ॐ पूर्वविकल्पः प्रकरणात्स्यात्क्रियामानसवत् ॐ
२८. पूर्वविकल्पाधिकरणम्
सूत्रभाष्यम्
।। ॐ पूर्वविकल्पः प्रकरणात्स्यात्क्रियामानसवत् ॐ ।। ४६ ।।
न च पूर्वप्राप्त एव गुरुरिति नियमः । समग्रानुग्रहं चेत्पश्चात्तनः करोति स्वयमेव तदा विकल्पः स्यात् । मानसक्रियावत्, यथोभयोर्ध्यानयोः समयोः ।
‘पूर्वस्मादुत्तमो लब्धः स्वयमेव गुरुर्यदि ।
गृह्णीयादविचारेण विकल्पः समयोर्भवेत् ।।
समग्रानुग्रहाभावात्सत्यकामः स्वकं गुरुम् ।
ऋषभाद्यनुज्ञया चैव प्राप तस्माद्धि युज्यत’ इति बृहत्तन्त्रे ।।
‘समग्रानुग्रहं कश्चित्स्वयमेव समो यदि ।
कुर्यात्पुनश्च गृह्णीयादविरोधेन कामतः ।।
ध्यानयोः समयोर्यद्वद्विकल्पः कामतो भवेत् ।
एवं गुरोर्द्वितीयस्य विकल्पो ग्रहणेऽपि च’इति महासंहितायाम् ।।
तत्त्वप्रदीपिका
किं पूर्वप्राप्त एव गुरुर्ग्राह्य उत पश्चात्प्राप्तोऽप्यथवा पश्चात्प्राप्त एवेत्याकाङ्क्षायामाह– पूर्वविकल्पः प्रकरणात्स्यात्क्रियामानसवत् ।। न च पूर्वप्राप्त एव गुरुरिति नियमः । नाप्युत्तरप्राप्त एवेति वा । गुरुस्वरूपविशेषमनुग्रहविशेषं चापेक्ष्यैव नियमः स्यात् । समग्रानुग्रहं चेत्पश्चात्तनः प्रकरोति स्वयमेव गुरुश्च स्वयमेव तदा विकल्पः स्यात् । विकल्पो व्यवस्थित एव स्यात् । एतदाह– ‘पूर्वस्मादुत्तमो लब्धः स्वयमेव गुरुर्यदि । गृह्णीयादविचारेण’ इति । अथ समग्रानुग्रहं चेत्पश्चात्तनः प्रकरोति समः, स्वयमेव तदा पूर्वाविरोधे विकल्पः स्यात् । मानसक्रियावत् । अस्य भाष्यस्य वर्णना– यथोभयो-र्ध्यानयोः समयोरिति । समत्वं फलतः । तच्चाऽह । ‘विकल्पः समयोर्भवेत्’इति ।
‘समग्रानुग्रहं कश्चित्स्वयमेव समो यदि ।
कुर्यात्पुनश्च गृह्णीयादविरोधेन कामतः’ इत्यादि च ।।
‘समग्रानुग्रहाभावात्’ इत्यादेरयमर्थः । ऋषभादीनामेकैकस्मादेव समग्रानुग्रहाभावादृषभाद्यनु-ज्ञया च सत्यकामः स्वकं गुरुं प्रापेति । अतः सिद्धमसमग्रानुग्रहे तूत्तमस्य तदनुज्ञयाऽवरः प्राप्य इति । एतच्चाऽह– ‘तस्माद्धि युज्यत’ इति ।।
‘वायुर्वृषभरूपः सन्नग्निर्हंसश्चतुर्मुखः ।
मद्गुरूपश्च वरुणः सत्यकामाय होचिरे ।।
नाऽचार्यबुद्ध्या तैरुक्तमतोऽनुज्ञां गुरोरगात् ।
उत्तमाचार्यसम्प्राप्त्यै नावराचार्यतः क्वचित् ।
इच्छेदनुज्ञां श्रुत्वाऽपि नानुज्ञां प्रार्थयेत्ततः’ इत्याचार्यसंहितायाम् ।।
तत्त्वप्रकाशिका
अत्र ब्रह्मज्ञानसाधनोपासनेतिकर्तव्यता यत्प्रसादस्तद्विचारादस्ति शास्त्रादिसङ्गतिः । उत्तमगुरोर-स्वीकारे सार्वज्ञाभावेन भाविफलानुसारेणोपासनानुपपत्तिप्रसङ्गाद्विचारणीयमेव तत् । प्रकृतो गुरुरेव विषयः । किं पूर्वप्राप्त एवेति नियम उत पूर्वतनं त्यक्त्वा अन्योऽपि ग्राह्य इति सन्देहः । उभयथा दर्शनं सन्देहबीजम् । प्रथमप्राप्त एवेति पूर्वः पक्षः । प्रथमप्राप्तत्यागे कारणाभावात् । गुरुपरिग्रह-मात्रेण शुभलाभोपपत्तेः । विनैव कारणं प्रथमप्राप्तसंत्यागे