार्थध्यानाच्चेति ।। शक्तस्यैवेति ।। प्रामाणिकत्वाल्लयस्तावदङ्गीकार्यः । स च कार्यत्वात्सकर्तृकः कर्ताच शक्त एव भवेच्छक्तश्च विष्णुरेवेति संहर्तेति भावः । ईरितमित्यस्य नपुंसकत्वे क्रियाशब्दवृत्त्ययोगादाह ।। सृष्ट्यादिकमिति ।। पूर्वत्रापीत्यर्थः । तेन समस्तमित्यस्य न विशेष्यानुक्तिदोषः । आख्यारूपे नामशरीरे यस्यासावितीन्प्रत्ययार्थः । संहर्तृत्वेति कलसंहरण इति धातोरिति भावः ।। ममत्वेति ।। अनेन ममत्वादिदोषयुक्तत्वाख्यसाधनधर्मावच्छिन्नसाध्यव्यापक-रूपोपाधिरुक्तो भवति ।

।। इति तदभिध्यानाधिकरणम् ।।