दोषप्राप्तेश्च । ‘गुरुमन्त्रपरित्यागी रौरवं नरकं व्रजेत्’ इत्यादिवचनात् । अतः पूर्वप्राप्त एव गुरुरिति नियमात्क्वचित्सर्वज्ञगुरोः प्रथम-प्राप्तत्वाभावे प्रागुक्तं न युज्यत इति । सिद्धान्तयत्सूत्रं पठित्वा व्याचष्टे ।। पूर्वेति ।। न पूर्वप्राप्त एव गुरुरिति नियमः । पश्चात्तनोऽपि स्वीकार्यो भवति । न च वैयर्थ्यम् । गुरुपरिग्रहस्य समग्रानुग्रहार्थत्वात् । स च पूर्वतनेन समोऽधिको वा समग्रानुग्रहं करोति चेत्स्वीकार्यो नाधमः । समग्रानुग्रहस्याकर्तोत्तमोऽपि न स्वीकार्यो न वा । न तु स्वीकार्य एवेति विधिः । विकल्पश्च यदृच्छया प्राप्तौ न तु तदर्थं प्रयतितव्यम् । समग्रानुग्रहकर्तोत्तमश्चेत्तदा न विकल्पः स्यात् । पूर्वानुज्ञां विनैवासंशयं स्वीकार्यः स्यादिति भावः । साम्ये विकल्प इत्यत्रोक्तं दृष्टान्तं व्याचष्टे ।। मानसेति ।। तदेव व्यनक्ति ।। यथेति ।। विकल्पः स्यादिति सम्बन्धः । अत्र स्मृतिमाह ।। पूर्वस्मादिति ।। यदि पूर्वस्मादुत्तमोऽविचारेण स्वीकार्यस्तर्हि कथमृषभादयः सत्यकामेन न गृहीताः । पूर्वतन एव प्राप्तोऽतो नैतद्युक्तमित्यत आह ।। समग्रेति ।। नास्माभिरुत्तममात्रपरिग्रह उच्यते किं तु समग्रानु-ग्रहकर्तुरुत्तमस्य । सत्यकामः समग्रानुग्रहाभावान्नोत्तमान् जग्राहेत्यतः पूर्वपरित्यागेनोत्तमः समो वा स्वीकार्य इति युज्यत इति भावः । साम्ये पूर्वानुज्ञापेक्षितेतिभावेन तत्र स्मृतिं चाह ।। समग्रेति ।। अविरोधेन गुर्वनुज्ञया । अनेन दोषवचनस्य विषयो दर्शितो भवति । अधमस्वीकारविषयं वा व्यर्थस्वीकारविषयं वाऽनुज्ञाभावविषयं वेति ।
गुर्वर्थदीपिका
इतिकर्तव्यता यत्प्रसाद इत्यत्र येषां गुरूणां प्रसाद इति कर्तव्यताश्रवणादेरङ्गम् । ते गुरवो विचार्यन्त इत्यर्थः । प्रकरोतीति वदता प्रकरणात् प्रकृष्टकरणात् प्रकृष्टानुग्रहकरणादिति सूत्रार्थ-स्सूचितः । समे विकल्पोक्तावर्थादुत्तमे तदभावस्यापि प्राप्तत्वादविकल्प इत्युक्तम् । पूर्वमेव गृहीतो गौतमाख्यऋषिरूपो नीचगुरुः ‘अग्निष्टे पादं वक्ता ’इत्यादि प्रायपाठानुसारेण ‘आचार्यस्ते पादं वक्ता’ इत्यस्याप्यूह्यत्वादृषभाद्यनुज्ञया चेत्युक्तम् । अनेनोत्तमोऽपि ऋषभः स्वस्माच्छ्रवणायोग्य-त्वान्न सम्पूर्णानुग्रहं कृतवानिति ज्ञेयम् । अतो राजगृहान्नालाभाद्भिक्षुगृहान्नप्रार्थनायेव ततो नीचस्यापि पूर्वगुरोः प्रार्थनायागतः । ऋषभादीनामाचार्यत्वेनावरणेऽपीदमेव कारणमिति ज्ञेयम् ।
भावबोधः
इतिकर्तव्यता यत्प्रसाद इति । अस्य पादान्तर्भावकथनार्थमेतदुक्तम् । पूर्वसूत्रे गुरुप्रसाद-रूपेतिकर्तव्यतायाः प्राबल्येनाऽऽवश्यकत्वोक्तौ यदृच्छया समग्रानुग्रहकर्तृस्वीकारानन्तरं पश्चात् समग्रानुग्रहकर्तृलाभे किं कर्तव्यमित्याक्षेपे तद्विचारादनन्तरसङ्गतिरिति भावः । किं पूर्वेति । अत्र किं पूर्वप्राप्त एव गुरुरिति नियम उत पश्चात् प्राप्तोऽपि स्वीकार्य इति चिन्ता । तदर्थं ‘गुरुमन्त्र-परित्यागी रौरवं नरकं व्रजेत्’ इति वचनं किं निरवकाशमुत सावकाशमिति । तथर्दं किं गुरु-स्वीकारोऽदृष्टमात्रप्रयोजनक उत ज्ञानादिदृष्टादृष्टोभयप्रयोजनक इति । तदर्थं गुर्वन्तरस्वीकारे प्रमाणं नास्त्युतास्तीति । न च पूर्वप्राप्त एव गुरुरिति नियम इति भाष्यानुसारेण पूर्वपक्षमाह– प्रथमप्राप्त एवेति ।। न चोत्तमगुरुस्वीकारार्थत्वे प्राप्तसंत्यागदोष इति न्यायविवरणं मनसि निधायाह– विनैवेति ।। प्रागुक्तमिति ।। ‘इतरे तु अर्थसामान्यात्’ इत्यत्रोक्तं भाविफलानुसारेण सर्वज्ञगुरूप-दिष्टस्वयोग्यगुणोपासनमित्यर्थः । समाग्रानुग्रहार्थत्वादिति । अनेन पश्चात्तनगुरूस्वीकारे समग्रानु-ग्रहकर्तृत्वं हेतुरित्युक्तं भवति । ‘समग्रानुग्रहं’ इत्यादिस्मृत्यनुसारेण सूत्रे ‘प्र’ इत्युपसर्गस्य समग्रत्वमर्थः । योग्यतयाऽनुग्रहस्येत्यस्य लाभः । तथा च प्रकरणात् समग्रानुग्रहकरणात् पूर्वस्य समस्य त्यागे विकल्पः । अधमत्यागादिनियमोपलक्षकमेतत्; इत्यभिप्रेत्य प्रवृत्तं समग्रानुग्रहं चेत्पश्चात्तनः करोतीति भाष्यं व्याचष्टे– स चेति ।। नाधम इति ।।
‘गुणाधिकं गुरुं प्राप्य तद्धीनं नाप्नुयात् क्वचित्’
इत्यनुव्याख्यानोक्तेरिति भावः ।
‘समग्रानुग्रहाभावात् सत्यकामः स्वकं गुरुम्’
इति स्मृत्यनुसारेणाह– समग्रानुग्रहस्याकर्तेति ।। समग्रानुग्रहमित्यादिभाष्यं स्वयमेव तदा विकल्पः स्यादिति शेषसाहित्येन प्रकारान्तरेण व्याचष्टे– समस्य चेत्यादिना ।।
‘समे विकल्प एव स्यात् पूर्वानुज्ञा च सर्वथा’
इत्यनुव्याख्यानं ‘अविरोधेनैव’ इति स्मृतिं च मनसि निधायाह– पूर्वानुज्ञयेति ।। स्वयमेवे-त्यस्यार्थो विकल्पश्चेति । समग्रानुग्रहं चेत् पश्चात्तनः करोति स्वयमेव तदा विकल्पः स्यादिति भाष्यमविकल्प इति अकारप्रश्लेषेण प्रकारान्तरेण व्याचष्टे– समग्रानुग्रहकर्तेति ।।
‘तदुत्तमगुरुप्राप्त्यै पूर्वानुज्ञा न मृग्यते’
इत्यनुव्याख्यानानुसारेण, स्वयमेवेत्यस्यार्थ उक्तः । पूर्वानुज्ञां विनैवेति । तस्य चाविचारेणेति स्मृत्यनुसारेण तात्पर्यकथनमसंशयमिति भाष्ये उत्तमः स्वीकार्य इति च पदद्वयाध्याहार इति ज्ञातव्यम् । अविरोधेन पूर्वानुज्ञयेति । अनुज्ञाभावे विरोधोत्पत्तेरिति भावः । अनेन दोषवचनस्येति । अनेन दोषवचनस्यैव सावकाशत्वेन तत्तत्र मानं न भवतीत्यभिप्रेत्य न्यायविवरणे तत्र दोषे मानाभावादित्युक्तमित्युक्तं भवति । व्यर्थस्वीकारविषयं वेति । समग्रानुग्रहस्याकर्तुः समस्योत्तमस्य वा स्वीकारविषयमित्यर्थः ।
भावदीपः
यत्प्रसादस्तद्विचारादिति ।। एतेन पूर्वोपजीवनरूपं पूर्वानन्तर्ये बीजं च सूचितम् । एतच्चिन्ता-फलमाह ।। उत्तमेति ।। उत्तमगुरोरस्वीकारे साधारणगुरोरुपयुक्तसार्वज्ञाभावेन तन्मुखेन स्वप्राप्यभाविफलानुसारिगुणोपदेशालाभादधिकारिणां फलानुसारेणोपासनायोगादितरे त्वित्यत्रोक्त-मयुक्तं स्यादित्यर्थः ।। प्रकृत इति ।। पूर्वसूत्रे गुरुप्रदाननिर्देशकेन तद्धीति तत्पदेन प्रकृत इत्यर्थः ।। उभयथेति ।। लोके भृत्यादौ पूर्वप्राप्तस्वामिपरित्यागापरित्यागयोर्द्वयोरपि दर्शनमित्यर्थः । पूर्वप्राप्त एव गुरुरिति नियम इति भाष्यसूचितसंशयकोटी उक्त्वा तदनुगुणपूर्वपक्षप्रतिज्ञां चाह ।। प्रथमेति ।। पूर्वप्राप्त एवेति भाष्योक्तैवकारसूचितहेतुमाह ।। प्रथमप्राप्तेति ।। प्रदानवदेवेत्यत्रोक्तज्ञानप्राप्तिरेव कारणमस्तु । केवलश्रवणादिमात्रेण तदसिद्धेरित्यत आह ।। गुरुपरिग्रहेति ।। हेतोरप्रयोजकत्व-निरासाय प्राप्तं स त्यागनिमित्तदोष इत्यन्यत्रोक्तं च हेतुमाह ।। विनैवेति ।। अत इति ।। पूर्वत्यागेनाऽन्यस्वीकारस्य व्यर्थत्वाद्दोषवचनाच्चेत्यर्थः । प्रागुक्तमितरे त्वित्यत्रोक्तमित्यर्थः ।। भाष्यं व्याचष्टे ।। नेति ।। एवकारार्थमाह ।। पश्चात्तनोऽपीति ।। समग्रेत्यादिभाष्यभावार्थं व्यावर्त्यपूर्वमाह ।। न चेति ।। भाष्याक्षरार्थमाह ।। स चेति ।। पश्चात्तन इत्यर्थः । भाष्यस्थस्मृत्यनुरोधेनोक्तम् ।। समोऽधिको वेति ।। गुणाधिकं गुरुं प्राप्य तद्धीनं नाप्नुयात्क्वचिदित्यनुभाष्यं हृदि कृत्वाऽह ।। नाधम इति ।। तदा विकल्प इत्यत्र विकल्पोऽविकल्प इति च द्वेधा विच्छिद्यार्थमाह ।। समस्य चेति ।। विकल्पशब्दार्थमाह ।। स्वीकार्यो न वेति ।। व्यवस्थितविकल्प इत्युपेत्योक्तम् ।। पूर्वानुज्ञयेति ।। स्वयमेवेत्यस्यार्थो यदृच्छया प्राप्ताविति । अविकल्पशब्दार्थमाह ।। असंशयं स्वीकार्यः स्यादिति ।। अत्र स्मृतिमिति ।। उक्तसर्वार्थ इत्यर्थः ।। अनेनेति ।। पूर्वस्मादित्यादि-स्मृतिकथनेनेत्यर्थः । तदेव व्यनक्ति ।। अधमेत्यादिना ।।
अभिनवचन्द्रिका
स्यात् पश्चात्तनोऽपि गुरुः स्वीकार्यः स्यात् । कुतः प्रकरणात् प्रकृष्टानुग्रहकरणात् । उक्तस्यापवादमाह– पूर्वविकल्प इति ।। पश्चात्तनसमग्रानुग्रहकर्ता पूर्वेण समश्चेत्, पूर्वानुज्ञया विकल्पः न तूत्तमवत्स्वीकारनियमः । पूर्वानुज्ञा चेत् स्वीकार्यः, न चेन्नेति । तत्र दृष्टान्तः क्रिया-मानसवदिति । समानयोर्ध्यानयोरिवेति सूत्रार्थः ।। सर्वज्ञानाभावेनेति ।। ध्यानोपयोगिध्येय-स्वरूपज्ञानाभावेन भाविफलानुसारेण उपासनानुपपत्तिप्रसङ्गादित्यर्थः ।। प्रथमप्राप्तसन्त्याग इति ।। अन्यगुरुस्वीकारेण प्रथमप्राप्तसंत्याग इत्यर्थः । प्रथमप्राप्तगुर्वसाध्यशुभलाभाय पुनरन्यो गुरुः स्वीकार्य इत्यत आह– गुरुपरिग्रहमात्रेणेति ।। गुरुपरिग्रहमात्रेण एकलव्यवत् शूभलाभो-पपत्तेरित्यर्थः ।। विनैव कारणमिति ।। त्यागकारणीभूतपातित्यादिदोषं विनैवेत्यर्थः ।। गुरु-मन्त्रेति ।। गुरुपरित्यागी, मन्त्रपरित्यागीत्यर्थः ।। प्रागुक्तं न युज्यत इति ।। सर्वज्ञगुरूपदेशानु-सारेण ध्यातव्यमिति यत्प्रागुक्तं तन्न युज्यत इत्यर्थः । भाष्ये ‘समग्रानुग्रहं चेत्प्रकरोति’ इति विशेषणबललब्धमर्थमाह– समग्रानुग्रहस्याकर्तेति ।। ‘तदाविकल्पः स्यात्’ इति भाष्यस्य विषयमाह– समस्य चेति ।। ‘तदा विकल्पः स्यात्’ इति भाष्यस्याऽविकल्प इति पदच्छेदमङ्गी-कृत्याऽर्थान्तरमाह– समग्रेति ।।
पूर्वपक्षस्तु– प्रथमप्राप्त एव गुरुः स्वीकार्यो न तु तत्परित्यागेनान्यः स्वीकार्यः । परित्याग-कारणीभूतपातित्यादिदोषाभावात् । न च प्रथमप्राप्तगुर्वसाध्यफललाभायाऽन्यः स्वीकार्य इति वाच्यम् गुरुस्वीकारेणैव तदुपपत्तेः । न हि गुरुस्वीकारस्य साध्यं नास्ति येनान्यस्वीकारः स्यात् । अन्यथैकलव्यस्य विद्याप्राप्तिर्न स्यात् । पातित्यादिदोषं विनापि गुरुपरित्यागे च दोषप्राप्तेश्च । अतः पूर्वप्राप्त एव गुरुरिति नियमात् क्कचित्सर्वज्ञगुरोः प्रथमप्राप्तत्वाभावे प्रागुक्तं न युज्यत इति ।
सिद्धान्तस्तु– न पूर्वप्राप्त एव गुरुरिति नियमः । पश्चात्तनः समग्रानुग्रहं करोति चेत्सोऽपि ग्राह्यः । गुरुपरिग्रहस्य समग्रानुग्रहार्थत्वात् । गुरुप्रसादमन्तरा गुरुस्वीकारमात्रेण मोक्षादिलक्षण-महाफलाभावात् । ‘ये च नान्येऽस्मद्विधाः श्रेयसश्च तानुपास्व तानुपचरस्व तेभ्यः शृृणुहि ते त्वामवन्तु’ इति पौष्यायणश्रुतावतिदेशाच्च । समग्रानुग्रहकर्ता पूर्वस्मादुत्तमश्चेत् पूर्वानुज्ञां विना निःसंशयं स्वीकार्य एव । समश्चेत्पूर्वानुज्ञया स्वीकार्यः । नो चेत् न स्वीकार्य इति विकल्पः स्यात् । मानसक्रियावत् अधमश्चेत् न स्वीकार्य एव । ‘पूर्वस्मादुत्तमो लब्धः स्वयमेव गुरुर्यदि । ग गृह्णीयादविचारेण विकल्पः समयोर्भवेत्’ इति स्मृतेः । अतः सर्वज्ञगुरुस्वीकारस्योपपन्नत्वात् तदुक्तप्रकारेणोपासनं कर्तव्यमिति सिद्धम् ।
वाक्यार्थमुक्तावली
इतिकर्तव्यता यत्प्रसाद इति ।। ननु गुरुप्रसाद इतिकर्तव्यता इति प्रदानवदित्यत्रोक्तम् । तथा चेदं तदनन्तरमेव स्यादिति चेन्न । कथमितिकर्तव्यताहिंसायां मन्त्रादिवद्वा स्वाध्यायस्य कुशाग्रहणादिवद्वेति इतिकर्तव्यत्वप्रकारविचारस्याभ्यर्हितत्वेन तदनन्तरं गुरुविचारोपपत्तेः । लिङ्गभूयस्त्वादित्यत्र ऋषभाद्युत्तमलाभेऽपि सत्यकामेन पूर्वप्राप्तगुरोरनुसारेणोक्तौ तर्हि पूर्वप्राप्त एव गुरुरिति नियम इति पूर्वपक्षोत्थानाच्चानन्तरसङ्गतिरिति भावः ।। सार्वज्ञाभावेनेति ।। कुशकस्य पूर्वप्राप्ताधमगुरोश्चेति शेषः ।। प्रसङ्गादिति ।। इतरे त्वर्थसामान्यादिति प्रागुक्तमयुक्तं स्यादिति शेषः ।। किमिति ।। किं पूर्वप्राप्त एव गुरुरिति नियम उत पश्चात्प्राप्तोऽपि स्वीकार्य इति चिन्ता । तदर्थं किं पूर्वपरित्यागे कारणं नास्ति गुरुमन्त्रपरित्यागीति दोषवचनं च निरवकाशमुत कारणमस्ति दोषवचनं च सावकाशमिति ।। न पूर्वप्राप्त एवेति भाष्यनिषेध्यं पूर्वपक्षसाध्यमाह । प्रथमप्राप्त एवेति । प्रकरणादित्यत्र प्राप्तगुरुसन्त्यागे कारणोक्त्या सूचितं प्राप्तसन्त्याग इत्युक्तन्यायं तत्र हेतुत्वेनाह ।। प्रथमप्राप्तेति ।। पुनश्च गृह्णीयादविरोधेन कामत इति भाष्ये दोषवचनस्य विषयोक्त्या सूचितं प्राप्तसन्त्याग इत्युक्तन्यायं प्राप्तसन्त्यागे दोषस्स्यादित्येवं हेत्वन्तरपरत्वेन व्याचष्टे ।। नैवेति ।। गुरुत्यागे भवेन्मृत्युर्मन्त्रत्यागे दरिद्रता । गुरुमन्त्रपरित्यागीति वचनमादितः पठनीयम् ।। प्रागुक्तमिति ।। भाविफलानुसारेण सर्वज्ञगुरूपदिष्टगुणोपासनमिति इतरे त्वर्थसामान्यादित्यत्रोक्त-मित्यर्थः ।
सूत्रे पूर्वविकल्प इत्यस्य पूर्वप्राप्तगुरौ विकल्पः अनियमः । स एवानुवर्तनीय इति नियमोऽ-स्तीत्यर्थं मत्वा प्रागुक्तभाष्यमनूद्यैवकारार्थमाह ।। पश्चात्तनोऽपीति ।। प्रकरणादिति ल्यब्लोप-निमित्ता पञ्चमी । प्रेत्युपसर्गस्य समग्रत्वमित्यर्थः । प्रदानवदिति अनुग्रहः कृतोऽत्रानीयते । तथा चानुग्रहस्य प्रकर्षेण सामाग्य्रेण करणमपेक्ष्य समग्रानुग्रहलक्षणफलमपेक्ष्य पश्चात्तनोऽपि स्वीकार्य इत्यभिप्रेत्य पश्चात्तनः करोतीति भाष्यं प्रवृत्तम् । चेच्छब्दो यस्मादित्यर्थे । यस्मात्समग्रानुग्रहं पश्चात्तनः करोतीत्यतः तादृशफलाभावात्पूर्वप्राप्त एवेति नियम इति तदर्थमभिप्रेत्य व्यावर्त्यकथनपूर्वं व्याचष्टे ।। न च वैयर्थ्यमिति ।। पश्चात्तनोऽपि स्वीकार्योऽतः पूर्वप्राप्त एवेत्यनियम इत्युक्तं पश्चात्तनस्वीकारे विशेषाभिधानाय चेदं सूत्रमिति भावेन समग्रानुग्रहं चेत् पश्चात्तनः करोति तदा पूर्वप्राप्ते गुरौ विकल्पः । अनियमः स एवेति । नियमो नास्ति । अन्योऽपि स्वीकार्य इति प्रवृत्तम् । तत्र पश्चाद्भाविनः समग्रानुग्रहकर्तृत्वमात्रं नालम् । पश्चात्तनस्याधमत्वे गुणाधिकं गुरुं प्राप्य तद्धीनं नाप्नुयात्क्वचिदिति वचनविरोधादिति भावेन पश्चात्तनं पूर्वतनादुत्तमत्वसमत्वाभ्यां विशेषयन् व्याचष्टे ।। स चेति ।। स पश्चात्तनः पूर्वतनेन समोऽधिको वा समग्रानुग्रहं करोति चेत् स्वीकार्यो नाधमः स्वीकार्यः । नाप्युत्तमः समो वा समग्रानुग्रहस्याकर्ता स्वीकार्यः । अत उत्तमस्य समस्य वा पश्चाद्भाविनः प्रकरणं समग्रानुग्रहमपेक्ष्य स्वीकार्यत्वात् पूर्वप्राप्ते विकल्प एव न नियम इति भावः ।
समग्रानुग्रहं चेत् पश्चात्तनः करोतीति भाष्यं स्वयमेव तदा विकल्पः स्यादिति शेषसाहित्येन प्रकारान्तरेण व्याचष्टे ।। समस्य चेति ।। ‘समे विकल्प एव स्यात् पूर्वानुज्ञा च सर्वथा’ इत्यनुव्याख्यानमविरोधेनेति स्मृतिं च मनसि निधायाह ।। पूर्वानुज्ञयेति ।। अनुज्ञया कार्यः । अनुज्ञाभावे न स्वीकार्य इत्यर्थः । स्वयमेवेत्यस्यार्थो विकल्पश्चेति । अनेन पश्चात्तनः समः समग्रानुग्रहं स्वयमेव चेत्करोति तदापि पूर्वानुज्ञाभावाभावाभ्यां विकल्प एव स्यादिति भाष्यार्थः । अस्यापि पूर्वस्मादुत्तरस्य समस्य ग्रहणप्रकरणं समग्रानुग्रहं पूर्वं पूर्वानुज्ञां चापेक्ष्य विकल्पः स्यादित्यर्थ उक्तो भवति । अनुज्ञामपेक्ष्य समे विकल्प इवोत्तमेऽपि किं विकल्प इत्यतः समग्रानुग्रहं चेत् पश्चात्तनः करोति स्वयमेव तदा विकल्पः स्यादिति भाष्यं प्रकारान्तरेण व्याचष्टे ।। समग्रानुग्रहकर्तेति ।। एतेन स्वयमेवेत्यस्यानुज्ञां विनेत्यर्थः । स्वीकार्य इति शेषः । अविकल्प इति पदच्छेद इत्युक्तं भवति । तदेव व्यनक्तीति भाष्यत्वात्स्वपदं विवृणोतीत्यर्थः । षष्ठ्यर्थे वतिः । षष्ठी च द्विवचनान्ता विवक्षिता । क्रिया च प्रज्ञान्तरपृथक्त्ववदिति वक्ष्यमाणत्वात् ध्यानरूपेति विवरणमिति भावः ।। अत्रेति ।। समयोरेव विकल्पो नोत्तमप्राप्तावित्यत्रेत्यर्थः । अविचारेण स्वयमेव गृह्णीयादित्यन्वयः । समग्रानुग्रहाभावादिति भाष्यस्योत्तमैरपि समग्रानुग्रहकरणात् प्राप्तगुरोः स्वयोग्ययावदुपदेशकत्वेन स्वयोग्यगुरुत्वात् । मध्ये प्राप्तोत्तमानुज्ञासद्भावाच्च तं प्राप न तूत्तमा नैवेत्यतः पूर्वपरित्यागेन समग्रानुग्रहकर्तुरुत्तमस्य समस्य वा स्वीकार इत्येतद्युज्यत इत्यर्थः ।। अविरोधेन पूर्वानुज्ञयेति ।। अनुज्ञाभावे विरोधोत्पत्तेरिति भावः ।। अनेन दोषवचनस्येति ।। एतेन गुरोरस्वीकारस्याकर्तव्यत्वप्रमाणत्वेनोदाहृतस्य गुरुमन्त्रपरित्यागीति वचनस्य सावकाश-त्वोक्त्या अमानत्वमित्युक्तन्यायोऽपि विवृतो भवतीति ज्ञेयम् । अनुज्ञाभावविषयं वेत्युपलक्षणम् । समग्रानुग्रहकर्तृविषयं वेति बोध्यम् ।
तत्त्वसुबोधिनी
इतिकर्तव्यता यत्प्रसाद इति ।। अस्य पादान्तर्भावकथनार्थं यत्प्रसाद इति उक्तम् । पूर्वसूत्रे गुरुप्रसादरूपेतिकर्तव्यतायाः प्राबल्येन आवश्यकोक्तौ यदृच्छया समग्रानुग्रहकर्तृगुरुस्वीकारानन्तरं पश्चात् समग्रानुग्रहकर्तृगुरुलाभे किं कर्तव्यं इत्याक्षेपे तद्विचारादनन्तरसङ्गतिरिति भावः । ननु शुभलाभार्थं गुरुस्वीकार इत्यत आह ।। गुर्विति ।। कोऽसौ दोष इत्यत आह ।। गुरुमन्त्रेति ।। प्रागुक्तं न युज्यते इति । इतरेत्वर्थसामान्यादित्यत्र उक्तं भाविफलानुसारेण सर्वज्ञगुरूपदिष्टस्वयोग्य-गुणोपासनमित्यर्थः । पूर्वप्राप्त एवेत्यवधारणव्यावृत्यर्थमाह ।। पश्चात्तनोऽपीति ।। समग्रानुग्रहार्थ-त्वादिति ।। तथा च पश्चात्तनगुरुस्वीकारे समग्रानुग्रहकर्तृत्वं हेतुरिति भावः । समग्रानुग्रहमित्यादि-भाष्योदाहृतस्मृत्यनुसारेण सूत्रे प्रेत्युपसर्गस्य समत्वमर्थः । योग्यतयाऽनुग्रहस्येत्यस्य लाभः । तथा च प्रकरणात् समग्रानुग्रहकरणात् पूर्वस्य समस्य त्यागेन विकल्पः । अधमत्यागादिनियमोपलक्षक-मेतदित्यभिप्रेत्य प्रवृत्तं समग्रानुग्रहमित्यादिभाष्यं व्याचष्टे ।। स चेति ।। समग्रानुग्रहमित्यादिभाष्यं स्वयमेव तदा विकल्पः स्यादिति शेषसाहित्येन प्रकारान्तरेण व्याचष्टे ।। समस्य चेति ।। पूर्वाज्ञया गुर्वन्तरस्वीकार आवश्यक इत्थं स्वीकारे कथं विकल्प इत्यत आह ।। विकल्पश्चेति ।। दैवाद्गुर्वन्तरप्राप्तिश्चेत् तदा स्वीकारः न तु तदर्थं प्रयत्नः । समग्रानुग्रहं चेत् इत्यादिभाष्यं अविकल्प इत्यकारप्रश्लेषेण प्रकारान्तरेण व्याचष्टे ।। समग्रानुग्रहकर्तेति ।। स्वयमेवेत्यस्यार्थः पूर्वानुज्ञां विनेति ।। तस्य तात्पर्यकथनं असंशयमिति ।। भाष्ये उत्तमः स्वीकार्य इति च पदद्वयाध्याहार इति ज्ञातव्यम् । अविरोधेन पूर्वानुज्ञयेति । अनुज्ञाभावे विरोधोत्पत्तेरित्यर्थः ।। तेनेति ।। पूर्वानुज्ञास्वीकारपूर्वकं गुर्वंतरपरिग्रहः कर्तव्य इति कथनेनेत्यर्थः । व्यर्थस्वीकारविषयं चेति । समग्रानुग्रहस्याकर्तुः समस्य उत्तमस्य वा स्वीकारविषयमित्यर्थः ।
वाक्यार्थविवरणम्
पादसङ्गत्यर्थमाह इतिकर्तव्यता यत्प्रसाद इति ।। यस्य गुरोः प्रसाद इत्यर्थः ।। तद्वि-चारादिति ।। तद्गुरुविचारादित्यर्थः ।। सार्वज्ञाभावेनेति ।। उत्तमस्य सर्वज्ञस्य गुरोः स्वीकारे तस्य सर्वज्ञत्वेनैतद्योग्यतापरिज्ञानसम्भवेन भाविफलानुसारेणोपासनमुपदिशेत् । तदुक्तानुसारेणोपासनमयं कुर्यात् । अधमस्य स्वीकारे तु तस्यासर्वज्ञत्वेनैतद्योग्यतापरिज्ञानासम्भवेन तदनुसारेणोपदेशासम्भवेन तस्य तथोपासनं न सम्भवतीत्याशयः ।। गुरुपरिग्रहमात्रेणेति ।। यादृशतादृशगुरुपरिग्रह-मात्रेणेत्यर्थः ।। शुभेति ।। उपासनज्ञानादिद्वयेत्यर्थः ।। वैय्यर्थ्यम् ।। गुरुपरिग्रहमात्रेण शुभ-लाभोपपत्तेः । प्रथमप्राप्तपरित्यागेन पश्चात्तनस्वीकारवैय्यर्थ्यमित्यर्थः ।। तमेव विकल्पं दर्शयति ।। पूर्वानुज्ञयेति ।। न वेति ।। पूर्वानुज्ञाभावेन वेत्यर्थः ।। प्राप्तौ ।। समग्रानुग्रहकर्तुः समस्येत्यर्थः । भाष्ये उभयोर्ध्यातव्ययोः रामकृष्णादिमूर्तिध्यानयोरित्यर्थः । ऋषभादयः उक्तगौतमापेक्षयोत्तमाः । ऋषभहंसमद्गुरूपा देवा न गृहीता इत्यनन्तरं किन्त्विति शेषः । पूर्वतनो गौतमाख्यो गुरुः जग्राह । गुरुत्वेनेति शेषः ।। दोषवचनस्य ।। गुरुमन्त्रपरित्यागीत्युदाहृतवचनस्य अधमेति पूर्वप्राप्तोत्तम-गुरुसत्त्वेऽपि तं परित्यज्य अधमो यदि स्वीक्रियते तर्हि तदा गुरुपरित्यागीत्युक्तदोष इत्यर्थः ।। व्यर्थेति ।। पूर्वमेव प्राप्तो गुरुः समग्रानुग्रहं करोति तदा, तं विना तदपेक्षयोत्तमः तत्समो वा समग्रानुग्रहस्याकर्ता यदि वृथा स्वीक्रियते तदा गुरुमन्त्रपरित्यागीत्युक्तदोष इत्यर्थः ।। अनुज्ञा-भावेति ।। पूर्वप्राप्तगुरुसमः समग्रानुग्रहकर्ता यदि लभ्यते तदा पूर्वानुज्ञां विनैव तं परित्यज्य यदि सः स्वीक्रियते तदा गुरुमन्त्रपरित्यागीत्युक्तदोष इत्यर्थः ।
वाक्यार्थमञ्जरी
यत्प्रसादः यस्य गुरोः प्रसादः अतो गुरुविचारस्य पादान्तर्भाव इति भावः । शुभं ज्ञानादिः, मन्त्रः उपदेशः ।। प्रागुक्तमिति ।। इतरे त्वर्थसामान्यादित्यत्रोक्तभाविफलानुसारेण सर्वज्ञगुरूप-दिष्टस्वयोग्यगुणोपासनमित्यर्थः ।
पूर्वविकल्पः पूर्वं परित्यज्यापरः स्वीकार्यो न वेति विकल्पः स्यात्, कथं क्रियामानसवत् मानसी चासौ क्रिया च क्रियामानसं ध्यानं, यथा फलतः समयोर्ध्यानयोर्विकल्पः ततः कुतः स्वीकार्यः प्रकरणात् प्रकर्षेण समग्रेणानुग्रहकरणान्निमित्तादित्यर्थः । अकारप्रश्लेषेणार्थान्तरमाह ।। समग्रानुग्रहकर्तेति ।। दोषवचनस्य गुरुमन्त्रेत्यादेः इति दर्शित इत्यन्वयः ।